सखा॑यस्त्वा ववृमहे दे॒वं मर्ता॑स ऊ॒तये॑ । अ॒पां नपा॑तं सु॒भगं॑ सु॒दीदि॑तिं सु॒प्रतू॑र्तिमने॒हस॑म् ॥
सखा॑यः । त्वा॒ । व॒वृ॒म॒हे॒ । दे॒वम् । मर्ता॑सः । ऊ॒तये॑ । अ॒पाम् । नपा॑तम् । सु॒ऽभग॑म् । सु॒ऽदीदि॑तिम् । सु॒ऽप्रतू॑र्तिम् । अ॒ने॒हस॑म् ॥
विश्वामित्र सौति । हे अग्ने सखायः सोमाज्यादिहविष्प्रदानेनोपकारकत्वान्मित्राणि मर्तसो मनुष्युआ ऋत्विजो वयमपां नपातमपां नप्तारं सुभगम् शोभनधनयुक्तं सुदीदितिं शोभनदीप्तिं सुप्रतूर्तिं शोभनप्रतरणं कर्मानुष्ठातृभिः सुखेन गन्तव्यमनेहसमुपद्रवरहितमेतादृशं देवं त्वामूतये रक्षणाय ववृमहे । वृणीमहे । सखाय । ख्या प्रकथने । समाने ख्यश्चोदात्त इति समान उपपदे डिदित्यनुवृत्तौ ख्यातेरिण् । तस्य डित्त्वाट्टिलोपः । तत्सन्नियोगेन यलोपः । ववृमहे । वृङ् सम्भकौ । छन्दसि लुङ्लिट इति वर्तमाने लिट् । क्रादित्वादिडभावः । निघातः । ऊतये । अवरक्षण इत्यस्य उदात्त इत्यनुवृत्तावूतियूतीत्यादिना क्तिनन्तत्वेन निपातनादन्तोदात्तः । अपाम् । ऊडिदमिति विभक्तेरुदात्तत्वम् । सुभगम् । अद्युदात्तं द्व्यच् छन्दसीत्युत्तरपदाद्युदात्तत्वम् । सुप्रतूर्तिम् । क्रत्वादयश्चेत्युत्तरपदाद्युदात्तत्वं ॥ १ ॥
“We, your mortal friends have recourse for our protection to you, the divine, the grandson of the waters, the auspicious, the resplendent, the accessible, the sinless.”
WE as thy friends have chosen thee, mortals a God, to be our help,
The Waters' Child, the blessed, the resplendent One, victorious and beyond compare.
We, thy friends 1, have chosen thee for our protection, (we) the mortals (thee) the god, the offspring of the Waters, the blessed one with fine splendour 2, who gloriously advances, the unmenaced one.
As your companions, we mortals have chosen you, a god, to help— you, the Child of the Waters, sharing good fortune, shining brightly, strongly advancing, faultless.
Dich wählen wir als Freunde uns, den Gott zum Schutz wir Sterblichen, Der Wasser Sohn den reichen schönerglänzenden, der siegreich unvergleichlich ist.
Wir Freunde haben dich erwählt, den Gott die Sterblichen zum Beistand, das holde Kind der Gewässer, schön leuchtend, tüchtig voranstrebend, fehlerlos.
Друзья (твои), мы выбрали тебя,
Бога, (мы,) смертные, для помощи,
Отпрыска вод, счастливого, чудесно сверкающего,
Легко преодолевающего (препятствия), незлобивого.
