अ॒ञ्जन्ति॒ त्वाम॑ध्व॒रे दे॑व॒यन्तो॒ वन॑स्पते॒ मधु॑ना॒ दैव्ये॑न । यदू॒र्ध्वस्तिष्ठा॒ द्रवि॑णे॒ह ध॑त्ता॒द्यद्वा॒ क्षयो॑ मा॒तुर॒स्या उ॒पस्थे॑ ॥
अ॒ञ्जन्ति॑ । त्वाम् । अ॒ध्व॒रे । दे॒व॒ऽयन्तः॑ । वन॑स्पते । मधु॑ना । दैव्ये॑न । यत् । ऊ॒र्ध्वः । ति॒ष्ठाः॑ । द्रवि॑ना । इ॒ह । ध॒त्ता॒त् । यत् । वा॒ । क्षयः॑ । मा॒तुः । अ॒स्याः । उ॒पऽस्थे॑ ॥
वनस्पते खदिरपलाशादिलक्षण हे यूप अध्वरे यज्ञे देवयन्तो देवान् कामयमाना अध्वर्य्वादयो दैव्येन मधुना देवसम्बन्धिना मधुना घृतेन । एतद्वै मधु दैव्यं यदाज्यमित्याम्नानात् ऐ ब्रा २-२- । तेन घृतेन त्वामञ्जन्ति । त्वयि घृतं सिञ्चन्तीत्यर्थः । यत् यदि त्वमूर्ध्वस्तिष्थाः । उन्नतस्तिष्ठसि । यद्वा दिव मातुरस्या मातृभूतायाः पृथिव्या उपस्थ उत्सङ्गे ते क्षयो निवासः । यदूर्ध्वस्तिष्ठसि यदि वा भूमौ शयानो वर्तसे उभयथापि त्वमिहास्मासु द्रविणा धनानि धत्तात् धेहि ॥ ब्राह्मणेनेयमृग्व्याख्याता । अञ्जन्ति त्वामध्वरे देवयन्त इत्यन्वाहाध्वरे ह्येनं देवन्तोऽञन्ति वनस्पते मधुना दैव्येनेत्ये तद्वै मधु दैव्यं यदाज्यं यदूर्ध्वस्तिष्ठा द्रविणेह धत्ताद्यद्वा क्षयो मातुरस्या उपस्थ इति यदि च तिष्ठासि यदि च शयासै द्रविणमेवास्मासु धत्तादित्येव तदाह । ऐ ब्रा २-२ । इति तथा च निरुक्तमपि । अञ्जन्ति त्वामध्वरे देवान्कामयमाना वनस्पते मधुना दैव्येन च घृतेन च यदूर्ध्वः स्थास्यसि द्रविणानि च नो दास्यसि यद्वा ते कृतः क्षयो मातुरस्या उपस्थ उपस्थाने नि ८-१८ । इति अञ्जन्ति । अञ्जू व्यक्तिकान्तिगतिम्रक्षणेषु । रुधादित्वात् श्नम् । तस्य लटि झेर्ङित्त्वादनिदितामित्युपधालोपः श्नसोरल्लोप इत्यल्लोपः प्रत्ययस्वरेण मध्योदातः । त्वाम् । आमि युष्मच्छब्दत्य त्वमवेकवचन इति त्वादेशः । द्वितीयायां चेत्याकारः । एकादेश उदात्तेनोदात्त इत्येकादेशस्योदात्तत्वम् । अध्वरे न विद्यते ध्वरो हिंसा यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे प्राप्ते नञ्सुभ्यामित्युत्तरपदान्तोदात्ततं देवयन्तः । देवानात्मन इच्छन्तः । सुप आत्मन इति क्यच् । क्यचि चेतीत्वं अकृत्सार्वधातुकयोरिति दीर्घत्वं च न छन्दस्यपुत्रस्येत्यनेन प्रतिषिध्यते । तदन्ताच्छत्प्रत्ययः शपः पित्त्वल्लसार्वधातुकस्यरेण जानुदात्तत्वे कृते तयोरेकादेश उदात्तेनोदात्त इति क्यच एव स्वरः वनस्पते । आमन्त्रितस्य चेत्याद्युदात्तत्वम् । मधुना । फलिपाटिनमिमनीत्यादिना उप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तत्वम् । दैव्येन देवाद्य ञञाविति यञ । ञित्त्वाद्वृद्धिः । यस्येति लोपः । ञित्त्वादाद्युदात्तः । तिष्ठाः । ष्ठा गतिनिवृत्तौ । लेटि सिप् । इतश्च लोप इदीकारलोपः । शप्त शित्त्वात् पाघ्रेत्यादिना तिष्ठादेशः । लेटोऽडाटावित्यडागमः । यच्छब्दयोगान्निः घाताभावः । तिष्ठादेशस्याद्युदात्तत्वेन निपातितत्वादाद्युदात्तः । द्रविणा द्रुदक्षिभ्यामिनन्नितीनन्प्रत्ययः । सुपां सुलिगिति सुपो डादेशः । नित्वादाद्युदात्तः । इह । इदम् शब्दात्सप्यम्यर्थ इदमो ह इति हः । इदम इशितीशादेशः । शित्त्वात्सर्वादेशः । प्रत्यय स्वरः । धत्तात् । डुधाञ् धारणपोषयोरित्यस्य प्रार्थने लोट् । सिप् । तस्य सेर्ह्यपिच्चेति हिरादेशः । तुह्योः । पा. ७-१-३५ । इति तातङादेशः । श्नाभ्यस्तयोरात इत्याकाललोपः । दधस्तथोश्च । पा८-२-३८ । इति भष् भावः । जश्त्वचर्त्वे । निघातह् । वा । जादित्वादनुदात्तः । क्षयः । क्षियन्ति निवसन्त्यस्मिन्नित्यधिकरणि घः । क्षयो निवास इत्याद्युदात्तत्वम् । मातुः । नप्तृनेष्टृ इत्यादिना तृजन्तत्वेन निपातनादन्तोदातः । ऋत उदिति ङसः पूर्वपदयोरुकारः अस्याः । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । उपस्थे । ष्ठा गतिनिवृक्तौ । अतश्चोपसर्ग इति कः । तत्पुरुषे तुल्यार्थेति मरुद्वृधा दित्वात्पूर्वपदान्तोदात्तत्वम् ॥ १ ॥
“Vanaspati, the devout anoint you with sacred butter at the sacrifice; and whether you stand erect, or your abode be on the lap of this your mother (earth), grant us riches.”
