कृ॒णु॒ष्व पाज॒: प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वाँ॒ इभे॑न । तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ॥
कृ॒णु॒ष्व । पाजः॑ । प्रऽसि॑तिम् । न । पृ॒थ्वीम् । या॒हि । राजा॑ऽइव । अम॑ऽवान् । इभे॑न । तृ॒ष्वीम् । अनु॑ । प्रऽसि॑तिम् । द्रू॒णा॒नः । अस्ता॑ । अ॒सि॒ । विध्य॑ । र॒क्षसः॑ । तपि॑ष्ठैः ॥
हे अग्ने पाजः तेजःसंघं कृणुष्व कुरुष्व विस्तारय । तत्र दृष्टान्तः । प्रसितिं न । यथा मृगयुः पृथ्वीं विस्तीर्णां प्रसितिं प्रकर्षेण सीयते बध्यत इति प्रसितिर्वागुरा। तादृशीं प्रसितिं पक्षिग्रहणार्थं वनगहनेषु प्रसारयति तद्वत् त्वमपि रक्षांसि हन्तुं महद्बलमग्रतस्तनुष्व। इभेन गतभयेन तेजःसंघेन युक्तस्त्वं याहि रक्षांसि हन्तुं गच्छ । तत्र दृष्टान्तः । राजेव । यथा अमवान् । राज्ञा सह वर्तते इत्यमः अमात्यः । तद्वान् । यद्वा । अमोऽमनं रोगः । शत्रूणां कर्तव्यै रोगैस्तद्वान् । शत्रूणां रोगभूत इत्यर्थः । राजा इभेन गजेन युक्तः सन् परबलं प्रतिगच्छति तद्वत् । किंच तृष्वीम् । तृष्वीति क्षिप्रनाम । क्षिप्रगामिनीं प्रसितिं प्रकृष्टां सेनाम् अनु द्रूणानः अनुगच्छन् । यद्वा । तृष्वीमिति तृतीयार्थे द्वितीया । तृष्व्या क्षिप्रया प्रसित्या अनुबद्धया संततया गत्या द्रूणानः परसेनां हिंसन् अस्ता शत्रूणां क्षेप्ता असि । तपिष्ठैः तप्तृतमैः तेजोभिः रक्षसः राक्षसान् विध्य ताडय । अत्र निरुक्तम् -- ‘ कुरुष्व पाजः । पाजः पालनात् । प्रसितिमिव पृथ्वीम् । प्रसितिः प्रसहनात्तन्तुर्वा जालं वा । याहि राजेवामात्यवानभ्यमनवान्स्वम वान्वेरावता गणेन गतभयेन हस्तिनेति वा । तृप्व्यानु प्रसित्या द्रूणानः । तृष्वीति क्षिप्रनाम तरतेर्वा त्वरतेर्वा । अस्तासि विध्य रक्षसस्तपिष्ठैस्तप्ततमैः तृप्ततमैः तपिष्ठतमैरिति वा ' (निरु. ६. १२) इति ॥ कृणुष्व ।' कृवि हिंसाकरणयोः'। लोटि ‘धिन्विकृण्व्योर च 'इत्युप्रत्ययः। व्यत्ययेनात्मनेपदम् । विकरणस्वरस्तु सतिशिष्टोऽपि लसार्वधातुकस्वरं न बाधते इति लसार्वधातुकस्वरः (पा. म. ६. १. १५८, ११ ) ॥
“Put forth your strength, Agni, as a fowler spreads a capacious snare; proceed like a king attended by his followers on his elephant; you are the scatterer (of your foes); following the swift-moving host consume the rākṣasas with your fiercest flames.”
PUT forth like a wide-spreading net thy vigour; go like a mighty King with his attendants.
Thou, following thy swift net, shootest arrows: transfix the fiends with darts that burn most fiercely.
Produce thy stream of flames like a broad onslaught. Go forth impetuous like a king with his elephant 1; … 2 after thy greedy onslaught, thou art an archer; shoot the sorcerers with thy hottest (arrows).
Put forth thy strength like a spreading net;
Come like a mighty king with thy retainers;
Hurling thy swift net thou shootest arrows;
Pierce the Raksases with thy keenest (darts).
Make your leading edge like a broad onslaught. Drive like an aggressive king with his entourage,
mowing down (enemies) along your thirsting onslaught. You are an archer: pierce the demons with your hottest (flames).
Breit aus dein Licht wie eine weite Heerschar, gleich mächt'gem König geh mit deinen Mannen; Die gier'ge Heerschar schnell verfolgend schiesse, mit schärfster Glut durchbohre die Gespenster.
Mach deine Gestalt wie eine breite Wurfschlinge, zieh aus wie ein mächtiger König auf dem Elefanten! Deiner gierigen Wurfschlinge nachlaufend - du bist der Schütze - triff die Unholde mit deinen glühendsten Pfeilen.
Сделай пламя свое словно широкая петля!
Отправляйся, словно неистовый царь со свитой!
Кинувшись вслед за жадной петлей, –
Ты (ведь) стрелок-пронзи ракшасов самыми раскаленными (стрелами)!
तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः । तपूं॑ष्यग्ने जु॒ह्वा॑ पतं॒गानसं॑दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ॥
तव॑ । भ्र॒मासः॑ । आ॒शु॒ऽया । प॒त॒न्ति॒ । अनु॑ । स्पृ॒श॒ । धृ॒ष॒ता । शोशु॑चानः । तपूं॑षि । अ॒ग्ने॒ । जु॒ह्वा॑ । प॒त॒ङ्गान् । अस॑म्ऽदितः । वि । सृ॒ज॒ । विष्व॑क् । उ॒ल्काः ॥
हे अग्ने तव संबन्धिनः भ्रमासः भ्राम्यन्तः आशुया शीघ्रगतयो रश्मयः पतन्ति सर्वतः प्रसरन्ति । शोशुचानः भृशं दीप्यमानस्त्वं धृषता अभिभवसमर्थेन तेजःसंघेन शत्रून् अनु क्रमेण स्पृश दह । दहनोपायं दर्शयति । असंदितः परैरनिरुद्धस्त्वं तपूंषि तापकानि तेजांसि पतङ्गान् पतनशीलान् विस्फुलिङ्गान् उल्काः चेत्येतत्त्रितयं जुह्वा । हूयन्तेऽस्यामाहुतय इति जुहूर्ज्वाला । तया विष्वक् सर्वतः वि सृज प्रसारय ॥ आशुया । आशुशब्दाज्जसः ‘सुपां सुलुक्° 'इति याजादेशः । चित्स्वरः । धृषता । ‘धृष प्रसहने ' । चुरादिधृषीयः । व्यत्ययेन शः । ‘शतुरनुमः इति विभक्तेरुदात्तत्वम् । जुह्वा ।' जुहोतेर्दीर्घश्च ' इति क्विप् द्विर्वचनं दीर्घत्वम् ।' उदात्तयणो हल्पूर्वात् ' इति विभक्तेरुदात्तत्वस्य ‘नोङ्धात्वोः ' इति प्रतिषेधे ‘ उदात्तस्वरितयोर्यणः' इति स्वरितत्वम् । असंदितः । ‘ दो अवखण्डने '। कर्मणि निष्ठा । ‘ द्यतिस्यति ' इति इत्वम् । नञा समासे तस्य स्वरः ॥
“Your swift and errant flames descend (on everyside); fierce-shining with vigour consume (the foe); scatter, Agni, with the ladle (of oblation), scorching flames and sparks, and brands.”