काय॑मानो व॒ना त्वं यन्मा॒तॄरज॑गन्न॒पः । न तत्ते॑ अग्ने प्र॒मृषे॑ नि॒वर्त॑नं॒ यद्दू॒रे सन्नि॒हाभ॑वः ॥
काय॑मानः । व॒ना । त्वम् । यत् । मा॒तॄः । अज॑गन् । अ॒पः । न । तत् । ते॒ । अ॒ग्ने॒ । प्र॒ऽमृषे॑ । नि॒ऽवर्त॑नम् । यत् । दू॒रे । सन् । इ॒ह । अभ॑वः ॥
हे अग्ने वना काननानि कायमानः कामयमानस्त्वं यद्यस्मात्कारणात्तानि विजाय मातॄरपो मातृभूता आपोऽजगन् । आगमः । गतवानसि । अप्सु प्रविष्टत्वाच्छान्तो वर्तसे तत्तस्मात्ते तव निवर्तनम् । नितरां तत्रैव वर्तनम् । तेन च विनाशो लक्ष्यते । न विनाशो न प्रमृषे । स पर्मृश्यते । न सह्यते । कुत इत्यत आह । यद्यस्मात्कारणाद्दूरे सन् अदृश्यतया वरत्मानस्त्वमिहास्मत्सम्बन्धिष्वरणिरूपेषु काष्ठेष्वभवः । मन्थनात् क्षणमात्रेणास्माकं समीपे भवसि । तस्मात्तव दूरतो वर्तनमस्मभ्यं न रोचते । अस्मिन्नर्थे यास्कः । कायमानश्चायमानः कामयमान इति वा । वनानि तव्ं यन्मातॄरपोऽगम उपश्याम्यन् । तत्ते अग्नेः प्रमृश्यते निवर्तनं दूरे यत्सन्निह भवसि जायमानः । नि. ४-१४ । इति । कायमानः । कमु कान्तौ । कमेर्णिङ् लटः शानच् । मकारलोपश्छान्दसः । अजगन् । ग्म्लृ गतावित्यस्य लङ् बहुलं छन्दसीति शपः श्लुः । हल्ङ्यादिना सिलोपः । मोनो धातोरिति नकारः । यच्छब्दयोगादनिघातः । अडागमस्वरः प्रमृषे । मृष तितिक्षायाम् । व्यत्ययेन कर्मणि तप्रत्ययः । लोपस्त आत्मनेपदेष्विति तलोपः । धातुस्वरः । अभवः । छन्दसि लुङ्ल ङ्लिट इति लडर्थे लङ् । यद्योगादनिघातः । ॥ २ ॥
“Desirous as you are of the forests since you have repaired to the maternal waters, Agni, your tarrying so far away is not to be endured; (in a moment) you are here with us.”
Since thou delighting in the woods hast gone unto thy mother streams,
Not to be scorned, Agni, is that return of thine when from afar thou now art here.
When thou, finding pleasure in the wood, hast gone to thy mothers, the Waters, that return of thine, Agni, (to this world) should not be slighted, when dwelling afar thou hast come hither.
Since desiring the trees, you went to your mothers, the waters,
therefore your return is not to be ignored, o Agni, since, though being far away, you have come to be here.
Dass Wälder liebend du zurück zu Wassern, deinen Müttern gingst; Nicht zu verschmähn ist, Agni, dies dein Heimwärtsgehn, da fern du seiend wiederkamst.
Wenn du, der du an den Hölzern deine Freude hast, in deine Mütter, die Gewässer, eingegangen bist, so sollst du, Agni, die Rückkehr nicht vergessen, und daß du, der in der Ferne weilende, früher hier warst.
Любящий дерево, когда ты
Отправился к (своим) матерям – водам,
Ты не должен забывать о возвращении,
(Даже) будучи далеко, (о том) что ты был здесь.
अति॑ तृ॒ष्टं व॑वक्षि॒थाथै॒व सु॒मना॑ असि । प्रप्रा॒न्ये यन्ति॒ पर्य॒न्य आ॑सते॒ येषां॑ स॒ख्ये असि॑ श्रि॒तः ॥
अति॑ । तृ॒ष्टम् । व॒व॒क्षि॒थ॒ । अथ॑ । ए॒व । सु॒ऽमनाः॑ । अ॒सि॒ । प्रऽप्र॑ । अ॒न्ये । यन्ति॑ । परि॑ । अ॒न्ये । आ॒स॒ते॒ । येषा॑म् । स॒ख्ये । असि॑ । श्रि॒तः ॥
हे अग्ने तृष्टं स्तोतुस्तृष्णाभिलाषं तदुचितफलप्रदानेन सफलं कर्तुमतिववक्षिथ । अतिशयेन वोढुमिच्छसि । अथैव अथापि त्वं सुमना असि । सन्तुष्ट मनस्को वर्तसे । किञ्च । त्वं येषां षोडशानामृत्विजां सख्ये मैत्रे श्रितोऽसि वर्तसे तेषां मध्येऽन्येऽध्वर्युप्रभृतयो द्वादशर्त्विजः प्रयन्ति । प्रकर्षेण होतुं गच्छन्ति । अन्य उद्गातृ प्रभृतयश्चत्वारः पर्यासते । परित आसीना वर्तन्ते । ववक्षिथ । वह प्रापण इत्यस्य सनि रूपम् । अध्यासस्य सन्यत इतीत्वाभावश्छान्दसः । तसन्ताद्वर्तमाने लिट् । थल आर्थधातुकस्येड्वलादेरितीट् । कास्प्रत्ययादामित्याम् न भवति मन्त्रत्वात् । निघातः । प्रप्र । प्रसमुपोद इति द्विर्वचनम् । यन्ति । इण् गतावित्यस्य लटि रूपम् । एकान्याभ्यां समर्थाभ्यामित्यन्यशब्दयोगात्पूर्वस्य निघाताभावः । आसते । आस उपवेशने । उत्तरत्वान्निघातः । असि । आस भुवि । तासस्त्योर्लोप इति सकारलोपः । यद्वृत्तयोगान्न निहन्यते ॥ ३ ॥
“You wish exceedingly to convey satisfaction (to your worshippers) and are thereto well-disposed; of those in whose friendship you are cherished, some precede while others sit around.”
