इ॒मा उ॑ वां भृ॒मयो॒ मन्य॑माना यु॒वाव॑ते॒ न तुज्या॑ अभूवन् । क्व१॒॑ त्यदि॑न्द्रावरुणा॒ यशो॑ वां॒ येन॑ स्मा॒ सिनं॒ भर॑थ॒: सखि॑भ्यः ॥
इ॒माः । ऊँ॒ इति॑ । वा॒म् । भृ॒मयः॑ । मन्य॑मानाः । यु॒वाऽव॑ते । न । तुज्याः॑ । अ॒भू॒व॒न् । क्व॑ । त्यत् । इ॒न्द्रा॒व॒रु॒णा॒ । यशः॑ । वा॒म् । येन॑ । स्म॒ । सिन॑म् । भर॑थः । सखि॑ऽभ्यः ॥
हे इन्द्रावरुणा इन्द्रावरुणौ वां युवयोः संबन्धिन्यः मन्यमानाः बलिभिः शत्रुभिः अभिमन्यमानाः । अत एव भृमयः भ्रमणशीलाः इमाः प्रजाः । उ पूरण:। युवावते । तृतीयार्थे चतुर्थी । यौवनवता बलिना शत्रुणा तुज्याः हिंस्याः न अभूवन् न भवन्तु । अपि च वां युवयोः त्यत् तादृशं यशः क्व कुत्रास्ते । येन यशसा सखिभ्यः अस्मभ्यं सिनम् अन्नं भरथः स्म प्रदातुं संपादयथः । तत् क्वास्ति इत्यन्वयः। यद्वा । हे इन्द्रावरुणौ वां युवयोः संबन्धिन्य इमा अस्माभिः क्रियमाणा भृमयो युवां प्राप्तुं भ्रमणशीलाः मन्यमानाः । मन्यतिरर्चतिकर्मा । युवाम् अर्चन्त्यस्ता: स्तुतयो युवावते युवाभ्यां सदृशायान्यस्मै देवाय न तुज्याः । तुजतिर्दानकर्मार्थः । प्रदेया मा भूवन् । शिष्टं समानम् ॥ भृमयः । ‘ भ्रमु अनवस्थाने '। भ्रमेः ‘संप्रसारणं च ' इति इन्प्रत्ययः संप्रसारणं च । व्यत्ययेनान्तोदात्तत्वम् । युवावते । युष्मदस्मद्यांवन छन्दसि सादृश्य उपसंख्यानम् ' इति वतुप् । अविभक्तावपि युवादेशश्छान्दसः । तुज्याः । तुज हिंसादाननिकेतनेषु ।' अघ्न्यादयश्च ' इति यत् ।' यतोऽनावः' इत्याद्युदात्तत्वम् । सिनम् । ‘षिञ् बन्धने '। ‘इण्षिञ्दीङुष्यविभ्यो नक्' इति नक् । व्यत्ययेनाद्युदात्तत्वम् ॥
“Indra and Varuṇa, may these people who are relying upon you, and wandering about (in alarm), sustain no injury from a youthful (adversary); for where is that reputation (you enjoy) on account that you bestow sustenance on your friends.”
YOUR well-known prompt activities aforetime needed no impulse from your faithful servant.
Where, Indra-Varuna, is now that glory wherewith ye brought support to those who loved you?
These (hymns) here for you two, (though) they are considered
whirlwinds, have become ones that cannot be (successfully)
brandished (even?) by one devoted to you two.
Where is this glory of yours, Indra and Varuṇa, with which you are wont to carry the gear for your comrades?
Dies euer Eilen, das sich kräftig zeiget, hat der euch liebt, nicht erst zur That zu treiben; Wo Varuna und Indra ist das Gut euch, aus dem ihr Vorrath bringet den Genossen?
Diese Lieder an euch, die uns als Übereifer vorkommen, sind für euresgleichen nicht dringlich gewesen. Wo bleibt dieser euer Ruhm, Indra und Varuna, daß ihr euren Freunden Lohn einbringt?
Эти слывущие стремительными (гимны), (посвященные) вам двоим,
Для таких, как вы, оказались недостаточно действенными.
Где же эта слава ваша, о Индра-Варуна,
Что вы приносите друзьям в награду?
