प्र ऋ॒भुभ्यो॑ दू॒तमि॑व॒ वाच॑मिष्य उप॒स्तिरे॒ श्वैत॑रीं धे॒नुमी॑ळे । ये वात॑जूतास्त॒रणि॑भि॒रेवै॒: परि॒ द्यां स॒द्यो अ॒पसो॑ बभू॒वुः ॥
प्र । ऋ॒भुऽभ्यः॑ । दू॒तम्ऽइ॑व । वाच॑म् । इ॒ष्ये॒ । उ॒प॒ऽस्तिरे॑ । श्वैत॑रीम् । धे॒नुम् । ई॒ळे॒ । ये । वात॑ऽजूताः । त॒रणि॑ऽभिः । एवैः॑ । परि॑ । द्याम् । स॒द्यः । अ॒पसः॑ । ब॒भू॒वुः ॥
तत्र ऋभूणां पूर्वं मनुष्याणामेव सतां तपसा देवत्वप्राप्तिः ‘आर्भवं शंसत्यृभवो वै देवेभ्यः' ( ऐ. ब्रा. ३. ३०) इत्यत्र ब्राह्मणे स्पष्टमाम्नाता । केचन ऋभवो नाम सूर्यर३मय इत्याचक्षते । अहं यजमानः ऋभुभ्यः उरुभासमानेभ्य एतन्नामकेभ्यो देवेभ्यः वाचं स्तुतिरूपां प्र इष्ये प्रेरयामि । किमिव । दूतमिव । यथा दूतं स्वकार्यं प्रति प्रेषयन्ति तद्वत् । किंच उपस्तिरे सोमोपस्तरणाय श्वैतरीं पयोयुक्तां श्वेततरां वा धेनुमीळे याचामि ऋभून् । ये ऋभवः वातजूताः वातसमानगतयः अपसः जगदुपकारिकर्माणः सन्तः तरणिभिः तारकैः एवैः गमनशीलैरश्वैः द्याम् अन्तरिक्षं सद्यः तदानीमेव परि बभूवुः परिभवन्ति सर्वतो व्याप्नुवन्ति । अथ रश्मय एव ऋभव इत्युक्तत्वादादित्यं वा रश्मयः परितो व्याप्नुवन्ति ॥
“I send my prayer as a messenger to the ṛbhus; I solicit (of them) the cow, the yielder of the white milk, for the dilution (of the Soma libation); for they, as swift as the wind, the doers of good works, were borne quickly across the firmament by rapid steeds.”
प्र ऋ॒भुभ्यो॑ दू॒तमि॑व॒ वाच॑मिष्य उप॒स्तिरे॒ श्वैत॑रीं धे॒नुमी॑ळे ।
ये वात॑जूतास्त॒रणि॑भि॒रेवैः॒ परि॒ द्यां स॒द्यो अ॒पसो॑ बभू॒वुः ॥
To the R̥bhus I send forth my speech like a messenger—I call upon the śvaitarī milk-cow to spread an underlayer (for it)—
to the artisans who, sped by the wind along their transiting ways, have encompassed heaven in a day.
Den Ribhu's send' ich meine Stimm' als Boten; ich wünsche weisse Milch zum Uebergiessen; Die windbeflügelt auf den schnellen Fahrten in einem Tag ringsum am Himmel wirkten.
Zu den Ribhu´s entsende ich die Rede wie einen Boten - ich rufe zum Aufguß nach der Svaitarikuh - zu den Ribhu´s, die als Künstler schnell wie der Wind durch ihren ausdauernden Eifer alsbald den Himmel erreicht haben.
К Рибху я посылаю речь, словно вестника,
Я призываю дойную корову Швайтари, чтобы расстилалось (с жертвой ее молоко),
(К Рибху), которые, быстрые, словно ветер, благодаря (своим) решительным действиям
За один день покоряют небо (они,) искусные.