Forth go in rapid flight thy whirling weapons: follow them closely, glowing in thy fury.
Spread with thy tongue the winged flames, O Agni; unfettered, cast thy firebrands all around thee.
Thy whirls fly quickly. Fiercely flaming touch (them). O Agni, (send forth) with the ladle 1 thy heat, thy winged (flames); send forth unfettered thy firebrands all around.
Swiftly thy whirling flames descend;
bring upward Follow them, glowing in thy fury;
Thy heat, O Agni, thy winged (flames) with thy tongue,
Unfettered, on all sides spread thy firebrands.
Your swirling (flames) fly swiftly; touch down boldly following (them [/your onslaught]) as you keep blazing.
Unfettered, o Agni, with your tongue hurl out bursts of heat, flying (embers), firebrands in all directions.564 IV.4
Es fliegen eilend deine Wirbelflammen, folg auf dem Fuss mit kühnem Muthe strahlend; Entfesselt giess beschwingte Flammen rings aus, mit deiner Zunge, Agni, Feuersgluten.
Deine Lohen fliegen schnell, greif mutig zu, hell flammend. Schieß mit der Zunge deine Gluten hinaus gleich Vögeln, o Agni, ungezügelt nach allen Seiten deine Feuerbrände!
Твои огненные вихри быстро летают:
Смело хватай ими, мощно пылая!
Языком, о Агни, рассыпай во все стороны
Огни, (словно) птиц, – головни (твои), не давая себя связать!
प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः । यो नो॑ दू॒रे अ॒घशं॑सो॒ यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्षीत् ॥
प्रति॑ । स्पशः॑ । वि । सृ॒ज॒ । तूर्णि॑ऽतमः । भव॑ । पा॒युः । वि॒शः । अ॒स्याः । अद॑ब्धः । यः । नः॒ । दू॒रे । अ॒घऽशं॑सः । यः । अन्ति॑ । अग्ने॑ । माकिः॑ । ते॒ । व्यथिः॑ । आ । द॒ध॒र्षी॒त् ॥
हे अग्ने तूर्णितमः स्वरिततमस्त्वं स्पशः परबाधकान् रश्मीन् चारान् वा सत्यानृतविवेकार्थं वि सृज शत्रून् प्रति विशेषेण प्रेरय । अदब्धः केनाप्यहिंसितस्त्वम् अस्याः त्वदीयायाः विशः अस्मदादिकायाः प्रजायाः पायुः पालकः भव । कस्मात्तद्रक्षणमित्यपेक्षायामाह । नः अस्माकं दूरे यः अघशंसः । अघं पापात्मकं शंसनमभिलाषः कीर्तनं वा यस्य सोऽघशंसः । यः च अघशंसः अन्ति अस्माकं समीपे तिष्ठति तस्मादुभयविधाच्छत्रोः पालको भव । किंच ते त्वत्संबधिनोऽस्मान् माकिः न कश्चिदपि व्यथिः बाधको राक्षसः आ दधर्षीत् आधर्षयतु । अस्माकं कश्चिदपि परिभवं मा करोत्वित्यर्थः ॥ अन्ति । अन्तिकस्य कादिलोप आद्युदात्तत्वं च । अग्ने । पादादित्वात् षाष्ठिकमाद्युदात्तत्वम् । माकिष्टे इति संहितायां ‘युष्मत्तत्ततक्षुःष्वन्तःपादम्' इति षत्वम् । दधर्षीत् । धृष प्रसहने । लङि ‘ बहुलं छन्दसि ' इति शपः श्लुः । बहुलं छन्दसि ' इति तिप ईडागमः । निघातः ॥
“Do you, who are most rapid, direct your (flames) against opposing (rays), and, unresisted, become the protector of this your people against the calumniator who is remote or who is nigh; let no malevolent (foe) prevail against us (who are) your worshippers.”
Send thy spies forward, flectest in thy motion; be, ne'er deceived, the guardian of this people
From him who, near or far, is bent on evil, and let no trouble sent from thee o'ercome us.
Being the quickest, send forth thy spies against (all evildoers). Be an undeceivable guardian of this clan. He who attacks us with evil spells, far or near, may no such (foe) defy thy track.
Send forth thy spies, swiftest in thy motion;
Be an unfailing guardian to this folk,
From him who afar plans evil [1], from him who near;
O Agni let no trouble from thee overwhelm us.
Hurl out your spies against (the foes), as the swiftest one. Become the undeceivable protector of this clan here.
Whoever curses us at a distance, who nearby, o Agni, let no one defy your veering course.
Zum Schutze sende eilig deine Späher, sei zuverläss'ger Hüter dieses Hauses; Welch bös' gesinnter nahe weilt und ferne, der mög' an deine Bahn sich nimmer wagen.
Entsende eiligst deine Späher, sei ein unbetörbarer Schützer dieses Clans. Wer in der Ferne, wer in der Nähe Böses von uns redet, o Agni, keiner soll es wagen dich irrezuführen.
Самый стремительный, рассыпай против (врагов)-соглядатаев,
Будь защитником этого племени, не терпящим обмана!
Кто вдалеке говорит о нас злое, кто вблизи,
О Агни, ни один пусть не дерзнет помешать твоему метанию!
उद॑ग्ने तिष्ठ॒ प्रत्या त॑नुष्व॒ न्य१॒॑मित्राँ॑ ओषतात्तिग्महेते । यो नो॒ अरा॑तिं समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्क॑म् ॥
उत् । अ॒ग्ने॒ । ति॒ष्ठ॒ । प्रति॑ । आ । त॒नु॒ष्व॒ । नि । अ॒मित्रा॑न् । ओ॒ष॒ता॒त् । ति॒ग्म॒ऽहे॒ते॒ । यः । नः॒ । अरा॑तिम् । स॒म्ऽइ॒धा॒न॒ । च॒क्रे । नी॒चा । तम् । ध॒क्षि॒ । अ॒त॒सम् । न । शुष्क॑म् ॥
तिग्महेते । तिग्माः तीक्ष्णाः हेतयो ज्वाला यस्य स तथोक्तः । तादृश हे अग्ने उत् तिष्ठ रक्षोहननार्थमुद्यतो भव । शत्रून् प्रत्या तनुष्व ज्वालासंघं विस्तारय । तैस्तेजःसंघैः अमित्रान् शत्रून् नि ओषतात् नितरां दह । हे समिधान समिद्भिर्दीप्यमानाग्ने यः पुमान् नः अस्माकम् अरातिम् । भावप्रधाननिर्देशः । अरातित्वं शात्रवं चक्रे कुरुते । अरातिमदानं वा कुरुते । तं पुमांसं नीचा न्यग्भूतं धक्षि दह । तत्र दृष्टान्तः । अतसं न । यथा शुष्कम् अनार्द्रम् अतसं काष्ठं दहसि तद्वत् ॥ ओषतात् ।' उष दाहे'। लोटि हेः ‘तुह्योः' इति तातङादेशः । धक्षि। दहेर्लोटि ‘ बहुलं छन्दसि' इति शपो लुक् । 'हो ढः' इति ढत्वम् । भष्भावः । ‘ षढोः कः सि ' इति कत्वम् । निघातः ॥
“Sharp-weaponed Agni, rise up; spread wide (your flames) against (the rākṣasas); entirely consume the foes; blazing Agni, burn down him who acts as an enemy towards us like a piece of dry timber.”
