इ॒हेह॑ वो॒ मन॑सा ब॒न्धुता॑ नर उ॒शिजो॑ जग्मुर॒भि तानि॒ वेद॑सा । याभि॑र्मा॒याभि॒: प्रति॑जूतिवर्पस॒: सौध॑न्वना य॒ज्ञियं॑ भा॒गमा॑न॒श ॥
इ॒हऽइ॑ह । वः॒ । मन॑सा । ब॒न्धुता॑ । न॒रः॒ । उ॒शिजः॑ । ज॒ग्मुः॒ । अ॒भि । तानि॑ । वेद॑सा । याभिः॑ । मा॒याभिः । प्रति॑जूतिऽवर्पसः । सौध॑न्वनाः । य॒ज्ञिय॑म् । भ॒गम् । आ॒न॒श ॥
हे ऋभवः वः युष्माकं बन्धुता । बध्नन्ति फलेन संयोजयन्तीति बन्धवः कर्माणि । तेषां समूहः बन्धुता । इहेह सर्वत्र मनसा सर्वैर्ज्ञायते । नरः हे मनुष्या ऋभवः उशिजः यज्ञभागं कामयमाना भवन्तः वेदसा यज्ञभागप्रापककर्मविषयज्ञानेन तानि तादृशानि कर्माणि अभि जग्मुः। प्राप्नुवन्ति । कानि तानि । मायाभिः । मीयन्ते ज्ञायन्त इति मायाः कर्माणि । याभिः मायाभिर्यैः कर्मभिः प्रतिजूतिवर्पसः प्रतिपक्षाभिभवनशीलतेजोयुक्ताः सौधन्वनाः । सुधन्वा नामाङ्गिरसः पुत्रः कश्चिदृषिः । तस्य पुत्राः सौधन्वनाः । ते च त्रय ऋभुर्विभ्वा वाज इति । एतन्नामका यूयं यज्ञियं यज्ञार्हं भागं सोमपानादिलक्षणम् आनश प्राप्ताः स्थ । तथा च मन्त्रवर्णः- ‘ ऋभुर्विभ्वा वाजो देवाँ अगच्छत स्वपसो यज्ञियं भागमैतन ' ( ऋ. सं. १. १६१. ६ ) इति । अयमर्थो ब्राह्मणेऽपि ‘ ऋभवो वै देवेषु तपसा सोमपीथमभ्यजयन्' (ऐ. ब्रा. ३. ३०) इत्यत्रोपाख्यानपूर्वकं स्पष्टमभिहितः। यद्वा । नरः कर्मणां नेतारो हे ऋभव उशिजः कामयमाना वेदसा हविर्लक्षणेन धनेन युक्ताः स्तोतारो वो युष्माकं तानि चमसतक्षणादीनि कर्माणि बन्धुता बन्धुतया सख्येन मनसा जग्मुः अभिगच्छन्ति । कानि इत्याशङ्कायामाह। यैः चमसतक्षणादिभिः कर्मभिर्यज्ञार्हं भागं यूयमाप्नुत तान्यभिगच्छन्ति । युष्माकं बुद्धिनैपुणानि चिन्तयन्तीत्यर्थः ॥ इहेह। ‘नित्यवीप्सयोः' इति द्विर्वचनम् । परस्याम्रेडितत्वात् अनुदात्तत्वे पूर्वपदस्वरः । बन्धुता । ‘बन्ध बन्धने'। शॄस्वृस्निहि° ' इत्यादिना कर्तरि उप्रत्ययः । समूह इत्यर्थे ' ग्रामजनबन्धुसहायेभ्यस्तल् ' ( पा. सू. ४.२.४३) इति तल । लित्स्वरः ॥
“Your connection (with the consequences of acts) ṛbhus is here (acknowledged) by the minds of all; desiring their share (of the sacrifice), oḥ men, they have come with a knowledge (of their claims) to these (rites); the sons of Sudhanvan, with the devices by which they are victorious over foes, you have accepted the share of the sacrifice.”