GOD-SERVING men, O Sovran of the Forest, with heavenly meath at sacrifice anoint thee.
Grant wealth to us when thou art standing upright as when reposing on this Mother's bosom.
The worshippers of the gods anoint thee at the sacrifice, O lord of the forest 1, with heavenly honey 2. When standing upright bestow wealth (on us) here, or when abiding in this mother's lap 3.
Those seeking the gods anoint you at the ceremony, o Lord of the Forest, with heavenly honey.
When you will stand erect, after that establish material goods here—or when you will dwell peacefully in the lap of this mother [=Earth].
Es salben dich beim Fest die frommen Männer, o Waldesherr, mit süsser Götterspeise, Verleih uns Schätze, wenn du aufrecht dastehst, und wenn du ruhst im Schoosse dieser Mutter.
Es salben dich, o Baum, die Gottergebenen bei dem Opfer mit göttlicher Süßigkeit. Wenn du aufgerichtet stehen wirst, sollst du uns hier Reichtümer einbringen, oder wenn du im Schoße dieser Mutter Erde ruhen wirst.
Мажут тебя при обряде (мужей,) любящие богов,
О дерево, божественной сладостью.
Когда будешь ты стоять прямо, дай здесь богатства,
Или когда будешь покоиться в лоне этой матери!
समि॑द्धस्य॒ श्रय॑माणः पु॒रस्ता॒द्ब्रह्म॑ वन्वा॒नो अ॒जरं॑ सु॒वीर॑म् । आ॒रे अ॒स्मदम॑तिं॒ बाध॑मान॒ उच्छ्र॑यस्व मह॒ते सौभ॑गाय ॥
सम्ऽइ॑द्धस्य । श्रय॑माणः । पु॒रस्ता॑त् । ब्रह्म॑ । व॒न्वा॒नः । अ॒जर॑म् । सु॒ऽवीर॑म् । आ॒रे । अ॒स्मत् । अम॑तिम् । बाध॑मानः । उत् । श्र॒य॒स्व॒ । म॒ह॒ते । सौभ॑गाय ॥
हे यूप समिद्धस्य दीपमानस्यावहनीयाख्यस्याग्नेः पुरस्तात् प्राच्यान्दिशि श्रयमाणस्तत्र वर्तमानो ब्रह्मान्नम् । ब्रह्मवर्च इत्यन्ननामसु पाठात् । अजरं जरारहितं समृद्धं सुवीरं शोभनापत्ययुक्तं ब्रह्मान्नं वन्वानः प्रयच्छन् अस्मदमतिमस्माकं शत्रुभूतामशनायाम् । अशनाया वै पाप्मामतिरिति श्रवणात् । तादृशं शत्रुमारे दूरे बाधमनोऽपनुदन्स्त्वं महते सौभगाय धनादिसम्पत्त्यर्थमुच्छ्रयस्व । उच्छ्रितो भव । उक्तार्थे ब्राह्मणम् । समिद्धस्य श्रयमाणः पुरस्तादिति समिद्धस्य ह्येष एतत्पुरस्ताच्छ्रयते ब्रह्म वन्वानो अजरं सुवीरमित्याशिषमेवाशास्त आरे अस्मदमतिं बधमान इत्यशनाया वै पाप्मा मतिस्तामेव तदारान्नुदते यज्ञाच्च यजमानाच्चोच्छ्रयस्व महते सौभगायेत्याशिषमेवाशास्ते । ऐ. ब्रा. २-२- । इति समिद्धस्य । ञि इन्धी दीप्तौ । कर्मणि निष्ठायां स्वीदितो निष्ठायामितीट् प्रतिषेधः । सम्यगिद्ध इति गतिरनन्तर इति पूर्वपदप्रकृतिस्वरत्वम् । श्रयमाणः । श्रिञ् सेवायामित्यस्य लटः शानच् । तस्य लसार्वधातुकस्वरेणानुदात्तत्वे कृते धातुस्वरः शिष्यते । पुरस्तात् । पूर्वशब्दस्य दिक् शब्देभ्यः सप्तमीपञ्चमीत्यादिना । पा. ५-३-२७ । आस्तातिप्रत्ययः ॥ अस्ताति च । पा. ५-३-४० । इति पूर्वस्य पुरादेशः । प्रत्ययस्वरः । ब्रह्म । नब्विषयस्यानिसन्तस्येत्याद्युदात्तः । वन्वानः । वनु याचने । आत्रायं धातुर्दानार्थे वर्तते । लटः शानच् प्रत्ययः । चित्त्वादन्तोदात्तः । अजरं नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वम् । सुवीरम् । वीरवीरौचेत्युत्तरपदाद्युदात्तत्वम् । आरे । एवमादित्वादन्तोदात्तः । अस्मत् । युष्यसिभ्यां मदिगिति मदिक्प्रत्ययस्वरः । सुपां सुगिति सुपो लुक् मदिक्प्रत्ययस्वरः अमतिम् । तत्पुरुष इति पूर्वपदप्रकृतिस्वरत्वम् । ऊत् निपातत्वेनाद्युदात्तः । श्रयस्व । श्रि ञ् सेवायामित्यस्य लोण्मध्यमैकवचने थास् । थासः स इत्यादेशः । सवाभ्यां वामावित्येकारस्य वकारः । निघातः महते वर्तमाने पृषद्पृशन्महदिति निपातनादण्तोदात्तः । बृहन्मतोरुपस्यङ्खानमिति विभक्तेरुदात्तत्वम् । सौभागाय । प्राणाभृज्जातिवयोवचनेत्यञ् । हृद्भगसिन्ध्वन्ते पूर्वपदस्य् चेति वृद्धिः । सर्वविधिनां छन्दसि विकल्पितत्वादित्युत्तरपदस्य वृद्धिर्नभवति । ञित्स्वरः ॥ २ ॥
“Standing on the east of the kindled (fire), dispensing food (as the source) of undecaying (health) and excellent progeny, keeping off our enemy at a distance, stand up for great auspiciousness.”
Set up to eastward of the fire enkindled, accepting prayer that wastes not, rich in hero.
Driving far from us poverty and famine, lift thyself up to bring us great good fortune.
Situated in front of the kindled (fire), accepting our sacred spell which protects from old age and gives valiant offspring, driving away far from us lack of thoughts 1, rise up 2 for the sake of great prosperity.
Being propped in front of the kindled (fire), gaining the unaging
formulation that provides good heroes,
thrusting heedlessness to a distance from us, rise up for great good
fortune.
Dort aufgestellt vor des Entflammten Antlitz, Gebet empfangend, stetes, männerreiches; Die Dürftigkeit weithin von uns verscheuchend erhebe dich zu grossem Glück und Segen.
