स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒ उदा॑र॒दुपां॒शुना॒ सम॑मृत॒त्वमा॑नट् । घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभि॑: ॥
स॒मु॒द्रात् । ऊ॒र्मिः । मधु॑ऽमान् । उत् । आ॒र॒त् । उप॑ । अं॒शुना॑ । सम् । अ॒मृ॒त॒ऽत्वम् । आ॒न॒ट् । घृ॒तस्य॑ । नाम॑ । गुह्य॑म् । यत् । अस्ति॑ । जि॒ह्वा । दे॒वाना॑म् । अ॒मृत॑स्य । नाभिः॑ ॥
संमोदन्तेऽस्मिन्यजमाना इति वा समुद्रोऽग्निः पार्थिवः अथवा समुद्द्रवन्त्यापोऽस्मादिति व्युत्पत्त्या वैद्युतोऽग्निः । तस्मात् ऊर्मिः ऊर्मिवदुपर्युपरि उद्भूतः मधुमान् माधुर्योपेतफलसमूहः उदारत् उद्गच्छति । अथवा वैद्युतात् ऊर्म्यूत्पादकः रस उदारत् उद्भूतः । अथवा समुद्रात् समुद्द्रवणसाधनात् आदित्यादूर्मी रस उदकलक्षण उदारत् । ‘ आदित्याज्जायते वृष्टिः' इति श्रुतेः । यद्वा । समुद्रादुक्तव्युत्पत्तेः अन्तरिक्षादूर्मिरुदकमुदारत् । अथवा समुद्रादुक्तलक्षणात् गवामूधसः सकाशात् ऊर्मिरुज्वलः क्षीररसः । एतत् घृतपक्षेऽपि समानम् । यद्यपि घृतं क्षीराज्जायते तथापि तस्योधस उत्पत्तेरेवमुपचर्यते । शिष्टं वाक्यमग्न्यादिपञ्चसु पक्षेष्वपि समानम् । अंशुना दीप्त्यांशेन वा अमृतत्वं मोक्षम् उप सम् आनट् । उपेति पूरणः । प्राप्नोति नरः । घृतस्य दीप्तस्य क्षीरद्रव्यरूपस्य वा गुह्यं नाम गोपनीयं नमनसाधनं यदस्ति तद्ब्रवीमि । तत् देवानां जिह्वा आस्वादकजिह्वास्थानीयं भवति । तदेव अमृतस्य नाभिः बन्धकं भवति । तदुभयं घृतस्य नामेत्यर्थः । एवं सर्वमन्त्रेषु तत्तत्पक्षानुसारेण योज्यम् ॥
“The sweet water swells up from the firmament; by the (solar) ray (man) obtains immortality; that which is he secret name of clarified butter is the tongue of the gods, the navel of ambrosia.”
FORTH from the ocean sprang the wave of sweetness: together with the stalk it turned to Amrta,
That which is holy oil's mysterious title: but the Gods' tongue is truly Amrta's centre.
From the sea a honeyed wave has arisen; along with the (soma-)plant it has reached all the way to immortality.
The name of Ghee that is hidden: “the tongue of the gods,” “the navel of the immortal.”
Dort aus dem Meer entsprang die süsse Welle, durch Somasaft drang sie zu ew'gem Dasein; Der Butter Wesen, das geheimnissvolle, ist Götterzunge, ist des Ew'gen Nabel.
Aus dem Meer ist die süße Woge emporgestiegen. Mit dem Somastengel zusammen hat sie die Eigenschaft des Nektars angenommen, was der Geheimname des Ghrita ist: die Zunge der Götter, der Nabel der Unsterblichkeit.
Медовая волна поднялась из океана.
С сомой она приобрела свойства амриты,
Что есть тайное имя жира:
Язык богов, пуп бессмертия.
