प्र मे॑ विवि॒क्वाँ अ॑विदन्मनी॒षां धे॒नुं चर॑न्तीं॒ प्रयु॑ता॒मगो॑पाम् । स॒द्यश्चि॒द्या दु॑दु॒हे भूरि॑ धा॒सेरिन्द्र॒स्तद॒ग्निः प॑नि॒तारो॑ अस्याः ॥
प्र । मे॒ । वि॒वि॒क्वान् । अ॒वि॒द॒त् । म॒नी॒षाम् । धे॒नुम् । चर॑न्तीम् । प्रऽयु॑ताम् । अगो॑पाम् । स॒द्यः । चि॒त् । या । दु॒दु॒हे । भूरि॑ । धा॒सेः । इन्द्रः॑ । तत् । अ॒ग्निः । प॒नि॒तारः॑ । अ॒स्याः॒ ॥
विविक्वान् विवेकवानिन्द्रोऽग्निर्वा मे मम मनीषां देवताविषयां स्तुतिं प्र अविदत् प्रकर्षेण जानातु । तत्र दृष्टान्तः । चरन्तीं यवसे इतस्ततो गच्छन्तीं प्रयुतां पृथग्भूतामेकाकिनीम् अगोपां गोप्तृरहितां यथाकामं चरन्तीं धेनुं नवसूतिका गामिव देवतानां प्रीणयित्रीं स्तुतिमविददित्यन्वयः । या स्तुतिरूपा धेनुः सद्यश्चित् तदानीमेव धासेः । धारयति प्राणान् धीयते दीयते अर्थिभ्यः इति वा धासिरन्नम् । कर्मणि षष्ठी । भूरि बह्वन्नमपेक्षितं फलं दुदुहे दुग्धे इन्द्रः अग्निः अन्ये च देवाः अस्याः स्तुतिरूपाया धेनोः तत् तस्यान्नभूतस्य पयसः पनितारः स्तोतारो भवन्ति । यद्वा । इन्द्राग्नी स्तोतारो वयं चास्या धेनोस्तत्पयः प्राप्नुमः ॥ विविक्वान् । ‘ विचिर् पृथग्भावे इत्यस्य क्वसौ रूपम् । अविदत् ।' विद ज्ञाने ' इत्यस्य लङि • बहुलं छन्दसि ' इति शः । दुदुहे। ‘ दुह प्रपूरणे' इत्यस्य लिटि रूपम् । यद्वृत्तयोगादनिघातः । प्रत्ययस्वरः । पनितारः। ‘पन स्तुतौ ' इत्यस्य तृचि रूपम् ॥
“May the discriminating Indra apprehend my glorification (of the gods), which is (free) as a cow, grazing alone, without a cowherd, one who is readily milked, yielding abundant nourishment, and of whom Agni and Indra (and we), are the commenders.”
MY thought with fine discernment hath discovered the Cow who wanders free without a herdsman,
Her who hath straightway poured me food in plenty: Indra and Agni therefore are her praisers.
He who has sifted through has found my inspired thought—a milk-cow, roaming for some distance without a cowherd,
who just in a single day has given milk in abundance from her wellspring. So Indra and Agni (and other gods) are admirers of her—
Mein Geist erwägend fand die Kuh durch Weisheit, die achtlos wandert, unbewacht von Hütern, Die viel des Trankes strömen liess auf einmal, es lobten dies ihr Wirken Indra, Agni.
Wer sich meine Dichtung ausersehen hat, hat eine Milchkuh gefunden, die hirtenlos sich selbst überlassen weidet, die alsbald viel der Labung als Milch gibt. Indra und Agni werden ihr darum Beifall spenden.
Кто способен различать, нашел мою молитву –
Дойную корову, пасущуюся сама по себе, без пастуха,
(Ту,) что сразу же дала надоить обильный поток (стихов).
Поэтому Индра, Агни (и другие боги) – ее поклонники.