अ॒यमु॑ वां पुरु॒तमो॑ रयी॒यञ्छ॑श्वत्त॒ममव॑से जोहवीति । स॒जोषा॑विन्द्रावरुणा म॒रुद्भि॑र्दि॒वा पृ॑थि॒व्या शृ॑णुतं॒ हवं॑ मे ॥
अ॒यम् । ऊँ॒ इति॑ । वा॒म् । पु॒रु॒ऽतमः॑ । र॒यि॒ऽयन् । श॒श्व॒त्ऽत॒मम् । अव॑से । जो॒ह॒वी॒ति॒ । स॒ऽजोषौ॑ । इ॒न्द्रा॒व॒रु॒णा॒ । म॒रुत्ऽभिः॑ । दि॒वा । पृ॒थि॒व्या । शृ॒णु॒त॒म् । हव॑म् । मे॒ ॥
हे इन्द्रावरुणा इन्द्रावरुणौ रयीयन् रयिमात्मन इच्छन् अयमु पुरुतमः वैदिककर्मप्रवृत्ततयातिशयेन पुनर्महानयं यजमानः अवसे रक्षणायान्नाय वा वां युवां शश्वत्तमं सर्वदा जोहवीति भृशमाह्वयति । मरुद्भिः देवविशेषैः दिवा पृथिव्या च सजोषौ संगतौ युवां मे मम हवं युष्मदीयमाह्वानं शृणुतम् ॥ पुरुतमः । तमपो व्यत्ययेनाद्युदात्तत्वम् ॥ जोहवीति । ह्वयतेर्यङ्लुकि ‘ अभ्यस्तस्य च ' इति संप्रसारणे कृते रूपम् । दिवा । ' ऊडिदम्' इति विभक्तेरुदात्तत्वम् । पृथिव्या । ‘ उदात्तयणो हल्पूर्वात् ' इति उदात्तत्वम् । हवम् । ह्वयतेः ‘ भावेऽनुपसर्गस्य ' इति अप् । प्रत्ययस्य पित्त्वादनुदात्तत्वम् ॥
“Most diligent (in pious rites) this (your worshipper), Indra and Varuṇa, desirous of wealth, incessantly invokes, you for protection; associated with the Maruts, with heaven and earth, hear my invocation.”
This man, most diligent, seeking after riches, incessantly invokes you for your favour.
Accordant, Indra-Varuna, with Maruts, with Heaven and Earth, hear ye mine invocation.
This (man) here, latest of many, seeking wealth, keeps calling on you two time after time for help.
Indra and Varuṇa, in concert with the Maruts, with Heaven and with Earth, listen to my call.554 III.62
Es rufet euch, nach Gut verlangend, vielfach der Sänger an um Hülfe stets aufs neue; Vereint den Marut's und mit Erd' und Himmel, o Varuna und Indra, hört mein Rufen.
Diese Sänger fleht euch am häufigsten, Reichtum begehrend, am oftesten um Gunst an. Indra und Varuna, höret einmütig mit den Marut, mit Himmel und Erde meinen Ruf!
Вот этот (певец), первый среди многих, стремящийся к богатству,
Чаще всех громко зовет вас на помощь.
О Индра-Варуна, единодушные с Марутами,
С Небом и Землей, услышьте мой зов!
अ॒स्मे तदि॑न्द्रावरुणा॒ वसु॑ ष्याद॒स्मे र॒यिर्म॑रुत॒: सर्व॑वीरः । अ॒स्मान्वरू॑त्रीः शर॒णैर॑वन्त्व॒स्मान्होत्रा॒ भार॑ती॒ दक्षि॑णाभिः ॥
अ॒स्मे इति॑ । तत् । इ॒न्द्रा॒व॒रु॒णा॒ । वसु॑ । स्या॒त् । अ॒स्मे इति॑ । र॒यिः । म॒रु॒तः॒ । सर्व॑ऽवीरः । अ॒स्मान् । वरू॑त्रीः । श॒र॒णैः । अ॒व॒न्तु॒ । अ॒स्मान् । होत्रा॑ । भार॑ती । दक्षि॑णाभिः ॥
इन्द्रावरुणा' हे इन्द्रावरुणौ अस्मे अस्मासु तत् अभिलषितं तादृशं वसु धनं स्यात् भवतु । हे मरुतः सर्ववीरः सर्वेषुः कर्मसु वीरः समर्थः रयिः पुत्रपौत्रयुक्तः पशुसंघः । ‘ पशवो वै रयिः' इति तैत्तिरीयकम् । सः अस्मे अस्माकं भवतु । वरूत्रीः सर्वैः संभजनीया देवपत्न्यः शरणैः । शृणन्ति शीतादिक्लेशमिति शरणानि गृहाः । तैः अस्मान् अवन्तु । होत्रा । हूयन्तेऽस्यां हवींषीति । यद्वा । हूयते तत्र प्राण इति होत्रा वाक् । तथा च श्रुतिः - ‘ वाचि हि प्राणं जुहुमः प्राणे वा वाचम्' इति । यद्वा । होत्रेति यज्ञनाम । हूयते अत्र हविरिति । यज्ञश्च वागुच्यते । ‘वाचं यच्छन्ति वाग्वै यज्ञः ' ( ऐ. ब्रा. ५. २४ ) इति ब्राह्मणम् । तादृशी भारती सरस्वती दक्षिणाभिः गोरूपाभिर्दक्षिणाभिः यद्वा उदाराभिर्वाग्भिः अस्मान् पालयतु ॥ वसु ष्यात् इत्यत्र संहितायां पूर्वपदात् ' इति षत्वम् । वरूत्रीः । ‘ ग्रसितस्कभित°' इत्यादिना ङीबन्तत्वेन निपातनादिष्टसिद्धिः । होत्रा ।' हु दानादनयोः । हुयामाश्रुभसिभ्यस्त्रन् इत्यधिकरणे त्रन्प्रत्ययः ॥
“May there be to us, Indra and Varuṇa, such wealth (as we covet); may there be, Maruts, to us wealth( of cattle) and numerous descendants; may the delightful (wives of the gods) shelter us with dwellings; may Hotā and Bhāratī (enrich) us with gifts.”