Rise up, O Agni, spread thee out before us: burn down our foes, thou who hast sharpened arrows.
Him, blazing Agni! who hath worked us mischief, consume thou utterly like dried-up stubble.
Rise up, O Agni! Spread out against (all foes)! Burn down the foes, O (god) with the sharp weapon! When kindled, O Agni, burn down like dry brushwood, the man who exercises malice against us.
Arise, O Agni; spread thyself out;
Burn up our foes, O thou of keen dart;
Him who hath wrought evil for us, O blazing one,
Do thou consume utterly like dry stubble.
Stand up, Agni; stretch yourself out [/stretch (your bow)] against (them). Then scorch down the foes, o you whose missiles are sharp. Whoever has directed hostility toward us, o kindled one, burn him down like a dry thicket.
Erheb dich, Agni, spanne deinen Bogen, mit scharfer Waffe brenn die Feinde nieder; Wer Frevel übt an uns, o hellentflammter, den brenne nieder gleichwie dürres Buschwerk.
Steh auf, Agni, stell dich breit entgegen; brenn die Feinde nieder, Scharfpfeiliger! Wer uns, du Entflammter, Mißgunst erwiesen hat, den brenne nieder wie dürres Gestrüpp!
Поднимись, о Агни! Вытянись против (них)!
Испепели недругов, о ты, с острым дротиком!
Кто нам причинил горе, о зажженный,
Спали того дотла, как сухой куст!
ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या॑न्यग्ने । अव॑ स्थि॒रा त॑नुहि यातु॒जूनां॑ जा॒मिमजा॑मिं॒ प्र मृ॑णीहि॒ शत्रू॑न् ॥
ऊ॒र्ध्वः । भ॒व॒ । प्रति॑ । वि॒ध्य॒ । अधि॑ । अ॒स्मत् । आ॒विः । कृ॒णु॒ष्व॒ । दैव्या॑नि । अ॒ग्ने॒ । अव॑ । स्थि॒रा । त॒नु॒हि॒ । या॒तु॒ऽजूना॑म् । जा॒मिम् । अजा॑मिम् । प्र । मृ॒णी॒हि॒ । शत्रू॑न् ॥
हे अग्ने ऊर्ध्वो भव रक्षोहननार्थमुद्युक्तो भव । अस्मत् अस्मत्तः अधि अधिकान् राक्षसान् प्रति विध्य प्रत्येकं ताडय । दैव्यानि तेजांसि च आविष्कृणुष्व आविष्कुरु । एतत्त्रयं विधाय यातुजूनां यातयितुं प्राणिनः क्लेशयितुं ये जवं कुर्वन्ति तेषां यातुधानानां स्थिरा दृढानि धनूंषि अव तनुहि अवगतज्यानि कुरु । किंच जामिं बन्धुम् अजामिम् अबन्धुम् एतादृशान् शत्रून् प्र मृणीहि प्रजहि । यद्वा । जामिं यः पूर्वं प्रहृतस्तम् । अजामिं पूर्वमप्रहृतम् । एवंभूतान् शत्रून् जहि । प्रहृतोऽयम् इत्युपेक्षां मा कृथाः ॥ अविष्कृणुष्व इत्यत्र संहितायाम् इदुदुपधस्य चाप्रत्ययस्य ' इति षत्वम् । तनुहि । तनोतेर्लोटि • उतश्च प्रत्ययाच्छन्दसि वावचनम्' इति हेर्लुगभावः । यातुजूनाम् । ‘जु गतौ । क्विब्वचि इत्यादिना क्विप्। दीर्घः । आमि छान्दसो नुम् । मृणीहि । मृङ् प्राणत्यागे'। अन्तर्भावितण्यर्थस्य लोटि ‘ बहुलं छन्दसि ' इति विकरणस्य श्ना । निघातः ॥ ॥ २३ ॥
᳓
“Rise up, Agni, chastise those who overpower us; manifest your divine energies; slacken the strone (bow strings) of the malignant kings; destroy those (who are hostile), whether kindred or unallied.”
Rise, Agni, drive off those who fight against us: make manifest thine own celestial vigour.
Slacken the strong bows of the demondriven: destroy our foemen whether kin or stranger.
Stand upright, strike (the foes) away from us! Make manifest thy divine (powers), O Agni! Unbend the strong (bows) of those who incite demons (against us) 1. Crush all enemies, be they relations or strangers.
Arise; drive from us (our foes);
Reveal thy heavenly strength, O Agni,
Slacken the strung (weapon) of the demon-driven;
Crush our foes, kin or not kin.
Become upright; pierce against (them)—away from us. Make your heavenly (forms?) manifest, Agni.
Slacken the taut (bows) of those incited by sorcerers; kin or non-kin, pulverize the rivals.
Erheb dich, jage fort von uns die Feinde, mach kund, o Agni, deine Götterkräfte; Mach schlaff die Sehnen aller Spuk-Besessnen, tilg' aus verwandt' und unverwandte Feinde.
Richte dich auf, stoß sie von uns weg, offenbare deine göttlichen Kräfte, o Agni! Zermalme die Feinde, den verwandten, wie den fremden.
Распрямись! Отгони от нас (врагов,) пронзая (их)!
Прояви (свои) божественные (силы), о Агни!
Разряди тугие (луки) тех, кого вдохновляет колдовство!
Разбей врагов: родного, как неродного!
स ते॑ जानाति सुम॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् । विश्वा॑न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो वि दुरो॑ अ॒भि द्यौ॑त् ॥
सः । ते॒ । जा॒ना॒ति॒ । सु॒ऽम॒तिम् । य॒वि॒ष्ठ॒ । यः । ईव॑ते । ब्रह्म॑णे । गा॒तुम् । ऐर॑त् । विश्वा॑नि । अ॒स्मै॒ । सु॒ऽदिना॑नि । रा॒यः । द्यु॒म्नानि॑ । अ॒र्यः । वि । दुरः॑ । अ॒भि । द्यौ॑त् ॥
यविष्ठ युवतम यद्वा देवानां हवींषि मिश्रयितृतम हे अग्ने यः पुमान् ईवते गमनवते कल्याणहेतुभूतागमनाय ब्रह्मणे परिवृढाय तुभ्यं गातुम् ॥ गीयते उच्चार्यते इति गातुः स्तोत्रम् । तत् ऐरत् प्रेरयति । सः पुमान् ते तव सुमतिं कल्याणकरीमनुग्रहात्मिकां बुद्धिं जानाति लभत इत्यर्थः । अस्मै स्तोत्रं कृतवते यजमानाय तदर्थं विश्वानि सर्वाणि सुदिनानि शोभनानि दिनानि रायः धनानि द्युम्नानि द्युतिमन्ति रस्नकनकादीनि दुरः गृहान् अभि अभिलक्ष्य अर्यः यज्ञानां स्वामी त्वं वि द्यौत् विशेषेण द्योतस्व । केचिदत्र वाक्यभेदमङ्गीकुर्वते । स्तोत्रं कृतवते यजमानाय विश्वानि सुदिनानि अभ्युदयकारीणि भवन्ति । रायः । रान्ति क्षीरादीनीति रायो गोधनानि । द्युम्नानि द्योतमानानि कनकादीनि चास्मै भवन्ति। अर्यः कर्मणामनुष्ठाता सः यजमानो दुरो गृहानभि वि द्यौत् विशेषेण द्योतते॥ ईवते। ‘ई गतौ ' । क्विप् । तदस्यास्ति' इति मतुप् । छन्दसीरः ' इति मतुपो वत्वम् । ऐरत् ।' ईर गतौ ' । यद्वृत्तयोगादनिघातः । अर्यः । ‘ ऋ गतौ ।' अर्यः स्वामिवैश्ययोः' इति यत्प्रत्ययान्तो निपातितः । स्वामिन्यन्तोदात्तत्वम् । द्यौत् । ‘द्युत् दीप्तौ । छान्दसे लुङि 'द्युद्भ्यो लुङि' इति परस्मैपदम् । ‘ बहुलं छन्दसि ' इत्यडभावः ॥
“He experiences your good favour, young (of the gods), who offers praise to you a Brahman, coming quickly (to bestow felicity); to him are all prosperous days and wealth (of cattle) and treasures; do you as the lord of sacrifice, shine upon his dwelling.”