Der du vor dem entzündeten Feuer angebracht wirst und die hohe Rede, die nie alternde, zu Meistern machende, gewinnst, banne weit von uns die Gedankenarmut, richte dich zu großem Glücke auf!
Воздвигнутое перед зажженным (костром),
Добывающее (нам) молитву, нестареющую, приносящую прекрасных мужей,
Далеко от нас прогоняя безмыслие,
Возвышайся на великую удачу!
उच्छ्र॑यस्व वनस्पते॒ वर्ष्म॑न्पृथि॒व्या अधि॑ । सुमि॑ती मी॒यमा॑नो॒ वर्चो॑ धा य॒ज्ञवा॑हसे ॥
उत् । श्र॒य॒स्व॒ । व॒न॒स्प॒ते॒ । वर्ष्म॑न् । पृ॒थि॒व्याः । अधि॑ । सुऽमि॑ती । मी॒यमा॑नः । वर्चः॑ । धाः॒ । य॒ज्ञऽवा॑हसे ॥
हे वनस्पते युप पृथिव्या अधि पृथिव्यां वर्ष्मन् उत्कृष्टे देवयजनाख्ये देश उच्छ्रयस्व । उच्छ्रितो भव । सुमिती शोभमानया बुद्ध्या अथवा शोभनेन परिमाणेन मीयमान इयत्तया परिच्छिद्यमानस्त्वं यज्ञवाहसे यज्ञनिर्वाहकाय यजमानाय वर्चो धाः । अन्नम् धेहि । अयमेवार्थो ब्राह्मणेन दर्शितः । उच्छ्रयस्व वनस्पत इत्युच्छ्रीयमाणायाभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धम् । वर्ष्मन्पृथिव्या अधीत्येतद्वै वर्ष्म पृथिव्यै यत्र यूपमुन्मिन्वन्ति सुमिती मीयमानो वर्चो धा यज्ञवाहस इत्याशिषमाशास्ते । ऐ. ब्रा. २-२ ॥ वनस्पते । अपादादित्वादाष्टमिकमनुदात्तत्वम् । पृथिव्याः । उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वम् । सुमिती । माङ् मान इत्यस्य क्तिनि द्यतिस्यतिमास्थेतीकारादेशः । शोभनया मित्या । तादौ च निति कृत्यताविति गतेः प्रकृतिस्वरत्वम् । सुपां सुलुगिति सवर्णदीर्घः । मीयमानः । माङ् मान इत्यस्य कर्मणि यक् । घुमास्थेतीत्वम् । प्रत्ययस्वरः । धाः । धाञो लोडर्थे छन्दसि लुङ् लुङ्गिति लुङ् । इतश्चेति सिप इकारलोपः । गातिस्थेति सिचो लोपः । बहुलं छन्दसीत्यडभावः । निघातः । यज्ञवाहसे यज्ञं वहति प्राप्नोति । वह प्रापण इत्यस्य वहिहाधाञ्भ्याश्चन्दसीत्यसुन् । णिदित्यनुवृत्तेरुपधावृद्धिः । गतिकारकयोरिति पूर्वपदप्रकृति स्वरत्वं चेति पूर्वपदप्रकृति स्वरः । उ. ४-२२६ ॥ ३ ॥
“Be exalted, Vanaspati upon this sacred spot of earth, being measured with careful measurement, and bestow food upon the offerer of the sacrifice.”
Lord of the Forest, raise. thyself up on the loftiest spot of earth.
Give splendour, fixt and measured well, to him who brings the sacrifice.
Rise up, O lord of the forest, on the summit of the earth. Erected by skilful erection bestow splendour on (the worshipper) who fits out the sacrifice as a vehicle 1.
Rise up, Lord of the Forest, upon the height of the earth.
Being founded with a good founding, establish luster for the one whose vehicle is the sacrifice.
Erhebe du, o Waldesherr auf dieser Erde Fläche dicli, mit rechtem Mass gemessener, verleih dem Opferbringer Glanz.
Richte dich auf, o Baum; über der Höhe der Erde, gut eingesenkt mögest du dem, der mit dem Opfer fährt, Ansehen verleihen.
Возвышайся, о дерево,
На поверхности земли!
Воздвигаемое прекрасным воздвиганием,
Придай блеск отвозящему жертву!
युवा॑ सु॒वासा॒: परि॑वीत॒ आगा॒त्स उ॒ श्रेया॑न्भवति॒ जाय॑मानः । तं धीरा॑सः क॒वय॒ उन्न॑यन्ति स्वा॒ध्यो॒३॒॑ मन॑सा देव॒यन्त॑: ॥
युवा॑ । सु॒ऽवासाः॑ । परि॑ऽवीतः । आ । अ॒गा॒त् । सः । ऊँ॒ इति॑ । श्रेया॑न् । भ॒व॒ति॒ । जाय॑मानः । तम् । धीरा॑सः । क॒वयः॑ । उत् । न॒य॒न्ति॒ । सु॒ऽआ॒ध्यः॑ । मन॑सा । दे॒व॒ऽयन्तः॑ ॥
यवा दृढाङ्गोऽष्टाश्र्यादिलक्षणलक्षित इत्यर्थः । सुवासाः शोभनेन वाससा रशनया युक्तः । परिवीतस् तया रशनया वेष्टितः । एवंविधो यूप आगात् । आगच्छति । स उ स एव यूपः श्रेयान् जायमानः सर्वेभ्यो वनस्पतिभ्य उत्कृष्टतया सम्पद्यमानो भवति ।
तम् एवं विधं यूपं धीरासः प्राज्ञा मनसा देवयन्तो देवान् कामयमानाः स्वाध्यः सुष्ठु सर्वतो ध्यानयुक्ताः कवयः क्रान्तदर्शिनोऽध्वर्य्वादय उन्नयन्ति । उन्नतं कुर्वन्ति । एतस्मिन्नर्थे ब्राह्मणम् । युवासुवासाः परिवीत आगादित्युय्त्तमया परिदधाति प्राणो वै युवा सुवासाः सोऽयं शरीरैः परिवृतः स उ श्रेयान्भवति जायमान इति । श्रेयाञ्छ्रेयान्ह्येष एतद्भवति जायमानस्तं धीरसः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्त इति ये वा अनूचानास्ते कवयस्त एवैनं तदुन्नयन्ति । ऐ. ब्रा. २-२ ॥ इति युवा । यौतेः कनिन्युवृषितक्षीत्यादिना कनिन्प्रत्ययः । कित्त्वाद्गुणाभावः । उवजादेशः । नित्त्वादाद्युदात्तत्वम् । सुवासाः । वस आच्छादने । असुन्नित्यनुवृत्तौ वसेर्णिदित्यसुन्प्रत्ययः । णित्त्वादुपदावृद्धिः । सोर्मनसी इत्युत्तरपदाद्युदात्तत्वम् । परिवीतः । व्येञ् संवरणे । कर्मणि क्तः । यजादित्वास्त्स्म्प्रसारणम् । गतिरनन्तर इति पूर्वपदप्रकृतिस्वरत्वम् । आगात् । इण् गतावित्यस्य लुङि इणो गा लुञीति गादेशः । गातिस्थेति सिचो लोपः । अडागमः । श्रेयान् । प्रशस्यस्य द्विवचनविभज्योपपद इतीयसुन्प्रत्ययः । तस्मिन्प्रशस्यस्य श्र इति श्रादेशः । गुणः । नित्त्वादाद्युदात्तत्वम् । एकादेश आद्युदात्तः । स्वाध्यः । ध्यै चिन्तायाम् । स्वाजोरुपसर्गयोः प्राक्प्रयोगः । अन्येभ्योऽपि दृश्यन्त इति क्विप् । दृशिग्रहणात्सम्प्रसारणम् । सम्प्रसाराणाच्चेति पूर्वरूपत्वम् । हल इति दीर्घः । जसि एरनेकाच इति यणादेशः । कृदुत्तरपदप्रकृतिस्वरत्वम् । उदात्तस्वरितयोर्यण इति जसः स्वरितत्वम् । देवयन्तः । सुप आत्मनः क्यजिति क्यच् । चित्त्वादन्तोदात्तः ॥ ४ ॥
“Well clad and hung with wreaths comes the youthful (pillar); most excellent it is as soon as genitive rated; steadfast and wise venerators of the gods, meditating piously in thei rminds, raise it up.”