O Indra-Varuna, ours be this treasure ours be wealth, Maruts, with full store of heroes.
.May the Varutris with their shelter aid us, and Bharati and Hotri with the Mornings.
May there be goods for us, o Indra and Varuṇa; wealth in hale heroes for us, o Maruts.
Let the Shielding Goddesses aid us with their shelters; (let) Hotrā Bhāratī (help) us with her priestly gifts.
Dies Gut sei uns, o Varuna und Indra, und Schatz an allen Helden reich, o Marut's, Die Schützerinnen mögen hold uns schützen, Hotra und Bharati, uns Kühe schenkend.
Uns soll das Gut gehören, Indra und Varuna, uns ein Schatz von lauter Söhnen, ihr Marut. Uns sollen die Schützerinnen mit ihrem Schutz den Vorzug geben, uns Hotra, Bharati mit ihren Ehrengaben!
У нас, о Индра-Варуна, пусть будет это добро,
У нас, о Маруты, богатство, состоящее из одних героев!
Нас пусть охранят хранительницы (своими) защитами,
Нас Хотра, Бхарати – почетными дарами!
बृह॑स्पते जु॒षस्व॑ नो ह॒व्यानि॑ विश्वदेव्य । रास्व॒ रत्ना॑नि दा॒शुषे॑ ॥
बृह॑स्पते । जु॒षस्व॑ । नः॒ । ह॒व्यानि॑ । वि॒श्व॒ऽदे॒व्य॒ । रास्व॑ । रत्ना॑नि । दा॒शुषे॑ ॥
विश्वदेव्य सर्वदेवहित हे बृहस्पते नः अस्मत्संबन्धीनि हव्यानि हवनयोग्यानि पुरोडाशादीनि हवींषि जुषस्व सेवस्व । ततस्त्वं दाशुषे हविर्दत्तवते यजमानाय मह्यं रत्नानि उत्तमानि धनानि रास्व देहि ॥ रास्व । ‘रा दाने '। व्यत्ययेनात्मनेपदम् ॥
“Bṛhaspati, friend of all the gods, accept our oblations; grant precious treasures to the offerer.”
Be pleased! with our oblations, thou loved of all Gods, Brhaspati:
Give wealth to him who brings thee gifts.
O Brhaspati, with the All-gods,
Do thou rejoice in our oblations;
Grant riches to the generous giver.
Br̥haspati belonging to the All Gods, enjoy our oblations.
Grant treasures to the pious man.
Nimm, unsre Opfer gnädig an mit allen Göttern, Andachtsherr, Gib Schätze dem Verehrenden.
Brihaspati! Laß dir unsere Opfer gefallen, du Allgöttlicher; schenke dem Opferspender Kleinode!
О Брихаспати, наслаждайся нашими
Жертвенными возлияниями, о всебожеский!
Пожалуй сокровища почитающему (тебя)!
शुचि॑म॒र्कैर्बृह॒स्पति॑मध्व॒रेषु॑ नमस्यत । अना॒म्योज॒ आ च॑के ॥
शुचि॑म् । अ॒र्कैः । बृह॒स्पति॑म् । अ॒ध्व॒रेषु॑ । न॒म॒स्य॒त॒ । अना॑मि । ओजः॑ । आ । च॒के॒ ॥
हे ऋत्विजो यूयम् अध्वरेषु शुचिं शुद्धं बृहस्पतिम् अर्कैः अर्चनीयैः स्तोत्रैः नमस्यत परिचरत । अनामि अनमनशीलं परैरनभिभवनीयम् ओजः तस्य बलम् आ चके सर्वतो याचे ॥ बृहस्पतिम् । वनस्पत्यादित्वादुभयपदप्रकृतिस्वरः । चके । कमेर्लिट्युत्तमे मकारलोपश्छान्दसः ॥ ॥ ९ ॥
10अथ दशमीमाह - हे ऋत्विजः! शुचिं शुद्धं बृहस्पतिमध्वरेषु याजेषु अर्कैरर्चनैस्सह नमस्यत नमस्कुरुत । तस्य बृहस्पतेः प्रसादादहम् अनामि कस्याप्य् अवशं ओजो बलम् आचके सर्वतः प्राप्नवानि ।
“Adore the pure Bṛhaspati at sacrifices with hymns; I solicit of him unsurpassable strength.”
At sacrifices, with your hymns worship the pure Brhaspati-
I pray for power which none may bend-
To blazing Br̥haspati give reverence with recitations at the ceremonies— his unbowed power I desire—
Verehrt den einen Andachtsherrn beim Opferwerk mit Lobgesang, Er liebet ungebeugte Kraft.
Den lauteren Brihaspati verehret bei den Opfern mit Preisliedern! Er liebt unbeugsame Kraft.
Чистому Брихаспати поклоняйтесь
Во время обрядов с помощью хвалебных песен.
