धे॒नुः प्र॒त्नस्य॒ काम्यं॒ दुहा॑ना॒न्तः पु॒त्रश्च॑रति॒ दक्षि॑णायाः । आ द्यो॑त॒निं व॑हति शु॒भ्रया॑मो॒षस॒: स्तोमो॑ अ॒श्विना॑वजीगः ॥
धे॒नुः । प्र॒त्नस्य॑ । काम्य॑म् । दुहा॑ना । अ॒न्तरिति॑ । पु॒त्रः । च॒र॒ति॒ । दक्षि॑णायाः । आ । द्यो॒त॒निम् । व॒ह॒ति॒ । शु॒भ्रऽया॑मा । उ॒षसः॑ । स्तोमः॑ । अ॒श्विनौ॑ । अ॒जी॒ग॒रिति॑ ॥
धेनुः प्रीणयित्र्युषाः प्रत्नस्य पुरातनस्याग्नेः काम्यं कमनीयं पयः दुहाना दोग्ध्री भवति । दक्षिणायाः उषसः पुत्रः सूर्यस्तस्याः अन्तः चरति । उषसोऽनन्तरं शुभ्रयामा । सूर्यकिरणसंपर्कात् शुभ्रतया गमनं यस्यासौ शुभ्रयामा दिवसः। द्योतनिं सर्वस्य प्रकाशकं सूर्यम्, आ वहति बिभर्ति । अतः उषसः पुरा अश्विनौ स्तोतुं स्तोमः स्तोत्रकारी होत्रादिः अजीगः जागर्ति उत्तिष्ठति ॥ शुभ्रयामा । ' या प्रापणे ' । आतो मनिन् । बहुव्रीहौ पूर्वपदस्वरः। अजीगः । ‘जागृ निद्राक्षये'। लङि तिपि अदादित्वात् शपो लुक् । आकारस्य ईकारश्छान्दसः । गुणे कृते हल्यङ्यादिना तिपो लोपः ॥
“The cow (the dawn) yields the desired milk to the ancient (Agni); the son of the south passes within (the firmament); the bright-houred (day) brings the illuminative (sun); the praiser awakes (to glorify) the Aśvins preceding the dawn.”
THE Ancient's Milch-cow yields the things we long for: the Son of Daksina travels between them.
She with the splendid chariot brings refulgence. The praise of Usas hath awoke the Asvins.
The milk-cow [=Dawn?] is yielding the desirable milk of the age-old (semen); the son [=Agni] of the priestly gift acts as go-between.
She whose course is beautiful carries brightness here; the praise song of Dawn has awakened the Aśvins.
Die Kuh empfängt den lieben Saft des alten, und aus der Trächt'gen kommt der Sohn geschritten; In hellen Bahnen fährt empor den Glanz er, des Frühroths Loblied weckte auf die Ritter.
Die Milchkuh des alten Samens gibt ihre beliebte Milch; der Sohn der Daksina macht seinen Gang zwischen Himmel und Erde. Usas bringt in glänzender Auffahrt die Helligkeit. Das Loblied der Usas hat die Asvin aufgeweckt.
Дойная корова древнего дает желанное (молоко).
Сын Дакшины бродит между (землей и небом).
Обладательница блистательного выезда привозит свет.
Прославление Ушас разбудило Ашвинов.