O'er pungent smoke host thou prevailed, and thus art thou benevolent.
Some go before, and others round about thee sit, they in whose friendship thou hast place.
High above (all) pungent sharpness thou hast grown up 1, and verily thou art kind-hearted. Some go forward here and there; others sit around thee, in whose friendship thou abidest 2.
You have grown beyond the acrid (smoke), and so now you are
benevolent.
The ones [=priests or flames] go farther and farther forth; the
others [=other priests or flames] remain around—those in whose
companionship you rest.
Dem scharfen Rauch entwuchsest du, und nun bist du recht wohlgemuth; Vor schreiten diese, andre sitzen um dich her, mit denen du verbündet bist.
Du bist über das Scharfe hinausgewachsen, nun bist du freundlich. Die einen treten abwechselnd heran, die anderen sitzen herum, in deren Freundschaft du weilst.
(Вот) перерос ты через то, что грубое (в тебе),
Итак теперь ты доброжелателен.
Одни проходят и проходят, другие сидят вокруг –
(Те,) на чью дружбу ты опираешься.
ई॒यि॒वांस॒मति॒ स्रिध॒: शश्व॑ती॒रति॑ स॒श्चत॑: । अन्वी॑मविन्दन्निचि॒रासो॑ अ॒द्रुहो॒ऽप्सु सिं॒हमि॑व श्रि॒तम् ॥
ई॒यि॒ऽवांस॑म् । अति॑ । स्रिधः॑ । शश्व॑तीः । अति॑ । स॒श्चतः॑ । अनु॑ । ई॒म् । अ॒वि॒न्द॒न् । नि॒ऽचि॒रासः॑ । अ॒द्रुहः॑ । अ॒प्ऽसु । सिं॒हम्ऽइ॑व । श्रि॒तम् ॥
हे अग्ने अदुहोऽद्रोग्धारो निचिरासो नितरां चिरासश्चिरन्तना विश्वेदेवाः स्रिधः शोषकाञ्छत्रून्बलेनातिक्रम्येयिवांसं गच्छन्तं शश्वतीर्बह्वीः सश्चतः सङ्गतिकारणीः सेनाश्चात्यतिक्रम्य गच्छन्तमप्सु श्रितं तिरोहितमत एव सिंहमिव हुहाप्रविष्टं सिंहमिव भीममीमेनं त्वामन्वविन्दन् । अनुगम्या लभन्त । रयिवांसम् । इण् गतावित्यस्य क्वसावुपेयिवाननाश्वाननूचानश्च । पा.३-२-१०९ । इति निपातितः । प्रत्ययस्वरः । स्रिधः । स्रिधेः क्षयार्थस्य शोषणार्थस्य वा क्विप् चेति क्विप् । धातु स्वरः । सश्चतः । षस्ज गतौ । जकारस्य व्यत्ययेन चकारः । लटः शत्रादेशः । प्रत्ययस्वरः । अविन्दन् । विद्लृ लाभ इत्यस्य लङ् रूपम् । निचिरासः । नितरां चिराः । आज्जसेरसुगित्यसुक् । समासस्वरः । आद्रुहः । द्रुह जिघांसायाम् । सम्पादादित्वाद्भावे क्विप् । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । श्रितम् । श्रिञ् सेवायामित्यस्य त्र्युकः कितीतीट् प्रतिषेधः । प्रत्ययस्वरः ॥ ४ ॥
“The benignant and long-lived deities have discovered you, Agni, when required to go against their constant and assembled foes, hidden in the waters like a lion (in a cave).”