Ему нравится несгибаемая сила –
वृ॒ष॒भं च॑र्षणी॒नां वि॒श्वरू॑प॒मदा॑भ्यम् । बृह॒स्पतिं॒ वरे॑ण्यम् ॥
वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् । वि॒श्वऽरू॑पम् । अदा॑भ्यम् । बृह॒स्पति॑म् । वरे॑ण्यम् ॥
चर्षणीनां मनुष्याणां वृषभम् अभिमतफलवर्षकं विश्वरूपं व्याप्तरूपम् । यद्वा । विश्वरूपानामकगोवाहनोपेतम् । तथा च मन्त्रवर्णः -- बृहस्पतिर्विश्वरूपामुपाजत ' ( ऋ. सं. १. १६१. ६ इति । अदाभ्यं केनाप्यतिरस्करणीयं वरेण्यं सर्वैर्भजनीयं बृहस्पतिम् । अभिमतफलं याचे ‘ इति पूर्वेणान्वयः ॥ विश्वरूपम् । ‘ बहुव्रीहौ विश्वं संज्ञायाम् ' इति पूर्वपदान्तोदात्तत्वम् । यद्वा । विश्वरूपास्य अस्तीति अर्शआदित्वात् अच्प्रत्ययः । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । अदाभ्यम् । ‘ दभेश्चेति वक्तव्यम्' इति ण्यत्प्रत्ययः ॥
“The showerer (of benefits) on men, the omniform, the irreproachable, the excellent Bṛhaspati.”
The Bull of men, whom none deceive, the wearer of each shape at will,
Brhaspati Most Excellent.
To the bull of the settled domains, having all forms, undeceivable, Br̥haspati worthy to be chosen.
᳓
Den herrlichen Brihaspati, der allgestaltig, ungetäuscht, Des Männervolks Gebieter ist.
Den Bullen der Völker, den alle Gestalten tragenden, untrügbaren, den begehrenswerten Brihaspati.
Быку народов,
Имеющему много обличий, не терпящему обмана
Брихаспати желанному!
इ॒यं ते॑ पूषन्नाघृणे सुष्टु॒तिर्दे॑व॒ नव्य॑सी । अ॒स्माभि॒स्तुभ्यं॑ शस्यते ॥
इ॒यम् । ते॒ । पू॒ष॒न् । आ॒घृ॒णे॒ । सु॒ऽस्तु॒तिः । दे॒व॒ । नव्य॑सी । अ॒स्माभिः॑ । तुभ्य॑म् । श॒स्य॒ते॒ ॥
आघृणे दीप्तिमन् हे पूषन् देव नव्यसी नवतरा इयं सुष्टुतिः शोभनस्तुतिरूपा वाक् ते त्वत्संबन्धिनी भवति । सैषा स्तुतिः अस्माभिः स्तोतृभिः तुभ्यं त्वदर्थं शस्यते क्रियते । तां जुषस्वेत्युत्तरेणान्वयः ॥
“Divine, resplendent, Pūṣan, this, your most recent laudation, is uttered by us to you.”
Divine, resplendent Pusan, this our newest hymn of eulogy,
By us is chanted forth to thee.
Here is a lovely praise hymn, utterly new, for you, Pūṣan, glowing god. It is recited by us to you.
O Puschan, dir, der strahlt in Glut, wird dieser neue Lobgesang, O Gott, von uns gesungen hier.
Dies neueste Loblied ist für dich, du ... Gott Pusan; für dich wird es von uns aufgesagt.
Это новое прекрасное восхваление
Для тебя, о Пушан, пылающий бог.
Тебе мы произносим (хвалу).
तां जु॑षस्व॒ गिरं॒ मम॑ वाज॒यन्ती॑मवा॒ धिय॑म् । व॒धू॒युरि॑व॒ योष॑णाम् ॥
ताम् । जु॒ष॒स्व॒ । गिर॑म् । मम॑ । वा॒ज॒ऽयन्ती॑म् । अ॒व॒ । धिय॑म् । व॒धू॒युःऽइ॑व । योष॑णाम् ॥
हे पूषन् स्तोत्रं कुर्वाणस्य मम तां तादृशीं गिरं स्तुतिलक्षणां वाचं जुषस्व सेवस्व । स्तुत्या प्रीतस्त्वं वाजयन्तीं वाजमन्नमिच्छन्तीं हर्षकारिणीं धियम् इमां स्तुतिं प्रति अव अभिगच्छ। तत्र दृष्टान्तः । वधूयुरिव । यथा वधूयुः स्त्रीकामः योषणं स्त्रियं प्रत्यागच्छति तद्वत् ॥ वाजयन्तीम् । वाजशब्दादिच्छतीत्यर्थे क्यच् । तदन्ताच्छतरि ङीपि रूपम् । ङीपोऽनुदात्तत्वे प्रत्ययस्वरः । अव । अव रक्षणादिषु इत्यस्य लोटि रूपम् ॥
“Be plural ased by this my praise, and incline to this food-supplicating laudation as an excessively submissive (husband) to his wife.”
Accept with favour this my song, be gracious to the earnest thought,
Even as a bridegroom to his bride.
Enjoy this hymn of mine—help our insight that seeks the prize— like a bride-seeking (man) a maiden.