सु॒युग्व॑हन्ति॒ प्रति॑ वामृ॒तेनो॒र्ध्वा भ॑वन्ति पि॒तरे॑व॒ मेधा॑: । जरे॑थाम॒स्मद्वि प॒णेर्म॑नी॒षां यु॒वोरव॑श्चकृ॒मा या॑तम॒र्वाक् ॥
सु॒ऽयुक् । व॒ह॒न्ति॒ । प्रति॑ । वा॒म् । ऋ॒तेन॑ । ऊ॒र्ध्वा । भ॒व॒न्ति॒ । पि॒तरा॑ऽइव । मेधाः॑ । जरे॑थाम् । अ॒स्मत् । वि । प॒णेः । म॒नी॒षाम् । यु॒वोः । अवः॑ । च॒कृ॒म॒ । आ । या॒त॒म् । अ॒र्वाक् ॥
हे अश्विनौ सुयुक् सुष्ठु रथे योजिता अश्वाः ऋतेन सत्यभूतेन रथेन वां युवां प्रति वहन्ति । यज्ञं प्रत्यागमनाय धारयन्ति । मेधाः यज्ञाश्च ऊर्ध्वाः युष्मदभिमुखम् ऊर्ध्वाः भवन्ति । तत्र दृष्टान्तः । पितरेव । यथा पुत्राः पितरौ मातापितरावभिलक्ष्य गच्छन्ति तद्वत् । अस्मत् अस्मत्तः सकाशात् पणेर्मनीषां आसुरी बुद्धिं वि जरेथां विशेषेण नाशयतम् । वयं तु युवोः युवयोः अवः हविर्लक्षणमन्नं चकृम कुर्मः । युवाम् अर्वाक् अस्मदाभिमुख्येन आ यातम् ॥ सुयुक् । युजेः क्विप् । ‘सुपां सुलुक्' इति सुपो लुक् । पितरेव । पिता मात्रा' इति पितुः शेषः । सुपो डादेशः । जरेथाम् । जॄष् वयोहानौ'। ण्यन्तस्य ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च' इति मित्त्वात् वृद्ध्यभावः । ‘ छन्दस्युभयथा' इति आथाम आर्धधातुकत्वात् णिलोपः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः ॥
“The well-yoked (horses) bear you both in your truth (preserving car); the offerings proceed towards you as (children to their parents); discard from us the disposition of the niggard; we have made ready for you our offering; come to our presence.”
They bear you hither by well-orderd statute: our sacred offerings rise as if to parents.
Destroy in us the counsel of the niggard come hitherward, for we have shown you favour.
In good harness, the ritual offerings—they come to be high above!— carry you two like parents back here by the truth.
Awaken because of us! We have put the poetic inspiration of the miser away (from us) and put here the help of you two. Travel here this way.
Euch fahren her nach Brauch die schöngeschirrten, wie Aeltern stehn die Säulen aufgerichtet; O kommt, verscheucht von uns des Diebes Anschlag, Genuss verschafften wir euch, kommt herbei denn.
Gut im Geschirr fahren sie zur rechten Zeit euch entgegen, die Opfertränke richten sich nach euch auf wie der Sohn nach seinen Eltern. Von uns sollt ihr wachgerufen werden. Weiset ab das Dichten des Knausers! Wir haben eure Gunst gewonnen. Kommet näher!
С хорошей упряжкой, везут они (жертву) навстречу вам обоим по закону.
Жертвенные напитки поднимаются (перед вами, как сыновья) перед родителями.
Отведите от нас молитву скупца!
Мы создали (себе) вашу помощь. Приезжайте к нам!