व॒यं नाम॒ प्र ब्र॑वामा घृ॒तस्या॒स्मिन्य॒ज्ञे धा॑रयामा॒ नमो॑भिः । उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतु॑:शृङ्गोऽवमीद्गौ॒र ए॒तत् ॥
व॒यम् । नाम॑ । प्र । ब्र॒आ॒म॒ । घृ॒तस्य॑ । अ॒स्मिन् । य॒ज्ञे । धा॒र॒या॒म॒ । नमः॑ऽभिः । उप॑ । ब्र॒ह्मा । शृ॒ण॒व॒त् । श॒स्यमा॑नम् । चतुः॑ऽशृङ्गः । अ॒व॒मी॒त् । गौ॒रः । ए॒तत् ॥
वयं यजमानाः घृतस्य नाम प्र ब्रवाम स्तुमः । अस्मिन्यज्ञे नमोभिः नमस्कारैः हविर्भिर्वा धारयाम च । ब्रह्मा परिवृढो देवः शस्यमानं स्तूयमानमिदम् उप शृणवत् शृणुयात् । चतुःशृङ्गः । चत्वारि शृङ्गाणि वेदचतुष्टयरूपाणि यस्य सः । आदित्याग्निपक्षे एवम् । इतरेष्वपि यास्कोक्तव्युत्पत्त्या शृङ्गशब्दो व्याख्येयः । गौरः अरुणवर्णः तादृशो देवः एतत् कर्म जगद्वा अवमीत् उद्गिरति निर्वहतीत्यर्थः ॥
“We celebrate the name Ghṛta at this sacrifice, we offer it with adoration; may the four-horned Brahmā listen to its being glorified; the fair-complexioned-deity perfect this rite.”
Let us declare aloud the name of Ghrta, and at this sacrifice hold it up with homage.
So let the Brahman hear the praise we utter. This hath the four-horned Buffalo emitted.
We will proclaim the name of Ghee; at this sacrifice here we will uphold it with reverences.
The formulator will hear it as it is being announced. The four-horned buffalo [=soma] has vomited it.
Wir wollen nun der Butter Wesen preisen, bei diesem Opfer demuthsvoU es hegen; Der Priester höre das von uns gepries'ne; der Büffel mit vier Hörnern spie hervor es.
Wir wollen den Namen des Ghrita verkünden; bei diesem Opfer wollen wir ihn mit Ehrerbietung festhalten. Wenn er ausgesprochen wird, soll der Brahmanpriester darauf hören. Der vierhörnige Gaurabüffel hat ihn sich entschlüpfen lassen.
Мы хотим провозгласить имя жира.
На этом жертвоприношении мы хотим удержать (его) поклонениями.
Пусть прислушивается брахман, когда оно произносится.
Четырехрогий бык-гаура изверг его из себя.
च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता॑सो अस्य । त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्याँ॒ आ वि॑वेश ॥
च॒त्वारि॑ । शृङ्गा॑ । त्रयः॑ । अ॒स्य॒ । पादाः॑ । द्वे इति॑ । शी॒र्षे इति॑ । स॒प्त । हस्ता॑सः । अ॒स्य॒ । त्रिधा॑ । ब॒द्धः । वृ॒ष॒भः । रो॒र॒वी॒ति॒ । म॒हः । दे॒वः । मर्त्या॑न् । आ । वि॒वे॒श॒ ॥