Nimm gnädig dies mein Loblied an, sei hold dem brünstigen Gebet, So wie der Bräutigam der Braut.
An diesem Loblied von mir finde Gefallen - bevorzuge das Belohnung erwartende Gedicht - wie der Weiberlüsterne an einer jungen Frau!
Наслаждайся этой песней моей –
Помоги поэтической мысли, ищущей награды, –
Словно жаждущий женщин – молодой девицей.
यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति । स न॑: पू॒षावि॒ता भु॑वत् ॥
यः । विश्वा॑ । अ॒भि । वि॒ऽपश्य॑ति । भुव॑ना । सम् । च॒ । पश्य॑ति । सः । नः॒ । पू॒षा । अ॒वि॒ता । भु॒व॒त् ॥
यः पूषा विश्वा भुवना सर्वान् लोकान् अभि आभिमुख्येन विपश्यति विशेषेण पश्यति । किंच तानि सं पश्यति तत्तद्वस्तुयाथात्म्यं सम्यक् जानाति । सः तादृशः पूषा देवः नः अस्माकम् अविता रक्षकः भुवत् भवतु ॥ विपश्यति । यद्वृत्तयोगदनिघातः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । ‘ तिङि चोदात्तवति ' इति गतेर्निघातः । पश्यति । अत्र सकर्मकत्वात् परस्मैपदम् । पूर्ववदनिघातः । भुवत् । भवतेर्लेटि अडागमः । ‘ भूसुवोस्तिङि ' इति गुणप्रतिषेधे उबङादेशः । निघातः ॥
“May that Pūṣan, who looks upon all the worlds, who thoroughly contemplates them, be our protector.”
May he who sees all living things, see, them together at a glancc,-
May lie, may Pusan be our help.
He who looks at all creatures separately and sees them whole, that one, Pūṣan will become our helper.
Der alle Wesen rings beschaut und all' in eins zusammenschaut, Der Puschan mög' uns Helfer sein.
Pusan, der nach allen Wesen asschaut und sie überschaut, er sei unser Gönner.
Кто взирает на все
Существа и озирает их,
Этот Пушан пусть будет нашим покровителем!
तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो न॑: प्रचो॒दया॑त् ॥
तत् । स॒वि॒तुः । वरे॑ण्यम् । भर्गः॑ । दे॒वस्य॑ । धी॒म॒हि॒ । धियः॑ । यः । नः॒ । प्र॒ऽचो॒दया॑त् ॥
यः सविता देवः नः अस्माकं धियः कर्माणि धर्मादिविषया वा बुद्धीः प्रचोदयात् प्रेरयेत्
तत् तस्य देवस्य सवितुः सर्वान्तर्यामितया प्रेरकस्य जगत्स्रष्टुः परमेश्वरस्य वरेण्यं सर्वैः उपास्यतया ज्ञेयतया च संभजनीयं भर्गः अविद्यातत्कार्ययोर्भर्जनाद्भर्गः स्वयंज्योतिः परब्रह्मात्मकं तेजः धीमहि वयं ध्यायामः ।
यद्वा । तत् इति भर्गोविशेषणम् । सवितुः देवस्य तत्तादृशं भर्गो धीमहि। किं तदित्यपेक्षायामाह । यः इति लिङ्गव्यत्ययः। यद्भर्गो धियः प्रचोदयात् । तत् ध्यायेमेति समन्वयः।
यद्वा । यः सविता सूर्यो धियः कर्माणि प्रचोदयात् प्रेरयति तस्य सवितुः सर्वस्य प्रसवितुः देवस्य द्योतमानस्य सूर्यस्य तत्सर्वैः दृश्यमानतया प्रसिद्धं वरेण्यं सर्वैः संभजनीयं भर्गः पापानां तापकं तेजोमण्डलं धीमहि ध्येयतया मनसा धारयेम ।
यद् वा - भर्गः-शब्देनान्नम् अभिधीयते ।
यः सविता देवो धियः प्रचोदयति तस्य प्रसादाद् भर्गो ऽन्नादि-लक्षणं फलं धीमहि धारयामः । तस्याधार-भूता भवेमेत्य् अर्थः । भर्गः-शब्दस्यान्नपरत्वे धी-शब्दस्य कर्मपरत्वे चाथर्वणं - ‘ वेदांश्छन्दांसि सवितुर्वरेण्यं भर्गो देवस्य कवयोऽन्नमाहुः । कर्माणि धियस्तदु ते प्रब्रवीमि प्रचोदयत्सविता याभिरेति' (गो. ब्रा. १. ३२) इति ॥
भर्गः । ‘ भ्रस्ज पाके'। असुन् । ‘ भ्रस्जो रोपधयो रमन्यतरस्याम् ' ( पा. सू. ६. ४. ४७ ) इति रोपधयोर्लोपो रमागमः । न्यङ्वांरसदिपाठात् कुत्वम् ।
धीमहि । ध्यायतेर्लिङि 'बहुलं छन्दसि ' इति 'संप्रसारणम् । व्यत्ययेनात्मनेपदम् ।
यद्वा - ‘धीङ् आधारे' । लिङि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् ।
प्रचोदयात् । चोदयतेर् लेट्याडागमः । यद्-वृत्त-योगाद् अनिघातः । आगमस्यानुदात्तत्वे णिचः स्वरः ॥ ॥ १० ॥
“We meditate on that desirable light of the divine Savitā, who influences our pious rites.”