Him who had passed beyond his foes, beyond continual pursuits, Him the unerring Ones, observant, found in floods, couched like a lion in his lair.
He who has passed beyond (all) failures, beyond all hindrances 1, the guileless, watchful ones 2 have found him as a lion (is found), when he had gone into the Waters;
Him who had gone beyond failures, beyond the ever-parched places— him did the watchful and undeceiving ones find resting in the waters like a lion.
Ihn, der die Feinde überholt und die Bedränger allesammt, Ihn fanden achtsam, holdgesinnt die Götter auf, der löwengleich ins Wasser schritt.
Nachdem er allen Fehlern und Mängeln entronnen war, fanden ihn die Aufmerksamen, nie Getäuschten wieder, der sich im Wasser versteckt hatte wie ein Löwe im Schlupfwinkel.
Прошедшего через поражения,
Через постоянные неудачи
Нашли внимательные, не терпящие обмана,
(Его,) скрывшегося в водах, словно лев (в засаде).
स॒सृ॒वांस॑मिव॒ त्मना॒ग्निमि॒त्था ति॒रोहि॑तम् । ऐनं॑ नयन्मात॒रिश्वा॑ परा॒वतो॑ दे॒वेभ्यो॑ मथि॒तं परि॑ ॥
स॒सृ॒वांस॑म्ऽइव । त्मना॑ । अ॒ग्निम् । इ॒त्था । ति॒रःऽहि॑तम् । आ । ए॒न॒म् । न॒य॒त् । मा॒त॒रिश्वा॑ । प॒रा॒ऽवतः॑ । दे॒वेभ्यः॑ । म॒थि॒तम् । परि॑ ॥
मातरिश्वा वारुरित्थेत्थं त्मना स्वेच्छयाप्सु प्रवेशेन तिरोहितं निलीनं परि परितो मथितं मन्थनेन निष्पादितमेनमग्निं देवेभ्यः । तादर्थ्ये चतुर्थी । देवार्थं परावतो दूरदेशादानयत् । आनीतवान् । तत्र दृष्टान्तः । ससृवांसमिव । यथा स्वाच्छन्द्येन ससृवांसं सरन्तं गच्छन्तं पुत्रं पिता बलादानयति तद्वत् । ससृवांसमिव । सृ गतावित्यस्माल्लिट् । तस्य क्वसुः । इवेन विभक्त्यलोप इत्युक्तत्वात्प्रत्ययस्वरः । त्मना । आत्मन् शब्दस्य मन्त्रेष्वाङ्यादेरात्मन इत्याकार लोपः । इत्था । था हेतौ च छन्दसीति व्यत्ययेन थाप्रत्ययः । प्रत्ययस्वरः । एनम् । अन्वादेशे द्वितीयाटौःष्वेन इत्येनादेशः । अनुदात्तश्च । नयत् । णीञ् प्रापण इत्यस्य लङ् रूपम् । अडभावश्छान्दसः । मातरिश्वा । मातर्यन्तरिक्षेश्वसितीति श्वन्नुक्षन्नित्यादिना निपातितः ॥ ५ ॥
“Mātariśvan therefore brought for the gods from afar, Agni, hiding of himself, and genitive rated by attrition, as (a father brings back) a fugitive (son).”
Him wandering at his own free will, Agni here hidden from our view,
Him Matarisvan brought to us from far away produced by friction, from the Gods.
He who had run as it were by his own might, Agni, who thus dwelt in concealment—Him Mâtarisvan brought hither from afar, from the gods, when he had been produced by attrition (of the woods).
Agni, hidden thus, as if he had run away on his own—
him did Mātariśvan lead here from the far distance, stolen from among the gods.
Ihn, welcher eilt nach seiner Art, den Agni, den verborgenen, Ihn führte von den Göttern Mātariçvan her, von Ferne den erriebenen.
Der gleichsam von selbst weggelaufen war, den Agni, der dort verborgen war, den führte Matarisvan aus der Ferne her, von den Göttern weg, nachdem er aus dem Holze gerieben war.
Того, кто будто сам по себе убежал,
Агни, спрятанного таким образом, –
Это его принес Матаришван издалека,
Похищенного для богов.
