प्र य आ॒रुः शि॑तिपृ॒ष्ठस्य॑ धा॒सेरा मा॒तरा॑ विविशुः स॒प्त वाणी॑: । प॒रि॒क्षिता॑ पि॒तरा॒ सं च॑रेते॒ प्र स॑र्स्राते दी॒र्घमायु॑: प्र॒यक्षे॑ ॥
प्र । ये । आ॒रुः । शि॒ति॒ऽपृ॒ष्ठस्य॑ । धा॒सेः । आ । मा॒तरा॑ । वि॒वि॒शुः॒ । स॒प्त । वाणीः॑ । प॒रि॒ऽक्षिताः॑ । पि॒तरा॑ । सम् । च॒रे॒ते॒ । प्र । स॒र्स्रा॒ते॒ इति॑ । दी॒र्घम् । आयुः॑ । प्र॒ऽयक्षे॑ ॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे । यन्नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ शितिपृष्ठस्य नीलपृष्ठस्य धासेः सर्वस्य धारयितुरग्नेः ये रश्मयः प्र आरुः प्रकर्षेणोद्गच्छन्ति ते रश्मयः मातरा मातरौ द्यावापृथिव्यौ आ विविशुः सर्वतः प्रविष्टाः । सप्त सर्पणस्वभावाः वाणीः वननीया निदिश्चाविविशुः । परिक्षिता परितो वर्तमाने पितरा पितरौ द्यावापृथिव्यौ तेनाग्निना सं चरेते सम्यक् व्यवहरतः । तथा प्रयक्षे प्रकर्षेण युष्टुं दीर्घमायुः अग्नेश्चिरं जीवनं प्रभूतमन्नं वा प्र सर्स्राते प्रसारयतः । सम्पादयत इत्यर्थः । यद्वा द्यावापृथिव्यौ प्रयक्षे प्रकर्षेण सततं युष्टुं यजमानस्य दीर्घमायुः सम्पादयतः ॥ प्र । निपातत्वेनाद्युदात्तः । तस्य छन्दसि ‘व्यवहिताश्च” इति आरुरित्यनेन सम्बन्धः । आरुः । ‘ऋ गतौ’ । लिट्युसि रूपम् । यद्वृत्तयोगादनिघातः । प्रत्ययस्वरः । शितिपृष्ठस्य । पृष्ठशब्दस्थकूप्रत्ययान्तोऽन्तोदात्तः । ‘शितेर्नित्याबह्वज्बहुव्रीहावभसत्’ (पा. सू. ६.३.१३८) इत्युत्तरपदप्रकृतिस्वरत्वम् । धासेः । ‘डुधाञ् धारणपोषणयोः” । ‘धेट् पाने’ वा । तस्मात् कर्तर्यौणादिकः सिः । प्रत्ययस्वरः । मातरा । ‘नप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृमातृपितृजामातृदुहितृ’ ९उ.सू.३.१५३) इति तृजन्तत्वेन निपातनादन्तोदात्तः । ‘ऋतो डिं’ ९पा. सू. ७.३.११०) इति गुणः । ‘सुपां सुलुक्’ इति सुपो डादेशः । विविशुः । ‘विश प्रवेशने’ । लिटि ‘असंयोगाल्लिट्कित्’ इति किद्वद्भावाद्गुणाभावः । निधातः । सप्त । ‘सृप्लृ गतौ’ । ‘सप्तशूभ्यां तद् च ९उ.सू.१.१५५) इति सपेर्विधियमानः कनिन् तुडागमश्च बाहुलकादेतस्यापि भवति । ॠकारस्याकारश्च । नित्त्वेऽपि व्यत्ययेनान्तोदात्तत्वम् । परिक्षिता । ‘क्षि निवासगत्योः’ । ‘किप् च’ इति किप् । पित्त्वात तुगागमः । प्रादिसमासः । कृदुत्तरपदप्रकृतिस्वरत्वम् । ‘सुपां सुलुक्’ इति सुपो डादेशः । चेरेते । ‘चर गतिभक्षणयोः’ । सम्पूर्वाच्चरतेः ‘समस्तृतीयायुक्तात्’ (पा.सू.१.३.५४) इत्यात्मनेपदम् । निधातः । सर्स्राते । ‘सृगतौ’ । अयमन्तर्भावितण्यर्थः । रेफ्ल्श्छान्दसः । ‘ईदूदेत् ’ इतिप्रगृह्यसञ्ञा । निधातः । आयुः । इण् गतौ । उसिन्नित्यनुवृत्तौ एतेणिच्चेत्युसिन् णित्त्वाद्वृद्धिः । नित्वादाद्युदात्तः प्रयक्षे यज देवपूजासङ्गतिकरणदानेष्वित्यस्मात्तुमर्र्थे सेन्प्रत्ययः । प्रदिसमासः । कृदुत्तरपदप्रकृतिस्वरत्वम् । कृन्मेजन्त इत्यव्ययसञ्ज्ञायां अप्ययादाप्सुप इति सुपो लुक् ॥
“The (rays) of the blackbacked, all-sustaining (Agni) have arisen, and pervaded the parents (earth and heaven) and the flowing rivers; the surrounding parents co-operate with him, and bestow long life for the sake of assiduous worship.”
THE seven tones risen from the whitebacked viand have made their way between the pair of Mothers.
Both circumjacent Parents come together to yield us length of days they hasten forward.
They who have risen out of the drink of the white-backed one, have entered the two parents, the seven sounds. The (all-)encompassing parents come together; they go forth to aspire after long life 1.
Those (flames) that have gone forth from the wellspring of white-backed (Agni) have entered his mother and father and the seven voices.
The encircling father and mother [=Heaven and Earth] travel in tandem; the two stretch far and wide to display their long lifetime.
Die sieben rauschenden Stimmen des mit weissem Kücken versehenen Trankes [des mit Milch übergossenen Somatrankes], welche vorwärts drangen, gingen ein in die beiden Aeltern [Himmel und Erde, die den Somatrank durch Agni empfangen]; die beiden rings sich ausdehnenden Aeltern kommen zusammen [dadurch, dass Agni sie durch seine Flamme vereinigt und herbeifährt], sie schreiten vor, um langes Leben zu spenden.
Die Strahlen, die vom Sitze des Weißrückigen ausgegangen sind, sind in die beiden Eltern eingezogen, zu den sieben Stimmen gedrungen. Die umgebenden Eltern treffen sich; sie dehnen ihr Leben wunderbar lang aus.
(Те лучи,) что вышли из источника (Агни) белоспинного,
Вошли в двоих родителей, в семь голосов.
Сходятся двое родителей, окружающих (все существа).
Они мощно рвутся вперед, чтобы продлить срок жизни.