Most Youthful God, he knoweth well thy favour who gave an impulse to this high devotion.
All fair days and magnificence of riches hast thou beamed forth upon the good man's portals.
He knows thy favour, O youngest one, who makes a way for a sacred speech like this. Mayst thou beam forth to his doors all auspicious days and the wealth and the splendour of the niggard.
He knows thy [2] loving kindliness, O most youthful one,
Who hath given furtherance to this devotion;
All happy days for him, glory, and wealth
--Opening the doors of the miser--he hath revealed.'
That one knows your good will, o youngest one, who has set the course for a sacred formulation like this.
For him you have flashed open the doors to all the day-bright (days), to the riches, to the brilliant things of the stranger.
Der spüret recht, o jüngster, deine Güte, wer einer solchen Andacht Fortgang schaffet; Dem strahlst du alle Herrlichkeit des Reichthums vom Feind hinweg, ins Haus hinein ihm Schätze.
Der erfährt deine Gunst, o Jüngster, der ein erbauliches Wort wie dieses Zuwege bringt. Ihm sollst du lauter schöne Tage, Reichtümer, die Herrlichkeiten des hohen Herrn durch die Tür scheinen.
Тот познает твою милость, о самый юный,
Кто исполняет молитву, подобную (этой).
Воссвети ему, от(крыв) врата, все прекрасные дни,
Богатства, все великолепие врага!
सेद॑ग्ने अस्तु सु॒भग॑: सु॒दानु॒र्यस्त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः । पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ सास॑दि॒ष्टिः ॥
सः । इत् । अ॒ग्ने॒ । अ॒स्तु॒ । सु॒ऽभगः॑ । सु॒ऽदानुः॑ । यः । त्वा॒ । नित्ये॑न । ह॒विषा॑ । यः । उ॒क्थैः । पिप्री॑षति । स्वे । आयु॑षि । दु॒रो॒णे । विश्वा॑ । इत् । अ॒स्मै॒ । सु॒ऽदिना॑ । सा । अ॒स॒त् । इ॒ष्टिः ॥
हे अग्ने यः पुमान् नित्येन यावज्जीवं संकल्पितेनाग्निहोत्रादिसाधनभूतेन हविषा त्वा त्वां पिप्रीषति प्रीणयितुमिच्छति, यः च उक्थैः शस्त्रैः प्रीणयितुमिच्छति सेत् स एव पुमान् सुभगः शोभनधनः सौभाग्यवान् वा 'सुदानुः शोभनदानोपेतश्च अस्तु । किंच दुरोणे दुरवने कृच्छूलभ्ये स्वे स्वकीये आयुषि शतवर्षांख्ये जीवने तिष्ठतु। अस्मै यजमानाय विश्वा सर्वाणि सुदिना शोभनानि दिनानि भवन्तु । अस्य सा इष्टिः स यज्ञः असत् फलसाधनसमर्थो भवतु ॥ पिप्रीषति । ‘प्रीञ् तर्पणे '।' धातोः कर्मण:°' (पा. सू. ३. १. ७ ) इति सन् । असत् । अस्तेर्लेट्यडागमः । इष्टिः । ‘ मन्त्रे वृष° ' इत्यादिना क्तिन्नुदात्तः ॥
“May the liberal man ever be prosperous who propitiate you with constant oblations and praises; may all the days in his arduous life be prosperous, and may this (his) sacrifice be (productive of reward).”
Blest, Agni, be the man, the liberal giver, who with his lauds and regular oblation
Is fain to please thee for his life and dwelling. May all his days be bright: be this his longing.
Let him, O Agni, be fortunate and blessed with good rain, who longs to gladden thee with constant offerings and hymns through his life in his house. May such longing ever bring auspicious days to him.
Let him, O Agni, be fortunate and munificent,
Who with constant oblation, who with praise,
Seeks to delight thee in his life in his house;
May all days be happy for him; be that the will.
Agni, let just him be rich in portions, rich in gifts, who with regular oblation, who with solemn words
seeks to please you during his own lifetime, in his own dwelling. All (days) (will be) day-bright for him. This desire (of his) will come true.
Nur der sei glücklich, reich an Gut, o Agni, der dich mit stetem Opferguss und Sprüchen Zu letzen strebt im Haus, so lang' er lebet, dem werde alles Glück, das sei die Bitte.
Der soll glücklich, reich an Gaben sein, o Agni, der dich mit ständiger Opferspende und mit Liedern während seines Lebens in seinem Hause zu befriedigen wünscht. Lauter schöne Tage sollen ihm werden: Das sei der Wunsch.
Да будет, о Агни, счастливым, богатым прекрасными дарами
Тот, кто постоянным жертвенным возлиянием, кто гимнами
Старается радовать тебя в своем доме (весь) век.
(Да будут) ему все дни прекрасны – таково будет пожелание!
अर्चा॑मि ते सुम॒तिं घोष्य॒र्वाक्सं ते॑ वा॒वाता॑ जरतामि॒यं गीः । स्वश्वा॑स्त्वा सु॒रथा॑ मर्जयेमा॒स्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ॥
अर्चा॑मि । ते॒ । सु॒ऽम॒तिम् । घोषि॑ । अ॒र्वाक् । सम् । ते॒ । व॒वाता॑ । ज॒र॒ता॒म् । इ॒यम् । गीः । सु॒ऽअश्वाः॑ । त्वा॒ । सु॒ऽरथाः॑ । म॒र्ज॒ये॒म॒ । अ॒स्मे इति॑ । क्ष॒त्राणि॑ । धा॒र॒येः॒ । अनु॑ । द्यून् ॥
हे अग्ने ते तव सुमतिम् अनुग्रहकरीं शोभनां बुद्धिम् अर्चामि पूजयामि । ववाता पुनःपुनस्त्वाम् अभिगच्छन्ती इयम् उच्यमाना गीः वाक् घोषि घोषयुक्तं यथा भवति तथा अर्वाक् त्वदभिमुखं ते त्वां सं जरतां स्तौतु । वयमपि स्वश्वाः शोभनाश्वोपेताः सुरथाः च । उपलक्षणमेतत् । पुत्रपौत्रादिभिः सहिताः सन्तः त्वां मर्जयेम अलंकुर्याम । परिचरेमेति यावत् । त्वं तु अनु द्यून् अन्वहम् अस्मे अस्मासु क्षत्राणि धनानि धारयेः निधेहि ॥ घोषि । ‘घुष शब्दने । औणादिक इन् । नित्त्वादाद्युदात्तः। वावाता। ‘वा गतिगन्धनयोः' इत्यस्य यङ्लुगन्तस्य निष्ठायां रूपम् । मर्जयेम ।' मृजू शौचालंकारयोः'। ण्यन्तस्य लिङि रूपम् । वृद्ध्यभावश्छान्दसः ॥
“I reverence your good favour, Agni; may this reiterated and resounding hymn convey due praise to your presence; may we be possessed of good horses and good cars, that we may pay you homage; and do you daily bestow upon us riches.”