सु॒युग्भि॒रश्वै॑: सु॒वृता॒ रथे॑न॒ दस्रा॑वि॒मं शृ॑णुतं॒ श्लोक॒मद्रे॑: । किम॒ङ्ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒हुर्विप्रा॑सो अश्विना पुरा॒जाः ॥
सु॒युक्ऽभिः॑ । अश्वैः॑ । सु॒ऽवृता॑ । रथे॑न । दस्रौ॑ । इ॒मम् । शृ॒णु॒त॒म् । श्लोक॑म् । अद्रेः॑ । किम् । अ॒ङ्ग । वा॒म् । प्रति॑ । अव॑र्तिम् । गमि॑ष्ठा । आ॒हुः । विप्रा॑सः । अ॒श्वि॒ना॒ । पु॒रा॒ऽजाः ॥
हे अश्विनौ सुयुग्भिः सुष्ठु योजितैः अश्वैः सुवृता । पुनःपुनरावर्तते इति वृच्चक्रम् । शोभनचक्रोपेतेन रथेन आगत्य दस्रौ शत्रूणामुपक्षपयितारौ युवाम् अद्रेः । अद्रियते सर्वैरित्यद्रिः स्तोता । तस्य इमं श्लोकं स्तोत्रं शृणुतम् । अङ्ग हे अश्विनौ विप्रासः मेधाविनः पुराजाः पुरातना ऋषयः वां युवाम् अवर्तिम् अस्माकं वृत्तिहानिं प्रति गमिष्ठा अतिशयेन गन्ताराविति किम् आहुः किं कथयन्ति। न कथयन्तीत्यर्थः । प्रथमाष्टकेऽष्टमेऽध्याये ‘ सुवृता रथेन' (ऋ. सं. १. ११८.३) इत्यादि गतम् ॥ गमिष्ठा । गन्तृशब्दादिष्ठनि रूपम् ॥
“Dasras, with well-yoked horses and well-constructed car, hear this praise of the worshipper, for have not the ancient sages declared you, Aśvins, to be most ready to come to the aid of the destitute?”
With lightly-rolling car and well-yoked horses hear this, the press-stone's song, ye Wonder-Workers.
Have not the sages of old time, ye Asvins, called you most prompt to come and stay misfortune?
With your well-harnessed horses and smooth-rolling chariot, wondrous ones, hear this signal call of the pressing stone.
Is it not true that the inspired poets born long ago have said that you are the first to respond to trouble, Aśvins?
Mit gutgeschirrten Rossen, schnellem Wagen, o Wunderbare, hört den Schall des Presssteins, Warum doch nennen euch die alten Sänger die schnellsten Helfer in der Noth, o Ritter?
Mit den gutgeschirrten Rossen auf leichtrollendem Wagen fahrend höret auf dieses Geklapper des Preßsteines, ihr Meister! Warum haben gerade euch, Asvin, die frühgeborenen Redner als die genannt, die am besten dem Mangel begegnen?
(Отправившись) на легкозапрягаемых конях, на легкоходной колеснице,
Услышьте, о удивительные, этот стук давильного камня!
Не правда ли, это о вас, о Ашвины, преждерожденные
Вдохновенные говорили как о тех, кто лучше всех встречает беду?
आ म॑न्येथा॒मा ग॑तं॒ कच्चि॒देवै॒र्विश्वे॒ जना॑सो अ॒श्विना॑ हवन्ते । इ॒मा हि वां॒ गोऋ॑जीका॒ मधू॑नि॒ प्र मि॒त्रासो॒ न द॒दुरु॒स्रो अग्रे॑ ॥
आ । म॒न्ये॒था॒म् । आ । ग॒त॒म् । कत् । चि॒त् । एवैः॑ । विश्वे॑ । जना॑सः । अ॒श्विना॑ । ह॒व॒न्ते॒ । इ॒मा । हि । वा॒म् । गोऽऋ॑जीका । मधू॑नि । प्र । मि॒त्रासः॑ । न । द॒दुः । उ॒स्रः । अग्रे॑ ॥
कच्चित् इति प्रश्ने । हे अश्विनौ आ मन्येथाम् इमां मदीयां स्तुतिं जानीतम् । किंच एवैः गमनसाधनैरश्वैः आ गतं यज्ञं प्रत्यागच्छतम् । विश्वे सर्वे जनासः स्तोतारः अश्विना अश्विनौ वां युवां हवन्ते स्तुतिलक्षणाभिर्वाग्भिराह्वयन्ति । किंच गोऋजीका गवां पयसा मिश्रणोपेतानि मधूनि मदकराणि सोमरसरूपाणि इमा इमानि हवींषि युवाभ्यां प्र ददुः' अध्वर्य्वादयः प्रयच्छन्ति । तत्र दृष्टान्तः । मित्रासो न । यथा मित्राणि मित्रेभ्योऽपेक्षितं ददति तद्वत् । उस्रः । वसति नभसीत्युस्रः सूर्यः । अग्रे उषसोऽग्र उदेति । तस्मादागच्छतमिति भावः॥ मन्येथाम् । ‘ मन ज्ञाने' । दिवादिः । लोटि रूपम् । इमा। सुपो डादेशः । गोऋजीका । ‘ प्रकृत्यान्तःपादम्' इत्येङः प्रकृतिभावः । ददुः । दाण् दाने ' इत्यस्य लिट्युसि रूपम् । हियोगादनिघातः । उस्रः । ‘ वस निवासे '। 'स्फायितञ्चि' इत्यादिना रक् । कित्त्वात् संप्रसारणम् । शासिवसिघसीनां च ' इति षत्वाभावश्छान्दसः ॥
“I glorify with praise the beautiful heaven and earth taking in hand the stones (to express the libation) at the sweet (Soma) juice mixed with milk, as friends (give gifts to friends); the sun is in advance, (therefore come to this rite).”