दि॒वक्ष॑सो धे॒नवो॒ वृष्णो॒ अश्वा॑ दे॒वीरा त॑स्थौ॒ मधु॑म॒द्वह॑न्तीः । ऋ॒तस्य॑ त्वा॒ सद॑सि क्षेम॒यन्तं॒ पर्येका॑ चरति वर्त॒निं गौः ॥
दि॒वक्ष॑सः । धे॒नवः॑ । वृष्णः॑ । अश्वाः॑ । दे॒वीः । आ । त॒स्थौ॒ । मधु॑ऽमत् । वह॑न्तीः । ऋ॒तस्य॑ । त्वा॒ । सद॑सि । क्षे॒म॒ऽयन्त॑म् । परि॑ । एका॑ । च॒र॒ति॒ । व॒र्त॒निम् । गौः ॥
वृष्णः कामानां वर्षितुरग्नेरश्वा वाहनरूपा रोहिता दिवक्षसो दिवं व्यापरिवर्तमाना धेनवोऽग्नेः प्रीणयित्र्यो भवन्ति । सोऽयमग्निर्मधुमत् माधुर्योपेतमुदकं वहन्तीर्देविर्द्योतनशीला नदीरातस्थौ । आतिष्ठति । प्राप्नोतीत्यर्थः । गोशब्दो माध्यमिकवाग्वाचे माध्यमिकां वाचमिति नैरुक्ता इत्यभिधानात् । एका गौः काचिदुक्तविधा वाक् ऋतस्योदकस्य सदसि स्थानेऽन्तरिक्षे क्षेमयन्तं क्षेममावासमिच्छन्तं वर्तनिं ज्वलाः प्रवर्तयन्तं त्वा हे अग्ने त्वां परिचरति । सेवते ॥ दिवक्षसः । अक्षू व्याप्तौ । दिवं व्याप्न्य्वन्तीति दिवक्षसः । वक्ष शोषे । रोषार्थोऽप्ययं धातुरत्र व्याप्तौ वर्तते । दिवं वक्षन्ति व्याप्नुवन्तीति । असुन्नित्यसुन् प्रत्ययः । लोपो व्योर्वलीति वलोपः । कृदुत्तरपदप्रकृतिस्वरत्वम् । धेनवः । नुरित्यनुवृत्तौ धेट इच्चेति अनुप्रत्ययः । इकारस्य गुणः । प्रत्ययस्वरः । वृष्णः । वृषसेचने । कनिन्युवृषितक्षिराजीत्यादिना कनिन् । कित्त्वद्गुणाभावः । नित्त्वादाद्युदात्तः । अश्वाः । अशू व्याप्तौ । अशिप्रषिलटिकणीत्यादिना क्वन् । नित्त्वादाद्युदात्तः । तस्थौ । ष्ठा गतिनिवृत्तौ । छन्दसि लुङ्ल ङ्लिट इति वर्तमाने लित् । अत औ णल इत्यौकारः । निघातः । मधुमत् । निदित्यनुवृत्तौ फलिपाटिनमिमनिजनामित्यादिना मनेरुप्रत्ययः । तत्सन्नियोगेन नकारस्य धकारः नित्त्वादाद्युदात्तः । त्वा । यष्छच्छब्दस्य द्वितीयैक वचनान्तस्य त्वामाविति त्वादेशः । अनुदात्तश्च । क्षेमयन्तम् । क्षि निवासगत्योः । अर्तिस्तुसुहुसृधृक्षीत्यादिना मन् । क्षेममावासमात्मन इच्छन्तम् । सुप आत्मनः क्यजिति कृच् । क्यचि जेतीत्वं अकृत्सार्वधातुकयोर्दीर्घ इति दीर्घत्वं च न छन्दस्य पुत्रस्येति प्रतिषिध्यते । क्यचश्चित्त्वादन्तोदात्तः । तदन्ताच्छतृप्रत्ययः । तप् । तपः पित्त्वादनुदात्तत्वं शतुश्च सार्वधातुकस्वरेण । तयोः क्यचा सहैकादेशे कृते ऎकादेश उदात्तेनोदात्त इत्येकादेश उदात्तः । अम् । सुप्त्वादनुदात्तः । उदात्तादनुदात्तस्येत्यमः स्वरितत्वम् । एका । इण् गतौ । इण्छीकापेत्यादिना कन् । तदन्तादाप् । नित्स्वरः । वर्तनिम् । वृतु वर्तने । अन्तर्भावितण्यर्थः । वृतेश्च (उ २-१०७) इत्यनिः गुणः । व्यत्ययेनान्तोदात्तत्वम् । गौः । ग्म्लृगतौ गमेर्डोः (उ २-६७) इति डो प्रत्ययः । डित्त्वाट्टिलोपः । गोतो णिदिति सुपोणित्त्वाद्वृद्धिः । प्रत्ययस्वरः ॥ २ ॥
“The sky-traversing steeds of the showerer (of benefits) are the kine (of Agni); as he attains the divine (rivers), bearers of sweet (water). One sacred soudn glorifies you (Agni), who are desirous of repose, pacifying your flames) in the abode of the water (the firmament).”
The Male who dwells in heaven hath Mares and Milchkine: he came to Goddesses who bring sweet treasure.
To thee safe resting in the seat of Order the Cow alone upon her way proceedeth.
The milch-cows dwelling in heaven 1 are the mares of the manly one. He has bestridden the goddesses who carry the sweet (food) 2. Thee who livest in peace in the abode of Rita, the one cow 3 circumambulates, making her way.
The mares [=the flames?] of the bull, the ruler of heaven [=the sun], are milk-cows; he took his place upon these goddesses, who convey that filled with honey.
The single cow travels her course around you, who dwell peacefully in the seat of truth.
Im Himmel haben ihre Heimat die milchreichen Stuten [die Somaströme] des Hengstes [Agni], sie, die göttlichen, welche den süssen Trank mit sich führen, bestieg er ; um dich [Agni], der du rastest im Sitze des Heiligthumes, geht ihren Gang die eine Kuh [der mit Schmelzbutter versehene Ijöftel, mit dem der Priester das Feuer umwandelt].
Des im Himmel wohnenden Stieres Stuten sind die Milchkühe; er hat die göttlichen bestiegen, die das Süße mit sich führen. Um dich, der am Sitz des rechten Brauches weilt, wandelt die eine Kuh ihre Bahn.
У живущего на небе быка (есть) дойные коровы, кобылицы.
Он покрыл их, божественных, везущих сладость.
Вокруг тебя, живущего в сидении закона,
Бродит одна корова по (своему) пути.