May we attain that excellent glory of Savitar the God:
So May he stimulate our prayers.
That excellent glory of Savitr
The god we meditate,
That be may stimulate our prayers.
Might we make our own that desirable effulgence of god Savitar, who will rouse forth our insights.
Dass wir des Gottes Savitar begehrtes Licht erlangten doch, Der unsre Bitten fördere.
Dieses vorzügliche Licht des Gottes Savitri empfingen wir, der unsere Gedanken anregen soll.
Мы хотим встретить этот желанный
Блеск бога Савитара,
Который должен поощрять наши поэтические мысли!
दे॒वस्य॑ सवि॒तुर्व॒यं वा॑ज॒यन्त॒: पुरं॑ध्या । भग॑स्य रा॒तिमी॑महे ॥
दे॒वस्य॑ । स॒वि॒तुः । व॒यम् । वा॒ज॒ऽयन्तः॑ । पुर॑म्ऽध्या । भग॑स्य । रा॒तिम् । ई॒म॒हे॒ ॥
वाजयन्तः वाजमन्नमात्मन इच्छन्तः वयं देवस्य द्योतमानस्य सवितुः पुरंध्या तद्विषयस्तुत्या प्रज्ञया वा भगस्य भजनीयस्य धनस्य रातिं दानम् ईमहे याचामहे ॥ रातिम् ।' मन्त्रे वृष° इत्यादिना क्तिन उदात्तत्वम् ॥
“Desirous of food, we solicit with praise of the divine Savitā, the gift of affluence.”
With understanding, earnestly, of Savitar the God we crave
Our portion of prosperity.
Seeking the prize, we beg for the generosity of Bhaga,
along with the plenitude of god Savitar.
Durch Schatz des Gottes Savitar sind wir zum Güterwunsch erregt; Des Spenders Gabe wünschen wir.
Durch die Wunscherfüllung des Gottes Savitri Belohnung erwartend bitten wir um die Gabe des Bhaga.
(Рассчитывая) на воодушевление от бога Савитара,
Мы, стремящиеся к награде,
Молим о даре Бхаги.
दे॒वं नर॑: सवि॒तारं॒ विप्रा॑ य॒ज्ञैः सु॑वृ॒क्तिभि॑: । न॒म॒स्यन्ति॑ धि॒येषि॒ताः ॥
दे॒वम् । नरः॑ । स॒वि॒तार॑म् । विप्राः॑ । य॒ज्ञैः । सु॒वृ॒क्तिऽभिः॑ । न॒म॒स्यन्ति॑ । धि॒या । इ॒षि॒ताः ॥
नरः कर्मणां नेतारः विप्राः मेधाविनोऽध्वर्य्वादयः धियेषिताः कर्मणा बुद्ध्या वा प्रेर्यमाणाः सन्तः सवितारं देवं त्वां यज्ञैः यजनीयैर्हविर्भिः सुवृक्तिभिः शोभनस्तोत्रैश्च नमस्यन्ति परिचरन्ति ॥ नमस्यन्ति । नमोवरिवश्चित्रङः क्यच् ' इति क्यच् ॥
“Devout and wise men, impelled by intelligence, adore the divine Savitā with sacrifices and sacred hymns.”
Men, singers worship Savitar the God with hymn and holy rites,
Urged by the impulse of their thoughts.
To god Savitar do the men, the inspired poets, give reverence with sacrifices and well-twisted hymns,
when impelled by insight.
᳓
Gott Savitar verehren sie mit Opfer und mit Lobgesang, Die Sänger, andachtsvoll erregt.
Die redekundigen Männer verehren den Gott Savitri mit Opfern, mit Lobliedern, von frommen Gedanken getrieben.
Вдохновенные мужи поклоняются
Богу Савитару жертвами, прекрасными гимнами,
(Они,) возбужденные поэтическим видением.
सोमो॑ जिगाति गातु॒विद्दे॒वाना॑मेति निष्कृ॒तम् । ऋ॒तस्य॒ योनि॑मा॒सद॑म् ॥
सोमः॑ । जि॒गा॒ति॒ । गा॒तु॒ऽवित् । दे॒वाना॑म् । ए॒ति॒ । निः॒ऽकृ॒तम् । ऋ॒तस्य॑ । योनि॑म् । आ॒ऽसद॑म् ॥
गातुवित्। गातुः वेदिमार्गः । तं जानानः सोमो जिगाति गच्छति । गन्तव्यं स्थानं दर्शयति । देवानां संबन्धि निष्कृतं संस्कृतम् आसदं सर्वैरासदनीयम् ऋतस्य यज्ञस्य योनिं स्थानं हविर्धानाख्यम् एति प्राप्नोति ॥ जिगाति । • गा स्तुतौ ' । जुहोत्यादिः ॥
“Soma, knowing the right path, proceeds (by it); he goes to the excellent seat of the gods, the plural ce of sacrifice.”