Remember us, and come to us, for ever men, as their wont is, invocate the Asvins.
Friends as it were have offered you these juices, sweet, blent with milk at the first break of morning.
Turn your thought here, come here somehow in your usual way—all peoples call upon the Aśvins—
for like allies they [=the priests] have given this honey, foaming with cows [=milk], to you at the beginning of the reddening (dawn).
Gedenkt an uns und kommet stets in Eile; euch Ritter rufen alle Menschenkinder; Denn diese milchgemischten Tränke reichten sie euch wie Freunde bei des Morgens Anbruch.
Denket her, kommet jedenfalls gern her - alle Leute rufen die Asvin an - denn diese Süßtränke, bei denen die Kuhmilch das Beste ist, haben sie wie Freunde euch dargereicht vor Anbruch der Morgenröte.
Обратите к нам свою мысль! Приезжайте как-нибудь по своему обычаю!
Все люди зовут Ашвинов.
Ведь эти потоки меда, смешанные с молоком, вам
Преподнесли они как друзья до наступления зари.
ति॒रः पु॒रू चि॑दश्विना॒ रजां॑स्याङ्गू॒षो वां॑ मघवाना॒ जने॑षु । एह या॑तं प॒थिभि॑र्देव॒यानै॒र्दस्रा॑वि॒मे वां॑ नि॒धयो॒ मधू॑नाम् ॥
ति॒रः । पु॒रु । चि॒त् । अ॒श्वि॒ना॒ । रजां॑सि । आ॒ङ्गू॒षः । वा॒म् । म॒घ॒ऽवा॒ना॒ । जने॑षु । आ । इ॒ह । या॒त॒म् । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ । दस्रौ॑ । इ॒मे । वा॒म् । नि॒ऽधयः॑ । मधू॑नाम् ॥
हे अश्विनौ पुरू चित् बहून्यपि रजांसि स्थानानि तिरः स्वतेजसा तिरस्कुर्वन्तौ वां युवाम् इह कर्मणि देवयानैः पथिभिः मार्गैः आ यातम् आगच्छतम् । मघवाना धनवन्तौ हे अश्विनौ जनेषु स्तोतृषु वां युवयोः आङ्गूषः आ समन्तात् घोषणीयं स्तोत्रं वर्तते । दस्रौ शत्रूणामुपक्षपयितारौ हे अश्विनौ वां युवयोः मधूनां मदकराणां सोमानाम् इमे निधयः । निधीयतेऽत्र सोम इति निधयः पात्रविशेषाः । सन्ति । तस्मादागच्छतमिति भावः ॥ आङ्गूषः । आङ्पूर्वात् घुषेः कर्मणि घञ् । आघुष्यत इत्याघोषः। घो इस्यस्य पृषोदरादित्वात् गू इत्यादेशः ।' आङोऽनुनासिकश्छन्दसि ' इति अनच्यप्यनुनासिकश्छान्दसः । यद्वा । अगिर्गत्यर्थः । अस्मात् ‘अङ्गूषः' इति सूत्रेण उषच्प्रत्ययान्तो निपातितः । अङ्गति गच्छति देवानित्यङ्गूषः स्तोत्रम् । अङ्गूषः एव आङ्गूषः। प्रज्ञादित्वात् स्वार्थिकः अण् । प्रत्ययस्वरः । ‘एह यातम् ' इत्यर्धर्चो गतः ॥ ॥ ३ ॥
“Eclipsing (by your splendour) many regions, Aśvins, (come hither); loud priase awaits you opulent (Aśvins) among men; come to this rite by the paths traversed by the gods; here, Dasras, are ample stores of the exhilarating (Soma) juices.”