आ सी॑मरोहत्सु॒यमा॒ भव॑न्ती॒: पति॑श्चिकि॒त्वान्र॑यि॒विद्र॑यी॒णाम् । प्र नील॑पृष्ठो अत॒सस्य॑ धा॒सेस्ता अ॑वासयत्पुरु॒धप्र॑तीकः ॥
आ । सी॒म् । अ॒रो॒ह॒त् । सु॒ऽयमाः॑ । भव॑न्तीः । पतिः॑ । चि॒कि॒त्वान् । र॒यि॒ऽवित् । र॒यी॒णाम् । प्र । नील॑ऽपृष्ठः । अ॒त॒सस्य॑ । धा॒सेः । ताः । अ॒वा॒स॒य॒त् । पु॒रु॒धऽप्र॑तीकः ॥
रयीणां रयिवित् धानानां मध्ये विशिष्ट धनस्य सम्भयिता चिकित्वान् ज्ञानवान् पतिरश्वानां पतिरग्निः सीं सर्वतः सुयमाण् सुखेन नियन्तुं शक्या भवन्तीर्यावडवा आरोहत् आरोहयति स्म नीलपृष्ठः पुरुधप्रतीको बहुधाविक्षिप्ताङ्गः सोऽग्निरतसस्य सततगमनस्य धासेः पोषणार्थं ता अश्वाः प्रावासयत् । प्रकर्षेण वासयति स्म । निवासेन शरमेऽपनीते सततगमनं पोषयितुं शक्यमित्यर्थः ॥ सीम् । जादयोऽनुदात्ता इत्यनुदात्तः । आरोहत् रुह प्रादुर्भावे । लङ् रूपम् । निघातः सुयमाः । यम उपरमे । अस्माच्छक्यार्थ ईषद्दुसुष्विति खल् । कृदुत्तरपदप्रकृतिस्वरत्वम् । पति । पा रक्षणे । पातेर्डतिरिति डित्त्वाट्टिलोपः प्रत्ययस्वरः । चिकित्वान् । चिति सञ्ज्ञाने । क्वसौ रूपम् । रयिवित् । विद्लृलाभे क्विप् । रयीणां नामन्यतरस्यामिति विभक्तेरुदात्तत्वम् । नीलपृष्ठः । नीलशब्दो वृषादित्वादाद्युदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अतसस्य । अत सातत्यगमन इत्यस्मादत्यविचमितमिनमिरभिलभिनभितपिपतिपनिपणिमहिभ्यः । उ-११२ । इत्यसच् । चित्स्वरः । अवासयत् । वस निवासे । हेतुमतीति णिच् । लुङ् लृङ् क्ष्वडित्यडागमः । तिङ्ग तिङ इति निघतः । पुरुधप्रतीकः । पुशब्द इह सङ्ख्यावाची । सङ्ख्याया विधार्थे धेति धाप्रत्ययः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ह्रस्वश्छान्दसः ॥ ३ ॥
“Their lord has mounted on his well-trained mares the sagacious selector of treasures, the blackbacked, many-limbed (Agni) has granted them a plural ce of rest for the cherishing of (their) rapid speed.”
Wise Master, wealthy finder-out of riches, he mounted those who may with case be guided.
He, dark-backed, manifold with varied aspect, hath made them burst forth from their food the brush-wood.
He has mounted the (mares) 1 that became well-manageable, the wise lord, the finder of riches. He with the dark blue back, with many faces, has made them depart from the drink of the brush-wood 2.
He mounted upon them that become easy to guide as their watchful lord and as the wealth-finder of wealth.
The blue-backed (Agni), whose faces are manyfold, made them dwell apart from the wellspring of the brushwood.
Es bestieg sie [die Somaströme], die leicht zu lenken waren, der weise Herr der Schätze schatzbesitzend, von der Stätte des Buschwerks fern liess er sie weilen [d. h. (wenn die -Lesart richtig ist) er liess die Somaströme fern von der Stätte, wo die Holz- stösse aufgerichtet sind, zu den Göttern dringen], er, der viel- gestaltige, dessen Kücken schwarz ist [vom Rauche].
Er bestieg sie, die leicht zu lenken sind, der kundige Herr Gemahl, der Finder der Reichtümer. Der Dunkelrückige trieb sie aus dem Sitze des dürren Holzes fort, der vielerlei Gesichter hat.
Он взобрался на них, оказавшихся податливыми,
Умелый муж, находящий богатство среди богатств.
Черноспинный (Агни) отправил их подальше
От места сухостоя, (он,) многоликий.
महि॑ त्वा॒ष्ट्रमू॒र्जय॑न्तीरजु॒र्यं स्त॑भू॒यमा॑नं व॒हतो॑ वहन्ति । व्यङ्गे॑भिर्दिद्युता॒नः स॒धस्थ॒ एका॑मिव॒ रोद॑सी॒ आ वि॑वेश ॥
महि॑ । त्वा॒ष्ट्रम् । ऊ॒र्जय॑न्तीः । अ॒जु॒र्यम् । स्त॒भु॒ऽयमा॑नम् । व॒हतः॑ । व॒ह॒न्ति॒ । वि । अङ्गे॑भिः । दि॒द्यु॒ता॒नः । स॒धऽस्थे॑ । एका॑म्ऽइव । रोद॑सी॒ इति॑ । आ । वि॒वे॒श॒ ॥
उर्जयन्तीरबलं बलिनं कुर्वन्त्यो वहतो वहनपरा नद्यो महि महान्तम् त्वाष्ठ्रं त्वष्ट्रुः सुतमजुर्यं जरयितुमनर्हं स्तभूयमानं लोकानां स्तम्भनं धारणमिच्छन्तमग्निं वहन्ति । धारयन्ति । सधस्थेऽपां समीपेंऽगेभिरवयवैर्दिद्युतानो दीप्यमानः सन् अग्नी रोदसी द्यावा पृथिव्यौ व्याविवेश । विविधं प्रविष्टवान् । रोदस्योर्दृष्टान्तः । एकामिव । यथा पुमानेकां स्त्रियं प्रविशति । तद्वत् ॥ त्वाष्ट्रम् । त्वष्टुरपत्यमित्यर्थे तस्यापत्यमित्यण् । प्रत्ययस्वरः । स्तभूयमानम् । स्तुभु स्तम्भनम् । तदिच्छन्तम् । सुप आत्मनः क्यच् । अकृत्सार्वधातुकयोरिति दीर्घः । तदन्ताद्व्यत्ययेन शानच् । अकारान्तत्वादाने मुक् । शानचोलसार्वधातुकस्वरेणातुदात्तत्वे कृते क्यजन्ताद्धातुस्वरः शिष्यते । अङ्गेभिः । बहुलं चन्दसीति भिस ऐसादेशाभावः । बहुवचने झल्येदित्येत्वम् । दिद्युशानः । द्युत दीप्तौ । छन्दसि लिट् । तस्य कानजादेश । द्विर्वचनं हलादिशेषे कृते द्यु इत्यसाभ्यासस्य द्युतिस्य्व्व्प्योः सम्प्रसारनम् । पा. ७-४-६७ । इति सम्प्रसारणम् । सम्प्रसारणाच्चेति पूर्वरूपत्वम् । चित्त्वादन्तोदात्तत्वम् । एकामिव । इवेन विभक्त्यलोपः पुर्व पदप्रकृति स्वरत्वं चेति वचनात्पूर्वपदप्रकृतिस्वरः । विवेश विश प्रवेशन इत्यस्माल्लिटि रूपम् । निघातः ॥ ४ ॥
“The flowing (rivers) invigorating him, bear along the great son of Tvaṣṭā, the undecaying upholder (of the world), radiant with various forms in the vicinity (of the firmament); Agni is associated with heaven and earth, as (a husband with) one only wife.”