यद्यपि सूक्तस्याग्निसूर्यादिपञ्चदेवताकत्वात् पञ्चधायं मन्त्रो व्याख्येयस्तथापि निरुक्ताद्युक्तनीत्या यज्ञात्मकाग्नेः सूर्यस्य च प्रकाशकत्वेन तत्परतया व्याख्यायते । अस्य यज्ञात्मकस्याग्नेः चत्वारि शृङ्गा चत्वारो वेदाः शृङ्गस्थानीयाः । यद्यप्यापस्तम्बेन यज्ञं व्याख्यास्यामः स त्रिभिर्वेदैर्विधीयते (परिभा. १. ३ ) इत्युक्तं तथाप्याथर्वणस्य इतरानपेक्षयैव एकाग्निसाध्यानां कृत्स्नकर्मणामभिधायक त्वात्तदपेक्षया चत्वारि शृङ्गेत्युक्तम् । त्रयो अस्य पादाः सवनानि त्रीण्यस्य पादाः । प्रवृत्तिसाधनत्वात् पादा इत्युच्यन्ते । द्वे शीर्षे ब्रह्मौदनं प्रवर्ग्यश्च । इष्टिसोमप्राधान्येनेदमुक्तम् । सप्त हस्तासः सप्त छन्दांसि । हस्ता: अनुष्ठानस्य मुख्यसाधनम् । छन्दांस्यपि देवताप्रीणनस्य मुख्यसाधनमिति हस्तव्यवहारः। त्रिधा बद्धः मन्त्रब्राह्मणकल्पैः त्रिप्रकारं बद्धः । बन्धनमस्य तन्निष्पाद्यत्वम् । वृषभः फलानां वर्षिता रोरवीति । भृशं शब्दायते । ऋग्यजुःसामोक्थैः शस्त्रयागस्तुतिरूपैर्होत्राद्युत्पादितैर्ध्वनिभिरसौ रौति । एवं महो देवः मर्त्यान् आ विवेश । मर्त्यैर्यजमानैर्निष्पाद्यत्वात् प्रवेश उपचर्यते । अत्र यास्कः -- ‘ चत्वारिशृङ्गेति वेदा वा एत उक्ताः । ( निरु. १३.७ ) इत्यादिना निरवोचत् । तदत्रानुसंधेयम् ॥ अथ ‘ सूर्यपक्षे व्याख्यायते-- अस्यादित्यस्य चत्वारि शृङ्गाणि चतस्रो दिशः । एताः श्रयणार्थत्वात् शृङ्गाणीत्युपचर्यन्ते । त्रयो अस्य पादाः । त्रयो वेदाः पादस्थानीया भवन्ति गमनसाधनत्वात् । तथा हि - ऋग्भिः पूर्वाह्णे दिवि देव ईयते ' इत्युपक्रम्य • वेदैरशून्यस्त्रिभिरेति सूर्यः ' (तै. ब्रा. ३. १२. ९. १ ) इति हि वेदत्रयेण गतिराम्नाता । द्वे शीर्षे । अहश्च रात्रिश्चेति द्वे शिरसी । सप्त हस्तासो अस्य । सप्त रश्मयः षड्विलक्षणा ऋतव एकः साधारण इति वा सप्त हस्ता भवन्ति । त्रिधा बद्धस्त्रिषु स्थानेषु क्षित्यादिषु अग्न्याद्यात्मकत्वेन संबद्धः । ग्रीष्मवर्षांहेमन्ताख्यैस्त्रिभिस्त्रेधा बद्धो वा । वृषभो वर्षिता रोरवीति । शब्दं करोति वृष्ट्यादिद्वारा । स महो महान् देवो मर्त्यानां विवेश तन्नियन्तृतया। सूर्य आत्मा जगतस्तस्थुषश्च' ( ऋ. सं. १. ११५. १ ) इति हि श्रुतम् ॥ एवं त्वबादिपक्षेऽपि योज्यम् । शाब्दिकास्तु शब्दब्रह्मपरतया चत्वारि शृङ्गेति चत्वारि पदजातानि नामाख्याते चोपसर्गनिपाताश्च इत्यादिना व्याचक्षते । अपरे त्वपरथा । तत्सर्वमत्र द्रष्टव्यम् ॥
“Four are his horns; three are his feet; his heads are two, his hands are seven; the triple-bound showerer (of benefits) roars aloud; the mighty deity has entered among men.”
Four are his horns, three are the feet that bear him; his heads are two, his hands are seven in number.
Bound with a triple bond the Steer roars loudly: the mighty God hath entered in to mortals.
Four are his horns, three his feet; two heads, seven hands are his. Triply bound, the bull keeps on roaring. The great god has entered mortals.
Vier Hörner hat er, auf drei Füssen steht er, zwei Köpfe sind ihm und der Hände sieben-, Dreifach gebunden brüllt der Stier gewaltig, der grosse Gott begab sich zu den Menschen.