तं त्वा॒ मर्ता॑ अगृभ्णत दे॒वेभ्यो॑ हव्यवाहन । विश्वा॒न्यद्य॒ज्ञाँ अ॑भि॒पासि॑ मानुष॒ तव॒ क्रत्वा॑ यविष्ठ्य ॥
तम् । त्वा॒ । मर्ताः॑ । अ॒गृ॒भ्ण॒त॒ । दे॒वेभ्यः॑ । ह॒व्य॒ऽवा॒ह॒न॒ । विश्वा॑न् । यत् । य॒ज्ञान् । अ॒भि॒ऽपासि॑ । मा॒नु॒ष॒ । तव॑ । क्रत्वा॑ । य॒वि॒ष्ठ्य॒ ॥
हे हव्यवाहन हव्यानां वोढर्हे अग्ने मर्ता मनुष्या अध्वर्युप्रभृतयस्तं तादृशमप्सु तिरोहितं त्वा त्वां देवेभ्यो यश्टव्यदेवतार्थमगृभ्णते । अगृह्णत । मनुष मनुष्याणां हितकारन्यविष्ठ्य युवतम हे अग्ने तव क्रत्वा तव कर्मणा महात्म्येन विश्वन्सर्वानस्माभिः क्रियमाणान्यज्ञान्यद्यस्मात्कारणादभिपासि । सर्वतः पालयसि तस्मात्त्वामगृभ्जतेति पुर्वत्रान्वयः । अगृभ्जत । ग्रह उपादाने क्र्यादित्वाच्छ्ना । ग्रहिज्यावयीति सम्प्रसारणम् । हृग्रहोर्भश्चन्दसीति हकारस्य भकारः । तिङ्ज तिङ् इति निघातः । हव्यवाहन । वह पापण इति धातोर्ञ्युडित्यनुवृत्तौ । हव्यहव्येऽनन्तः पादमिति त्र्युट् । उपधावृद्धिः । योरनादेशः । अपादादित्वादाष्टमिकमनुदात्तत्वम् । विश्वान् । विश प्रवेशन इत्यस्मादशिप्रुषिलटिकरणिकणिखटिविशिभ्यः क्वन्निति क्वन् । कित्त्वाद्गुणाभावः । नित्त्वादाद्युदात्तत्वम् । अभिपासि । पारक्ष्णे । अस्य धातो रक्षणार्थत्वान्न षिबादेशः । यच्छब्दयोगान्न निघातह् । धातुस्वरः । क्रत्वा । टा । जसादयश्चन्दसि विकल्प्यन्त इत्यत्र नादेशाभावह् । यणादेशः । प्रत्ययस्वरः । यविष्ठ्य । युवशब्दादतिशायने तमबिष्ठनावितीष्ठन् । स्थूलदूरयुवेति यणादि परं लुप्यते पुर्वस्य च गुणः । वस्वादित्वात्स्वार्थिको यप्रस्ययः ॥ ६ ॥
“Bearer of oblations,men apprehend you (thus concealed) for the service of the gods, and that you youngest (of the deities) and friendly to manking, may recompense by your acts all their pious rites.”
O Bearer of Oblations, thus mortals received thee from the Gods,
Whilst thou, the Friend of man, guardest each sacrifice with thine own power, Most Youthful One.
(And thus) the mortals have taken thee up, O carrier of sacrificial food towards the gods 1, because thou, O (god) belonging to Manus, protectest all sacrifices by the power of thy mind, O youngest one!
You are he whom mortals seized, o you who convey oblations to
the gods,
since you, son of Manu, guard all sacrifices according to your resolve, youngest one.
Die Sterblichen ergriffen dich, der du den Göttern Tränke fährst, Weil alle Opfer du beschirmst, o Menschenfreund, o jüngster du mit deiner Kraft.
Dich hielten die Sterblichen fest, der du den Göttern das Opfer zuführst, daß du alle Opfer beaufsichtigst, du Menschenerzeugter, mit deiner Umsicht, o Jüngster.
Таким тебя захватили смертные,
О возница жертв богам,
Чтобы ты надзирал за всеми жертвами, о близкий человеку,
Благодаря твоей силе духа, о самый юный.