Strength-giving streams bear hither him eternal, fain to support the mighty work. of Tvastar.
He, flashing in his home with all his members, hath entered both the worlds as they were single.
Giving mighty vigour to the never-ageing son of Tvashtri 1, the streams 2 carry Him the firmly fixed one. Flashing in his abode with his limbs he has entered upon the two worlds as if they were one.
Nourishing the unaging son of Tvaṣṭar greatly, the carriers [=fingers of the priests?] carry him [=the newborn fire], who stands fast.
Flaring out with his limbs in his abode, he entered the two world-halves as if they were one woman.
Die Ströme [hierwol die Feuer- oder Luftströme] mächtig stärkend den himmlischen Spross des Tvaschtar, fahren den feststehenden [zum Himmel auf]; er, der mit seinen Gliedern [den Flammen] leuchtet auf seiner Stätte, geht ein in die beiden Wel- ten wie in eine [indem er sie durch seine feurige Bahn vereinigt].
Die Flüsse führen den alterlosen Sohn des Tvastri mit sich, ihn mächtig stärkend, den sich festhaltenden. An seinem Sitze mit den Gliedern ausstrahlend, ging er in beide Welten ein, als wären sie eine einzige Gattin.
Мощно укрепляя нестареющего сына Тваштара
Реки везут его, упирающегося.
Ярко сверкая членами на общем сиденье,
Он вошел к двум половинам вселенной, как (муж) к единственной (жене).
जा॒नन्ति॒ वृष्णो॑ अरु॒षस्य॒ शेव॑मु॒त ब्र॒ध्नस्य॒ शास॑ने रणन्ति । दि॒वो॒रुच॑: सु॒रुचो॒ रोच॑माना॒ इळा॒ येषां॒ गण्या॒ माहि॑ना॒ गीः ॥
जा॒नन्ति॑ । वृष्णः॑ । अ॒रु॒षस्य॑ । शेव॑म् । उ॒त । ब्र॒ध्नस्य॑ । शास॑ने । र॒ण॒न्ति॒ । दि॒वः॒ऽरुचः॑ । सु॒ऽरुचः॑ । रोच॑मानाः । इळा॑ । येषा॑म् । गण्या॑ । माहि॑ना । गीः ॥
वृष्णः कामानां वर्षितुरुरुषस्य रुषा हिंसकाः । तद्रहितस्य । शत्रुराहित्येन रोचमानस्येत्यर्थः । तथाविधस्याग्नेः शेवमाश्रयविषयं सुखं जना जानन्ति । उत अपि च जानन्तस्ते ब्रध्नस्य महतोग्नेः शासन आज्ञायां सर्वे जना रणन्ति । रमन्ते । तथा च मन्त्रः । म १-६०-२ । अस्य शासुरुभयासः सचन्ते हविष्मन्त तीळा गीः स्तुतिरूपा वाक् गण्या गणनीया पूज्या ते दिवोरुचो द्युलोकस्य रोचकाः सुरुचः शोभनदीप्ययो रोचमाना देदीप्यमाना भवन्ति ॥ जानन्ति । ज्ञा अवरोधने । क्र्यादित्वात्तस्य ज्ञा जनोर्जेति जादेशः । प्रत्ययस्वरः । आरुषस्य । रुष रिष हिंसार्थाः । रोशन्तीति रुशा हिंसकाः । इगुपधज्ञेति कः । न सन्ति रुषा यस्यासावरुषः । नञ् सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । शेवम् । शीङ् स्वप्ने । इण् शीङ्भ्यां वन्निति वन् नित्स्वरः । शासने शासु अनुशिष्टौ । अस्माद्भावे स्युट् । लिटीति प्रत्ययात्पूर्वस्योदात्तत्त्वं रणन्ति । निघातः । दिवोरुचः । रुच दीप्तौ । अस्मात्क्विप् । तत्पुरुषे कृति बहुलमिति षष्ठ्या आलुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । सुरुचः । बहुव्रीहौ न ञ् सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । इळा । ईळ स्तुतौ । ह्रस्वश्छान्दसः । यथा वाक्यब्दष्ट्वाबन्तस्तद्वत् । पित्त्वदनुदात्तत्वे धातुस्वरह् । गण्या । गणसङ्ख्याने । स्वार्थे ण्यन्तादचोयत् । यतोऽनाव इत्याद्युदात्तत्वम् । महिना । मनेरिनण् चेति इनण् । णित्त्वादुपधावृद्धिः । व्यत्ययेनाद्युदात्तः । गीः । गॄ शब्दे । अस्मात्क्विप् । ॠत इद्धातोरितीत्वम् । र्वोरुपधाया इति दीर्घः । प्रातिपदिक स्वरः ॥ ५ ॥
“Men comprehend the service of the uninjurable showerer (of benefits), and exult in the commands of the mighty (Agni); their frequent and earnest hymns of praise, bright and radiant, are illuminating heaven.”
They know the red Bull's blessing, and are joyful under the flaming-coloured Lord's dominion:
They who give shine from heaven with fair effulgence, whose lofty song like Ila must be honoured.
They know friendship towards the manly, the red one, and they delight in the command of ruddy (Agni), (the gods) shining from heaven, resplendent with bright shine, to whose host Ilâ belongs, the mighty praise.
They [=the seers?] know the benevolence of the flame-red bull, and they find joy in the command of the copper-colored one—
they, the shining ones, shining from heaven and brightly shining, to whose flock belong the milk-libation and the great song.
Sie [die Götter] wissen, was dem rothen Stiere lieb ist, und haben gern die Aufforderung des fcucrfarbenen, sie, die vom Himmel her strahlen, schön leuchtend, glänzend, sie, deren Lust das in Scharen [Verszeilen] einherschreitende erhabene Lied ist.