Vier Hörner, drei Füße hat er, zwei Köpfe, sieben Hände hat er. Dreifach gefesselt brüllt der Stier. Der große Gott ist in die Sterblichen eingegangen.
Четыре рога, три ноги у него,
Две головы, семь рук у него.
Громко ревет бык, трижды связанный.
Великий бог вошел в бессмертных.
त्रिधा॑ हि॒तं प॒णिभि॑र्गु॒ह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विन्दन् । इन्द्र॒ एकं॒ सूर्य॒ एकं॑ जजान वे॒नादेकं॑ स्व॒धया॒ निष्ट॑तक्षुः ॥
त्रिधा॑ । हि॒तम् । प॒णिऽभिः॑ । गु॒ह्यमा॑नम् । गवि॑ । दे॒वासः॑ । घृ॒तम् । अनु॑ । अ॒वि॒न्द॒न् । इन्द्रः॑ । एक॑म् । सूर्यः॑ । एक॑म् । ज॒जा॒न॒ । वे॒नात् । एक॑म् । स्व॒धया॑ । निः । त॒त॒क्षुः॒ ॥
पणिभिः असुरैः गवि गोषु त्रिधा क्षीरदध्याज्यभेदेन त्रिप्रकारं हितं निहितं गुह्यमानं गोपितं घृतं दीप्तं रसरूपं वा द्रव्यं देवासः देवाः अन्वविन्दन् अलभन्त । तत्र इन्द्र एकं क्षीरं जजान उदपादयत् । सूर्य एकं जजान । वेनात् कान्तिमतः अग्नेर्गमनवतो वायोर्वा एकं घृतं स्वधया अन्नेन निमित्तेन द्रव्येण वा साधनेन निष्टतक्षुः निरपादयन् देवाः ॥
“The gods discovered the Ghī concealed by the Paṇis, plural ced three-fold in the cow; Indra genitive rated one (portion), Sūrya another, the (other gods) fabricated one from the resplendent (Agni), for the sake of the oblation.”
That oil in triple shape the Gods discovered laid down within the Cow, concealed by Panis.
Indra produced one shape, Surya another: by their own power they formed the third from Vena.
Triply deposited, being hidden by the niggards—the gods discovered the ghee in the cow.
Indra begat one; the Sun begat one; from the seeker they fashioned one through their own power.
Die dreigetheilt versteckt war von den Pani's, die Butter fanden in der Kuh die Götter; Die eine zeugte Indra, Surja eine, und eine schufen selbst sie aus Verlangen.
Dreifach geteilt fanden das von den Pani´s verborgene Ghrita die Götter wieder in der Kuh. Indra hat das eine, Surya das eine erzeugt. Eines haben sie aus dem Seher durch eigene Kraft herausgebildet.
Боги снова нашли в корове жир,
Трояко разделенный (и) скрываемый Пани.
Индра породил один, Сурья – другой.
Третий образовали они своей силой из стремящегося (к богам).
ए॒ता अ॑र्षन्ति॒ हृद्या॑त्समु॒द्राच्छ॒तव्र॑जा रि॒पुणा॒ नाव॒चक्षे॑ । घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्य॑ आसाम् ॥
ए॒ताः । अ॒र्ष॒न्ति॒ । हृद्या॑त् । स॒मु॒द्रात् । श॒तऽव्र॑जाः । रि॒पुणा॑ । न । अ॒व॒ऽचक्षे॑ । घृ॒तस्य॑ । धाराः॑ । अ॒भि । चा॒क॒सी॒मि॒ । हि॒र॒ण्ययः॑ । वे॒त॒सः । मध्ये॑ । आ॒सा॒म् ॥
एताः आपो घृतधारा वा अर्षन्ति अधः पतन्ति। शतव्रजाः अपरिमितगतयः सत्यः हृद्यात् हृदयङ्गमात् समुद्रात् अन्तरिक्षात् रिपुणा जलमोकप्रतिबन्धकारिणा शत्रुणा वृत्रेण नावचक्षे न अवदर्शनाय यथादृष्टं भवति तथा अर्षन्ति । ताः घृतस्य धारा अभि चाकशीमि अभिपश्यामि । कुत्रेति तदुच्यते हिरण्ययः हिरण्मयः वेतसः अप्संभवोऽग्निर्वैद्युतः आसाम् अपां मध्ये वर्तत इति शेषः । अत्र घृतस्य धारा अभि चाकशीमीत्यनेन चरमपादेन होमाधारोऽग्निर्वैद्युतोऽग्निरादित्यो वोक्तः ॥ ॥१०॥
“These hundred-channeled showers fall from the heart-delighting firmament, unobserved by the hostile (cloud); I look upon these showers of Ghī, (and behold) the golden Vetasa in the midst of them.”