Soma who gives success goes forth, goes to the gathering place of Gods,
To seat him at the seat of Law.
Soma goeth, who knoweth the way;
He approacheth the place of the gods,
To sit on the birthplace of Order .
Soma proceeds, finding the way; he goes to a rendezvous with the gods, to sit in the womb of truth.
Der Soma geht, des Wegs bewusst, zum Ort der Götter dringt er hin, Zu sitzen auf des Opfers Schooss.
Soma kommt seinen Weg findend, er gelangt in die Gesellschaft der Götter, um sich in den Schoß des rechten Brauches zu setzen.
Движется Сома, находя путь.
Он идет на свидание с богами,
Чтобы осесть в лоне закона.
सोमो॑ अ॒स्मभ्यं॑ द्वि॒पदे॒ चतु॑ष्पदे च प॒शवे॑ । अ॒न॒मी॒वा इष॑स्करत् ॥
सोमः॑ । अ॒स्मभ्य॑म् । द्वि॒ऽपदे॑ । चतुः॑ऽपदे । च॒ । प॒शवे॑ । अ॒न॒मी॒वाः । इषः॑ । क॒र॒त् ॥
सोमः स्तोतृभ्यः अस्मभ्यं तथा द्विपदे अस्मदीयाभ्यो द्विपाद्भ्यः प्रजाभ्यः चतुष्पदे पशवे चतुष्पाद्भ्यो गवादिपशुभ्यः च अनमीवाः रोगवर्जितानि इषः अन्नानि करत् करोतु ॥ चतुष्पदे । भसंज्ञायां पादस्य पद्भावः । ‘ इसुसोः सामर्थ्ये ' इति संहितायां सत्वम् ।' आदेशप्रत्यययोः' इति षत्वम् । बहुव्रीहौ पूर्वपदस्वरः । करत् । करोतेर्लेट्यडागमः । इषस्करत् इत्यत्र संहितायां ' कः करत्करति° ' इत्यादिना सत्वम् ॥
“May Soma grant to us and to (our) biped and quadruped animals, wholesome food.”
To us and to our cattle may Soma give salutary food,
To biped and to quadruped.
Soma—for us, for the two-footed, and for the four-footed livestock, he will make refreshments that bring no disease.
Gesunde Tränke schaff er uns, für Mensch und Vieh, für alles, was Auf zweien und auf vieren geht.
Soma soll uns, dem zweifüßigen und dem vierfüßigen Vieh gute Speisen schaffen, die keine Krankheit bringen.
Пусть Сома для нас, для (наших) двуногих
И для четвероногого скота
Создаст кушанья, не влекущие за собой болезней!
अ॒स्माक॒मायु॑र्व॒र्धय॑न्न॒भिमा॑ती॒: सह॑मानः । सोम॑: स॒धस्थ॒मास॑दत् ॥
अ॒स्माक॑म् । आयुः॑ । व॒र्धय॑न् । अ॒भिऽमा॑तीः । सह॑मानः । सोमः॑ । स॒धऽस्थ॑म् । आ । अ॒स॒द॒त् ॥
सः सोमः देवः अस्माकमायुः अन्नं जीवनं वा वर्धयन् वृद्धिं प्रापयन् अभिमातीः कर्मविघ्नकारिणः शत्रून् सहमानः अभिभवन्नस्माकं सधस्थं हविर्धानाख्यं स्थानम् आसदत् आसीदतु ॥ असदत् । सदेर्लेटि रूपम् । निघातः ॥
“May Soma, prolonging our lives and overcoming our adversaries, sit down in our plural ce of sacrifice.”
May Soma, strengthening our power of life, and conquering our foes,
In our assembly take his seat.
Increasing our lifetime, overcoming hostilities,
Soma has sat on the seat.
Vermehrend unsre Lebenskraft, bewältigend die Gegner, nimmt Der Soma Platz auf seinem Sitz.
Unsere Lebenszeit verlängernd, die Nachsteller überwindend, hat sich Soma an seinen Platz gesetzt.
Продлевая срок нашей жизни,
Одолевая злоумышленников,
Сома уселся на (свое) место.
आ नो॑ मित्रावरुणा घृ॒तैर्गव्यू॑तिमुक्षतम् । मध्वा॒ रजां॑सि सुक्रतू ॥
आ । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । घृ॒तैः । गव्यू॑तिम् । उ॒क्ष॒त॒म् । मध्वा॑ । रजां॑सि । सु॒क्र॒तू॒ इति॑ सुऽक्रतू ॥
सुक्रतू शोभनकर्माणौ हे मित्रावरुणौ नः अस्माकं गव्यूतिं गवां मार्गं गोनिवासस्थानं घृतैः क्षरणसाधनैः पयोभिः आ उक्षतं समन्तात् सिञ्चतम् । अस्मभ्यं दोग्ध्रीर्गाः प्रयच्छतमिति भावः। रजांसि अस्मदावासस्थानानि मध्वा मधुरेण रसेन सिञ्चतम् ॥ गव्यूतिम् । गोर्यूतौ छन्दसि ' इति वान्तादेशः । मध्वा । सर्वविधीनां छन्दसि विकल्पितत्वादत्र नुमागमाभावः ॥
“Mitra and Varuṇa, sprinkle our cow-stalls with butter; performers of good works, (sprinkle) the worlds with honey.”