Sie kennen den teuren Namen des rötlichen Bullen und sie freuen sich über die Herrschaft des Bradhna, des vom Himmel leuchtenden, die Erleuchteten, Erstrahlenden, zu deren Gefolge die Ila und die gewaltige Rede gehört.
(Боги) знают благоприятную (природу) самого быка,
И они радуются власти желто-красного,
(Они) с небесным блеском, с прекрасным блеском, блистающие,
(Они,) чьей свите принадлежит Ида (и) могучая речь.
उ॒तो पि॒तृभ्यां॑ प्र॒विदानु॒ घोषं॑ म॒हो म॒हद्भ्या॑मनयन्त शू॒षम् । उ॒क्षा ह॒ यत्र॒ परि॒ धान॑म॒क्तोरनु॒ स्वं धाम॑ जरि॒तुर्व॒वक्ष॑ ॥
उ॒तो इति॑ । पि॒तृऽभ्या॑म् । प्र॒ऽविदा॑ । अनु॑ । घोष॑म् । म॒हः । म॒हत्ऽभ्या॑म् । अ॒न॒य॒न्त॒ । शू॒षम् । उ॒क्षा । ह॒ । यत्र॑ । परि॑ । धान॑म् । अ॒क्तोः । अनु॑ । स्वम् । धाम॑ । ज॒रि॒तुः । व॒वक्ष॑ ॥
उतो अपि च महतो महद्भ्यां पितृभ्यां द्यावापृथिवीभ्यां प्रविदा प्रवेदनेनानु घोषमनु घुष्यमाणं शूषं सुखम् । शूषं शुनमिति श्खनामसु पाठात् । तत्सुखं यजमाना अग्निमनयन्त । अग्निं प्रपितवन्तः । सोऽग्निर्यत्र यजमानेषूक्षा वृष्ट्युत्पादनेनोदकस्य सेक्ताक्तोः । अक्तुशब्दो रात्रमाचष्टे शर्वरी अक्तुरिति तन्नामसु पाठात् आज्यते सिच्यते नीहारेण जगदस्यामिति व्युत्पत्तेश्च । तस्या रात्रेः परिधानं परितो धारकं स्वमात्मियं धामतेजो जरितुः स्तोतुः स्तुतिश्रवणार्थमनु ववक्ष ह । समीपे वहति खलु । सन्निहितं करोतीत्यर्थः । उतो । ऊदिति प्रगृह्यसञ्ज्ञा । एवमादित्वादन्तोदात्तः । घोषं घुषिर् शब्दे अस्मात्कर्मणि घञ् । सघूपधगुणः । ङित्स्वरः । महः । अकारतकारयोर्लोपश्छान्दसः । बृहन्महतोरुपसङ्ख्यानमिति विभक्तेरुदात्तत्वम् । अनयम्त णीञ् प्रापण इत्यस्य लङि रूपं निघातः । उक्षा । उक्षसेचने । स्वन्नुक्षन्नित्यादिना कनिप्रत्ययान्तत्वेनोक्षन् शब्दो निपातितः । व्यत्ययेनान्तोदात्तः । ह चादित्वानुदात्तः । यत्र लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । अक्तोः । अञ्जू व्यक्तिगतिम्रक्षणेष्वित्यस्मात् व्याज्यर्तिभ्यः क्तुरिति क्तुः । कित्त्वादनिदितामिति नलोपः । प्रत्ययस्वरः । ववक्ष । वह प्रापणे । छन्दसि लुङ् लङ् लिट इति वर्तमाने लिट् । सकारश्छान्दसः । तिपो णलादेशः । लितीति प्रत्ययात्पूर्वस्यो दात्तत्वं ॥ ६ ॥
“Verily (men) bring great delight to Agni by glorifying aloud the mighty parents (heaven and earth), when the shedder of rain approximates his own radiance to the worshipper, (wherewith) to invest the night.”
Yea, by tradition from the ancient sages they brought great strength from the two mighty Parents,
To where the singer's Bull, the night's dispeller, after his proper law hath waxen stronger.
And finding it out by following the noise they brought to the great one's great parents a song of praise, when the bull about nightfall (?) has grown strong according to the singer's own law 1.
And by their knowledge, following his sound, they led their thunderous (sound) to his father and mother, the great (parents) of great (Agni), when at night the young bull grew strong all around his (fire)place
along the domain of a singer.
Und sie [die Sänger] führten den beiden grossen Aeltern [Himmel und Erde] weisheitsvoll das schnaubende Getön [des Liedes] zu, dort wo der Stier beim Eintritt der TageshcUe im eignen Hause des Lobsängers emporgewachsen ist.
Auch an die beiden großen Eltern richteten sie kundig ihren Ruf, die große Ermunterung, wobei der Stier gegen Schluß der Nacht der eigenen Art des Sängers gemäß erstarkt ist.
И вот с большим знанием (дела) они направили клич -
Мощное ликование к двум великим родителям,
В то время как бык к концу ночи
Усилился по своему обычаю певца.
अ॒ध्व॒र्युभि॑: प॒ञ्चभि॑: स॒प्त विप्रा॑: प्रि॒यं र॑क्षन्ते॒ निहि॑तं प॒दं वेः । प्राञ्चो॑ मदन्त्यु॒क्षणो॑ अजु॒र्या दे॒वा दे॒वाना॒मनु॒ हि व्र॒ता गुः ॥
अ॒ध्व॒र्युऽभिः॑ । प॒ञ्चऽभिः॑ । स॒प्त । विप्राः॑ । प्रि॒यम् । र॒क्ष॒न्ते॒ । निऽहि॑तम् । प॒दम् । वेः । प्राञ्चः॑ । म॒द॒न्ति॒ । उ॒क्षणः॑ । अ॒जु॒र्याः । दे॒वाः । दे॒वाना॑म् । अनु॑ । हि । व्र॒ता । गुरिति॒ गुः ॥
उद्गातृवर्गव्यतिरिक्ता द्वादशर्त्विजो भवन्ति । तत्र सप्त वष्ट्कर्तारः । पञ्चान्येऽध्वरं नयन्ति । तैः पञ्चभिरध्वर्युभिः सह सप्त विप्रा मेधाविनो होत्रका वेर्गमनस्वभावस्याग्नेः प्रियं निहितमाहवनीयाख्यं पदं रक्षन्ते । पालयन्ति । प्राञ्चः सोमपानार्थं प्राङ्मुखा गच्छन्तोऽजुर्या जरयितुमशक्या उक्षणः सोमरसस्य सेक्तारो देवाः स्तोतारो मदन्ति । हृष्यन्ति । किञ्च ते देवा देवानां सम्बन्धीनि व्रता व्रतानि यज्ञानुगुः । अन्वगच्छन् । हि प्रसिद्धौ । अग्नेः प्रसादाद्देवा यज्ञान् लब्धवन्त इत्यर्थः । रक्षन्ते । रक्ष पलने । व्यत्ययेनात्मने पदम् । निघातः । निहितम् । डुधाञ् धारण पोषणयोरित्यस्य कर्मणि निष्ठायां दधातेर्हितिरि हिरादेशः । गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम् । वेः । वी कान्तिगत्यादिषु । अस्माद्विच् । सार्वधातुकार्धधातुकयोः । पा. ७-३-८४ । इति गुणः । ङसि ङिसोश्चेति पूर्वरुपत्वम् । प्राञ्चः । अनिगन्तोऽञ्चचाविति पूर्वपदप्रकृतिस्वरत्वम् । मदन्ति । मदी हर्षे । निघातः । गुः । इण् गतावित्यस्माल्लुङि रूपम् । इणो गा लुङीति गादेशः । अत इति झेर्जुसादेशः । बहुलं छन्दसीत्यडभानः । हितब्दयोगान्ननिहन्यते ॥ ७ ॥
“Seven sages with five ministering priests attend the station that is prepared for the rapid (Agni); the undecaying divine (sages), with their faces to the east, sprinkling (the libations), rejoice as they celebrate the worship of the gods.”