From inmost reservoir in countless channels flow down these rivers which the foe beholds not.
I look upon the streams of oil descending, and lo! the Golden Reed is there among them.
These (streams) rush from the sea found in the heart. Having a hundred barriers, they are not to be spotted by the cheat,
but I keep gazing upon the streams of ghee. A golden reed is in their midst.
Es triefen diese aus dem lieben Luftmeer in hundert Scharen, nicht dem Feinde sichtbar, Der Butter Ströme blick' ich an mit Staunen; in ihrer Mitte steht der goldne Rohrstab.*)
Diese Ströme des Ghrita fließen aus dem Meer im Herzen, durch hundert Gehege geschützt, vom Schelm nicht zu erblicken. Ich sehe die Ströme des Ghrita. Das goldene Rohr, die Rute, ist in ihrer Mitte.
Эти (потоки жира) текут из сердца-океана,
Окруженные сотней оград. Они не для того, чтобы их разглядел обманщик.
Я внимательно рассматриваю потоки жира.
Посреди них золотой прут.
सम्य᳓क् स्रवन्ति सरि᳓तो न᳓ धे᳓ना
अन्त᳓र् हृदा᳓ म᳓नसा पूय᳓मानाः
एते᳓ अर्षन्ति ऊर्म᳓यो घृत᳓स्य
मृगा᳓ इव क्षिपणो᳓र् ई᳓षमाणाः
अस्याग्नेरुपरि सम्यक् स्रवन्ति क्षरन्ति । घृतस्य धाराः। किमिव । सरितो न धेनाः प्रीणयित्र्यो नद्य इव । अन्तर्हृदा मनसा हृदयमध्यगतेन चित्तेन । भावनासचिवेनेति यावत् । तेन पूयमानाः शुद्धीकृताः । तदेवोच्यते । एते घृतस्य ऊर्मयः रसाः अर्षन्ति गच्छन्ति । जुह्वाः सकाशादग्नेरुपरि पतन्ति । किमिव । क्षिपणोः क्षेपकात् व्याधात् । ईषमाणाः पलायमानाः मृगाइव । ते यथा कक्षं प्रविशन्ति तद्वत् । अनेन शैघ्र्यमुक्तं भवति ॥
Like rivers our libations flow together, cleansing themselves in inmost heart and spirit.
The streams of holy oil pour swiftly downward like the wild beasts that fly before the bowman.
These nourishing liquids flow together like streams, being purified within by heart and mind.
These waves of ghee rush, like wild beasts retreating from a javelin.
Zusammen strömen Flüssen gleich die Tränke, gereinigt innen durch Gebet von Herzen; Es rieseln diese Wellen reiner Butter, wie Waldes Thiere fliehend vor Geschossen.
Gleich den Strömen vereinigen sich die Reden im Innern durch Herz und Verstand geklärt. Diese Wogen des Ghrita fließen eilend wie Gazellen, die sich vor dem Jäger flüchten.
Вместе сливаются потоки (речи), словно ручейки,
Очищаемые внутри сердцем (и) мыслью.
Бегут эти волны жира,
Словно газели, мчащиеся от стрелы.