Even through many regions, O ye Asvins high praise is yours among mankind, ye Mighty-
Come, helpers, on the paths which Gods have travelled: here your libations of sweet meath are ready.
Even across many airy spaces, Aśvins, the song (travels) among the peoples, generous ones.
Travel here along the paths leading to the gods. Wondrous ones, these stores of honey belong to you two.
Durch viele Räume drang zu euch, o Ritter, der Lobgesang, o mächt'ge, bei den Menschen; O kommt zu uns auf gottbetretnen Pfaden; hier stehn bereit euch süsse Tränk', o schöne.
Über gar viele Räume, ihr Asvin - ein Loblied wird euch unter den Menschen, ihr Gabenreiche - kommet hierher auf den gottbegangenen Wegen! Ihr Meister, für euch sind diese Auftischungen von süßen Getränken.
Через очень много пространств, о Ашвины, –
Громкая хвала среди людей для вас, о щедрые –
Приезжайте сюда по путям, исхоженным богами!
О удивительные, для вас эти подношения потоков меда.
पु॒रा॒णमोक॑: स॒ख्यं शि॒वं वां॑ यु॒वोर्न॑रा॒ द्रवि॑णं ज॒ह्नाव्या॑म् । पुन॑: कृण्वा॒नाः स॒ख्या शि॒वानि॒ मध्वा॑ मदेम स॒ह नू स॑मा॒नाः ॥
पु॒रा॒णम् । ओकः॑ । स॒ख्यम् । शि॒वम् । वा॒म् । यु॒वोः । न॒रा॒ । द्रवि॑णम् । ज॒ह्नाव्या॑म् । पुन॒रिति॑ । कृ॒ण्वा॒नाः । स॒ख्या । शि॒वानि॑ । मध्वा॑ । म॒दे॒म॒ । स॒ह । नु । स॒मा॒नाः ॥
हे अश्विनौ वां युवयोः पुराणं पुरातनं सख्यम् ओकः सेव्यं शिवं कल्याणकरं भवति । किंच नरा नरावस्मदीयस्य कर्मणो नेतारौ युवोः युवयोः द्रविणं धनं जह्नाव्यां जह्नुकुलजायां भवति । शिवानि सुखकराणि युवयोः सख्या सख्यानि पुनः कृण्वानाः कुर्वन्तः समानाः हविष्प्रदानेन उपकारकत्वान्मित्रभूता एकीभूताः सन्तः वयं मध्वा मदकरेण सोमेन वां युवां सह युगपत् नु क्षिप्रं मदेम हर्षयेम ॥ सख्यम् । सख्युर्भाव इत्यर्थे ‘सख्युर्यः' इति यप्रत्ययः । जह्नाव्याम् । जह्नोः संबन्धिनीत्यर्थे ' तस्येदम् ' इत्यण । ओर्गुणः' । ह्रस्वदीर्घयोर्व्यत्ययः । मदेम । ‘ मदी हर्षे ' इत्यस्य आशीर्लिङि लिङ्याशिष्यङ्प्रत्ययः । निघातः॥
“Your ancient friendship is desirable and auspicious; your wealth, leaders (of rites), is in the family of Jahnu; renewing that auspicious friendship, may we, your associates, delight you with the sweet (Soma).”