Well-robed, enveloped he is come, the youthful: springing to life his glory waxeth greater.
Contemplative in mind and God-adoring, sages of high intelligence upraise him.
A well-clothed youth dressed has come hither. He becomes more excellent when born 1. Wise sages full of pious thoughts, longing for the gods in their mind, bring him forth.
As a youth, richly dressed, engirded, he has come here. He becomes more splendid as he is being born.
Him do the insightful, very attentive poets lead upward, seeking the gods with their mind.
Der Jüngling kam umhüllet, schöngekleidet, von der Geburt an wird er immer schöner; Ihn richten auf die kunstverständ'gen Priester, die gottergebnen andachtsvollen Herzens.
Jugendlich, schön gekleidet, umgürtet ist er hergekommen. Neu geboren wird er noch schöner. Ihn richten die weisen Seher empor, Gutes sinnend, im Herzen gottverlangend.
Оно пришло юное, нарядное, подпоясанное.
Да будет оно еще лучше, рождаясь (вновь)!
Его поднимают мудрые поэты,
Полные добрых намерений, мыслью стремящиеся к богам.
जा॒तो जा॑यते सुदिन॒त्वे अह्नां॑ सम॒र्य आ वि॒दथे॒ वर्ध॑मानः । पु॒नन्ति॒ धीरा॑ अ॒पसो॑ मनी॒षा दे॑व॒या विप्र॒ उदि॑यर्ति॒ वाच॑म् ॥
जा॒तः । जा॒य॒ते॒ । सु॒दि॒न॒ऽत्वे । अह्ना॑म् । स॒ऽम॒र्ये । आ । वि॒दथे॑ । वर्ध॑मानः । पु॒नन्ति॑ । धीराः॑ । अ॒पसः॑ । म॒नी॒षा । दे॒व॒ऽयाः । विप्रः॑ । उत् । इ॒य॒र्ति॒ । वाच॑म् ॥
जातः पृथिव्यां प्रथमुमुत्पन्नो यूपः समर्ये । मर्य इति मनुष्यनाम । तैः सहिते विदथे वर्धमानः । विदथ इति यज्ञनाम विदथः सवनमिति यज्ञ नामसु पाठात् । तस्मिन्यज्ञ आ वर्धमानो घृतान्जनरशनापरिव्ययणादिना सर्वतः शोभमानः सन् आह्नां सुदिनत्वे जायते । पशुनियोजनादिद्वारेण यज्ञ निर्वाहकतयाहानि सुदिनानि करोतीत्यर्थः । आपसः कर्मवन्तो धीराः सुप्रज्ञा आध्वर्य्वादयो मनिषा बुद्ध्या तं यूपं पुनन्ति । प्रक्षलनादिभिः शोधयन्ति । देवया देवानां यष्टा देवानां हवीषि प्रापयिता वा विप्रो मेधावी होता च वाचं यूपविषयां स्तुतिलक्षणां वाचमुदियर्ति । प्रेरयति । उच्चारयतीत्यर्थः । उक्तार्थे ब्राह्मणम् । जातो जायते सुदिनत्वे अह्नामिति जातो ह्येष एतज्जायते समर्य आ विदथे वर्धमान इति वर्धयन्त्येवैनं तत्पुनन्ति धीरा अपसो मनीषेति पुनन्त्येवैनं तद्देवया विप्र उदियर्ति वाचमिति देवेभ्य एवैनं तन्निवेदयति । ऐ. ब्रा. २-२ ॥ सुदिनत्वे । सुदिनानां भावे इति तस्य भावस्त्वतलाविति त्वः । प्रत्ययस्वरः । समर्ये । मृङ् प्राणत्याग इत्यस्माच्छन्दसि निष्टर्क्येति क्यप्रत्ययान्तत्वेन निपातनाद्गुणः । समासस्येत्यन्तोदात्तत्वम् । पुनन्ति । पूञ् पवने । क्र्यादित्वाच्छ्ना । स्वादित्वाद्ध्रस्वः । प्रत्ययस्वरः । देवयाः । या प्रापणे । आतो मनिन्निति विच् प्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । इयर्ति । ऋ गतौ । जुहोत्यादिः । अभ्यासस्यार्तिपिपर्त्योश्चेतीत्वम् । अभ्यासस्यासवर्ण इतीयजादेशः । निघातः ॥ ५ ॥
“Born (in the forest), and beautified in the sacrifice celebrated by men, it is (again) engendered for the sanctification of the days (of sacred rites); steadfast, active and intelligent (priests) consecrate it with intelligence, and the devout worshipper recites its praise.”
Sprung up he rises in the days' fair weather, increasing in the men-frequented synod.