तद्भ॒द्रं तव॑ दं॒सना॒ पाका॑य चिच्छदयति । त्वां यद॑ग्ने प॒शव॑: स॒मास॑ते॒ समि॑द्धमपिशर्व॒रे ॥
तत् । भ॒द्रम् । तव॑ । दं॒सना॑ । पाका॑य । चि॒त् । छ॒द॒य॒ति॒ । त्वाम् । यत् । अ॒ग्ने॒ । प॒शवः॑ । स॒म्ऽआस॑ते । सम्ऽइ॑द्धम् । अ॒पि॒ऽश॒र्व॒रे ॥
हे अग्ने तव सम्बन्धि तदिदं भद्रं शोभनं दंसनाग्निहोत्रादिकं कर्म पाकाय चित् । चिच्छब्दोऽप्यर्थे । पाकायेति कर्मणि चतुर्थी । पाकोऽर्भकः । तद्वदज्ञमपि यजमानं छदयति । स्वफलप्रदानेन पूजयति । पशुपुत्रादिभिः परिवृतं करोतीत्यर्थः । छदयतिशब्दोऽर्चतिकर्मा छन्दयति छदयतीति तन्नामसु पाठात् । यद्वा । पाकशब्दः प्रशस्यं वक्ति पाको वाम इति प्रशस्यनामसु पठितत्वात् । तद्भद्रं प्रशस्यं यजमानमभिमतफलप्रदादेन पूजयतीत्यर्थः । यद्यस्मात्कारणादपिशर्वरे शर्वरीमुखेऽग्निविहरणकाल एव समिद्धं दीप्यमानं त्वां पशवो द्विपदाश्चतुष्पदाश्चोभये पशवः समासते । सम्यगासते । पर्युपासत इत्यर्थः । तदिदं पश्चादिलक्षणं फलं यजमानाय प्रयच्छतीत्यर्थः । भद्रम् । भदि कल्याण कित्यस्माद्धातोरुपरि रक्प्रत्ययेन निपातनादन्तोदात्तत्वम् । पाकाय पा रक्षण इत्यस्मादिण्भीकापाशलीत्यादिना कन् । पायते रक्ष्यते राजादिनेति पाकः । नित्त्वादाद्युदात्तः । छदयति । छद आपवरणे । स्वार्थे णिच् । अदन्तत्वाद्वृद्ध्यभावः । निघातः । समासते । आस उपवेशने । अदादित्वाच्छपो लुक् । अनकारान्तत्वाङ् झुस्यादेशः । यद्योगादनिघातः । तिङ् चोदात्तवतीति गतेर्निघातः धातुस्वरः ॥ ७ ॥
“Auspicious is your worship for it prospers the ignorant (worshipper), wherefore animals reverence, you Agni, kindled in the beginning of the night.”
Amid thy wonders this is good, yea, to the simple is it clear,
When gathered round about thee, Agni, lie the herds where thou art kindled in the morn.
1 This is something glorious; herein thy wonderful power shows itself even to the simple, that the cattle lie down round about thee when thou hast been kindled, O Agni, at the approach of darkness 2.
This is auspicious—your wondrous skill appears good even to a
simple man—
that the herd sits together around you, o Agni, when you are kindled at night’s boundary.
Schön ist es, deine Wunderkraft, sie leuchtet selbst dem Thoren ein, Wenn sich um dich, o Agni, sammelt Mensch und Vieh, wenn morgens du entzündet bist.
Diese Wohltat von dir, deine Meisterkraft leuchtet selbst dem Einfältigen ein, wenn sich um dich, Agni, die Tiere versammeln, sobald du zu Beginn der Nacht entzündet wirst.
Это благо, твоя чудесная сила,
Поражает даже простодушного:
(То,) что животные собираются вокруг тебя, о Агни,
Когда ты зажжен на пределе ночи.