May Mitra-Varuna, sapient Pair, bedew our pasturage with oil,
With meatb the regions of the air.
O Mitra and Varuna,
Bedew our pasturage with ghee
With mead the regions, O ye wise ones.
Mitra and Varuṇa, sprinkle our pastureland with ghee,
the realms with honey, you of good resolve.
Benetzt, o Mitra-Varuna, mit Butter unsern Weideplatz, Mit Meth die Räume, Treffliche.
Mitra und Varuna! Besprengt unseren Weidegang mit Schmalz, mit Honig die Landstriche, ihr Wohlbedachten!
О Митра-Варуна, окропите
Потоками жира наше пастбище,
Медом – просторы, о обладатели прекрасной силы духа!
उ॒रु॒शंसा॑ नमो॒वृधा॑ म॒ह्ना दक्ष॑स्य राजथः । द्राघि॑ष्ठाभिः शुचिव्रता ॥
उ॒रु॒ऽशंसा॑ । न॒मः॒ऽवृधा॑ । म॒ह्ना । दक्ष॑स्य । रा॒ज॒थः॒ । द्राघि॑ष्ठाभिः । शु॒चि॒ऽव्र॒ता॒ ॥
शुचिव्रता परिशुद्धकर्माणौ हे मित्रावरुणौ उरुशंसा उरुभिर्बहुभिः शंसनीयौ । यद्वा । उरु महत् शंसः शस्त्रं ययोस्तौ । नमोवृधा नमसा हविर्लक्षणेनान्नेन स्तोत्रेण वा वर्धमानौ द्राघिष्ठाभिः अत्यन्तं दीर्घस्तुतिलक्षणाभिर्वाग्भिर्युक्तौ युवां दक्षस्य । दक्षं धनं बलं वा । तस्य मह्ना महत्त्वेन राजथः ईशाथे ॥ उरुशंसा । ' शंसु स्तुतौ ' । कर्मणि घञ् । कृत्स्वरः । द्राघिष्ठाभिः । दीर्घशब्दादिष्ठनि ‘ प्रियस्थिर 'इत्यादिना द्राघीत्यादेशः । नित्त्वादाद्युदात्तः ॥
“Performers of pure rites, glorified by many, exalted by adoration, (celebrated) by prolonged praises, you reign by the greatness of (your) strength.”
Far-ruling, joyful when adored, ye reign through majesty of might,
With pure laws everlastingly.
Widely proclaimed, increasing through reverence, you rule by the greatness of your skill
through the longest (spaces? times?), you of blazing commandments.
Weitherrschend, durch Gebet erfreut, gebietet ihr mit grosser Macht Auf ew'ge Zeit, o Heilige.
Mit dem Wort weithin dringend, reich an Huldigungen herrschet ihr kraft eures Verstandes am längsten, lauteren Waltens.
Широко прославляемые, крепнущие от поклонения,
Вы двое правите с величием силы действия
Дольше всех, о обладатели чистой власти.
गृ॒णा॒ना ज॒मद॑ग्निना॒ योना॑वृ॒तस्य॑ सीदतम् । पा॒तं सोम॑मृतावृधा ॥
गृ॒णा॒ना । ज॒मत्ऽअ॑ग्निना । योनौ॑ । ऋ॒तस्य॑ । सी॒द॒त॒म् । पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ॥
हे मित्रावरुणौ जमदग्निना एतन्नामकेन महर्षिणा गृणाना स्तूयमानौ । यद्वा । जमदग्निना प्रज्वलिताग्निना विश्वामित्रेण स्तूयमानौ युवाम् ऋतस्य यज्ञस्य योनौ देवयजनाख्ये देशे सीदतम् उपविशतम् । ऋतावृधा ऋतस्य कर्मफलस्य वर्धयितारौ युवां सोमं पातं पिबतम् ॥ गृणाना । ‘गॄ शब्दे'। व्यत्ययेन कर्मणि शानच् । चित्त्वादन्तोदात्तः । सीदतम् । सदेर्लोटि • पाघ्रा° ' इत्यादिना सीदादेशः । पातम् । ‘पा पाने'। बहुलं छन्दसि ' इति शपो लुक् ॥ ॥ ११ ॥
“Glorified by Jamadagni, sit down in the plural ce of sacrifice (the altar); drink, augmenters (of the reward) of sacrifice, the Soma libation.”
Lauded by Jamadagni's song, sit in the place of holy Law:
Drink Soma, ye who strengthen Law.
Being hymned by Jamadagni, sit in the womb of truth.
Drink the soma, you two increasing through truth.
Von Dschamadagni hochgelobt nehmt Platz ihr auf des Opfers Schooss, Den Soma trinkt des Werkes froh.
Von Jamadagni gepriesen setzet euch in den Schoß des rechten Brauches, trinket Soma, ihr Wahrheitsmehrer!
Воспеваемые Джамадагни,
Садитесь в лоно закона!
Пейте сому вдвоем, о укрепляющие закон!