सि᳓न्धोर् इव प्राध्वने᳓ शूघना᳓सो
वा᳓तप्रमियः पतयन्ति यह्वाः᳓
घृत᳓स्य धा᳓रा अरुषो᳓ न᳓ वाजी᳓
का᳓ष्ठा भिन्द᳓न्न् ऊर्मि᳓भिः पि᳓न्वमानः
सिन्धोः स्यन्दमानाया नद्याः सकाशात् इव उदकानीव प्राध्वने प्रवणवति देशे शूघनासः आशुगन्त्र्यः । ‘ आशु इति च शु इति च क्षिप्रनामनी भवतः ' ( निरु. ६. १ ) इति निरुक्तम् । वातप्रमियः वायुवत् प्रकृष्टवेगाः यह्वाः महत्यः घृतस्य धाराः पतयन्ति गच्छन्त्यग्नेरुपरि । घृतमुदकमिति पक्षे सिन्धोरिवेत्यत्र इवशब्दोऽनर्थकः । स्यन्दनसाधनादन्तरिक्षादुक्तलक्षणा घृतधारा उदकधाराः पतयन्ति गच्छन्ति भूमौ । किंच घृतसंस्त्यायः काष्ठाः मर्यादाभूतान् परिधीन् भिन्दन् ऊर्मिभिः रसैः पिन्वमानः वर्धमानो भवति । उदकमिति पक्षे काष्ठाः क्रान्त्वा स्थिता दिशो भिन्दन्नूर्मिभिः तरङ्गैः पिन्वमानो भवति । तत्र दृष्टान्तः । अरुषो न वाजी आरोचमानो गर्वेण गमनशीलोऽश्व इव । स यथा भिन्दन् पिन्वमानश्च भवति तद्वत् ॥
As rushing down the rapids of a river, flow swifter than the wind the vigorous currents,
The streams of oil in swelling fluctuation like a red courser bursting through the fences.
8.Like women at a gathering fair to look on and gently smiling, they incline to Agni.
The streams of holy oil attain the fuel, and Jatavedas joyfully receives them.
As if on the straightaway of a river, they fly—the youthfully exuberant ones, swift-battering, confounding the wind—
the streams of ghee—like a ruddy prizewinning horse splitting
the wooden race-course barriers [/splintering the sticks (in their current)], swelling with their waves.
Die schnellen fliegen wie im Sturz des Stromes, hinschiessend rascher als des Windes Wehen, Der Butter Ströme wie ein feur'ges Rennpferd, die Bahn durchschneidend, schwellend durch die Wogen.
Wie im Gefälle des Stromes die Wirbel, so eilen den Wind hinter sich lassend die jüngsten Ströme des Ghrita, wie ein rötliches Roß, das die Schranken durchbricht, mit den Wogen hochgehend.
Подобно водоворотам в прямом русле реки
Летят, оставляя позади себя ветер, юные
Потоки жира, как рыжий скакун,
Ломающий преграды, набухая волнами.
अभि᳓ प्रवन्त स᳓मनेव यो᳓षाः
कल्याणि᳓यः स्म᳓यमानासो अग्नि᳓म्
घृत᳓स्य धा᳓राः समि᳓धो नसन्त
ता᳓ जुषाणो᳓ हर्यति जात᳓वेदाः
घृतस्य धाराः अमुम् अग्निं समनेव समानमनस्काः योषाः योषितः पतिमिव अभि प्रवन्त अभिनमयन्ति । निमग्नं कुर्वन्ति । कीदृश्यस्ताः । कल्याण्यः भद्ररूपाः 'स्मयमानासः हसन्त्यः । किंच ताः समिधः सम्यग्दीपयित्र्यः सत्यः नसन्त व्याप्नुवन्ति । ताः एव धाराः जुषाणः प्रीयमाणः सेवमानो वा अयं जातवेदाः हर्यति कामयते । घृतशब्दस्योदकमिति पक्षेऽग्निजातवेदःशब्दाभ्यां वैद्युतोऽग्निरादित्यो वा गृह्यते । तं देवमुदकधारा अभि प्रवन्त नसन्त च । स ताश्च हर्यति ॥
अ॒भि प्र॑वन्त॒ सम॑नेव॒ योषाः॑ कल्या॒ण्य१॑ः॒ स्मय॑मानासो अ॒ग्निम् ।
घृ॒तस्य॒ धाराः॑ स॒मिधो॑ नसन्त॒ ता जु॑षा॒णो ह॑र्यति जा॒तवे॑दाः ॥
They float—like lovely young women to (marriage) assemblies— smiling, to Agni.