I praise thy gracious favour: sing in answer. May this my song sing like a loved one with thee.
Lords of good steeds and cars may we adorn thee, and day by day vouchsafe thou us dominion.
I praise thy favour; it resounded here. May this song (which is like) a favourite wife, awaken for thee 1. Let us brighten thee, being rich in horses and chariots. Mayst thou maintain our knightly power day by day.
I praise thy loving kindness; loud sounding (thou singest) a reply;
Let this song of mine, beloved of thee, sing with thee [3]
With good steeds and fair chariots may we adorn thee;
Maintain for us the lordly power as the days go by.
I recite a good thought to you [/recite (=praise) your good will]. Hear it, inclined our way. (Like) a “Favorite” wife, let this song bring harmony to you.
We who have good horses and good chariots would groom you. In us you should uphold lordly powers through the days.
Ich sing' ein Lied dir, in der Näh' erschall' es; dir soll erklingen dieses liebe Preislied; Wir schmücken dich, versehn mit Ross und Wagen; du mögest immer unsre Herrschaft wahren.
Ich singe dir Wohlwollen ein; horche her! Diese Lobrede soll bei dir wie die Lieblingsfrau Anklang finden. Als Besitzer schöner Rosse und Wagen möchten wir dich putzen. Erhalte uns alle Tage die Herrschaft!
Я воспеваю твою милость: обрати свой слух в нашу сторону!
Пусть эта хвалебная песнь имеет успех у тебя, (словно) любимая жена!
Мы хотим украсить тебя, (чтоб получить) прекрасных коней, прекрасные колесницы.
Все дни поддерживай (наше) господство!
इ॒ह त्वा॒ भूर्या च॑रे॒दुप॒ त्मन्दोषा॑वस्तर्दीदि॒वांस॒मनु॒ द्यून् । क्रीळ॑न्तस्त्वा सु॒मन॑सः सपेमा॒भि द्यु॒म्ना त॑स्थि॒वांसो॒ जना॑नाम् ॥
इ॒ह । त्वा॒ । भूरि॑ । आ । च॒रे॒त् । उप॑ । त्मन् । दोषा॑ऽवस्तः । दी॒दि॒वांस॑म् । अनु॑ । द्यून् । क्रीळ॑न्तः । त्वा॒ । सु॒ऽमन॑सः । स॒पे॒म॒ । अ॒भि । द्यु॒म्ना । त॒स्थि॒वांसः॑ । जना॑नाम् ॥
हे अग्ने इह रक्षोहननाख्ये कर्मणि यद्वा अस्मिन् लोके यः पुरुषः दोषावस्तः रात्रावहनि च दीदिवांसं दीप्यमानं त्वा त्वाम् अनु द्यून् अन्वहं त्मन् आत्मना स्वयमेव उप समीपे भूरि भूयिष्ठं यथा भवति तथा “ आ चरेत् परिचरति । तस्माद्वयमपि जनानां शत्रूणां द्युम्ना द्युम्नानि धनानि अभि तस्थिवांसः त्वत्प्रसादादात्मसात्कुर्वन्तोऽत एव क्रीळन्तः स्वे स्वे गृहे पुत्रपौत्रादिभिः सह संक्रीडमानास्तथा सुमनसः शोभनमनस्काः सन्तस्त्वां सपेम परिचरेम । यद्वा । दोषावस्तरिति संबुद्धिः । दोषाया रात्रिकृतस्य तमसो वस्तराच्छादयितर्निवारयितः ॥ त्मन् । आत्मन्शब्दस्य तृतीयायाः ‘सुपां सुलुक्' इति लुक् । मन्त्रेष्वाङ्यादेरात्मनः' इत्याकारलोपः । दोषावस्तः । द्वन्द्वपक्षे ‘ कार्तकौजपादयश्च ' इति पूर्वपदप्रकृतिस्वरः । संबुद्धिपक्षे आमन्त्रितस्य पादादित्वात् षाष्टिकमाद्युदात्तत्वम् । सपेम । ‘षप समवाये । लिङि रूपम् । निघातः ॥
᳓
“May every one of his own accord diligently worship you, shining in the (hall) morning and evening, every day; thus, sporting in our dwellings, (enjoying) the wealth (of hostile) man, may we with happy hearts worship you.”
Here of free choice let each one serve thee richly, resplendent day by day at eve and morning.
So may we honour thee, content and joyous, passing beyond the glories of the people.
May (the worshipper) here frequently of his own accord approach thee, O (god) who shinest in darkness 1, resplendent day by day. Let us worship thee sporting and joyous, surpassing the splendour of (other) people.
᳓
Here let each serve thee readily,
That shinest in the darkness, as the days go by;
Happy and joyous may we attend thee
That dost surpass the glories of men.
Here should (a man) attend on you much in person—you illuminator of the evening, shining through the days.
Playful and well disposed, we would serve you, we who have
surmounted the brilliant things of (other) men.
Es soll dir vieles hier zum Dienst bereit stehn, der du erglänzest täglich morgens, abends; Wir wollen froh und wohlgesinnt dich ehren, nachdem der Menschen Güter wir errungen.
Hier soll er selbst dir fleißig aufwarten, alle Tage, wenn du Dunkelerheller erstrahlst. Unter Spielen und Frohsinn wollen wir dich pflegen, indem wir die Herrlichkeiten anderer Leute übertreffen.
Пусть он сам за тобою здесь много ухаживает,
Когда ты горишь все дни, о осветитель ночей!
Счастливые духом, мы хотим заботиться о тебе, играя,
Затмевая великолепие (других) людей.