HERE is your ghostly kinship, here, O Men: they came desirous to these holy rites with store of wealth,
With wondrous arts, whereby, with schemes to meet each need, Ye gained, Sudhanvan's Sons! your share in sacrifice.
In one place and another, by their thought and family relationship, by their knowledge, o men, the fire-priests have arrived at these things:
the craft by which, o sons of Sudhanvan, you have attained a sacrificial share, rapidly adopting a (different) form;
Hier, Männer, ist Verwandtschaft euch nach eurem Sinn; mit Weisheit lernten alles das die eifrigen, Durch welche Künste ihr Sudhanvansöhne einst, stets Mittel findend, Götterwürde habt erlangt.
Da und dort, durch Nachdenken, durch Familienbeziehung, durch Wissenschaft haben die Usij diese Dinge von euch erfahren, ihr Herren, durch welche Zauberkünste ihr je nach dem Anstoß eine andere Gestalt annehmend, ihr Söhne des Sudhanvan einen Opferanteil erlangt habt.
То здесь, то там размышлением, родственной связью, о мужи,
(Наконец,) наукой Ушиджи постигли те ваши
Силы чудесных превращений, благодаря которым (меняющие) облик по (своему) побуждению
Сыновья Судханвана до(бились) доли в жертвоприношении.
याभि॒: शची॑भिश्चम॒साँ अपिं॑शत॒ यया॑ धि॒या गामरि॑णीत॒ चर्म॑णः । येन॒ हरी॒ मन॑सा नि॒रत॑क्षत॒ तेन॑ देव॒त्वमृ॑भव॒: समा॑नश ॥
याभिः॑ । शची॑भिः । च॒म॒साम् । अपिं॑शत । यया॑ । धि॒या । गाम् । अरि॑णीत । चर्म॑णः । येन॑ । हरी॒ इति॑ । मन॑सा । निः॒ऽअत॑क्षत । तेन॑ । दे॒व॒ऽत्वम् । ऋ॒भ॒वः॒ । सम् । आ॒नश ॥
हे ऋभवः याभिः शचीभिः शक्तिभिः चमसान् चतुरः अपिंशत विभक्तवन्तः स्थ। यया धिया प्रज्ञया गां मृताम् अरिणीत चर्मणः चर्मणा योजनात् प्रापितवन्तः स्थ । येन मनसा प्रज्ञानेन हरी एतन्नामकाविन्द्रस्याश्वौ निरतक्षत नितरामकुरुत । तथा च मन्त्रवर्णः- ‘ य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी ' ( ऋ. सं. १.२०.२ ) इति । तेन सर्वेणानेन कर्मणा देवत्वं यज्ञभागार्हत्वलक्षणं देवभावं समानश सम्यक् प्राप्ताः स्थ ॥ अपिंशत ।' पिश अवयवे'। तुदादिः । तस्य लङि मध्यमे रूपम् । यद्वृत्तयोगादनिघातः । अरिणीत । ‘ री गतिरेषणयोः । क्र्यादिः । तस्य लङि रूपम् । अत्रापि पूर्ववदनिघातः । निरतक्षत । ‘ तक्षु त्वक्षू तनूकरणे ' । लङि रूपम् । पूर्ववत् अनिघाते ‘तिङि चोदात्तवति' इति गतेर्निघातः । अडुदात्तः । आनश । अश्नोतेर्लिटि रूपम् । निघातः।
“With those faculties by which you have divided the ladles; with that intelligence wherewith you have covered the (dead) cow with skin; with that will by which you have fabricated the two horses (of Indra); with those (means), ṛbhus, you have attained divinity.”
The mighty powers wherewith. ye formed the chalices, the thought by which ye drew the cow from out the hide,
The intellect wherewith ye wrought the two Bay Steeds,-through these, O Rbhus, ye attained divinity.
The ability by which you carved the cups; the insight by which you made the cow to flow (milk) from the hide;
the thought by which you fashioned the two fallow bays—by (all) that, o R̥bhus, you fully attained divinity.