With song the wise and skilful consecrate him: his voice the God-adoring singer utters.
6, Ye whom religious men have firmly planted; thou Forest Sovran whom the axe hath fashioned,-
Let those the Stakes divine which here are standing be fain to grant us wealth with store of children.
He who has been born is born 1 in the auspiciousness of days, growing up in the assembly and at the sacrifice 2. Wise, active men purify him by pious thoughts; the priest approaching the gods raises his voice 3.
Once born, he is born (again) on the brightest day of days, growing strong at the encounter, at the rite.
The insightful, industrious ones purify (him) with inspired thought. Beseeching the gods, the poet raises his voice.
Zur guten Stunde ward das Kind geboren, genähret ward es in der Festversammlung; Die klugen thät'gen schmücken ihn mit Weisheit, der fromme Sänger lässt die Stimm' erschallen.
Geboren wird er nochmals geboren an dem Glückstag der Tage, im Wettstreit in der Weisheit wachsend. Es heiligen ihn die werkkundigen Weisen mit Bedacht. Zu den Göttern sich wendend erhebt der Redekundige die Stimme.
(Едва) родившись, оно рождается (снова) в счастливейший из дней,
Возрастая при состязании на месте жертвенных раздач.
Мудрые, деятельные очищают (его) молитвой.
Отправляясь к богам, вдохновенное поднимает голос.
यान्वो॒ नरो॑ देव॒यन्तो॑ निमि॒म्युर्वन॑स्पते॒ स्वधि॑तिर्वा त॒तक्ष॑ । ते दे॒वास॒: स्वर॑वस्तस्थि॒वांस॑: प्र॒जाव॑द॒स्मे दि॑धिषन्तु॒ रत्न॑म् ॥
यान् । वः॒ । नरः॑ । दे॒व॒ऽयन्तः॑ । नि॒ऽमि॒म्युः । वन॑स्पते । स्वऽधि॑तिः । वा॒ । त॒तक्ष॑ । ते । दे॒वासः॑ । स्वर॑वः । त॒स्थि॒ऽवांसः॑ । प्र॒जाऽव॑त् । अ॒स्मे इति॑ । दि॒धि॒ष॒न्तु॒ । रत्न॑म् ॥
हे यूपा देवयन्तो देवान्कामयमाना नरः कर्माणां नेतारोऽध्वर्य्वादयो यान्वो यान्युष्मान्निमिम्युः । अवटेषु प्रचिक्षिपुः । वा आपि च हे वनस्पते स्वधितिः परशुस्त्वदीयान्यूपांस्ततक्ष चिच्छेद देवासो दीप्यमानाः स्वरवः । स्वरुशब्दः स्वशकलवाची । त्द्वन्तः । लुप्तमत्वर्थीयः । तस्थिवांसस्तिष्ठन्तस्ते तादृशा यूपा आस्मे अस्मै यजमानाय प्रजावत् अपत्यसहितं रत्नमुत्तमं धनं दिदिह्षन्तु । धारयन्तु । प्रयच्छन्त्वित्यर्थः ॥ निमिय्मुः । डुमिञ् प्रक्षेपण इत्यस्य लिट्युसि असंयोगाल्लिट् किदिति किद्वद्भ्रावाद्गुणाभावः । यद्वृत्तयोगादनिघातः । सति शिष्टः स्वरो बलीयानिति वचनात्प्रत्ययस्वरः । स्वधितिः । स्वशब्दोपपदाद्धा धारण इत्यस्मात् क्तिन् । स्वा स्वकीया निशितधारा धीयते प्रक्षिप्येतेऽनेनेति स्वधितिः खड्गः । ततक्ष । तक्षू त्वक्षू तनूकरण इत्यस्माल्लिटि णलि रूपादनिघातः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । स्वरवः । स्वृ शब्दोपतापयोरित्यस्मान्निदित्यनुवृत्तौ शॄस्वृस्निहित्रपीत्यादिना उ प्रत्ययः । नित्त्वादाद्युदात्तः । तस्थिवांसः । ष्ठा गतिनिवृत्तावित्यस्माच्छन्दसि लिट् । तस्य क्वसुः । वस्वेकाजाद्घसामितीडागमः । प्रत्ययस्वरः । प्रजावत् । जनीप्रादुर्भाव इत्यस्मादुपसर्गे च सञ्ज्ञायामिति डः । ततष्टाप् । तदस्यास्तीति मतुप् । तस्य पित्त्वादनुदात्तत्वम् । एकादेशस्वरः । आस्मे । आस्मच्छब्दस्य सुपां सुलुगिति शे आदेशः । दिधिषन्तु । धिष धारणे । जुहोत्यादिः । निघातः ॥ ६ ॥
“May those (posts) which devout men have cut down, or which, Vanaspati, the axe has trimmed, may they standing resplendent with all their parts (entire) bestow upon us wealth with progeny.”
यान्वो॒ नरो॑ देव॒यन्तो॑ निमि॒म्युर्वन॑स्पते॒ स्वधि॑तिर्वा त॒तक्ष॑ ।
ते दे॒वासः॒ स्वर॑वस्तस्थि॒वांसः॑ प्र॒जाव॑द॒स्मे दि॑धिषन्तु॒ रत्न॑म् ॥
You whom the worshippers of the gods have fastened down (in the earth), or whom the axe has fashioned, O lord of the forest: may those divine posts 1 standing (here) take care to bestow on us treasures with offspring.
Those of you whom the god-seeking men have fixed down, or, Lord of the Forest, whom the axe has fashioned,
let those god(like) sacrificial posts, standing there, be disposed to place a treasure consisting of offspring in us.
Ihr die die frommen Männer aufgerichtet, du Waldesherr, den schön die Axt gezimmert; Die Säulen; die als Götter aufrecht stehen, die mögen geben kinderreiches Gut uns.
Ihr, die die gottergebenen Männer eingesenkt haben oder die die Axt behauen hat, o Baum, diese göttlichen Pfosten stehen da und sollen uns kindereichen Schatz zu gewinnen suchen.
Вы, кого вкопали мужи, стремящиеся к богам,
Или (кого) обтесал топор, о дерево,
Эти вставшие божественные столбы, –
Пусть захотят они создать нам сокровище, состоящее из потомства.