Ancient your home, auspicious is your friendship: Heroes, your wealth is with the house of Jahnu.
Forming again with you auspicious friendship, let us rejoice with draughts of meath together.
Your home is old, your companionship benevolent, and yours the wealth at (the house of) the wife of Jahnu, you men.
Creating once again your benevolent companionship for ourselves, now united together, we would find exhilaration through the honey.
Alt ist die Gunst und heilvoll eure Freundschaft, und, Männer, eur Geschenk beim Stamm des Dschahnu; Erneuen wollen wir die holde Freundschaft und uns am Meth gemeinsam nun berauschen.
Euer altbewohnter Aufenthalt, eure gute Freundschaft, euer Eigentum ist bei dem Stamm des Jahnu, ihr Herren. Die gute Freundschaft erneuernd wollen wir uns jetzt zusammen gemeinsam am Süßtrank ergötzen.
Ваш прежний родной дом, добрая дружба.
Ваше имущество, о двое мужей, – у рода Джахну.
Возобновляя добрые дружеские отношения,
Мы хотим сейчас опьяниться медом вместе, сообща!
अश्वि॑ना वा॒युना॑ यु॒वं सु॑दक्षा नि॒युद्भि॑ष्च स॒जोष॑सा युवाना । नास॑त्या ति॒रोअ॑ह्न्यं जुषा॒णा सोमं॑ पिबतम॒स्रिधा॑ सुदानू ॥
अश्वि॑ना । वा॒युना॑ । यु॒वम् । सु॒ऽद॒क्षा॒ । नि॒युत्ऽभिः॑ । च॒ । स॒ऽजोष॑सा । यु॒वा॒ना॒ । नास॑त्या । ति॒रःऽअ॑ह्न्यम् । जु॒षा॒णा । सोम॑म् । पि॒ब॒त॒म् । अ॒स्रिधा॑ । सु॒दा॒नू॒ इति॑ सुऽदानू ॥
सुदक्षा शोभनसामर्थ्योपेतौ युवाना नित्यतरुणौ नासत्या । न विद्यतेऽसत्यं ययोस्तौ। सुदानू शोभनफलस्य दातारौ हे अश्विनी वायुना नियुद्भिः अश्वैः च सजोषसा संगतौ जुषाणा सोमविषयप्रीतियुक्तौ अस्रिधा अनुपक्षीणौ युवं युवां तिरोअह्नयम् अह्नि तिरोहिते हूयमानमिमं सोमं पिबतम् ॥ नियुद्भिः । यौतेः क्विप् । तिरोअह्न्यम् । अह्नि भवमह्न्यम् ।' भवे छन्दसि ' इति यत् । तिरोभूतमह्न्यं यस्मिन् काले स तिरोअह्न्यः । पूर्वपदप्रकृतिस्वरः१॥
“Aśvins, endowed with power, ever young, in whom is no untruth, unwearied, munificent, accepters (of libations), drink with Vāyu and your steeds, rejoicing together, of the Soma libation offered at the close of day.”
O Asvins, Very Mighty ones, with Vayu and with his steeds, one-minded, ever-youthful,
Nasatyas, joying in the third day's Soma, drink it, not hostile, Very Bounteous Givers.
O well-skilled Aśvins, youthful ones, together with the Wind and along with your teams,
drink the day-old soma, taking pleasure and never faltering, o Nāsatyas who bring good gifts.
Vereint, o Ritter, mit dem Vaju trinket, ihr jungen starken mit den Vielgespannen; Den Somasaft, der gestern gor, o biedre, die Thau ihr spendet, holden Sinns geniessend.
Ihr wohlverständigen Asvin, ihr Jünglinge, trinket einträchtig mit Vayu und den Niyutgespannen kommend gern den Soma, der über einen Tag alt ist, nicht fehlend, ihr gabenschöne Nasatya´s!
О Ашвины с прекрасной силой действия, вместе с Ваю
И с упряжками единодушные, о юные
Насатьи, наслаждаясь позавчерашним (соком),
Пейте сому безошибочно, о щедро дарящие!