यस्त्वा॒ स्वश्व॑: सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न । तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा॑नु॒षग्जुजो॑षत् ॥
यः । त्वा॒ । सु॒ऽअश्वः॑ । सु॒ऽहि॒र॒ण्यः । अ॒ग्ने॒ । उ॒प॒ऽयाति॑ । वसु॑ऽमता । रथे॑न । तस्य॑ । त्रा॒ता । भ॒व॒सि॒ । तस्य॑ । सखा॑ । यः । ते॒ । आ॒ति॒थ्यम् । आ॒नु॒षक् । जुजो॑षत् ॥
हे अग्ने यः पुमान् स्वश्वः शोभनाश्वोपेतः सुहिरण्यः यागयोग्यधनोपेतः वसुमता व्रीह्यादिधनयुक्तेन रथेन सहितः सन् त्वा त्वाम् उपयाति परिचरणार्थं तव समीपं गच्छति ॥ तस्य पुंसः त्राता सर्वदुरितेभ्यो रक्षकः भवसि । यः च पुमान् ते तव आतिथ्यम् अतिथियोग्यां पूजाम् आनुषक् अनुक्रमेण जुजोषत् प्रापयति तस्य पुंसः सखा तदुचितफलप्रदानेनोपकर्ता भवसि । उपयाति । ‘ सह सुपा ' इत्यत्र सहेति योगविभागात् समासः । तिपः पित्त्वादनुदात्तत्वे धातुस्वरः । ‘ तिङि चोदात्तवति' इति गतेर्निघातः । आतिथ्यम् । अतिथिशब्दात् तादर्थ्ये ‘ अतिथेर्ञ्यः' इति ञ्यप्रत्ययः । प्रत्ययस्वरः । जुजोषत् । जोषयतेर्लङि ‘बहुलं छन्दसि' इति शपः श्लुः । अडागमः । 'छन्दस्युभयथा' इति तिप आर्धधातुकत्वात् णिलोपः। ‘अभ्यस्तानामादिः' इत्याद्युदात्त: ॥ ॥ २४ ॥
“You Agni, are the protector of him who, possessed of good horses and a golden car, approaches you with a chariot laden with wealth; you are the friend of him who gratifies you be the due performance of hospitality to you.”
Whoso with good steeds and fine gold, O Agni, comes nigh thee on a car laden with trcasure,
His Friend art thou, yea, thou art his Protector whose joy it is to entertain thee duly.
Whoever, rich in horses and rich in gold, approaches thee, O Agni, with his chariot full of wealth—thou art the protector and the friend of him who always delights in showing thee hospitality.
He who with good steeds and rich in gold
Approacheth thee, O Agni, with a rich chariot,
His protector thou art, the comrade of him
Who duly offereth thee glad reception.
Whoever, rich in horses and gold, drives up to you, Agni, with a chariot full of goods,
his protector do you become and the (ritual) partner of him who will regularly enjoy your guest-friendship.
Wer zu dir kommt an Rossen reich und Goldschmuck, o Agni, und mit schatzbeladnem Wagen, Dem bist du Schützer, liebender Genosse, wer fort und fort als lieben Gast dich aufnimmt.
Der Besitzer schöner Rosse, schönen Goldes, der zu dir, Agni, auf schätzebeladenem Wagen kommt, dessen Schirmer wirst du, dessen Freund, und wer sich deiner Gastfreundschaft gebührlich erfreut.
Кто приближается к тебе, о Агни, имея прекрасных коней,
Прекрасное золото, на колеснице, полной добра, –
Ты бываешь защитником того, другом того,
Кто наслаждается твоим гостеприимством, как подобает.
म॒हो रु॑जामि ब॒न्धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒दन्वि॑याय । त्वं नो॑ अ॒स्य वच॑सश्चिकिद्धि॒ होत॑र्यविष्ठ सुक्रतो॒ दमू॑नाः ॥
म॒हः । रु॒जा॒मि॒ । ब॒न्धुता॑ । वचः॑ऽभिः । तत् । मा॒ । पि॒तुः । गोत॑मात् । अनु॑ । इ॒या॒य॒ । त्वम् । नः॒ । अ॒स्य । वच॑सः । चि॒कि॒द्धि॒ । होतः॑ । य॒वि॒ष्ठ॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । दमू॑नाः ॥
हे होतः देवानामाह्वातः यविष्ठ युवतम सुक्रतो शोभनप्रज्ञ हे अग्ने वचोभिः त्वदुद्देशेन कृतैः स्तोत्रैः समुपजाता येयं बन्धुता बन्धुभावस्तया बन्धुतया महः महतो राक्षसान् । रुजामि भनज्मि। तत् तादृशं स्तोत्रात्मकं वचः पितुः उत्पादयितुः गोतमात् ऋषेः सकाशात् मा मां वामदेवं अन्वियाय प्राप्तम् । दमूनाः दान्तमना दानमना वा शत्रूणामुपक्षपयिता वा तादृशः त्वं नः अस्मदीयस्य अस्य वचसः स्तोत्रात्मकमेतद्वाक्यं चिकिद्धि जानीहि ॥ चिकिद्धि । कित ज्ञाने ' । जौहोत्यादिकः । लोटि रूपम् । होतः । पादादित्वात् षाष्ठिकमाद्युदात्तत्वम् । इतरयोस्तु ‘ नामन्त्रिते समानाधिकरणे° ' इति प्रथमस्य अविद्यमानवद्भावनिषेधात् अपादादित्वेन निघातः ॥
“Invoker (of the gods), young (of the deities) possessed of excellent wisdom, through the alliance (with you produced) by holy texts, which came to me from my father Gotama, I demolish the powerful (demons); do you who are the humbler (of foes), be cognizant of our praises.”
Through words and kinship I destroy the miglity: this power I have from Gotama my father.
Mark thou this speech of ours, O thou Most Youthful, Friend of the House, exceeding wise, Invoker.
Through my kinship (with thee) I break down the great (foes) by my words 1. That (kinship) has come down to me from my father Gotama. Be thou attentive to this our word, O youngest, highly wise Hotri, as the friend of our house.
The great I overcome [4] through kinship and my songs;
That hath descended to me from Gotama, my sire;
Pay heed to this song of ours,
O Hotr, most youthful, skilful, friend of the house.
᳓
Thanks to my lineage, I powerfully break (it [=the rock full of treasures]) with my speeches. This [=speech/poetic gift?] has come down to me from my father Gotama.
Take note of this speech of ours here, o Hotar, youngest one, very effective, as friend of the house.
Durch meiner Sippe Lieder schlag' ich Helden; das kam auf mich von Gotama, dem Vater; O merke du auf diese unsre Rede, o jüngster, weiser Priester, du der Hausfreund.
Vermöge meiner Abstammung zerschmettere ich mit den Worten des großen Vaters. Das ist mir vom Vater Gotama überkommen. Achte du auf dieses Wort von uns, jüngster, wohlverständiger Hotri, als der Hausgebieter!
Благодаря (своему) родству я умею мощно разить словами,
Это мне перешло от отца Готамы.
Обрати внимание на эту нашу речь
Как друг дома, о хотар, самый юный, обладающий прекрасной силой духа!
अस्व॑प्नजस्त॒रण॑यः सु॒शेवा॒ अत॑न्द्रासोऽवृ॒का अश्र॑मिष्ठाः । ते पा॒यव॑: स॒ध्र्य॑ञ्चो नि॒षद्याग्ने॒ तव॑ नः पान्त्वमूर ॥
अस्व॑प्नऽजः । त॒रण॑यः । सु॒ऽशेवाः॑ । अत॑न्द्रासः । अ॒वृ॒काः । अश्र॑मिष्ठाः । ते । पा॒यवः॑ । स॒ध्र्य॑ञ्चः । नि॒ऽसद्य॑ । अ॒ग्ने॒ । तव॑ । नः॒ । पा॒न्तु॒ । अ॒मू॒र॒ ॥
अमूर अमूढ सर्वज्ञ । यद्वा । अमूर अप्रतिहतगते हे अग्ने अस्वप्नजः अस्वपन्तः । जागरूका इति यावत् । तरणयः सततगमनस्वभावा आपद्भ्यस्तारका वा सुशेवाः सुसुखाः अतन्द्रासः अतन्द्रा अनलसाः सर्वदोद्युक्ताः अवृकाः अहिंसकाः अश्रमिष्ठाः अश्रान्ततमाः सध्र्यञ्चः परस्परं संगताः पायवः रक्षकाः ते तादृशाः तव रश्मयः निषद्य अस्मद्यज्ञे निषण्णा भूत्वा नः अस्मान् पान्तु रक्षन्तु ॥ अस्वप्नजः । स्वपितृषोर्नजिङ्प्रत्ययः । मध्येऽवग्रहश्छान्दसः ॥ सध्र्यञ्चः । सहपूर्वादञ्चतेः क्विप् । 'सहस्य सध्रिः' इति सहस्य सध्र्यादेशः । सध्र्यादेशस्य
अन्तोदात्तत्वनिपातनात् यणादेशे ( उदात्तस्वरितयो:०' इति स्वरितत्वम् । अमूर। ‘मुह वैचित्ये '। निष्ठायां ढकारस्य रेफश्छान्दसः । यद्वा । ‘ मृङ् बन्धने' । औणादिकः रक् ॥
“All-wise Agni, may your protecting (rays), unslumbering alert, propitious, unslothful, benignant, unwearied, co-operating, having taken their plural ce (at this sacrifice), preserve us.”