Durch welche Kräfte ihr die Becher habt geformt, durch welche List die Kuh von ihrem Fell getrennt, Durch welchen Geist ihr zimmertet das Füchsepaar, durch den ihr Ribhu's Götterwürde habt erlangt.
Durch die Künste, mit denen ihr die Becher formtet, durch den Erfindungsgeist, mit dem ihr aus dem Felle die Kuh heraustriebet, durch das Nachdenken, mit dem ihr die beiden Falben gebildet habt, durch all dies habt ihr Ribhu´s göttlichen Rang erlangt.
(Те) силы, которыми вы разукрасили чаши (для сомы),
(Та) поэтическая мысль, которой вы воссоздали корову из шкуры,
(То) размышление, которым вы вытесали пару буланых коней, –
С помощью (всего) этого вы полностью добились состояния богов, о Рибху.
इन्द्र॑स्य स॒ख्यमृ॒भव॒: समा॑नशु॒र्मनो॒र्नपा॑तो अ॒पसो॑ दधन्विरे । सौ॒ध॒न्व॒नासो॑ अमृत॒त्वमेरि॑रे वि॒ष्ट्वी शमी॑भिः सु॒कृत॑: सुकृ॒त्यया॑ ॥
इन्द्र॑स्य । स॒ख्यम् । ऋ॒भवः॑ । सम् । आ॒न॒शुः॒ । मनोः॑ । नपा॑तः । अ॒पसः॑ । द॒ध॒न्वि॒रे॒ । सौ॒ध॒न्व॒नासः॑ । अ॒मृ॒त॒ऽत्वम् । आ । ई॒रि॒रे॒ । वि॒ष्ट्वी । शमी॑भिः । सु॒ऽकृतः॑ । सु॒ऽकृ॒त्यया॑ ॥
मनोर्नपातः मनुष्यस्याङ्गिरसः पुत्राः अपसः यागादिलक्षणकर्मवन्तः ऋभवः इन्द्रस्य सख्यं समानख्यानत्वं समानशुः सम्यक् प्राप्नुवन् । तथेन्द्रस्य सख्यं प्राप्तास्त ऋभवः दधन्विरे । पूर्वं मनुष्यत्वेन मरणयोग्या अपीदानीमिन्द्रस्य सख्येन प्राणान् धारयन्ति । तथा च मन्त्रः - अधारयन्त वह्नयः ' (ऋ. सं. १. २०. ८) इति । सौधन्वनासः सुधन्वनामकस्यर्षेः पुत्रा ऋभवः सुकृतः शोभनकर्माणः सन्तः प्रभूतैः शमीभिः देवत्वप्राप्तिप्रतिबन्धनिवारणहेतुभिः कर्मभिः सुकृत्यया शोभनेन कर्मणा च विष्ट्वी व्याप्य अमृतत्वमेरिरे देवत्वं प्रापुः । तथा च मन्त्रान्तरमाम्नायते -- ‘ मर्तासः सन्तो अमृतवमानशुः ' ( ऋ. सं. १. ११०. ४ ) इति ॥ नपातः । नभ्राण्नपात! इत्यादिना नञः प्रकृतिभावः । दधन्विरे । धविर्गत्यर्थः । व्यत्ययेनात्मनेपदम् । लिटि रूपम् । ईरिरे । ‘ ईर गतौ ' । मन्त्रत्वात् आम् न भवति । निघातः। सुकृत्यया । करोतेर्भावे ‘कृञः श च ' इति क्यप् । प्रत्ययस्य व्यत्ययेनान्तोदात्तत्वम् । समासे कृदुत्तरस्वरः ॥
“The ṛbhus, the performers of (good) works, the grandsons of a man, have attained the friendship of Indra, they have perpetuated (existence); the sons of Sudhanvan have attained immortality; performers of pious acts influencing (the result), through their devotion (they have attained divinity) by their works.”
Friendship with Indra have the Rbhus, fully gained: grandsons of Manu, they skilfully urged the work.
Sudhanvan's Children won them everlasting life, serving with holy rites, pious with noble acts.