अश्वि॑ना॒ परि॑ वा॒मिष॑: पुरू॒चीरी॒युर्गी॒र्भिर्यत॑माना॒ अमृ॑ध्राः । रथो॑ ह वामृत॒जा अद्रि॑जूत॒: परि॒ द्यावा॑पृथि॒वी या॑ति स॒द्यः ॥
अश्वि॑ना । परि॑ । वा॒म् । इषः॑ । पु॒रू॒चीः । ई॒युः । गीः॒ऽभिः । यत॑मानाः । अमृ॑ध्राः । रथः॑ । ह॒ । वा॒म् । ऋ॒त॒ऽजाः । अद्रि॑ऽजूतः । परि॑ । द्यावा॑पृथि॒वी इति॑ । या॒ति॒ । स॒द्यः ॥
हे अश्विनौ पुरूचीः । पुरु अञ्चन्ति गच्छन्ति इति पुरूचीः। बहूनि इषः हविर्लक्षणान्यन्नानि वां युवा परि ईयुः परितो गच्छन्ति । तथा अमृध्राः केनाप्यतिरस्कृताः यतमानाः कर्मणि प्रवर्तमानाः स्तोतारः गीर्भिः स्तुतिलक्षणाभिर्वाग्भिर्युवां परिचरन्ति । ऋतजाः ऋतस्योदकस्य जनयिता । ऋते यज्ञे प्रादुर्भवतीति वा । अद्रिजूतः स्तोतृभिराकृष्टः वां युवयोः रथः द्यावापृथिवी द्यावापृथिव्यौ सद्यः तदानीमेव परि याति ह सर्वतः प्राप्नोति खलु । अश्विनो रथस्य वेगवत्त्वे मन्त्रवर्ण: -- ‘ यो वामश्विना मनसो जवीयान्रथः स्वश्वो विश आजिगाति ' ( ऋ. सं. १. ११७.२ ) इति । अतः कारणादस्मदीयं यज्ञं प्रत्यागच्छतमिति भावः ॥ ईयुः । ‘ इण् गतौ ' इत्यस्य लिटि ‘दीर्घ इण: किति' इत्यभ्यासस्य दीर्घः । पादादित्वादनिघातः । यतमानाः । ‘ यती प्रयत्ने ' इत्यस्य शानचि रूपम् । शपः पित्त्वादनुदात्तत्वे शानचो लसार्वधातुकस्वरेणानुदात्तत्वे धातुस्वरः । ऋतजाः । जनेर्विट् । ‘विड्वनोः' इत्यात्वम् । अद्रिजूतः । जू इति सौत्रो धातुः । कर्मणि क्तः । ‘ तृतीया कर्मणि ' इति पूर्वपदस्वरः ॥
“Aśvins, abundant (sacrificial) viands are presented to you, and blameless worshippers (salute you) with praises; your water-shedding car, attracted by the sacrificers, quickly compasses earth and heaven.”
Asvins, to you are brought abundant viands in rivalry with sacred songs, unceasing.
Sprung from high Law your car, urged on by press-stones, goes round the earth and heaven in one brief moment.
O Aśvins, ample refreshments have sped around you two, aligning themselves with the songs and never faltering.
Your chariot, born of truth and hastened by pressing stones, travels around heaven and earth in a day.
Euch flossen rings, o Ritter, reiche Tränke, mit Liederklang sich mischend, unversieglich; Eur heil'ger Wagen läuft, von Somasteinen beeilt, in einem Tag um Erd' und Himmel.
Euch umfingen reichliche Genüsse, die mit den Liedern wetteifern, nicht zu verschmähende, o Asvin. Euer Wagen, der zur rechter Zeit geborenen, durch die Preßsteine zur Eile getrieben, umfährt in einem Tage Himmel und Erde.