आ जु॑होता स्वध्व॒रं शी॒रं पा॑व॒कशो॑चिषम् । आ॒शुं दू॒तम॑जि॒रं प्र॒त्नमीड्यं॑ श्रु॒ष्टी दे॒वं स॑पर्यत ॥
आ । जु॒हो॒त॒ । सु॒ऽअ॒ध्व॒रम् । शी॒रम् । पा॒व॒कऽशो॑चिषम् । आ॒शुम् । दू॒तम् । अ॒जि॒रम् । प्र॒त्नम् । ईड्य॑म् । श्रु॒ष्टी । दे॒वम् । स॒प॒र्य॒त॒ ॥
ऋत्विजो यजमानः प्रेरयति । हे ऋत्विजः पावकशोचिषं शोधकदीप्तिं शीरं काष्ठेष्वोधीषु जानुशायिनं स्वध्वरं शोभनयज्ञोपेतमिममग्निमाजुहोत । आहुतिभिरा समन्तात्तर्पयत । अपि च । आशुं कर्मणि व्याप्तं दूतमाह्वानकारित्वेन देवानां दूतमजितं क्षिप्रं गन्तारं प्रत्नं पुरातनमीड्यं स्तोतव्यं देवं द्योतमानमिममग्निं श्रुष्वी सपर्यत । श्रुष्टीति क्षिप्रनामेति यास्कः । क्षिप्रं पूजयत । जुहोत । हु दानादनयोः । अस्माद्धातोर्लोट् । जुहोत्यादिभ्यः । श्लुरिति शपः श्लुः । श्लाविति द्विर्वचनम् । लोटो लङ्वदिति लङ्वद्भावे तस्थस्थमिपामितिथस्य तादेशः । छन्दसीत्यनुवृत्तौ तस्य तत्प्तनप्तनथनाश्चेति तबादेशः । पित्त्वाद्गुणः । निघातः । स्वध्वरम् । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदान्तोदात्वत्वम् । शीरम् । शीङ् स्वप्ने । अस्माद्धातोः स्फायितञ्चीत्यादिना रक्प्रत्ययः । कित्त्वाद्गुणाभावः । प्रत्ययस्वरः । पावकशोचिषमित्यत्र पवनं पावः शुद्धिः । तं कायतीति पावकः । आतोऽनुपसर्गे कः । प्रत्ययस्वरः । बहुव्रीहौ प्रकृत्या पूर्वपदमिति पूर्वपद प्रकृतिस्वरत्वम् । आशुम् । आशूव्याप्तौ । अस्माद्धातोः कृवासाजिमित्यादिना उण् । उपधावृद्धिः । प्रत्ययस्वरः । अजिरं आज गतिक्षेपणयोरित्यस्माद्धातोरजिरशिशिरशिथिलेति किञ्च् प्रत्ययान्तत्वेन निपातनादन्तोदात्तत्वम् । प्रत्नम् । प्रगस्यछन्दसि गलोपश्च । पा. ४-३-२३-२ । इति गलोपः । चकारात् त्न प्रत्ययः । प्रत्ययस्वरः । ईड्यम् । ईड स्तुतौ अस्माण्ण्यक् । ईडावन्देत्यादिनाद्युदात्तत्वम् । सपर्यत । सपरशब्दात्कण्ड्वादिभ्यो यक् पूजायां वत्रते । लोण्मध्यमपुरुषबहुवचनम् । शप् । अतो गुण इति पूर्वरूपत्वम् । निघातः ॥ ८ ॥
“Offer oblations to the object of holy sacrifice, the brilliant purifier, who is dormant (in fuel); worship quietly the pervader (of the rite), the messenger (of the gods), the rapid, the ancient deity who is entitled to laudation.”
Offer to him who knows fair rites, who burns with purifying glow,
Swift envoy, active, ancient, and adorable: serve ye the God attentively.
Make your offerings in (Agni), the best performer of worship, the sharp one who purifies with his flames 1. Serve ye, obediently the god, the quick messenger, the agile, the old, the adorable.
Pour an offering to him who makes the rite good, sharp (Agni) of pure flame.
Obediently serve the swift messenger, the quick, the ancient one to be summoned, the god.
Begiesst den herrlich opfernden, den heissen Flammen-strahlenden, Den raschen, muntern Boten, der des Preises werth, den alten Gott verehret gern.
Opfert ihm, der die Opferhandlung gut verrichtet, dem scharfen mit reiner Flamme! Den schnellen, flinken Boten, den uralten, anzurufenden Gott ehret durch Gehorsam!
Возлейте жертву (в Агни), прекрасно исполняющего обряд,
Пронзительного, чистопламенного!
Быстрого вестника, проворного, древнего, достойного призывов
Бога почитайте с готовностью!