The R̥bhus attained the companionship of Indra. The artisans, the children of Manu, raced.
The sons of Sudhanvan rose to immortality by applying themselves to their labors, ritually acting well by good ritual action.
Des Indra Freundschaft hat die Ribhuschar erlangt, des Manu Enkel regten sich in schnellem Werk; Unsterblichkeit erlangten die Sudhanvaner, mit Eifer wirkend, künstlerisch mit Künstlerwerk.
Die Ribhu´s erlangten des Indra Freundschaft; des Manu Enkel haben als Künstler sich auf die Fahrt begeben. Die Söhne des Sudhanvan haben die Unsterblichkeit erworben, nachdem sie mit rechtem Fleiße gearbeitet hatten, kunstfertig mit Kunstfertigkeit.
Рибху полностью добились дружбы Индры.
Помчались отпрыски Ману, (искусные) мастера.
Сыновья Судханвана приобрели бессмертие,
Потрудившись изо (всех) сил, способные созидатели, - с помощью способности к созиданию.
इन्द्रे॑ण याथ स॒रथं॑ सु॒ते सचाँ॒ अथो॒ वशा॑नां भवथा स॒ह श्रि॒या । न व॑: प्रति॒मै सु॑कृ॒तानि॑ वाघत॒: सौध॑न्वना ऋभवो वी॒र्या॑णि च ॥
इन्द्रे॑ण । या॒थ॒ । स॒ऽरथ॑म् । सु॒ते । सचा॑ । अथो॒ इति॑ । वशा॑नाम् । भ॒व॒थ॒ । स॒ह । श्रि॒या । न । वः॒ । प्र॒ति॒ऽमै । सु॒ऽकृ॒तानि॑ । वा॒घ॒तः॒ । सौध॑न्वनाः । ऋ॒भ॒वः॒ । वी॒र्या॑णि च ॥
हे ऋभवो यूयम् इन्द्रेण सचा सह सरथं समानमेकं रथमारुह्य सुते अभिषुतसोमवति यज्ञे याथ गच्छथ। अथो अनन्तरमिन्द्रेण सह एकरथमारूढा यूयं वशानाम् । उश्यते काम्यते यजमानेन स्वर्गादिलक्षणं फलम् एभिरिति वशाः मनुष्याः । तेषां श्रिया स्तुतिहविरादिरूपया सह भवथ । हे सौधन्वनाः सुधन्वनः पुत्राः वाघतः । अमृतत्वादिलक्षणफलस्य वोढारो मेधाविनो वा इति यास्कः । तादृशा हे ऋभवः वः युष्माकं सुकृतानि देवत्वस्य प्रापकाणि शोभनानि कर्माणि न प्रतिमै । प्रतिमातुमियत्तया परिच्छेत्तुं न केनापि शक्यानि । तथा वीर्याणि युष्माकं सामर्थ्यानि च नैव प्रतिमातुं शक्यानि ॥ वशानाम् । ‘वश कान्तौ ।' वशिरण्योरुपसंख्यानम्' इति करणे अप्प्रत्ययः । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । वशाशब्दो वन्ध्यावचनश्चेत् अन्तोदात्त: भवति । ' वशा मेषा अवसृष्टास आहुताः' (ऋ. सं. १०.९१. १४ ) इति । वः । युष्मच्छब्दस्य षष्ठीबहुवचने वसादेशः । निघातः । प्रतिमै । माङ् माने '। विच् । प्रतिमाः प्रतिमानम् । तस्य चतुर्थ्येकवचने आतो लोपाभावश्छान्दसः । एकादेशस्वरः ॥
“Go with Indra in his chariot when the libation is poured out, and be (welcomed) with honour by the (worshipper) desiring (your favour); ṛbhus, sons of Sudhanvan, bestowers (of the rewards of pious acts), your virtuous deeds, your great faculties, arenot to be mesured.”
In company with Indra come ye to the juice, then gloriously shall your wishes be fulfilled.
Not to be paragoned, ye Priests, are your good deeds, nor your heroic acts, Rbhus, Sudhanvan's Sons.