Seven holy singers guard with five Adhvaryus the Bird's beloved firmly-settled station.
The willing Bulls, untouched by old, rejoice them: as Gods themselves the ways of Gods they follow.
With the five Adhvaryus the seven priests watch the beloved footstep which the bird has made 1. Turned forwards the never-ageing bulls 2 rejoice: for they, being gods, have followed the laws of the gods.
With the five Adhvaryus, the seven inspired ones protect the dear hidden track of the bird.
Turned forward, the young, unaging bulls [=flames?] become
exhilarated, for gods follow the commandments of the gods.
Die sieben Priester [oder Sänger] mit den fünf Gehülfen bewachen des Vogels [Agni] lieben Fusstritt; vorschreitend er- freuen sich die himmlischen Stiere, die Götter wandeln nach den Gesetzen der Götter.
Mit den fünf Adhvaryu´s hüten die sieben Redekundigen als ihr liebes Geheimnis die hinterlassene Spur des Vogels. Ostwärts gerichtet freuen sich die alterlosen Stiere, denn die Götter kommen den Geboten der Götter nach.
Вместе с пятерыми адхварью семеро вдохновенных
Хранят собственный оставленный след птицы.
Обращенные на восток, радуются нестареющие быки:
Ведь боги движутся по заветам богов.
दैव्या॒ होता॑रा प्रथ॒मा न्यृ॑ञ्जे स॒प्त पृ॒क्षास॑: स्व॒धया॑ मदन्ति । ऋ॒तं शंस॑न्त ऋ॒तमित्त आ॑हु॒रनु॑ व्र॒तं व्र॑त॒पा दीध्या॑नाः ॥
दैव्या॑ । होता॑रा । प्र॒थ॒मा । नि । ऋ॒ञ्जे॒ । स॒प्त । पृ॒क्षासः॑ । स्व॒धया॑ । म॒द॒न्ति॒ । ऋ॒तम् । शंस॑न्तः । ऋ॒तम् । इत् । ते । आ॒हुः॒ । अनु॑ । व्र॒तम् । व्र॒त॒ऽपा । दीध्या॑नाः ॥
दैव्या दैव्यौ देवातारूपौ होतारा होतारौ होमनिष्पादकौ प्रथमा प्रथमौ मुख्याविमं चामुं चाग्नीन्यृन्जे । ऋन्जतिः प्रसाधनकर्मेति यास्कः । मन्त्रद्रष्टा विश्वामित्रोऽहं प्रसाधयामि । सप्त पृक्षासः सप्त होत्रकाः स्वधया सोमेन मदन्ति । ह्यष्यन्ति । ऋतं स्तोत्रं शंसन्तो व्रतपा व्रतस्य यज्ञ कर्मणो रक्षितारो दीध्याना दीप्यमानास्ते होत्रका अनुव्रतं यज्ञे कर्मणि ऋतमित् सत्यमेवाग्निमाहुः । वदन्ति । ऋन्जे । ऋजि भृजी भर्जने । निपोर्वोऽयं धातुः प्रसाधने वर्तते । निघातः । स्वधया स्वं लोकं यजमानस्य दधाति विदधातीति स्वधा सोमः । अतोनुपसर्गे क इति कः । कृदुत्तरपदप्रकृतिस्वरत्वम् । आहुः । ब्रूञ् व्यक्तायां वाचीत्यस्य लटि ब्रुवः पञ्चानामादित आहो ब्रुव इति झेरुसादेशो ब्रुवश्च आहादेशः । निघातः । दीध्यानाः । दीधीङ् दीप्ति देवनयोरित्यस्माच्छानच् । तस्य चित्त्वादन्तोदात्तत्वे प्राप्तेऽभ्यस्तानामादिरित्त्याद्युदात्तत्वं ॥ ८ ॥
“I propitiate the two first divine offerers of sacrifices; the seven (priests) rejoice with the libation; the illustrious celebrators of holy worship, reciting (his) praises, have called Agni the true (object) of every rite.”
I crave the grace of heaven's two chief Invokers: the seven swift steeds joy in their wonted manner.
These speak of truth, praising the Truth Eternal, thinking on Order as the guards of Order.
8 = III, 4, 7.
I direct the two foremost divine Hotars downward. The seven (priests), giving strength, become exhilarated by their own will.
Reciting the truth, they speak just the truth, reflecting upon their
commandments as the protectors of commandments.
aus 238, 7
Die beiden ersten göttlichen Opferpriester nötige ich zum Kommen. Die sieben Lebenskräftigen ergötzen sich nach eigenem Ermessen. Die Wahrheit gelobend sprechen sie nur die Wahrheit, als Hüter des Gesetzes über das göttliche Gesetz nachsinnend.
Двух первых божественных хотаров я подчиняю себе.
Семеро наделенных жизненной силой опьяняются по своему усмотрению.
Прославляя закон, закон они и провозглашают,
Как хранители завета следя мыслью за заветом.