य॒दार॒मक्र॑न्नृ॒भव॑: पि॒तृभ्यां॒ परि॑विष्टी वे॒षणा॑ दं॒सना॑भिः । आदिद्दे॒वाना॒मुप॑ स॒ख्यमा॑य॒न्धीरा॑सः पु॒ष्टिम॑वहन्म॒नायै॑ ॥
य॒दा । अर॑म् । अक्र॑न् । ऋ॒भवः॑ । पि॒तृऽभ्या॑म् । परि॑ऽविष्टी । वे॒षणा॑ । दं॒सना॑भिः । आत् । इत् । दे॒वाना॑म् । उप॑ । स॒ख्यम् । आ॒य॒न् । धीरा॑सः । पु॒ष्टिम् । अ॒व॒ह॒न् । म॒नायै॑ ॥
यदा यस्मिन् काले ऋभवः पितृभ्यां मातापितृभ्यां परिविष्टी परिवेषणेन परिचर्यया वेषणा वेषणेन व्याप्त्या । यद्वा वेषेण जरद्रूपयोर्युवत्वकरणेन दंसनाभिः अन्यैश्चमसनिर्माणादिकर्मभिः अरम् अत्यर्थम् अक्रन् आदित् अनन्तरमेव देवानाम् इन्द्रादीनां सख्यं सखित्वं समानख्यानत्वं देवतात्वम् उप आयन् आगमन् । “ युवशा कर्त्वा' ( ऋ. सं. १.१६१. ३ ) इति देवत्वप्राप्तेरेकान्तत्वेन देवैरुक्तत्वादिति भावः । किंच धीरासः धीरा बुद्धिमन्तस्तेषां पुष्टिं गवादिविषयां मनायै मतिकृते यजमानाय अवहन वहन्ति धारयन्ति । यद्वा । सविषयां पुष्टिं मनायै मनसे प्रकृष्टमनस्कत्वायावहन् ।
“When the ṛbhus, by honouring their parents with renovated (youth), and by other works, had achieved enough, they thereupon proceeded to the society of the gods, and, considerate, they bring nourishment to the devout (worshipper).”
What time the Rbus had with care and marvels done proper service to assist their Parents,
They won the friendship of the Gods; the Sages carried away the fruit of their devotion.
When the R̥bhus made fit preparations for their parents by their attentiveness, industry, and wondrous skills,
right then they came into companionship with the gods. Clever, they brought prosperity to their zeal.
Als sie den Aeltern ihre Dienste thaten mit Wunderkraft die Ribhu's eifrig wirkend, Da kamen sie zur göttlichen Gemeinschaft, die weisen trugen Heil davon zum Lohne.
Als die Ribhu´s den Eltern gedient hatten mit Aufwartung, Besorgung und Kunstfertigkeiten, da erst erlangten sie die Freundschaft der Götter. Die Werkkundigen brachten der Dichtung Zuwachs;
Когда Рибху послужили двоим родителям
Заботой, трудом, чудесными деяниями,
Только тогда достигли они дружбы богов.
Умелые, они принесли процветание поэтическому искусству.
पुन॒र्ये च॒क्रुः पि॒तरा॒ युवा॑ना॒ सना॒ यूपे॑व जर॒णा शया॑ना । ते वाजो॒ विभ्वाँ॑ ऋ॒भुरिन्द्र॑वन्तो॒ मधु॑प्सरसो नोऽवन्तु य॒ज्ञम् ॥
पुनः॑ । ये । च॒क्रुः । पि॒तरा॑ । युवा॑ना । सना॑ । यूपा॑ऽइव । ज॒र॒णा । शया॑ना । ते । वाजः॑ । विऽभ्वा॑ । ऋ॒भुः । इन्द्र॑वन्तः॑ । मधु॑ऽप्सरसः । नः॒ । अ॒व॒न्तु॒ । य॒ज्ञम् ॥
ये ऋभवः पितरा मातापितरौ यूपेव छिन्नस्थाणू इव जरणा जीर्णौ शयाना शयानौ पुनः सना सदा युवाना युवानौ चक्रुः नित्यतरुणावकुर्वन् । ते वाजो विभ्वा ऋभुः च एतन्नामकास्त्रयः सुधन्वन आङ्गिरसस्य पुत्रा ऋभवः इन्द्रवन्तः अनुग्राहकेणेन्द्रेण तद्वन्तः मधुप्सरसः मधुरस्य सोमरसस्य भक्षयितारः मनोहररूपा वा नः अस्मदीयं यज्ञम् अवन्तु रक्षन्तु गच्छन्तु वा ।
“May they who rendered their decrepid and dropsy parents, when, like two dry posts, again perpetually young, Vāja, Vibhavan, and Ṛbhu associated with Indra, drinkers of the Soma juice, protect our sacrifice.”