इन्द्र॒: सु पू॒षा वृष॑णा सु॒हस्ता॑ दि॒वो न प्री॒ताः श॑श॒यं दु॑दुह्रे । विश्वे॒ यद॑स्यां र॒णय॑न्त दे॒वाः प्र वोऽत्र॑ वसवः सु॒म्नम॑श्याम् ॥
इन्द्रः॑ । सु । पू॒षा । वृष॑णा । सु॒ऽहस्ता॑ । दि॒वः । न । प्री॒ताः । श॒श॒यम् । दु॒दु॒ह्रे॒ । विश्वे॑ । यत् । अ॒स्या॒म् । र॒णय॑न्त । दे॒वाः । प्र । वः॒ । अत्र॑ । व॒स॒वः॒ । सु॒म्नम् । अ॒श्या॒म् ॥
वसवः सर्वस्य वासयितारो हे देवाः इन्द्रः पूषा च वृषणा अभिमतफलस्य सेक्तारौ सुहस्ता कल्याणपाणी नासत्यौ मित्रावरुणौ वा । ‘राजाना मित्रावरुणा सुपाणी' इत्यादिषु दृष्टत्वात् । एते सर्वे देवाः । न इति संप्रत्यर्थे । इदानीं प्रीताः सन्तः शशयं नभसि शयानं मेघं दिवः नभसः सकाशात् सु दुदुहे । वृष्टिद्वारापेक्षितं फलं सुष्ठु दुहन्ति । यत् यस्मात् विश्वे सर्वे देवाः अस्यां वेद्यां रणयन्त रमयन्ते वः युष्माकं संबन्धिनि अत्र लोके सुम्नं सुखकरमपेक्षितं फलं प्र अश्यां प्राप्नुयाम् ॥ सुहस्ता । हसेः ‘असिहसि°' इत्यादिना तन्प्रत्ययः । नित्त्वादाद्युदात्तः । बहुव्रीहौ ' आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । दुदुहे । ‘दुह प्रपूरणे' इत्यस्य लिटि ‘इरयो रे । रणयन्त। ‘रमु क्रीडायाम्'। ण्यन्तस्य लङि रूपम् । वर्णव्यापत्तिः । अश्याम् । 'अशू व्याप्तौ ' इत्यस्य लिङि • बहुल छन्दसि ' इति विकरणस्य लुक् । व्यत्ययेन परस्मैपदम् ॥
“Indra and Pūṣan, the showerers (of benefits) and happy-handed Aśvins, well affected towards us, have milked the (cloud) reposing in heaven, wherefore, Vasus, universal deities, sporting on this (altar), may I here obtain the happiness derived from you.”
Indra and Pusan, deft of hand and mighty, well-pleased have drained the heaven's exhaustless udder.
As in this praise the Gods have all delighted, may I win blessing here from you, O Vasus.
As are Indra and Pūṣan, the two bulls with dexterous hands. The (cows [=poems]), well treated, give unfailing milk like that of Heaven.
When all the gods take pleasure in her, might I reach your benevolence there, o good ones.
Die Helden Indra, Puschan, schön an Händen, wie Himmels Freunde melkten ihn, der reich strömt, Dass alle Götter sich am Trunk erlaben, die Gunst, ihr Guten, lasst mich hier erlangen.
Indra und Pusan, die bullenstarken mit geschickter Hand, haben gar erfreut das ergiebige Euter wie das des Himmels gemolken. Wenn sich alle Götter an ihr gütlich tun, möchte ich dabei eure Huld erlangen, ihr Götter.
Индра, Пушан, два (бога-) быка с умелыми руками (и другие боги)
Очень довольные, непрерывно доили (ее), словно (вымя) неба.
Поскольку ей радовались все боги,
Я хотел бы приобрести здесь, о Васу, вашу милость!