The streams of ghee approach the kindling sticks. (Agni) Jātavedas delights, taking pleasure in them.
Sie eilten hin, wie Bräute zur Umarmung, zulächelnd hold dem Agni, sie, die Schönen, Der Butter Tropfen küssten traut die Flammen, und liebend nimmt sie auf der Wesenkenner.
Sie schwebten lächelnd zu Agni hin wie schöne Frauen zu den Festen. Die Ströme des Ghrita berühren die Brennhölzer. Gern begehrt Jatavedas nach ihnen.
Они кидаются к Агни, как прекрасные
Улыбающиеся женщины на свидания.
Потоки жира ласкают дрова (жертвенного костра).
Джатаведас, наслаждаясь, жаждет их.
कन्या᳡ इव वहतु᳓म् ए᳓तवा᳓ उ
अञ्जि᳓ अञ्जाना᳓ अभि᳓ चाकशीमि
य᳓त्र सो᳓मः सूय᳓ते य᳓त्र यज्ञो᳓
घृत᳓स्य धा᳓रा अभि᳓ त᳓त् पवन्ते
कन्याइव अनूढा बालिका इव । ता यथा वहतुम् उद्वाहं प्राप्तुम् एतवा उ एतुं पतिं गन्तुम् अञ्जि अञ्जकमाभरणं तेजो वा अञ्जानाः व्यञ्जयन्त्यः । एवं कुर्वत्यः कन्याइव स्वभर्तृभूतमाध्वरं वैद्यतं वाग्निमादित्यं वा वहतुम् एतुम् अञ्जि व्यञ्जकं तदीयं रूपमञ्जाना व्यञ्जयन्तीः घृतस्य धाराः अभि चाकशीमि अभिपश्यामि । घृतेनोदकेन च भौमस्य वैद्युतस्य चाग्नेः प्रज्वलनं प्रसिद्धम् । किंच ता धाराः सोमः सूयते यत्र यत्र चेतर: यज्ञः तायते तत् तं यज्ञमभिलक्ष्य पवन्ते गच्छन्ति खलु ॥
As maidens dock themselves with gay adornment to join the bridal feast, I now behold them.
Where Soma flows and sacrifice is ready, thither the streams of holy oil are running.
I keep gazing upon them, who are like maidens smearing on unguent to go to their wedding.
Where the soma is pressed, where the sacrifice (is performed), toward that do the streams of ghee go purifying themselves.
᳓
Ich sehe sie wie Mädchen, die mit Salben sich schminken, um zur Hochzeit hinzugehen; Wo Soraa, wo das Opfer wird bereitet, da rieseln hin der Butter helle Tropfen.
Ich sehe sie wie Mädchen, die Salbe auflegen, um auf die Hochzeit zu gehen. Wo Soma gepreßt wird, wo das Opfer stattfindet, werden dazu die Ströme des Ghrita geläutert.
Я рассматриваю их, как девиц,
Умастившихся умащением, чтобы идти на свадьбу.
Где выжимается сома, где (происходит) жертвоприношение,
Там очищаются потоки жира.