ये वृ॒क्णासो॒ अधि॒ क्षमि॒ निमि॑तासो य॒तस्रु॑चः । ते नो॑ व्यन्तु॒ वार्यं॑ देव॒त्रा क्षे॑त्र॒साध॑सः ॥
ये । वृ॒क्णासः॑ । अधि॑ । क्षमि॑ । निऽमि॑तासः । य॒तऽस्रु॑चः । ते । नः॒ । व्य॒न्तु॒ । वार्य॑म् । दे॒व॒ऽत्रा । क्षे॒त्र॒ऽसाध॑सः ॥
अधि क्षमि क्षमायां भूमौ वृक्णासः परुशुना च्छिन्ना ये यूपाः । यतस्रुच इति ऋत्विग्वाची यतस्रुचो मरुत इति ऋत्विङ्नामसु पठितत्वात् । यताः स्रुचो यैस्ते यतस्रुचः । तैर्यत्विग्भिर्निमितासोऽवटेषु नितरां प्रक्षिक्ताः क्षेत्रसाधसः क्षेत्रस्य यज्ञस्य साधकाः । यथा क्षेत्रं सस्यादिद्वारा फलं प्रयच्छति तथा यज्ञो७प्यपूर्वद्वारा स्वर्गादि फलं ददातीति क्षेत्रं यज्ञः । एवं विधास्ते यूपानोऽस्मदीयं वार्यं वारणीयं सम्भजनीयं हविर्देवत्रा देवेषु व्यन्तु । गमयन्तु । अस्मदीयं हविर्देवाधीनं कुर्वन्त्वित्यर्थः । कृक्णासः । ओव्रश्चूछेदन इत्यस्य निष्ठायां यस्य विभाषेतीट् प्रतिषेधः । कित्त्वद्ग्रहिज्यावयित्यादिना सम्प्रसारणम् । ओदितश्चेति निष्ठानत्वम् । क्षमि । आतो धातोरित्यत्र अत इति योगविभागादाकारलोपः । निमितासः । डुमिञ् प्रक्षेपणी । कर्मणि क्तः । गतिरनन्तर इति पूर्वपद प्रकृतिस्वरत्वम् । यतस्रुचः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । व्यन्तु । इण् गतावित्यस्य लोटि रूपम् । इकारलोपश्छान्दसः । अयमन्तर्भावितण्यर्थः । वार्यम् । वृङ् सम्भक्तावित्यस्मादृहलोर्ण्यदिति कर्मणि ण्यत् । ईडवन्दवृशंसदुहेत्यादिनाद्युदात्तत्वम् । देवत्रा त्रेत्यनुवृत्तौ देवमनुष्यपुरुपुरुमर्त्येभ्य इत्यादिनाधिकरणे त्राप्रत्ययः । क्षेत्रसाधसः । राध साध संसिद्धावित्यस्मादौणादिकोऽसुन् । कृदुत्तरपदप्रकृतिस्वरः ॥ ७ ॥
“May those posts which have been cut down upon the earth, and which have been fabricated by the priests, those which are the accomplishers of the sacrifice, convey our acceptable (offering) to the gods.”
O men who lift the ladles up, these hewn and planted in the ground,
Bringing a blessing to the field, shall bear our precious gift to Gods.
(The posts) which have been hewn on the earth and fastened down, and to which the sacrificial ladles have been raised 1: may they, giving bliss to our fields 2, eagerly seek precious goods for us among the gods.
Those who, hewn, are on the earth, or have been fixed down in it, or over whom the offering ladles have been outstretched,
let them pursue a thing of value for us among the gods, assuring
success to the cultivated lands.
Die auf der Erde man gefällt, errichtet und mit Trank versehn, die mögen segnen unser Feld, die Gaben führen götterwärts.
Die abgehauen auf der Erde liegen, die eingesenkt sind, denen der Opferlöffel gereicht wird, die sollen uns Wünschenswertes erstreben, die unter den Göttern den Streit um Grundbesitz schlichten.
(Те,) что срубленные, (лежат) на земле,
Что вкопаны, кому протягивают жертвенные ложки, –
Да наградят они (нас) желанным даром,
(Они,) улаживающие (споры) о полях у богов!
आ॒दि॒त्या रु॒द्रा वस॑वः सुनी॒था द्यावा॒क्षामा॑ पृथि॒वी अ॒न्तरि॑क्षम् । स॒जोष॑सो य॒ज्ञम॑वन्तु दे॒वा ऊ॒र्ध्वं कृ॑ण्वन्त्वध्व॒रस्य॑ के॒तुम् ॥
आ॒दि॒त्याः । रु॒द्राः । वस॑वः । सु॒ऽनी॒थाः । द्यावा॒ऽक्षामा॑ । पृ॒थि॒वी । अ॒न्तरि॑क्षम् । स॒ऽजोष॑सः । य॒ज्ञम् । अ॒व॒न्तु॒ । दे॒वाः । ऊ॒र्ध्वम् । कृ॒ण्व॒न्तु॒ । अ॒ध्व॒रस्य॑ । के॒तुम् ॥
सुनीथा यज्ञस्य सुष्ठु नेतार आदित्या द्वादशादित्या रुद्रा एकादशरुद्रा वसवोऽष्टौ वसवः । यद्वा सुष्ठुनीथाः सुष्टुतयः । स्तुत शस्त्राणि निथानि चोक्थ्यामदानि च । ऐ. ब्रा. २-३८ । इति हि श्रूयते । द्यावाक्षामा द्यावापृथिव्यौ । पृथिवी । सुब्व्यत्ययः । पृथु विस्तीर्णमन्तरिक्षं च । सजोषस एते सर्वे देवा ऐकमत्येन परस्परं सङ्गता भूत्वेममस्मदीयं यज्ञमवन्तु । रक्षन्तु । किञ्च । अध्वरस्य यज्ञस्य केतुं ध्वजभूतं प्रज्ञापकं नेमं यूपमूर्ध्वं कृण्वन्तु । उच्छ्रितं कुर्वन्तु । आदित्याः । अदितेरपत्यानि । दित्यदित्यादित्यपत्युत्तरपदादिति ण्यः । णित्त्वादादिवृद्धिः । प्रत्ययस्वरः । रुद्राः । रोदयन्ति सर्वानन्त काले । रोदेर्णिलुक् चेति रक्प्रत्ययः । तत्सन्नियोगेणिलोपः । प्रत्ययस्वरः । जसः सुप्त्वादनुदात्तत्वे एकादेश उदात्तेनोदात्त इत्येकादेशस्याप्युदात्तत्वम् । वसव वस निवासे । निदित्यनुवृक्तौ शॄस्वृस्निहित्रप्यसिवसीत्यादिनोप्रत्ययः । नित्त्वादाद्युदात्तः । सुनीथाः । णीञि प्रापणे । हनिकुषिनीरमिकाशिभ्य इति क्थन् । कित्त्वादगुणः । थाथघञ्तेत्युत्तरपदान्तोदात्तत्वम् । द्यावाक्षामा । दौश्च क्षामा च । दिवो द्यावेति द्यावादेशः । देवता द्वन्द्वे चेत्युभयपदप्रकृतिस्वरत्वम् । पृथिवी । प्रथ प्रख्याने । प्रथेः । षिवन् सम्प्रसारणं चेति षिवन् सम्प्रसारणं च । शिद्गौरादिभ्यश्चेति ङीष् । प्रत्ययस्वरेणान्तोदात्तः । अवन्तु । अव रक्षणे निघातह् । कृण्वन्तु । कृवि हिंसाकरणयोरित्यस्माल्लोटि धिन्विकृण्व्योरच्चेत्युप्रत्ययः । अकारश्चान्दादेशः । निघातः ॥ ८ ॥
“May the leaders of the rite, the divine Ādityas, Rudras, Vasus, Heaven and Earth, the Earth, the firmament, well plural ased, protect our sacrifice; let them raise aloft the standard of the ceremony.”