May they who made their Parents, who were lying like posts that moulder, young again for ever,-
May Vaja, Vibhvan, Rbhu, joined with Indra , protect our sacrifice, the Soma-lovers.
They who made their parents, lying aged like two old posts,
youths again—
let them—Vāja, Vibhvan, and R̥bhu together with Indra—delighting in the honeyed (soma), help our sacrifice.
Die wieder jung die alten Aeltern machten, als sie da lagen wie zwei morsche Pfeiler, Die, Vadscha, Vibhvan, Ribhu sammt dem Indra Meth-schmausend mögen unser Opfer kosten.
Die die Eltern wieder jung machten, die alt wie zerfallene Pfosten dalagen, Vaja, Vibhvan, Ribhu, die Honiggenießer, sollen nebst Indra unser Opfer bevorzugen!
(Те,) кто снова сделал юными родителей,
Старых, лежащих как два изношенных (жертвенных) столба,
Эти Ваджа, Вибхван, Рибху, сопровождающие Индру,
Наслаждающиеся сладостью (сомы), да помогут нашей жертве!
यत्सं॒वत्स॑मृ॒भवो॒ गामर॑क्ष॒न्यत्सं॒वत्स॑मृ॒भवो॒ मा अपिं॑शन् । यत्सं॒वत्स॒मभ॑र॒न्भासो॑ अस्या॒स्ताभि॒: शमी॑भिरमृत॒त्वमा॑शुः ॥
यत् । स॒म्ऽवत्स॑म् । ऋ॒भवः॑ । गाम् । अर॑क्षन् । यत् । स॒म्ऽवत्स॑म् । ऋ॒भवः॑ । माः । अपिं॑शन् । यत् । स॒म्ऽवत्स॑म् । अ॒भ॑रन् । भासः॑ । अ॒स्याः॒ । ताभिः॑ । शमी॑भिः । अ॒मृ॒त॒ऽत्वम् । आ॒शुः॒ ॥
संवत्सम् । संवसन्ति भूतान्यस्मिन्निति संवत्सः संवत्सरः। संवत्सरपर्यन्तम् ऋभवो गां मृताम् अरक्षन् अपालयन् । स्वसामर्थ्यादिति यत् यदेतत्कर्मास्ति । तथा संवत्सं संवत्सरम् ऋभवो माः तस्या एवं गोर्मांसम् अपिंशन् अवयवानकुर्वन्निति यत् । किंच संवत्सं संवत्सरपर्यन्तम् अस्याः भासः अभरन् दीप्तीः अवयवशोभा अकुर्वन्निति यत् ताभिः शमीभिः मृताया गोर्नवीकरणविषयैः कर्मभिः अमृतत्वमाशुः देवत्वं प्राप्ताः । ‘ धेनुः कर्त्वा ' इति देवत्वप्राप्तिसाधनत्वेन देवैः प्रतिश्रुतत्वात् । यद्वा । अत्र संवत्समित्येतत् वत्सेन सहेति व्याख्येयम् ।
“Inasmuch as for a year the Ṛbhus preserved the (dead) cow, inasmuch as for a year they invested it with flesh, inasmuch as for a year they continued its beauty they obtained by their acts of immortality.”
As for a year the Rbhus kept the Milch-cow, throughout a year fashioned and formed her body,
And through a year's space still sustained her brightness, through these their labours they were made immortal.
When the R̥bhus guarded the cow through the year, when the R̥bhus carved the meat through the year,
when they carried her leavings through the year, they attained
immortality by these labors.
Die Ribhu's, weil ein Jahr die Kuh sie hegten und kunstvoll bildeten ihr Fleisch ein Jahr durch, Weil sie ein Jahr lang ihr das Futter brachten, durch diese Mühen wurden sie unsterblich.
Als die Rhibu´s ein Jahr lang die Kuh gehütet hatten, als sie ein Jahr lang das Fleisch zerlegt, als sie ihr ein Jahr lang Futter gebracht hatten, erlangten sie durch diese Dienste die Unsterblichkeit.
Когда в течение года Рибху охраняли корову,
Когда в течение года Рибху резали мясо,
Когда в течение года они относили ее навоз, –
Этими трудами они добились бессмертия.