О Ашвины, вас окружили обильные жертвенные услады,
Равняющиеся на хвалебные песни, не заслуживающие пренебрежения.
А колесница ваша, возникающая в урочное время, вдохновленная давильными камнями,
В один день объезжает небо и землю.
अश्वि॑ना मधु॒षुत्त॑मो यु॒वाकु॒: सोम॒स्तं पा॑त॒मा ग॑तं दुरो॒णे । रथो॑ ह वां॒ भूरि॒ वर्प॒: करि॑क्रत्सु॒ताव॑तो निष्कृ॒तमाग॑मिष्ठः ॥
अश्वि॑ना । म॒धु॒सुत्ऽत॑मः । यु॒वाकुः॑ । सोमः॑ । तम् । पा॒त॒म् । आ । ग॒त॒म् । दु॒रो॒णे । रथः॑ । ह॒ । वा॒म् । भूरि॑ । वर्पः॑ । करि॑क्रत् । सु॒तऽव॑तः । निः॒ऽकृ॒तम् । आऽग॑मिष्ठः ॥
हे अश्विनौ यः सोमः मधुषुत्तमः मधुरसमत्यन्तं प्रेरयन् युवाकुः युवां कामयमानो वर्तते । यद्वा । युवाकुर्वसतीवरीप्रभृतिभिर्मिश्रित इत्यर्थः । तम् इमं सोमं पातं पिबतम् । दुरोणे अस्माकं गृहे आ गतम् आगच्छतम् । भूरि प्रभूतं वर्पः वारकं तेजः रूपं वा सर्वेर्वरणीयं धनं वा करिक्रत् पुनःपुनः कुर्वन् वां युवयोः रथः सुतवतः सोमम् अभिषुतवतः यजमानस्य निष्कृतम्। ' निरित्येष समित्येतस्य स्थाने' (निरु. १२.७) इति यास्कः। संस्कारि । यद्वा । संस्कृतं गृहम् आगमिष्ठः अतिशयेनागच्छन् भवति ॥ युवाकुः । यौतेः ‘ कटिकुषिभ्यां ' काकुः' इति बाहुलकादस्मादपि भवति । प्रत्ययस्वरेण मध्योदात्तः । करिक्रत् । करोतेर्यङ्लुकि शतरि ‘ दाधर्ति दर्धर्ति दर्धर्षि° ' इत्यादिना चुत्वाभावे यणादेशे कृतेऽङ्गस्यानृकारान्तत्वादभ्यासस्य रिगागमो न प्राप्नोतीति सोऽपि निपात्यते । अभ्यस्तस्वरः। निष्कृतम् । करोतेरादिकर्मणि क्तः। संस्कर्तुं प्रवृत्त इत्यर्थः । थथादिस्वरः ॥४॥
“Aśvins, this most sweet Soma is mixed; drink it; come to (our) dwelling; your car, repeatedly bestowing wealth, is coming to the appointed plural ce of the offerer of the libation.”
Asvins, your Soma sheds delicious sweetness: drink ye thereof and come unto our dwelling.
Your car, assuming many a shape, most often goes to the Soma-presser's place of meeting.
O Aśvins, the soma that is yours, the best of honeyed pressings—drink it and come to our house!
Your chariot, again and again creating many a beautiful form, is the first to come to the appointed place of the soma-offerer.
Euch ist gebraut der süsseste, o Ritter, den Soma trinkt, und kommt zu unserm Hause Mit eurem Wagen, der viel Schönes wirket, und gerne kommt zum Stelldichein des Pressers.
Asvin! Der für euch bestimmte Soma gibt am meisten Süßigkeit aus: den trinket, kommt ins Haus! Euer Wagen der viele Gestalten annimmt, kommt am liebsten zum Treffort des Somaopferers.
О Ашвины, предназначенный для вас сома
Лучше всех источает сладость. Пейте его! Приезжайте домой!
А колесница ваша, принимающая много обликов,
Охотнее всего приезжает на свидание с тем, у кого выжат (сома).