Knowing no slumber, speedy and propitious, alert and ever friendly, most unwearied,
May thy protecting powers, unerring Agni, taking their places here, combined, preserve us.
May those guardians of thine, infallible Agni, sitting down together protect us, the never sleeping, onward-pressing, kind, unwearied ones, who keep off the wolf, who never tire.
Sleepless, speedy, propitious,
Unwearied, never hostile, unexhausted,
May thy guardians, O Agni, taking their places here united,
Protect us, O wise one.
These—sleepless, (ever) advancing, very friendly, tireless, never wearying, keeping the wolf away—
these protectors of yours, directed to a single goal—let them settle down and protect us, o ungullible Agni.
Die schlummerlosen, eilenden, getreuen, sehr holden, die nicht rasten, noch ermüden, Die Hüter, Agni, die du hast, die mögen zusammen sitzend uns behüten, weiser.
Nie schläfrig, durchhaltend, freundlich, unverdrossen, den Wolf abwehrend, am wenigsten ermüdend sollen diese deine Schutzgeister sich vereint niederlassen und uns schützen, du besonnener Agni.
Бессонные, преодолевающие (трудности), очень дружелюбные,
Неутомимые, устраняющие лютого врага, меньше всех изнуряющиеся,
Эти защитники твои, о Агни проницательный,
Усевшись вместе, пусть защитят нас!
ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धं दु॑रि॒तादर॑क्षन् । र॒रक्ष॒ तान्त्सु॒कृतो॑ वि॒श्ववे॑दा॒ दिप्स॑न्त॒ इद्रि॒पवो॒ नाह॑ देभुः ॥
ये । पा॒यवः॑ । मा॒म॒ते॒यम् । ते॒ । अ॒ग्ने॒ । पश्य॑न्तः । अ॒न्धम् । दुः॒ऽइ॒तात् । अर॑क्षन् । र॒रक्ष॑ । तान् । सु॒ऽकृतः॑ । वि॒श्वऽवे॑दाः । दिप्स॑न्तः । इत् । रि॒पवः॑ । न । अह॑ । दे॒भुः॒ ॥
अत्रेयमैतिहासिकी कथा । उचथ्यस्य गर्भिणीं ममतानामधेयां भार्यां तदनुजो बृहस्पतिरचकमत । तस्यां रेत आधित्सुं तं बृहस्पतिं गर्भस्थं रेतोऽब्रवीत् । रेतोऽत्र मा सैक्षीरहमत्र वसामीति । एवमुक्तो बृहस्पतिर्निरुद्धरेतस्कः सन् रेतरूपं गर्भं शशाप । जात्यन्धत्वरूपं दीर्घं तमः प्राप्नुहीति । ततस्तस्यां दीर्घतमा अजनिष्ट। स चान्ध्यपरिहारायाग्निं रतुत्वा चक्षुरलभतेति । तदिदानीमाह । हे अग्ने पायवः रक्षकाः पश्यन्तः अन्धोऽयमिति कृपादृष्ट्या पश्यन्तः ते तव ये रश्मयः मामतेयं ममतायाः पुत्रम् अन्धं चक्षुर्हीनं दीर्घतमसं दुरितात् आन्ध्यलक्षणात् शापात् अरक्षन् चक्षु प्रदानेनापालयन् । विश्ववेदाः विश्वप्रज्ञो भवान् सुकृतः शोभनं चक्षुष्प्रदानादिकर्म कृतवतः तान् रश्मीन् ररक्ष आदरेण परिगृह्य पालयति। तेषां परिग्रहसिद्धि: अभिधीयते । दिप्सन्त इत् दम्भितुं परिभवितुम् इच्छन्त एव रिपवः शत्रव एनं दीर्घतमसं नाह देभुः नैव परिभवन्ति खलु ॥ मामतेयम्। ममताया अपत्यमित्यर्थे 'स्त्रीभ्यो ढक्'। दिप्सन्तः । ‘ दम्भु दम्भे'।' सनीवन्तर्ध° ' इत्यादिना इडभावः । ‘ दम्भ इच्च' इति इकारः । देभुः । ‘ श्रन्थिग्रन्थिदम्भिष्वञ्जीनामुपसंख्यानम् ' ( का. ६. १ ) इति लिटः कित्त्वादुपधालोपः ॥
᳓
“Those your protecting (rays), Agni, which, beholding (what had chanced), preserved the blind son of Mamatā from misfortune; he, knowing all things, cherished those benevolent (rays), and his enemies, intending to destroy him, wrought him no harm.”
Thy guardian rays, O Agni, when they saw him, preserved blind Mamateya from affliction.
Lord of all riches, he preserved the pious: the fees who fain would harm them did no mischief
1 Thy guardians, O Agni, who seeing have saved the blind son of Mamatâ from distress—He the possessor of all wealth has saved them who have done good deeds. The impostors, though trying to deceive, could not deceive.
In Thy guardians, O Agni, who seeing,
Guarded from ill the blind Mamateya,
He of all wisdom guarded these kindly ones;
The foes that were fain to deceive could not [5] deceive.
Agni, your protectors who, watching, guarded blind Māmateya [=Dīrghatamas] from ill-faring,
those of good (ritual) action has the possessor [/knower] of everything [=Agni] guarded. Though wishing to damage, the cheats did no
damage at all.
Den Mamateja schützten deine Hüter, den Blinden sehend, vor Gefahr, o Agni; Der alles weiss, beschützte hier die Frommen; auch schadensücht'ge Feinde schaden nimmer.
Deine Schutzgeister, o Agni, die selbst sehend den blinden Mamateya vor Fehltritt bewahrten, mit denen hat der Allwissende diese Frommen bewahrt. Die schadenfrohen Schelme haben wirklich nicht geschadet.
(Те) твои защитники, о Агни, (сами) зрячие,
Кто спас от беды слепого Маматею, –
(С их помощью) всеведущий (Агни) спас таких благочестивых.
И хотят навредить мошенники, но не (могут) навредить.