या जा॒मयो॒ वृष्ण॑ इ॒च्छन्ति॑ श॒क्तिं न॑म॒स्यन्ती॑र्जानते॒ गर्भ॑मस्मिन् । अच्छा॑ पु॒त्रं धे॒नवो॑ वावशा॒ना म॒हश्च॑रन्ति॒ बिभ्र॑तं॒ वपूं॑षि ॥
याः । जा॒मयः॑ । वृष्णे॑ । इ॒च्छन्ति॑ । श॒क्तिम् । न॒म॒स्यन्तीः॑ । जा॒न॒ते॒ । गर्भ॑म् । अ॒स्मि॒न् । अच्छ॑ । पु॒त्रम् । धे॒नवः॑ । वा॒व॒शा॒नाः । म॒हः । च॒र॒न्ति॒ । बिभ्र॑तम् । वपूं॑षि ॥
या जामयः । जमन्ति वर्षाकाले प्रादुर्भवन्तीति जामय ओषधयः । वृष्णे अपां वर्षकायेन्द्राय शक्तिं सेचनसामर्थ्यम् इच्छन्ति । नमस्यन्तीः प्रह्वीभूतास्ता ओषधयः अस्मिन् इन्द्रे गर्भं वृष्टिद्वारा पुष्पफलादिलक्षणगर्भाधानादिसामर्थ्यं जानते जानन्ति । वावशानाः फलं कामयमानाः धेनवः सर्वस्य प्रीणयित्र्य ओषधयः महः महान्ति नानाप्रकाराणि वपूंषि रूपाणि बिभ्रतं व्रीहियवनीवारादिफललक्षणं पुत्रं तनयम् अच्छ आभिमुख्येन चरन्ति प्राप्नुवन्ति । लोके हि हम्भारवं कुर्वाणाः धेनवः वत्समभिलक्ष्य गच्छन्ति । तद्वत् । यद्वा जामयः । जमन्ति सर्वत्र प्रसरन्तीति जामयः सूर्यदीप्तयः । वृष्णेऽपां वर्षकाय । स्वरश्मिभिर्भौमान् रसानादाय पुनर्वर्षतीति वर्षकः सूर्यः । ‘ आदित्याज्जायते वृष्टिः ' इति स्मृतेश्च । तस्मै वर्षणशक्तिम् इच्छन्ति । ता दीप्तयोऽस्मिन्नादित्ये गर्भम् अब्रूपगर्भाधानसामर्थ्यं जानन्ति ॥ जामयः । जमतेर्गतिकर्मणः ‘ जनिघसिभ्यामिण् ' इति विधीयमानो बहुलवचनादस्मादपि भवति । नमस्यन्तीः । नमःशब्दात् 'नमोवरिवश्चित्रङः क्यच् इति क्यच् । तदन्ताच्छतरि रूपम् । प्रत्ययस्वरः । जानते । ज्ञा अवबोधने ' इत्यस्य लटि रूपम् । अच्छ। 'निपातस्य च ' इति संहितायां दीर्घः ॥
“The plural nts that desire for the showerer (Indra) the power (of sending rain) appreciate, when manifest, the embryo (blossom) deposited in him; the kine desirous of reward come to the presence of the calf, invested with many forms.”
Fain to lend vigour to the Bull, the siste.. with reverence recognize the germ within him.
The Cows come lowing hither to the Youngling, to him endued with great and wondrous beauties.
The sisters who seek the potency of the bull [=Agni], they recognize their embryo in him and do homage.
The milk-cows, bellowing, proceed powerfully toward their child who bears wondrous forms.
Die Schwestern, die des Stieres Kraft begehren, erkennen ihre Frucht in ihm voll Ehrfurcht; Die Kühe ihrem Sohn entgegenbrüllend, gehn hin zu ihm, der trägt des Himmels Schönheit.
Die Schwestern, die dem Bullen einen Dienst zu leisten wünschen, die erkennen ehrfurchtsvoll ihr Kind in ihm. Zu dem Sohne kommen brüllend die Milchkühe, zu ihm, der große Farbenpracht trägt.
Кровные (сестры), которые ищут силу быка,
Узнают в нем зародыша, поклоняясь (ему).
Дойные коровы мыча быстро направляются
К сыну, несущему (свои) красоты.
अच्छा॑ विवक्मि॒ रोद॑सी सु॒मेके॒ ग्राव्णो॑ युजा॒नो अ॑ध्व॒रे म॑नी॒षा । इ॒मा उ॑ ते॒ मन॑वे॒ भूरि॑वारा ऊ॒र्ध्वा भ॑वन्ति दर्श॒ता यज॑त्राः ॥
अच्छ॑ । वि॒व॒क्मि॒ । रोद॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ । ग्राव्णः॑ । यु॒जा॒नः । अ॒ध्व॒रे । म॒नी॒षा । इ॒माः । ऊँ॒ इति॑ । ते॒ । मन॑वे । भूरि॑ऽवाराः । ऊ॒र्ध्वाः । भ॒व॒न्ति॒ । द॒र्श॒ताः । यज॑त्राः ॥
अध्वरे यज्ञे ग्राव्णः सोमाभिषवार्थमुपलान् युजानः प्रयुञ्जानोऽहं सुमेके सुरूपे रोदसी द्यावापृथिव्यौ मनीषा मनस ईषया स्तुतिलक्षणया वाचा अच्छ विवक्मि आभिमुख्येन स्तौमि । हे अग्ने ते तव भूरिवाराः यजमानैर्बहुवारं वरणीयाः दर्शताः कमनीयतया दर्शनीयाः यजत्राः पूज्याः इमाः दीप्तयः मनवे मनुष्यव्यवहारार्थम् ऊर्ध्वाः ऊर्ध्वमुखाः भवन्ति ॥ विवक्मि। ‘वच परिभाषणे ' । लटि ‘ बहुलं छन्दसि ' इति शपः श्लुः । ‘ अर्तिपिपर्त्योश्च, बहुलं छन्दसि' इत्यभ्यासस्य इत्वम् । चकारस्य कुत्वं व्यत्ययेन । युजानः । ‘युजिबुधिदृशः किच्च' इति आनच् । कित्त्वात् अगुणः । चित्त्वादन्तोदात्तः । मनीषा । सुपो डादेशः ॥
“I glorify with praise the beautiful heaven and earth, taking in hand the stones (to express the libation) at the sacrifice, as these your graceful, adorable, and many-blessing rays (Agni) mount up for the good of man.”