Adityas, Rudras, Vasus, careful leaders, Earth, Heaven, and Prthivi and Air's mid-region,
Accordant Deities shall bless our worship and make our sacrifice's ensign lofty.
May the Âdityas, the Rudras, the Vasus, the good leaders, Heaven and Earth, the Earth 1 and the Air—may the gods unanimously bless this sacrifice; may they raise up the banner of the sacrifice (the Yûpa).
The Ādityas, Rudras, Vasus of good guidance, Heaven and Earth, the Broad One, the Midspace—
let the gods in concert help our sacrifice. Let them make the beacon of the ceremony erect.
Die Rudra-, Vasu- und Aditjascharen, schönleitend, Himmel, Erde, Luft und Weltkreis, Vereinigt sein die Götter hold dem Opfer, des Festes Fahne mögen hoch sie halten.
Die Aditya´s, die Rudra´s, die Vasu´s, die guten Führer, Himmel und Erde, Land und Luft, die Götter sollen einmütig das Opfer begünstigen und sollen das Banner der Opferhandlung aufpflanzen.
Адитьи, Рудры, Васу – добрые вожди,
Небо-Земля, Земля, воздушное пространство,
Боги единодушные да помогут (нашей) жертве!
Да водрузят они знамя обряда!
हं॒सा इ॑व श्रेणि॒शो यता॑नाः शु॒क्रा वसा॑ना॒: स्वर॑वो न॒ आगु॑: । उ॒न्नी॒यमा॑नाः क॒विभि॑: पु॒रस्ता॑द्दे॒वा दे॒वाना॒मपि॑ यन्ति॒ पाथ॑: ॥
हं॒साःऽइ॑व । श्रे॒णि॒शः । यता॑नाः । शु॒क्राः । वसा॑नाः । स्वर॑वः । नः॒ । आ । अ॒गुः॒ । उ॒त्ऽनी॒यमा॑नाः । क॒विऽभिः॑ । पु॒रस्ता॑त् । दे॒वाः । दे॒वाना॑म् । अपि॑ । य॒न्ति॒ । पाथः॑ ॥
शुक्रा शुक्राणि दीप्तानि वासांसि वसना आच्छादयन्तः स्वरवः स्वरुमन्तः श्रेणिश पङ्क्तिशो यतानाः प्रवर्तमानाः । अत्र दृष्टान्तः । हंसा इवेति । यथा नभसि पङ्किशः पतन्तो हंसाः शोभन्ते तद्वत् शोभमानास्ते यूपा नोऽस्मानागुः । प्रापुः । अपि च कवभिर्मेधाविभिरध्वर्व्यादिभिः पुरस्तादाहवनीयस्य पूर्वभाग उन्नीयमाना उच्छ्रीयमाणा देवा दीप्यमानास्ते यूपा देवानां पाथो देवानां स्थानमन्तरिक्षम् । पाथोऽन्तरिक्षं पथा व्याख्यातमिति यास्कः । पाथोनदीभ्यां ड्यङ् । पा. ४-४-१११ । इति सूत्रे पाथोऽन्तरिक्षमिति वृत्तिकारोऽप्यवादीत् । तादृशमन्तरिक्षमपियन्ति । प्राप्नुवन्ति । अध्वर्व्यादिभिरुच्छ्रीयमाणा यूपा अतिदैर्घ्यादन्तरिक्षं व्याप्य वर्तन्त इत्यर्थः । हंसा इव । इवेन विभक्त्यलोप इति वचनात्पूर्वपदस्वरः । श्रेणितः । बह्वल्पार्थदिति शस् । प्रत्ययस्वरः । श्रेणिशः । बहुल्पार्थादिति शस् । प्रत्ययस्वरः । शुक्रा । शुच दीप्तावित्यस्मादृज्रेन्द्राग्रेत्यादिना रन्प्रत्ययान्तत्वेन निपातनादन्तोदात्तः । आगुः । इण् गतौ । अस्माल्लुङ् रूपम् । निघातः ॥ ९ ॥
“Arrayed in bright (garments), entire (in their parts), these pillars ranging in rows like swans, have come to us erected by pious sages on the east( of the fire); they proceed resplendent on the path of the gods.”
Like swan's that flee in lengthened line, the Pillars have come to us arrayed in brilliant coIour.
They, lifted up on high, by sages, eastward, go forth as Gods to the God's dwelling-places.
Like swans ranging themselves in rows, arraying themselves in brightness the sacrificial posts have come to us. Led up by the sages they go forward as gods to the abode of the gods.
Like geese, taking their places in a row, wearing gleaming (garments) the posts have come here to us.
Being led upward by the poets in front, the gods go into the fold of the gods.
Wie Gänsescharen, die in Reihen fliegen, so kamen unsre Säulen lichtumkleidet, Emporgerichtet vorne von den Priestern, als Götter gehn sie zu der Götter Wohnsitz.
Wie die Gänse in einer Reihe ziehend, weißgekleidet sind die Pfosten zu uns gekommen. Von den Weisen vorne aufgerichtet begeben sich die Götter in den Schutz der Götter.
Словно гуси, выстроившиеся рядами,
Прибыли к нам столбы, одетые в светлое.
Поднимаемые перед (огнем) поэтами,
Боги вступают на путь богов.