ज्ये॒ष्ठ आ॑ह चम॒सा द्वा क॒रेति॒ कनी॑या॒न्त्रीन्कृ॑णवा॒मेत्या॑ह । क॒नि॒ष्ठ आ॑ह च॒तुर॑स्क॒रेति॒ त्वष्ट॑ ऋभव॒स्तत्प॑नय॒द्वचो॑ वः ॥
ज्ये॒ष्ठः । आ॒ह॒ । च॒म॒सा । द्वा । क॒र॒ । इति॑ । कनी॑यान् । त्रीन् । कृ॒ण॒वा॒म॒ । इति॑ । आ॒ह॒ । क॒नि॒ष्ठः । आ॒ह॒ । च॒तुरः॑ । क॒र॒ । इति॑ । त्वष्टा॑ । ऋ॒भ॒वः॒ । तत् । प॒न॒य॒त् । वचः॑ । वः॒ ॥
' एकं चमसं चतुरस्कृणोतन ' ( ऋ. सं. १. १६१. २ ) इति यदा देवदूतोऽग्निर्ऋभूनाह देवत्वप्राप्त्युक्थेन तदा तेषु मध्ये देवत्वप्राप्त्युत्कः एकः ज्येष्ठः ऋभुरितरौ आह । किमिति । उच्यते । चमसा द्वा करेति । एकमेव सन्तं द्वौ कृणवामेति । कनीयान् तदनन्तरो विभ्वा त्रीन् कृणवाम करवाम इत्याह । तदवरः कनिष्ठः वाजः चतुरस्कर चतुर्धा करवाम इति आह तत् एव चतुष्करणरूपं हे ऋभवः त्वष्टा युष्मद्गुरुः वः वचः युष्मद्वचनं पनयत् अस्तौत् । अङ्गीचकार इत्यर्थः ॥ ॥ १ ॥
“The eldest said, let us make two ladles; the younger said, let us make three: Tvaṣṭā, Ṛbhus, has applauded your proposal.”
Two beakers let us make,- thus said the eldest. Lct us make three,- this was the younger's sentence.
Four beakers let us make,- thus spoke the youngest. Tvastar approved this rede of yours, O Rbhus.
The eldest said, “I will make two cups (from one).” The younger said, “We will make three.”
The youngest said, “I will make four.” O R̥bhus, Tvaṣṭar wondered at that speech of yours.
Es sprach der ältste: Mache zwei der Becher, der jüngre sprach: Drei Becher lasst uns machen, Der jüngste sagte: Vier der Becher mache; Tvaschtar bestaunte dies eur Wort, o Ribhu's,
Der Älteste sprach: "Ich will zwei Becher machen", der Jüngere sprach: "Wir wollen drei machen", der Jüngste sprach: "Ich will vier machen". Tvastri nahm euch beim Wort, o Ribhu´s.
Старший сказал: Я хочу сделать два кубка.
Помоложе сказал: Мы хотим сделать три.
Самый младший сказал: Четыре я хочу сделать.
Тваштар, о Рибху, оценил эту вашу речь.
स॒त्यमू॑चु॒र्नर॑ ए॒वा हि च॒क्रुरनु॑ स्व॒धामृ॒भवो॑ जग्मुरे॒ताम् । वि॒भ्राज॑मानाँश्चम॒साँ अहे॒वावे॑न॒त्त्वष्टा॑ च॒तुरो॑ ददृ॒श्वान् ॥
स॒त्यम् । ऊ॒चुः॒ । नरः॑ । ए॒व । हि । च॒क्रुः । अनु॑ । स्व॒धाम् । ऋ॒भवः॑ । ज॒ग्मुः॒ । ए॒ताम् । वि॒ऽभ्राज॑मानान् । च॒म॒सान् । अहा॑ऽइव । अवे॑नत् । त्वष्टा॑ । च॒तुरः॑ । द॒दृ॒श्वान् ॥
नरः मनुष्यरूपा ऋभवः सत्यमूचुः सत्यमेवाब्रुवन् । हि यस्मादेते एव एवं चक्रुः चतुरोऽकुर्वन् । यथोक्तं तथैव कृतत्वात् इत्यभिप्रायः । अनु चतुर्धाकरणानन्तरम् एतां तृतीयसवनगतां स्वधां सोमाख्यममृतम् ऋभवो जग्मुः । ‘एकं चमसं चतुरस्कृणोतन, साकं देवैर्यज्ञियासो भविष्यथ' (ऋ. सं. १.१६१. २) इति श्रुतत्वात् । अथ त्वष्टा देवः विभ्राजमानान् अहेव अहानीव दीप्यमानान् चमसान् चतुरो ददृश्वान् दृष्टवान् सन् अवेनत् अकामयत॥ अङ्गीचकारेत्यर्थः ॥
“The men, (the Ṛbhus), spoke the truth, for such (ladles) they made, and thereupon the Ṛbhus partook of that libation; Tvaṣṭā, beholding the four ladles, brilliant as day, was content.”