Fixing with thought, at sacrifice, the press-stones, I bid the well-formed Heaven and Earth come hither;
For these thy flames, which give men boons in plenty, rise up on high, the beautiful, the holy.
I invite the two well-fixed world-halves, as I yoke the pressing stones at the ceremony with my inspired thought.
These (Dawns? flames?) of yours here, abounding in valuables for Manu, stand erect, visible and worthy of the sacrifice.
Ich rufe an die segensreichen Welten die Steine schirrend bei dem, Fest mit Weisheit; Und diese deine hehren, reichen Flammen sind aufgerichtet, sichtbar für den Menschen.
Ich lade Himmel und Erde, die festbegründeten, ein, während ich unter Nachsinnen bei der Opferhandlung die Preßsteine in Gebrauch nehme. Diese deine Zungen, die dem Menschen viele Wünsche bringen, steigen gern gesehen empor, die anbetungswürdigen.
Я обращаюсь к двум половинам вселенной, хорошо установленный-
С поэтическим произведением, запрягши давильные камни при обряде.
Эти твои (языки пламени), несущие человеку многие избранные дары,
Вздымаются, приятные на вид, достойные жертв.
या ते॑ जि॒ह्वा मधु॑मती सुमे॒धा अग्ने॑ दे॒वेषू॒च्यत॑ उरू॒ची । तये॒ह विश्वाँ॒ अव॑से॒ यज॑त्रा॒ना सा॑दय पा॒यया॑ चा॒ मधू॑नि ॥
या । ते॒ । जि॒ह्वा । मधु॑ऽमती । सु॒ऽमे॒धाः । अग्ने॑ । दे॒वेषु॑ । उ॒च्यते॑ । उ॒रू॒ची । तया॑ । इ॒ह । विश्वा॒न् । अव॑से । यज॑त्रान् । आ । सा॒द॒य॒ । पा॒यया॑ । च॒ । मधू॑नि ॥
हे अग्ने ते तव मधुमती उदकवती सुमेधाः । शोभना मेधा प्रज्ञा यस्याः सा । सर्वस्य ज्ञापयित्री या जिह्वा ज्वाला उरूची बहुव्याप्तिः सती देवेषु मध्ये आह्वानार्थम् उच्यते प्रेर्यते तया जिह्वया यजत्रान् यजनीयान् विश्वान् देवान् इह कर्मण्यस्माकम् अवसे रक्षणाय आ सादय उपवेशय । किंच तान् विश्वान् देवान् मधूनि मदकरान् सोमान् पायय ॥ सुमेधाः । नित्यमसिच्प्रजामेधयोः' इति असिच् । उच्यते । ‘वच परिभाषणे ' । कर्मणि यकि रूपम् । यद्वृत्तयोगादनिघातः । उरूची । अञ्चतेः क्विन् । ‘ अञ्चतेश्चोपसंख्यानम् ' इति ङीप् । ' अनुदात्तस्य च यत्रोदात्तलोपः' इति ङीप उदात्तत्वम् । पायय । ‘पा पाने ' इत्यस्य णौ परतः ‘शाच्छासाह्वाव्यावेपां युक्' इति युक् । तिङ उत्तरत्वादनिघातः ॥
“With your wide-spreading tongue, Agni, sweet and intelligent, which is renowned amongst the gods, bring hither all the adorable deities for our protection, and give them to drink of the sweet (libations).”
Agni, thy meath-sweet tongue that tastes fair viands, which among Gods is called the far-extended,-
Therewith make all the Holy Odes be seated here for our help, and feed them with sweet juices.