You travel on the same chariot with Indra when the soma is pressed, and then you become joined with the splendor of your wishes.
Your good ritual acts are not to be equaled, o chanters, sons of
Sudhanvan, R̥bhus, nor your heroic deeds.
Auf gleichem Wagen kommt mit Indra her zum Trank, es werd' Erfüllung eurer Wünsche euch zu Theil; Nicht sind vergleichbar eure hohen Tugenden und Thaten, fromme Ribhu's, o Sudhanvaner.
Mit Indra fahret ihr auf gleichem Wagen zum Soma ; nun seid ihr im Besitz der Krone aller Wünsche. Euren Kunstwerken ist nichts gleichzustellen, ihr fahrende Sänger, noch euren Heldentaten, ihr Ribhu´s, des Sudhanvan Söhne.
Вы ездите вместе с Индрой на одной колеснице к выжатому (соме):
Так вас сопровождает блеск (сбывшихся) желаний.
Вашим способностям к созиданию невозможно подражать, о жрецы,
О Рибху – сыновья Судханвана, и (вашим) героическим подвигам.
इन्द्र॑ ऋ॒भुभि॒र्वाज॑वद्भि॒: समु॑क्षितं सु॒तं सोम॒मा वृ॑षस्वा॒ गभ॑स्त्योः । धि॒येषि॒तो म॑घवन्दा॒शुषो॑ गृ॒हे सौ॑धन्व॒नेभि॑: स॒ह म॑त्स्वा॒ नृभि॑: ॥
इन्द्र॑ । ऋ॒भुऽभिः॑ । वाज॑वत्ऽभिः । सम्ऽउ॑क्षितम् । सु॒तम् । सोम॑म् । आ । वृ॒ष॒स्व॒ । गभ॑स्त्योः । धि॒या । इ॒षि॒तः । म॒घ॒व॒न् । दा॒शुषः॑ । गृ॒हे । सौ॒ध॒न्व॒नेभिः॑ । स॒ह । म॒त्स्व॒ । नृऽभिः॑ ॥
हे इन्द्र वाजवद्भिः । वाजो नाम ऋभूणां भ्राता । यद्वा । वाजोऽन्नम् । तत्सहितैः ऋभुभिः सहितस्त्वं समुक्षितं सम्यगद्धिः सिक्तं ग्रावभिः सुतं सोमं गभस्त्योः। बप्सत्यदन्त्याभ्यामन्नमिति गृह्णन्ति पदार्थानाभ्यामिति वा गभस्ती बाहू । तयोर्बाह्वोः आ वृषस्व आक्षारय । ग्रहमुभाभ्यां बाहुभ्यां गृहीत्वा सोमं पिबेत्यर्थः । हे मघवन् इन्द्र धिया स्तोत्ररूपेण कर्मणा इषितः प्रेरितस्त्वं दाशुषः हविर्दत्तवतो यजमानस्य गृहे सौधन्वनेभिः सुधन्वनः पुत्रैः नृभिः मनुष्यैर्ऋभुभिः सह साकं मत्स्व सोमपानेन हृष्टो भव ॥ समुक्षितम् ।' उक्ष सेचने ' । कर्मणि क्तः । ‘ गतिरनन्तरः' इति गतेः स्वरः । गभस्त्योः । ‘भस भर्त्सनदीप्त्योः' इत्यस्मात् ' भसेर्गट्च ' इति सूत्रेण तिप्रत्ययो धातोः गडागमश्च । यद्वा । गृह्णातेः पृषोदरादित्वादेवं नेयम् । मत्स्व । मदि स्तुत्यादिषु । लोटि ‘ बहुलं छन्दसि' इति विकरणस्य लुक् । निघातः ॥
“Indra, along with the food-bestowing ṛbhus, accept with both hands the (cup of the) effused Soma libation; excited Maghavan, by worship, rejoice with the human sons of Sudhanvan in the dwelling of the donor (of the offering).”
O Indra, with the Rbhus, Mighty Ones, pour down the Soma juice effused, well-blent, from both thy hands.