अभ्य् अ᳡र्षत सुष्टुतिं᳓ ग᳓व्यम् आजि᳓म्
अस्मा᳓सु भद्रा᳓ द्र᳓विणानि धत्त
इमं᳓ यज्ञं᳓ नयत देव᳓ता नो
घृत᳓स्य धा᳓रा म᳓धुमत् पवन्ते
हे मदीया ऋत्विजः गव्यं गोसमूहरूपं गोसंबन्धिनं वा आजिं संघातम् अभ्यर्षत अभिगच्छत अभिगमयत वा सुष्टुतिं शोभनां स्तुतिम् । अत्र गोशब्देनोदकानि गावो वोच्यन्ते । तत्संघातोऽभिप्रेतः । अस्मासु यजमानेषु भद्रा स्तुत्यानि 'द्रविणानि धत्त धारयत । स्तुत्या खलु फलं लप्स्यते । किंच नः अस्मदीयम् इमं यज्ञं देवता अत्र यष्टव्यान् देवान् नयत प्रापयत । घृतस्य धारा मधुमत् यथा तथा पवन्ते गच्छन्ति ॥
Send to our eulogy a herd of cattle bestow upon us excellent possessions.
Bear to the Gods the sacrifice we offer the streams of oil flow pure and full of sweetness.
Rush toward the lovely praise hymn, to the contest for cows; on us confer auspicious chattels.
Lead this sacrifice here to the divinities for us. The streams of ghee purify themselves like honey.
᳓
Rinnt hin zum Loblied, zu der Kühe Wettlauf und uns verleihet reiche Güterfülle; Dies unser Opfer führet zu den Göttern; der Butter Ströme rieseln süsse Labung.
Strömt ein gutes Lobgedicht aus, machet ein Wettrennen um die Kühe! Bringet uns gesegneten Besitz, führt dies Opfer von uns zu den Göttern! Die Ströme des Ghrita klären sich zur Süßigkeit.
Струите прекрасное восхваление, (выиграйте) состязание
Ради коров! Дайте нам богатства, приносящие счастье!
Эту нашу жертву ведите к богам!
Потоки жира медово очищаются.
धा᳓मन् ते वि᳓श्वम् भु᳓वनम् अ᳓धि श्रित᳓म्
अन्तः᳓ समुद्रे᳓ हृदि᳓ अन्त᳓र् आ᳓युषि
अपा᳓म् अ᳓नीके समिथे᳓ य᳓ आ᳓भृतस्
त᳓म् अश्याम म᳓धुमन्तं त ऊर्मि᳓म्
ते त्वदीये धामन् धामनि तेजःस्थाने विश्वं भुवनम् अधि श्रितम् । अन्तः समुद्रे वडवाग्नित्वेन हृद्यन्तः सर्वप्राणिनां हृदये वैश्वानरत्वेन आयुषि अन्ने सर्व प्राण्याहारत्वेन । यद्वा । आयुषीत्येतत् हृद्विशेषणम् । जठराग्निना खल्वायुः धार्यते । अपामनीके उदकसंस्त्याये वैद्युताग्नित्वेन समिथे संग्रामे च शौर्याग्निरूपेण । एवं सर्वेषु स्थानेषु वर्तमानं धाम । तस्मिन् धामनि यः ऊर्मिर्घृतरूप उदकरूपो वा रसः आभृतः स्थापितः ते त्वदीयं तं रसं मधुमन्तं माधुर्योपेतम् अश्याम व्याप्नुयाम ॥ ॥ ११ ॥ ॥ ५ ॥
The universe depends upon thy power and might within the sea, within the heart, within all life.
All the living world is firmly fixed in your domain, within the sea in your heart, within your lifespan.
The one that was borne hither at the forefront of the waters in their joining, that one may we attain—your most honeyed wave.Volume II
An deine Stätte schmiegt die ganze Welt sich an, im Meer, im Herzen, und in allem, was da lebt; Erlangen mögen deine süsse Welle wir, die hingetragne zur Vermischung mit der Flut.
Auf dein Wesen ist die ganze Welt gestellt, auf deine Lebenskraft im Meer, im Herzen. Deine süße Woge, die auf dem Antlitz der Gewässer in deren Zusammenfluß herangebracht ward, die möchten wir erlangen.
На тебя как на основу опирается все мироздание
В океане – сердце, в силе жизни.
Пусть достигнем мы той твоей медовой волны,
Что принесена на слияние (с водами) на поверхность вод!