वृ॒षा॒यन्ते॑ म॒हे अत्या॑य पू॒र्वीर्वृष्णे॑ चि॒त्राय॑ र॒श्मय॑: सुया॒माः । देव॑ होतर्म॒न्द्रत॑रश्चिकि॒त्वान्म॒हो दे॒वान्रोद॑सी॒ एह व॑क्षि ॥
वृ॒षा॒ऽयन्ते॑ । म॒हे । अत्या॑य । पू॒र्वीः । वृष्णे॑ । चि॒त्राय॑ । र॒श्मयः॑ । सु॒ऽया॒माः । देव॑ । हो॒तः॒ । म॒न्द्रऽत॑रः । चि॒कि॒त्वान् । म॒हः । दे॒वान् । रोद॑सी॒ इति॑ । आ । इ॒ह । व॒क्षि॒ ॥
देव देदीप्यमाना होतर्देवानामाह्वातः हे अग्ने महे महतेऽथाय सर्वानप्यतिक्रम्य वर्तमानाय चित्राय नानाविधवणाय । यद्वा चित्राय देवैश्चायनीयाय पूज्याय । वृष्णे कामानां वर्षित्रे तुभ्यं त्वदर्थं पूर्वीः प्रभूताः सुयामा अतिशयेन विस्तृता रश्मयः सर्वतो व्याप्ता ज्वाला वृषयन्ते । वृषेमचरन्ति । सेचका इव भवन्ति होतारो ज्वालाभिः समिद्धमग्निं दृष्ट्वा सोमाज्यपयः प्रभृतीनि हवींषि तत्र प्रक्षिपन्तीति ज्वालानां वृषत्वं यद्वा षष्ट्यर्थे चतुर्थी । तथा च महतोऽत्यस्य चित्रस्य वृय्ष्णोऽग्नेर्बहवो रश्मयो वृषेवाचरन्ति । वृष्ट्युत्पादनद्वारा पर्जन्यवदाचरन्तीत्यर्थः अपि च । मन्द्रतरो यजमानस्य मादयितृतमश्चिकित्वान् ज्ञानोपेतः स त्वं महो महतः पूज्यान् यष्टव्यान् देवान् रोदसी द्यावापृथिव्यौ चेह वैदिकेऽस्मिन्कर्मण्यावक्षि । आवह । वृषायन्ते । उपमानादित्यनुवृत्तौ कर्तु क्यङ् सलोपश्चेति क्यङ् । अकृत्सार्वधातुकयोरिति दीर्घः । पादादित्वान्न निघातः । धातुस्वरः । महे । अकारतकारयोर्लोपश्छान्दसः । बृहन्महतोरिति विभक्तेरुदात्तत्वम् । पूर्वीः । पॄ पालनपूरणयोरित्यस्मात् कुरित्यनुवृत्तौ पॄभिदिव्यधिग्धीत्यादिना कुप्रत्ययः । कित्त्वद्गुणप्रतिषेधे उदोष्ठ्यपूर्वस्येत्युत्त्वम् । उरण् रपरः । तस्माद्वोतो गुणवचनादिति ङीष् । यणादेशे कृते हलि चेति दीर्घः । वा छन्दसीति सवर्णदीर्घः । रश्मयह् । अशू व्याप्तौ । अश्नुवते सर्वं जगदिति मिरित्यनुवृत्तौ अश्नोते रश्च । उ. ४-४६ । इति विप्रत्ययो रशादेशश्च । प्रत्ययस्वरः । सुमयाः । यमनं यामः । भावे घङ् । बहुव्रीहौ नङ् सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । देव । अपादादाविति पर्युदासात्षाष्ठिकमाद्युदात्तत्वम् । होतः । ह्वयतेस्ताच्छीलिकस्तृन् । बहुलं छन्दसीति सम्प्रसारणम् । अपादाद्यामन्त्रितत्वान्निन्नुम् । तरपः पित्त्वादनुदात्तेत्वे रक्प्रत्ययस्वरह् । वक्षि । वह प्रापण इत्यस्य बहुलं छन्दसीति शपो लुक् । टत्वकत्वषत्वानि । निघातः ॥ ९ ॥
“Divine invoker of the gods, the vast and widespreading rays shed (moisture) for you, the mighty, the victorius, the wonderful, the showerer (of benefits); do you who are all knowing, joy-bestowing, bring hither the great gods, and heaven and earth.”
The many seek the great Steed as a stallion: the reins obey the Lord of varied colour.
O heavenly Priest, most pleasant, full of wisdom, bring the great Gods to us, and Earth and Heaven.
The many (mares) are full of desire for the mighty stallion. For the manly, bright one, the reins easily direct (the horses) 1. Divine Hotri! Thou who art a great joy-giver and wise, bring hither the great gods and the two worlds 2.
The many (mares) [=flames?] act like bulls for the great steed [=Agni or the sun]; their reins [=rays of light] are easy to guide for the
shimmering bull.
O god and Hotar, as the most delighting and watchful, convey the great gods and the two world-halves here to this place.
Zu dem grossen Renner [Agni] streben brünstig hin viele [Opfertränke], dem glänzenden Stiere sind die Zügel leicht zu lenken [vgl. Vers 3], o Gott Hotar [Agni], fahre recht erfreuend als kundiger die grossen Götter her und beide Welten.
Für den großen Hengst geraten die vielen Stuten in Brunst; dem wunderbaren Bullen sind die Zügel leicht zu lenken. Göttlicher Hotri! Als der Wohlredendste, Kundige, fahre die großen Götter, die beiden Rodasi hierher!
Пребывают в течке для великого жеребца многие (кобылы)!
Яркому быку нетрудно править с помощью вожжей.
О божественный хотар, (ты) самый веселый, понимающий,
Привези сюда великих богов, оба мира!