त्रीणि॑ श॒ता त्री स॒हस्रा॑ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् । औक्ष॑न्घृ॒तैरस्तृ॑णन्ब॒र्हिर॑स्मा॒ आदिद्धोता॑रं॒ न्य॑सादयन्त ॥
त्रीणि॑ । श॒ता । त्री । स॒हस्रा॑णि । अ॒ग्निम् । त्रिं॒शत् । च॒ । दे॒वाः । नव॑ । च॒ । अ॒स॒प॒र्य॒न् । औक्ष॑न् । घृ॒तैः । अस्तृ॑णन् । ब॒र्हिः । अ॒स्मै॒ । आत् । इत् । होता॑रम् । नि । अ॒सा॒द॒य॒न्त॒ ॥
त्रीणि शता त्रीणि शतानि त्री सहस्राणि त्रीणि सहस्राणि त्रिंशच्च नव चैकोनचत्वारिंशदधिकशतत्रयोपेतत्रिसहस्र सङ्ख्याका देवा इममग्निमसपर्यन् । अपूजयन् । किञ्च ते देवा घृतेरिममग्निमेक्षन् । आसिञ्चन् । तथास्मा अग्नये तदर्थं बर्हिरस्तृणन् । बर्हिषास्तरणं वेद्याच्छादनमकुर्वन् । आदिदनन्तरमेव ते देवास्तस्मिन्बर्हिष्येनमग्निं होतारं कृत्वा न्यसादयन्त उपावेशयन् । देव्यैः पूज्यमिमग्निं सपर्यतेति पूर्वेणात्वयः देवसङ्ख्या च बृहदारण्यकेऽभिहिता । महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति । कतमे ते त्रयस्त्रिंसह्दष्टौ वसव एकादश रुद्रा द्वादशादित्यास्त एकत्रिंशदिन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशौ । बृ. आ. ३-९ । इति शता । दशानां दशतां शभावस्तश्च प्रत्ययः । दश दशतः परिमाणमेषां शतानि । सुपां सुलुगित्यादिना सुपो डादेशः । प्रत्ययस्वरः । त्री । सुपां सुलुगिति पूर्वसवर्णदीर्घः । फिट् स्वरः । सहस्राणि । कर्दमादित्वान्मध्योदात्तः । त्रिंशत् । प्रत्ययस्वरः । नव । कनिन्नित्यनुवृत्तौ णु स्तुतावित्यस्माद्धातोर्णुदंशोर्नुदश्चेति कनिन् । गुणश्च । नित्त्वादाद्युदात्तः । असपर्यन् । लङ् रूपम् । निघातः । औक्षन् । उक्ष सेचने । आडजादीनामित्याडागमः । वृद्धिः । पादादित्वान्न निहन्यते । आगमस्वरः । अस्तृणन् । स्तृञ् आच्छादने । लङ् बहुवचने क्र्यादित्वाच्छ्ना । झेरन्तादेशह् । नित्यं ङुत इतीकारलोपः । संयोगान्तलोपः । श्नाभ्यस्तयोरात इत्याकारलोपः । लुङ्लिङ् लृङ्क्वडित्यडागमः । स चोदात्तः । आगमस्वरः । वक्येत्यनुवृत्तौ जादित्वान्निघाताभावः । बर्हिः । इसिरित्यनुवृत्तौ वृंहेर्नलोपश्चेतीसिः । तत्सन्नियोगेन नलोपः । प्रत्ययस्वरः । असादयन्त । षद्लृ विशरणगत्यवसादनेषु । अस्माद्धेतुमति चेति णिच् । उपधावृद्धिः । णिचश्चेत्यात्मनेपदम् । लङ् बहुवचने रूपम् । निघातः ॥ ९ ॥
“Three thousand three hundred and thirty-nine divinities have worshipped Agni; they have sprinkled him with melted butter; they have spread for him the sacred grass; and have seated him upon it as their ministrant priest.”
Three times a hundred Gods and thrice a thousand, and three times ten and nine have worshipped Agni,
For him spread sacred grass, with oil bedewed him, and stablished him as Priest and Sacrificer.
1 Three hundred and three thousand gods and thirty and nine did service to Agni. They sprinkled him with ghee and spread out for him the sacrificial grass: then they made him sit down as a Hotri.
Three hundred and three thousand, thirty and nine gods served Agni. They sprinkled him with ghee and they strewed ritual grass for him. Then they seated him as their Hotar.
Die dreimaltausend dreimalhundertdreissig und neun an Zahl, die Götter ehrten Agni; sie legten Streu ihm, tränkten ihn mit Butter, dann setzten sie zum Opferer ihn nieder.
Dreihundert dreitausend und neununddreißig Götter ehrten den Agni. Sie beträuften ihn mit Schmalz, legten für ihn das Barhis aus und setzten ihn als ihren Hotri ein.
Три сотни три тысячи и тридцать девять
Богов почтили Агни.
Они кропили жиром, разостлали ему жертвенную солому,
Затем они усадили его как хотара.