Maghalan, urged by song, in the drink-offerer's house rejoice thee with the Heroes, with Sudhanvan's Sons.
O Indra, together with the R̥bhus bringing the Prize of Victory [=Vāja], drench yourself in the soma pressed and sprinkled in the hands (of the priests).
Urged on by insight, o generous one, become exhilarated in the
house of the pious one together with the sons of Sudhanvan, those superior men.
Mit Ribhu's und den Vadscha's, Indra, spül hinein den ausgegossnen, armgepressten Somasaft; Gelockt durch Andacht, Mächt'ger, in des Frommen Haus berausche mit den Söhnen des Sudhanvan dich.
Indra, zusammen mit den Ribhu´s samt Vaja, schütte den mit Wasser begossenen, ausgepreßten Soma in deinen Händen in dich hineien! Durch die Dichtung angeregt, du Gabenreicher, berausche dich im Hause des Spenders zusammen mit den Söhnen des Sudhanvan, den Herren!
О Индра, вместе с Рибху, (или) с Ваджами, вливай в себя
Сому, окропленного (водой), выжатого в руках.
Приведенный в движение поэтической мыслью, о щедрый, в доме почитателя
Опьяняйся вместе с мужами – сыновьями Судханвана!
इन्द्र॑ ऋभु॒मान्वाज॑वान्मत्स्वे॒ह नो॒ऽस्मिन्त्सव॑ने॒ शच्या॑ पुरुष्टुत । इ॒मानि॒ तुभ्यं॒ स्वस॑राणि येमिरे व्र॒ता दे॒वानां॒ मनु॑षश्च॒ धर्म॑भिः ॥
इन्द्र॑ । ऋ॒भु॒ऽमान् । वाज॑ऽवान् । म॒त्स्व॒ । इ॒ह । नः॒ । अ॒स्मिन् । सव॑ने । शच्या॑ । पु॒रु॒ऽस्तु॒त॒ । इ॒मानि॑ । तुभ्य॑म् । स्वस॑राणि । ये॒मि॒रे॒ । व्र॒ता । दे॒वाना॑म् । मनु॑षः । च॒ । धर्म॑ऽभिः ॥
पुरुष्टुत बहुभिः स्तुत हे इन्द्र ऋभुमान् ऋभुणा तद्वान् वाजवान् वाजेन ऋभोर्भ्रात्रा युक्तः शच्या इन्द्राण्या कर्मणा वा सहितः सन् नः अस्माकम् इह कर्मणि अस्मिन् तृतीयसवने मत्स्व हृष्टो भव । हे इन्द्र तुभ्यं त्वदर्थम् इमानि स्वसराणि अहानि येमिरे । तव सोमपानार्थं त्रिषु सवनेषु नियतान्यासते । किंच देवानाम् अग्न्यादीनां व्रता व्रतानि कर्माणि च मनुषः मनुष्यस्य धर्मभिः कर्मभिः साकं त्वदर्थं नियतान्यासते ॥
“Indra, the praised of many, associated with Ṛbhu, and with Vāja, exult with Śaci, at this our sacrifice; these self-revolving (days) are devoted to you, as well as the ceremonies (addressed) to the gods, and the virtuous acts of man.”
With Rbhu near, and Vaja, Indra, here exult, with Saci, praised of many, in the juice we pour.
These homes wherein we dwell have turned themselves to thee, -devotions to the Gods, as laws of men ordain.
O Indra, along with the R̥bhus bringing the Prize of Victory [=Vāja], become exhilarated here at this soma-pressing of ours, along with
your ability, o much-praised one.
These pastures [=soma rites?] have offered themselves to you according to the commandment of the gods and the (ritual) foundations
of Manu.
Berausch mit Ribhu und mit Vadscha, Indra, dich, mit Lust, gelobter, hier an diesem unsern Trank; Dir bieten hier sich diese Somatröge dar, und Götterbräuche nach der Menschen Ordnungen.