पृ॒क्षप्र॑यजो द्रविणः सु॒वाच॑: सुके॒तव॑ उ॒षसो॑ रे॒वदू॑षुः । उ॒तो चि॑दग्ने महि॒ना पृ॑थि॒व्याः कृ॒तं चि॒देन॒: सं म॒हे द॑शस्य ॥
पृ॒क्षऽप्र॑यजः । द्र॒वि॒णः॒ । सु॒ऽवाचः॑ । सु॒ऽके॒तवः॑ । उ॒षसः॑ । रे॒वत् । ऊ॒षुः॒ । उ॒तो इति॑ । चि॒त् । अ॒ग्ने॒ । म॒हि॒ना । पृ॒थि॒व्याः । कृ॒तम् । चि॒त् । एनः॑ । सम् । म॒हे । द॒श॒स्य॒ ॥
द्रविणः । द्रवति सततम् गच्छतीति द्रविणः शब्देनाग्निरभिधीयते । द्रविणः सततगमनस्वभाव हे अग्ने पृक्षप्रयजः पृक्षाणि हविर्लक्षणान्यन्नानि प्रकर्षेण यष्टुं प्रक्रम्यते यासूषःसु ताः पृक्षप्रयजः सुवाचः प्रातरनुवाकादिशोभना वाचोवासान्ताः । सुकेतवो वयसां मनुष्याणां च शब्दैः सुप्रज्ञानाः । एवं विधा उषसो रेवत् अस्माकं धनयुक्तं यथा भवति तथोषुः व्युच्छन्ति । उतो चित् अपि च हे अग्ने पृघिव्या विस्तीर्णाया ज्वालाया महिना महत्त्वेन कृतं सम्पादितं चित् यत्किञ्चिदेनः प्राण्युपघातादिलक्षणं पापं महे महते यजमानाय मह्यं मदर्थं सन्दशस्य । सङ्क्षपय । पृक्षप्रयजः अन्येभ्योऽपि दृश्यन्त इतिकर्मणि विच् दृशिग्रहणादधिकृतो भवतीत्युक्तम् । बहुव्रीहित्वात्पूर्वपद प्रकृतिस्वरत्वम् । द्रविणः । द्रु गतावित्यस्मात् द्रुदक्षिभ्यामिनन्नितीनप्रत्ययः । गुणावादेशौ । सम्बुद्धौ सोर्लोपाभावश्छान्दसः आमन्त्रितत्वान्निघातः । सुवाचः । नञ् सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । रेवत् रयिर्धनमस्मिन्विद्यत इति मशुप् । ह्रस्वनुड्भ्यामिति मतुबुदात्तः । छन्दसीर इति वत्वम् । रयेर्मतौ बहुलं छन्दसीति सम्प्रसारारणम् । परपूर्वत्वे गुणः । ऊषुः । उष दाहे । दाहार्थोऽप्ययं धातुरत्र प्रकाशने वर्तते । छन्दसि लुङ्गिति वर्तमाने लिट् । उसि रूपम् । निघातः । पृथिव्याः । प्रथ प्रख्यान इत्यस्मात्प्रथेः षिवन् सम्प्रसारणं चेति षिवन्प्रत्ययः । तत्सन्नियोगेन धातोः सम्प्रसारणम् । षिद्गौरादिभ्यश्चेति ङीष् । प्रत्ययस्वरेणान्तोदात्तः । उदात्तयणो हल्प्र्वादिति विभक्तेरुदात्तत्वम् । दशस्य । निघातः ॥ १० ॥
“Ever-moving (Agni) may the mornings rise for us, abounding with oblations, with pious prayers, and with auspicious signs, and conferring wealth; and do you with the might of your (diffusive flame), consume all sin on behalf of your respectable (worshipper).”
Rich Lord, the Mornings have gleamed forth in splendour, fair-rayed, fair-speaking, worshipped with all viands,
Yea, with the glory of the earth, O Agni. Forgive us, for our weal, e'en sin committed.
The dawns, O wealth-giver, the mighty sacrificers 1, well spoken and bright have shone with wealth. And by the earth's greatness 2, O Agni, forgive us even committed sin 3, that we may be great.
O Wealth—the dawns, owning the fortifying first offerings, receiving the beautiful words, bearing lovely beacons, have dawned richly.
And now, o Agni, by the greatness of earth, for the sake of our great (fortune), be favorable even to the (ritual) fault we have committed.
Dem Rosse [Agni] zueilend [oder huldigend] strahlten, o Spender [Agni], reich die vielbesungenen [oder lieblich redenden] hellen Morgenröthen, und du, o Agni, auf dem weiten Raum der Erde, verzeihe uns auch das gethane Unrecht, zum Heile.
Die lobesamen, schön scheinenden Morgenröten, deren Opfer wirksam sind, sind reichlich spendend aufgegangen, o Schatzspender und auch du, Agni, soweit die Erde reicht. - Vergib auch die getane Sünde zu großem Glücke!
Утренние зори, жертвующие (нам) силы насыщения, (зори,) достойные прекрасных речей,
О (воплощенное) богатство, (зори) с прекрасным блеском воссветили богатство.
И ты тоже, о Агни, силой величия земли
Прости грех, даже если он (нами) совершен, – на великую (удачу)!
इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध । स्यान्न॑: सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥
इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ । स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥
हे अग्ने पुरुदंसम् । आपोऽप्नो वेष इति कर्मनाममसु पठितत्वाद्दंसः शब्दः कर्मवाची । पुरूणि बहूनि दंसांसि कर्माणि यस्याः सा । तां बहुकर्माणं गोः सनिं गवादिपशून्सम्पादयित्रीमिळामेतन्नामिकां गोरूपां देवतां शश्वत्तमन्निरन्तरं हवमानाय यजमानाय मह्यं साधः साधय । किञ्चनोस्ऽमाकं सूनुः पुत्रस्तनयः पौत्रः स्याद्भवत्विति ते तव या सुमतिः शोधना बुद्धिः सा विजावाबन्ध्या सत्यस्मे अस्माकं भूतु भवतु ॥ शश्वत्तमम् । उच्छादिषु पाठादन्तोदात्तत्वम् । साध । राध साध संसिद्धौ । अन्तर्भावितण्यर्थोऽयम् । लोटव्यत्ययेन शप् । सेर्ह्यपिच्चेति हिरादेशः । तस्यातो हेरिति लुक् । निघातः । विजावा । जनी प्रादुर्भावे । अस्मादन्येभ्योऽपि दृश्यन्त इति वनिप् । विड्वनोरनुनासिकस्यादित्यात्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । लिङ्गव्यत्ययः । भूतम् । भू सत्तायाम् । बहुलं छन्दसीति शपो लुक् । भूसुवोस्तीङीति गुणप्रतिषेधः ॥ ११ ॥
“Grant, Agni, to the offerer of the oblation, the earth, the bestower of cattle, the means of many (pious rites), such that it may be perpetual; may there be to us sons and grandsons, and may your good-will ever be upon us (productive of benefit to us).”
As holy food, Agni, to thine invoker, give wealth in cattle, lasting, rich in marvels.
To us be born a son, and spreading offspring Agni, be this thy gracious will to usward.
11 = III, 1, 23.
– Make the milk-libation, the very wondrous winning of the cow, succeed, o Agni, for him who invokes you most constantly.
There should be for us a son and a lineage that proliferates. Agni, let this your favor be for us.
= 235, 23
Erziel, o Agni, Segen, den vielwirkenden Lohn einer Kuh für den am häufigsten rufenden Sänger! Ein leiblicher Sohn, der das Geschlecht fortpflanzt, soll uns werden. Agni, diese Gnade von dir soll uns zuteil werden!
Приведи прямо к цели, о Агни, жертвенный напиток (и) многообещающую награду
В виде коровы для того, кто постоянно призывает (богов)!
Да будет нам сын, продолжающий род, плоть от плоти!
О Агни, да будет нам твое благоволение!