The men spake truth and even so they acted: this Godlike way of theirs the Rbhus followed.
And Tvastar, when he looked on the four beakers resplendent as the day, was moved with envy.
The noble men spoke the truth, for they did exactly that. According to their will, the R̥bhus followed that (will of theirs).
Having seen the four cups, Tvaṣṭar gazed at them, bright shining
like days.
Die Männer sprachen wahr, denn so geschah's auch, die Ribhu's führten diesen ihren Plan aus; Doch Tvaschtar, als er sah der Becher viere wie Tageslicht erglänzen, wurde neidisch.
Die Männer hatten wahr gesprochen, denn sie taten also; sie gingen diesen ihren eigenen Weg. Tvastri machte Augen, als er die vier Becher erblickte, die wie die neuen Tage erglänzten.
Правду сказали мужи, ведь они так и сделали.
Рибху последовали этой своей природе.
Тваштар позавидовал, увидев четыре
Кубка, ярко сверкающих, словно дни.
द्वाद॑श॒ द्यून्यदगो॑ह्यस्याति॒थ्ये रण॑न्नृ॒भव॑: स॒सन्त॑: । सु॒क्षेत्रा॑कृण्व॒न्नन॑यन्त॒ सिन्धू॒न्धन्वाति॑ष्ठ॒न्नोष॑धीर्नि॒म्नमाप॑: ॥
द्वाद॑श । द्यून् । यत् । अगो॑ह्यस्य । आ॒ति॒थ्ये । रण॑न् । ऋ॒भवः॑ । स॒सन्तः॑ । सु॒ऽक्षेत्रा॑ । अ॒कृ॒ण्व॒न् । अन॑यन्त । सिन्धू॑न् । धन्व॑ । आ । अ॒ति॒ष्ठ॒न् । ओष॑धीः । नि॒म्नम् । आपः॑ ॥
तत्र रश्मय एव ऋभव इत्युक्तत्वात् तद्रूपेण स्तूयन्ते । यत् यदा द्वादश द्यून् दिवसान् । आर्द्रादिद्वादशवृष्टिनक्षत्राणीत्यर्थः । अगोह्यस्य अगोप्यस्यादित्यस्य गृहे आतिथ्ये । अकस्मादागतोऽतिथिः । तदुचितं सत्काररूपं कर्म आतिथ्यम् । तदर्थं ससन्तः स्वपन्तः सुखेन निवसन्तः ऋभवः रणन् रमन्ते । ‘ अगोह्यस्य यदसस्तना गृहे ' ( ऋ. सं. १. १६१. ११.) इत्युक्तम् । तदानीं सुक्षेत्राकृण्वन् । अकृष्टानि शून्यानि क्षेत्राणि वृष्ट्या सस्यादिसमृद्धान्यकुर्वन् । सिन्धून् नदीः
“अनयन्त प्रैरयन् । तस्मिन् काले ओषधीः ओषधयः धन्वं निरुदकस्थानमाश्रित्य आतिष्ठन् । निम्नं नीचस्थानम् आपः अतिष्ठन् । ' उद्वत्स्वस्मा अकृणोतना तृणं निवत्स्वपः ' ( ऋ. सं. १. १६१. ११) इत्युक्तम् ॥
“When the Ṛbhus, reposing for twelve days, remained in the hospitality of the uncealable (sun) they rendered the fields fertile, they led forth the rivers, plural nts sprung upon the waste, and waters (spread over) the low (plural ces).”
When for twelve days the Rbhus joyed reposing as guests of him who never may be hidden,
lley made fair fertile fields, they brought the rivers. Plants spread o'er deserts, waters filled the hollows.
When the R̥bhus enjoyed the hospitality of Agohya for twelve days, sleeping (there),
(then) they made the fields good and led the rivers; plants arose upon the dry land and waters upon the low ground.