Your tongue, honeyed, very wise, wide spreading, which is proclaimed (even) among the gods, o Agni,
with it make all those worthy of the sacrifice sit here for our help and make them drink the honeyed (drinks).
Mit deiner süssen, speisereichen Zunge, die weitgestreckt, o Agni, heisst bei Göttern, Mit der bring her zur Hülfe all die hehren, und lass sie trinken hier die süssen Tränke.
Deine süße, hochweise Zunge, o Agni, die sich breit machend bis zu den Göttern erklingt, mit der heiße hier alle Opferwürdigen zur Gunsterweisung sich setzen und gib ihnen die Honigtränke zu trinken.
Язык твой, что сладостен и очень мудр,
О Агни, простираясь далеко, звучит среди богов, –
С его помощью всех достойных жертв
Усади здесь (нам) на помощь и напои медовыми струями!
या ते॑ अग्ने॒ पर्व॑तस्येव॒ धारास॑श्चन्ती पी॒पय॑द्देव चि॒त्रा । ताम॒स्मभ्यं॒ प्रम॑तिं जातवेदो॒ वसो॒ रास्व॑ सुम॒तिं वि॒श्वज॑न्याम् ॥
या । ते॒ । अ॒ग्ने॒ । पर्व॑तस्यऽइव । धारा॑ । अस॑श्चन्ती । पी॒पय॑त् । दे॒व॒ । चि॒त्रा । ताम् । अ॒स्मभ्य॑म् । प्रऽम॑तिम् । जा॒त॒ऽवे॒दः॒ । वसो॒ इति॑ । रास्व॑ । सु॒ऽम॒तिम् । वि॒श्वऽज॑न्याम् ॥
देव दीप्यमान हे अग्ने चित्रा नानारूपा असश्चन्ती अस्मादन्यत्र संगतिमकुर्वाणा या ते तव प्रमतिः प्रकृष्टा बुद्धिः पीपयत् अपेक्षितफलदानेनास्मान् वर्धयति । तत्र दृष्टान्तः। पर्वतस्येव धारा । यथा पर्वतस्य मेघस्योदकधारा ओषधिवनस्पत्यादिषु संगतिं कुर्वाणा तान् वर्धयति तद्वत् । वसो सर्वस्य वासयितः जातवेदः जातप्रज्ञ हे अग्ने तां प्रमतिं परहितकरणसमर्थां बुद्धिम् अस्मभ्यं रास्व दत्स्व । तथा विश्वजन्यां सर्वजनहितां सुमतिं शोभनां बुद्धिं दत्स्व ॥ असश्चन्ती । सश्चतिर्गतिकर्मा । शतरि • उगितश्च' इति ङीप् । नञा समासे नञ्स्वरः । पीपयत् । पा पाने'। ण्यन्तस्य लुडि चङि रूपम् । ‘चङयन्यतरस्याम्' इति चडि परतः पूर्वस्योदात्तत्वम् । यद्वृत्तयोगादनिघातः । प्रमतिम् । तादौ च निति कृत्यतौ ' इति गतेः प्रकृतिस्वरत्वम् । रास्व । ‘रा दाने ' । व्यत्ययेन आत्मनेपदम् । लोटि रूपम् । आमन्त्रितस्याविद्यमानत्वात् निघाताभावः ॥
“Divine Agni, giver of dwellings, knower of all that exists, extend to us that benevolence which, unshared by others, cherishes us like the showers of the rain-cloud; that kindness which is beneficent for all mankind.”
Let thy stream give us drink, O God, O Agni, wonderful and exhaustless like the rain-clouds.
Thus care for us, O Vasu Jatavedas, show us thy loving-kindness, reaching all men.
What of yours will swell inexhaustible and shimmering like the stream of a mountain, god Agni,
that solicitude grant to us and your grace destined for all people, good Jātavedas.
Die Kuh, die mit des Berges Soma-Ströme dir Agni flutend schwoll, o Gott, die lichte, Die schenke uns, o guter Wesenkenner, und Lieb' und Huld, die aller Menschen Heil ist.
Deine Fürsorge, o Agni, die wie der Strom des Berges unversieglich quillt, die wunderbare, o Gott, die gewähre uns, o Jatavedas, und deine Gunst, die allen Menschen gehört, du Guter!
Твоя заботливость, которая, о Агни, бьет ключом,
Словно неиссякающий поток с горы, о бог, яркая (заботливость) -
Дай нам (ее), о Джатаведас,
О Васу, в виде милости, распространяющейся на всех людей!