शृङ्गा॑णी॒वेच्छृ॒ङ्गिणां॒ सं द॑दृश्रे च॒षाल॑वन्त॒: स्वर॑वः पृथि॒व्याम् । वा॒घद्भि॑र्वा विह॒वे श्रोष॑माणा अ॒स्माँ अ॑वन्तु पृत॒नाज्ये॑षु ॥
शृङ्गा॑णिऽइव । शृ॒ङ्गिणा॒म् । सम् । द॒दृ॒श्रे॒ । च॒षाल॑ऽवन्तः । स्वर॑वः । पृ॒थि॒व्याम् । वा॒घत्ऽभिः॑ । वा॒ । वि॒ऽह॒वे । श्रोष॑माणाः । अ॒स्मान् । अ॒व॒न्तु॒ । पृ॒त॒नाज्ये॑षु ॥
स्वरवः स्वरमन्तश्चाषालवन्तः प्रतिमुक्तकण्टकाः । एवं विधा य़ूपाः पृथिव्यां शृङ्गिणां महषादीनां शृङ्णाणीवेत् विषाणानिव सन्ददृश्रे । सम्यक् दृश्यन्त एव । वा अपि च विहवे । विविधं हूयन्ते हवींष्यत्रेति विहवो यज्ञः । तस्म्न्न्यज्ञे वाघद्भिरृत्विभिः । वाघतो वृक्तबर्हिष इत्यृत्विङ्नामसु पाठात् । श्रोषमाणास्तैः क्रियमाणं स्तुतिलक्षणं शब्दं शृण्वन्तः । तादृशा यूपाः पृतनाज्येषु । पृतनाज्यशब्दः सङ्रामवाची । अदौ पृतनाज्यमिति सङ्रामनामसु पठितत्वात् । पृतनाज्येषु सङ्रामेषु । वधस्थलेष्विति यावत् । अस्मान्यजमानानवन्तु । रक्षन्तु । शृङ्गाणि । शॄ हिंसायामित्यस्माच्छृणातेर्ह्रस्वश्च । उ. १-१२५ । इति गन् नुडागमो धातोर्ह्रस्वश्च । नित्स्वरः । ददृश्रे । छन्दसि लुङ्ल लुङ्लिट इति लङर्थे लिट् । इरयो र इतीरेचो रे त्यादेशः । निघातः ॥ १० ॥
“Entire in all parts and girded with rings, they appear upon the earth like the horns of horned cattle; hearing (their praises) by the priests; may they protect us in battles.”
Those Stakes upon the earth with rings that deck them seem to the eye like horns of horned creatures;
Or, as upraised by priests in invocation, let them assist us in the rush to battle.
Like horns of horned animals the sacrificial posts with their head-pieces 1 are seen on the earth. Hearing (us) in the emulating call of the invoking (priests) may they protect us in the racings of battles.
Just like the horns of horned beasts they appear—the posts, with their knobs, (standing) on the earth.
Or listening attentively at the competing invocation by the cantors, let (the gods) help us at the battle drives.
Sie sehen aus wie Hörner der Gehörnten, die knaufgezierten Säulen auf der Erde, Den Betern lauschend bei dem Götteranruf, sie sein uns hülfreich, wenn zum Kampf wir eilen.
Wie die Hörner der gehörnten Tiere sehen die Pfosten aus, wenn sie mit dem Knauf versehen auf der Erde stehen. Im Wettkampf mit anderen Priestern uns vielleicht erhörend, sollen sie uns in den Kämpfen ihre Gunst schenken.
Они выглядят, как рога рогатых (животных),
Столбы с навершиями, (стоящие) на земле.
Прислушиваясь к перекличке жрецов,
Пусть помогут они нам в состязаниях!
वन॑स्पते श॒तव॑ल्शो॒ वि रो॑ह स॒हस्र॑वल्शा॒ वि व॒यं रु॑हेम । यं त्वाम॒यं स्वधि॑ति॒स्तेज॑मानः प्रणि॒नाय॑ मह॒ते सौभ॑गाय ॥
वन॑स्पते । श॒तऽव॑ल्शः । वि । रो॒ह॒ । स॒हस्र॑ऽवल्शाः । वि । व॒यम् । रु॒हे॒म॒ । यम् । त्वाम् । अ॒यम् । स्वऽधि॑तिः । तेज॑मानः । प्र॒ऽनि॒नाय॑ । म॒ह॒ते । सौभ॑गाय ॥
हे वनस्पते छिन्नमूल स्थाणो शवल्शः शतशाखः सन् विरोह । विशेषेण पादुर्भूतो भव । वयमपि सहस्रवस्शाः पुत्रपौत्रादिसन्तानपरम्परया सहस्रशाखाः सन्तो विरुहेम । विशेषेण प्रादुर्भुता भवेम । तेजमानो निशितधारोऽयं स्वधितिः परशुः हे स्थाणो यं त्वा महते सौभगाय महत्सौभाग्यं बहुशाखत्व लक्षणं प्रणिनाय । प्रकर्षेण प्रपयामास । सहस्रवल्शाः । सहस्रशब्दः कर्दमादित्वान्मध्योदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । रुहेम । रुह प्रादुर्भाव इत्यस्मादाशीर्लिङ् किदाशिषीति यासुडागमः । स्कोः संयोगाद्योरन्ते चेति सलोपः । लिज्याशिष्यङ्ङु त्यङ् प्रत्ययः । अतो येय इति इयादेशः । लोपो व्योर्वलिति यलोपः । गुणः । प्रणिनाय । णीञ् प्रापण इत्यस्माल्लिटि रूपम् । पादादित्वाद निघातः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् ॥ ११ ॥
“Vanaspati, mount upwith a hundred branches, that we may mount with a thousand, you whom the sharpened hatchet has brought for great auspiciousness.”
Lord of the Wood, rise with a hundred branches. with thousand branches may we rise to greatness,
Tlou whom this hatchct, with an edge well whetted for great felicity, hath brought before us.
O lord of the forest, rise with a hundred branches; may we rise with a thousand branches (offspring)—thou whom this sharpened axe has led forward to great prosperity.
Lord of the Forest, grow forth with a hundred branches—with a thousand branches may we grow forth—
you whom this axe here, on being sharpened, has led forth for great good fortune.
O steig empor mit hundert Zweigen, Waldherr, mit tausend Zweigen lass empor uns wachsen, Wie dich auch dieses Beil, das scharfgewetzte, gefördert hat zu grossem Glück und Segen.
O Baum. Sprosse mit hundert Zweigen - mit tausend Zweigen möchten auch wir sprossen - du, den diese geschärfte Axt zu großem Glücke gebracht hat.
О дерево, вырастай с сотней ветвей –
С тысячью ветвей пусть вырастем мы –
Ты, которое этот наточенный топор
Привел (сюда) на великую удачу!