Als dann im Hause des, der unverhüllbar, zwölf Tage ruhend froh die Ribhu's schwelgten, Da schufen Felder sie, ergossen Ströme, die Fluren füllte Kraut, die Tiefen Wasser.
Als die Ribhu´s zwölf Tage lang schlafend in der Gastfreundschaft des Agohya sich´s behaglich gemacht hatten, da brachten sie die Felder in guten Stand, leiteten die Flüsse ab. Es zogen die Pflanzen in die Wüstenei ein, in die Niederung die Gewässer.
После того как Рибху двенадцать дней наслаждались
Гостеприимством Агохьи, пребывая во сне,
Они сделали поля прекрасными, провели реки,
Растения возникли на сухих землях, воды – в низине.
रथं॒ ये च॒क्रुः सु॒वृतं॑ नरे॒ष्ठां ये धे॒नुं वि॑श्व॒जुवं॑ वि॒श्वरू॑पाम् । त आ त॑क्षन्त्वृ॒भवो॑ र॒यिं न॒: स्वव॑स॒: स्वप॑सः सु॒हस्ता॑: ॥
रथ॑म् । ये । च॒क्रुः । सु॒ऽवृत॑म् । न॒रे॒ऽस्थाम् । ये । धे॒नुम् । वि॒श्व॒ऽजुव॑म् । वि॒श्वऽरू॑पाम् । ते । आ । त॒क्ष॒न्तु॒ । ऋ॒भवः॑ । र॒यिम् । नः॒ । सु॒ऽअव॑सः । सु॒ऽअप॑सः । सु॒ऽहस्ताः॑ ॥
ये ऋभवः सुवृतं सुचक्रं सुष्ठु वर्तमानं वा नरेष्ठां नेतरि चक्रे वर्तमानं रथं चक्रुः । ये च विश्वजुवं विश्वस्य प्रेरयित्रीं विश्वरूपां बहुरूपामेतन्नामिकां वा धेनुं[१] गां चक्रुः अकुर्वन् । बृहस्पतिर्विश्वरूपामुपाजत' ( ऋ. सं. १. १६१. ६ ) इति ह्युक्तम् । ते महान्तः ऋभवः नः अस्माकं रयिं धनम् आ तक्षन्तु सर्वतो निष्पादयन्तु । कीदृशास्त ऋभवः । स्वपसः सुकर्माणः स्ववसः शोभनान्नोपेताः सुरक्षणा वा सुहस्ताः शोभनहस्ताः कुशलहस्ताः ॥
“May those Ṛbhus who constructed the firm-abiding wheel-conducting car; who formed the all-impelling multiform cow; they who are the bestowers of food, the doers of great deeds, and dexterous of hand, fabricate our riches.”
May they who formed the swift car, bearing Heroes, and the Cow omniform and all-impelling,
Even may they form wealth for us,-the Rbhus, dexterous-handed, deft in work and gracious.
Who made the chariot smooth running and standing still for men, who (made) the all-rousing milk-cow of all shapes—
let these R̥bhus fashion wealth for us, they of good help, good work, and good hands.
Des Wagens Bildner, der nun rollt, nun stillsteht, der allgestalt'gen Kuh, die alles anregt, Die Ribhu's mögen Reichthum uns verschaffen mit hülfbereiten, kunstgeübten Händen.
Die den leichtrollenden Wagen fertigten, der dem Manne still hält, die die allbelebende Kuh Visvarupa machten, die Ribhu´s sollen uns Reichtum beschaffen, die geschickt zur Hilfe, zum Werk und mit der Hand.
(Те,) кто сделал колесницу легкой в движении, несущей на себе мужей,
(Те,) кто (создал) всеоживляющую дойную корову Вишварупу,
Пусть эти Рибху создадут нам богатство,
(Они,) хорошо помогающие, хорошо работающие, с умелыми руками!