Indra, berausche dich in Gesellschaft der Ribhu´s und des Vaja hier bei uns, bei diesem Trankopfer nach Kräften, du Vielgepriesener! Dir haben sich diese Somaweideen zu eigen gegeben auf Geheiß der Götter und nach den Satzungen des Menschen.
О Индра, сопровождаемый Рибху, или Ваджами, опьяняйся здесь у нас
На этом выжимании в (полную) силу, о многовосхваляемый!
Эти пастбища (сомы) предназначаются тебе –
(Таковы) заветы богов и (обеты) человека вместе с (естественными) установлениями.
इन्द्र॑ ऋ॒भुभि॑र्वा॒जिभि॑र्वा॒जय॑न्नि॒ह स्तोमं॑ जरि॒तुरुप॑ याहि य॒ज्ञिय॑म् । श॒तं केते॑भिरिषि॒रेभि॑रा॒यवे॑ स॒हस्र॑णीथो अध्व॒रस्य॒ होम॑नि ॥
इन्द्र॑ । ऋ॒भुऽभिः॑ । वा॒जिऽभिः॑ । वा॒जय॑न् । इ॒ह । स्तोम॑म् । ज॒रि॒तुः । उप॑ । या॒हि॒ । य॒ज्ञिय॑म् । श॒तम् । केते॑भिः । इ॒षि॒रेभिः॑ । आ॒यवे॑ । स॒हस्र॑ऽनीथः । अ॒ध्व॒रस्य॑ । होम॑नि ॥
हे इन्द्र वाजिभिः वाजयुक्तैः ऋभुभिः सहितस्त्वं वाजयन् स्तोतुर्वाजमन्नं कुर्वाणः इह यज्ञे यज्ञियं यज्ञार्हं जरितुः स्तोतुः स्तोमं स्तोत्रम् उप याहि आगच्छ । पुनः किंविशिष्टः । केतेभिः । केत्यते ज्ञायते सर्वमेभिरिति केताः प्राज्ञाः मरुतः । तैः शतं शतसंख्याकैः इषिरेभिः इषिरैर्गमनकुशलैः अश्वैः सहितः आयवे मनुष्याय यजमानाय सहस्रनीथः बहुप्रकारनयनोपेतः अध्वरस्य । न विद्यते ध्वरो हिंसा यस्य तादृशस्य सोमस्य होमनि होमे आगच्छेति शेषः॥ वाजयन्। वाजं करोतीति णिच् । ‘णाविष्ठवत्' इतीष्ठवद्भावात् “ तुरिष्ठेमेयःसु' इति टिलोपः । केतेभिः । ‘कित ज्ञाने' । घञ् । ञित्त्वादाद्युदात्तः ॥ ॥ ७ ॥
“Indra, with the food-bestowing Ṛbhus rewarding (worship) with food, come hither to (receive) the reverential praise of the adorer, with a hundred quick-going steeds, the indications (of the Maruts); come to the burnt offering of the sacrifice, yielding a thousand blessings to the sacrificer.”
Come with the mighty Rbhus, Indra, come to us, strengthening with thy help the singer's holy praise;
At hundred eager calls come to the living man, with thousand arts attend the act of sacrifice.
O Indra, together with the R̥bhus, with the prizewinners, racing to the prize, travel here to the ritually right praise of the singer
with your hundred invigorating intentions for Āyu, since you have a thousand stratagems at the rite’s invocation.
O Indra mit den starken Ribhu's komme her in Eile zu des Sängers hehrem Lobgesang; Mit hundert starken Werken komme für den Manu mit tausendfacher Leitung zu dem Opferguss.
Indra, mit den Ribhu´s samt Vaja um die Wette fahrend komm hierher zum gottesdienstlichen Lobgesang des Sängers, mit hundert eifrigen Wünschen für den Ayusohn, tausend Wege kennend, zur Darbringung des Opfers!
О Индра, состязаясь здесь с Рибху, или Ваджами,
Приезжай на жертвенное восхваление певца
С сотней деятельных намерений для Аю,
Зная тысячу путей для возливания жертвы!