त्वया॑ व॒यं स॑ध॒न्य१॒॑स्त्वोता॒स्तव॒ प्रणी॑त्यश्याम॒ वाजा॑न् । उ॒भा शंसा॑ सूदय सत्यतातेऽनुष्ठु॒या कृ॑णुह्यह्रयाण ॥
त्वया॑ । व॒यम् । स॒ध॒न्यः॑ । त्वाऽऊ॑ताः । तव॑ । प्रऽनी॑ती । अ॒श्या॒म॒ । वाजा॑न् । उ॒भा । शंसा॑ । सू॒द॒य॒ । स॒त्य॒ऽता॒ते॒ । अ॒नु॒ष्ठु॒या । कृ॒णु॒हि॒ । अ॒ह्र॒या॒ण॒ ॥
अह्रयाण अलज्जितगमन। ‘अह्रयाणोऽह्रीतयानः' (निरु.५.१५) इति यास्कः । तादृश हे अग्ने वयं स्तोतारः त्वया सधन्यः त्वत्प्रसादात् समानधनाः त्वोताः त्वया रक्षिता वयं तव प्रणीती प्रणीत्या तव प्रेरणेनानुज्ञया वाजान् अन्नानि अश्याम प्राप्नुयाम । हे सत्यताते । सत्यं तनोतीति वा सत्यं तायते यस्मिन्निति वा सत्यतातिः । हे सत्यताते शंसा पापानां शंसितारौ उभा उभौ आसन्नविप्रकृष्टौ शत्रू सूदय जहि। अनुष्ठुया अनुक्रमेण कृणुहि । अस्मिन् सूक्ते प्रतिपादितमर्थं कुरु ॥ सधन्यः । धनमेषामस्तीति छन्दसीवनिपौ° ' इति ईप्रत्ययः।' एरनेकाचः' इति यण् । उदात्तस्वरितयोः' इति स्वरितत्वम् । अनुष्ठुया । “ अपदुःसुषु स्थः ' इति विधीयमानः कुप्रत्ययो बहुलवचनादनुपूर्वस्यापि भवति। ‘सुपां सुलुक्°' इति तृतीयाया याजादेशः । अह्रयाण । ‘ ह्री लज्जायाम् । ‘ बहुलं छन्दसि ' इति शपः श्लुभावाभावः ।“ अनित्यमागमशासनम् ' इति मुगभावः ॥
᳓
“Agni, who are freed from shame, by you we are made opulent; by you we are protected; may we, through your guidance, attain abundant food; cherisher of truth, destroy both (sorts of calumniators), those who are nigh, those who are far off, and in due course fulfil (our desires).”
Aided by thee with thee may we be wealthy, may we gain strength with thee to guide us onward.
Fulfil the words of both, O Ever Truthful: straightway do this, thou God whom power emboldens.
In thy companionship we dwell, protected by thee. Under thy guidance let us acquire gain. Accomplish both praises 1, O (thou who art the) truth! Do so by thy present power, O fearless one!
In unison with thee, aided by thee,
Under thy leadership, let us gain strength;
Fulfil both our desires, O truthful one;
Perform it forthwith, O fearless one.
Through you may we—companions aided by you, in your guidance— attain prizes.
Sweeten both of the lauds [=for both the gods and the patrons], you who are reality itself. Set them in order, you unabashed one.
Von dir geleitet mögen wir erlangen, von dir geschützt, durch deine Führung, Schätze; Erfülle beide Wünsche, o wahrhaft'ger, und thue das, o Kühner, stehnden Fusses.
Mit dir in Gütergemeinschaft lebend, von dir unterstützt möchten wir unter deiner Führung die Siegerpreise erlangen. Bring doppeltes Lob fertig, du Wahrmacher, mach´s ordnungsgemäß, du Beherzter!
Ведомые (все) вместе тобою, поддержанные тобою,
Под твоим водительством пусть достигнем мы наград!
Приготовь обе хвалы, о воплощение истины!
Поступай по обычаю, о решительный!
अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒ स्तोमं॑ श॒स्यमा॑नं गृभाय । दहा॒शसो॑ र॒क्षस॑: पा॒ह्य१॒॑स्मान्द्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात् ॥
अ॒या । ते॒ । अ॒ग्ने॒ । स॒म्ऽइधा॑ । वि॒धे॒म॒ । प्रति॑ । स्तोम॑म् । श॒स्यमा॑नम् । गृ॒भा॒य॒ । दह॑ । अ॒शसः॑ । र॒क्षसः॑ । पा॒हि । अ॒स्मान् । द्रु॒हः । नि॒दः । मि॒त्र॒ऽम॒हः॒ । अ॒व॒द्यात् ॥
हे अग्ने अया अनया समिधा दीप्त्या स्तुत्या ते त्वां विधेम परिचरेम । अस्माभिः शस्यमानम् इमं स्तोमं स्तोत्रं प्रति गृभाय प्रतिगृहाण । अशसः । शंसन्ति स्तुवन्तीति शसः स्तोतारः । ते न भवन्तीत्यशसो नृशंसाः । तान् रक्षसः दह भस्मसात्कुरु। हे मित्रमहः मित्रैः पूजनीय हे अग्ने द्रुहः द्रोग्धुः निदः निन्दकात् अवद्यात् परिवादाच्च अस्मान् पाहि रक्ष । गृभाय । ग्रहेर्लोटि ‘ छन्दसि शायजपि ' इति श्नः शायच् । हृग्रहोर्भः । पाहि । वाक्यभेदात् अनिघातः । निदः । णिदि कुत्सायाम् । क्विप् । आगमशासनस्यानित्यत्वान्नुमभावः । ‘ सावेकाचः' इति विभक्तेरुदात्तत्वम् । अवद्यात् । ‘ अवद्यपण्य° ' इति यत् । ययतोश्चातदर्थे । ( पा. सू. ६. २. १५६ ) इत्यन्तोदात्तत्वम् । मित्रमहो अवद्यात् इत्यत्र संहितायाम् । अव्यादवद्यात्' इति एङः प्रकृतिभावः ॥ २५ ॥
“May we propitiate you, Agni, by this fuel; accept the praise that is recited by us; consume the unadoring rākṣasas; you are to be honoured by (your) friends, preserve us from the reproach of the oppressor and the reviler.”
O Agni, with this fuel will we serve thee; accept the laud we sing to thee with favour
Destroy the cursing Raksasas: preserve us, O rich in friends, from guile and scorn and slander.
May we worship thee, O Agni, with this log of wood. Accept the hymn of praise which we recite. Burn down those who curse us, the sorcerers. Protect us, O (god) who art great like Mitra, from guile, from revilement, and from disgrace.
With this fuel, O Agni, will we serve thee;
Accept the song of praise recited for thee;
Burn those that revile, the Raksases; guard us,
From the foe, the reviler, O rich in friends, from blame.
With this kindling stick we would do honor to you, Agni. Accept the praise being chanted.
Burn the demons who lack chant; protect us from deceit, from scorn, from calumny, o you with Mitra’s might.
Wir huld'gen, Agni, dir mit diesem Brennholz, empfange du das ausgesprochne Loblied; Die bösen Geister brenne, uns beschütze vor Trug und Hass, vor Schmach, o freundereicher.
Mit diesem Brennholz wollen wir dir dienen, o Agni, nimm das vorgetragene Loblied entgegen, verbrenn die unerwünschten Unholde, schütz uns vor Trug, vor Tadel, vor Unehre, du wie Mitra Geehrter!
Мы хотим почтить тебя, о Агни, этими дровами.
Прими произносимую хвалу!
Спали проклятых ракшасов! Защити нас
От обмана, хулы, позора, о великий (, как) Митра!