अपो॒ ह्ये॑षा॒मजु॑षन्त दे॒वा अ॒भि क्रत्वा॒ मन॑सा॒ दीध्या॑नाः । वाजो॑ दे॒वाना॑मभवत्सु॒कर्मेन्द्र॑स्य ऋभु॒क्षा वरु॑णस्य॒ विभ्वा॑ ॥
अपः॑ । हि । ए॒षा॒म् । अजु॑षन्त । दे॒वाः । अ॒भि । क्रत्वा॑ । मन॑सा । दीध्या॑नाः । वाजः॑ । दे॒वाना॑म् । अ॒भ॒व॒त् । सु॒ऽकर्मा॑ । इन्द्र॑स्य । ऋ॒भु॒क्षाः । वरु॑णस्य । विऽभ्वा॑ ॥
एषाम् ऋभूणाम् अपः अश्वरथनिर्माणादिरूपं कर्म देवाः इन्द्रादयः अजुषन्त असेवन्त । ‘ इन्द्रो हरी युयुजे अश्विना रथम् '(ऋ. सं. १.१६१.६) इत्यादिमन्त्रोक्त प्रकारेण स्वीकृतवन्त इत्यर्थः । कीदृशास्ते। क्रत्वा वरप्रदानरूपेण कर्मणा मनसा शोभनेन चित्तेनानुग्रहयुक्तेन अभि दीध्यानाः दीप्यमानाः । देवानाम् अनुग्रहेण किं लब्धमित्याह । सुकर्मा शोभनव्यापारः वाजः कनीयान् देवानां सर्वेषां संबन्धी अभवत् । तथा इन्द्रस्य संबन्धी ऋभुक्षाः ऋभुज्येष्ठः । विभ्वा मध्यमः वरुणस्य संबन्ध्यभवत् । हि पूरणः ॥
“The gods were plural ased by their works, illustrious in act and in thought; Vāja was the artificer of the gods, Ṛbhukṣin of Indra, Vibhavan of Varuṇa.”
So in their work the Gods had satisfaction, pondering it with thought and mental insight.
The Gods' expert artificer was Vaja, Indra's Rbhuksan, Varuna's was Vibhvan.
Because the gods were pleased at their work, reflecting on it according to their purpose and with their thought,
Vāja became the doer of right action for the gods, R̥bhukṣan for Indra, and Vibhvan for Varuṇa.
An ihrem Werke freuten sich die Götter, als sie's mit Geist und mit Verstand beschauten; Ribhukschan ward des Indra Künstler, Vibhvan des Varuna, und aller Götter Vadscha.
Denn an ihrem Werke fanden die Götter Gefallen, als die es mit Einsicht und Verstand betrachteten. Vaja ward der Werkmeister der Götter, Ribhuksan des Indra, Vibhvan des Varuna.
Ведь боги одобрили их работу,
Рассматривая (ее) своей силой духа (и) мыслью.
Ваджа стал прекрасным мастером у богов,
Рибхукшан у Индры, Вибхван у Варуны.
ये हरी॑ मे॒धयो॒क्था मद॑न्त॒ इन्द्रा॑य च॒क्रुः सु॒युजा॒ ये अश्वा॑ । ते रा॒यस्पोषं॒ द्रवि॑णान्य॒स्मे ध॒त्त ऋ॑भवः क्षेम॒यन्तो॒ न मि॒त्रम् ॥
ये । हरी॒ इति॑ । मे॒धया॑ । उ॒क्था । मद॑न्तः । इन्द्रा॑य । च॒क्रुः । सु॒ऽयुजा॑ । ये । अश्वा॑ । ते । रा॒यः । पोष॑म् । द्रवि॑णानि । अ॒स्मे इति॑ । ध॒त्त । ऋ॒भ॒वः॒ । क्षे॒म॒ऽयन्तः॑ । न । मि॒त्रम् ॥
ये ऋभवः हरी अश्वौ मेधया प्रज्ञया उक्था उक्थैः स्तुतिभिः मदन्तः हर्षयन्तः चक्रुः । ये च तौ सुयुजा सुयुजौ सुयोजनावश्वौ इन्द्राय इन्द्रार्थं चक्रुः अकुर्वन् । हे ऋभवः ते यूयं रायस्पोषं धनपुष्टिं द्रविणानि गवादिधनानि च सुखानि वा अस्मे अस्मासु धत्त धारयत । किमिव । क्षेमयन्तः क्षेममिच्छन्तः मित्रं न मित्रमिव । अत्र यद्यप्येक एव ऋभुनामा तत्संबन्धात् इतरेऽप्यृभव उच्यन्ते प्राणभृन्न्यायेन ॥
“May those Ṛbhus who gratified the horses (of Indra) by pious praise, who constructed for Indra his two docile steeds, bestow upon us satiety of riches, and wealth (of cattle), like those who devise prosperity for a friend.”
They whol made glad with sacrifice and praises, wrought the two Bays, his docile Steeds, for Indra,-
Rbhus, as those who wish a friend to prosper, bestow upon us gear and growth of riches.
They who by their wisdom, finding exhilaration in the hymns, made the two fallow bays for Indra, they who made his easily hitched horses— you!—establish for us possessions and the prospering of wealth.
Establish an alliance (with us), R̥bhus, like those dwelling in peace.
Die kunstvoll ihr dem Indra schuft die Rosse, die leichtgeschirrten, lichten, Sprüche sprudelnd, O Ribhu's, gebt uns Gutes Mehrung, Schätze, uns holde Ruh gewährend wie dem Freunde.
Die, Loblieder jubelnd, mit Erfindungsgabe die Falben für Indra machten, die beiden leichtgeschirrten Rosse, gewähret ihr uns Zunahme des Reichtums, Güter; schließt Freundschaft so wie die, die Frieden wünschen, ihr Ribhu´s.
(Те,) кто, (исполняя) гимны (и) опьяняясь (сомой), с помощью провидческого дара
Создал для Индры пару буланых коней, которых легко запрягать,
(Пусть дадут) они нам процветание богатства, имущество!
О Рибху, заключите (с нами) договор, как те, кто хочет мира!
इ॒दाह्न॑: पी॒तिमु॒त वो॒ मदं॑ धु॒र्न ऋ॒ते श्रा॒न्तस्य॑ स॒ख्याय॑ दे॒वाः । ते नू॒नम॒स्मे ऋ॑भवो॒ वसू॑नि तृ॒तीये॑ अ॒स्मिन्त्सव॑ने दधात ॥
इ॒दा । अह्नः॑ पी॒तिम् । उ॒त । वः॒ । मद॑म् । धुः॒ । न । ऋ॒ते । श्रा॒न्तस्य॑ । स॒ख्याय॑ । दे॒वाः । ते । नू॒नम् । अ॒स्मे इति॑ । ऋ॒भ॒वः॒ । वसू॑नि । तृ॒तीये॑ । अ॒स्मिन् । सव॑ने । द॒धा॒त॒ ॥
इदा इदानीं चमसादिनिर्माणानन्तरम् अह्नः सुत्याहसंबन्धिनस्तृतीये सवने पीतिं सोमपानम् उत अपि च मदं तज्जनितं वः युष्माकं धुः ददुर्देवाः । श्रान्तस्य श्रान्तात्तपोयुक्तात् ऋते सख्याय सखित्वाय न भवन्ति देवाः । यत एते श्रान्ता अतो ददुरित्यर्थः । हे ऋभवः ते महान्तो यूयं नूनं निश्चयम् अस्मे अस्मासु अस्मिन् तृतीये सवने वसूनि धनानि दधात धारयत ॥ ॥ २ ॥
“The gods verily have given you the beverage at the (third sacrifice of the) day, and its exhilarqation, not through regard, but (as the gift of one) wearied out (by penance); Ṛbhus, who are so (eminent), grant us, verily, wealth at this third (diurnal) sacrifice.”
This day have they set gladdening drink before you. Not without toil are Gods inclined to friendship.
Therefore do ye who are so great, O Rbhus, vouchsafe us treasures at this third libation.
At this time of the day they have established drink and exhilaration for you. The gods are not in companionship (with men) except (for their companionship) with him who has labored in the truth.
Now, o R̥bhus, establish good things for us at this Third Pressing.
Sie gaben heut am Tage Trunk und Rausch euch, nicht ohne Mühe wird der Götter Freund man; Darum so gebt uns, o ihr Ribhu's, Güter bei dieser dritten Somaspende heute.
Zu dieser Zeit des Tages haben sie euch Trank und Berauschung gewährt. Nicht ohne Mühe bekommt man die Götter zu Freunden. So gewähret uns jetzt bei diesem dritten Trankopfer Schätze, ihr Ribhu´s!
В это время дня они установили питье и опьянение для вас.
Боги не для дружбы с тем, кто устает трудиться во время обряда.
Сейчас дайте нам, о Рибху, блага,
Во время этого третьего выжимания (сомы)!