अ᳓ग्न ओ᳓जिष्ठम् आ᳓ भर
द्युम्न᳓म् अस्म᳓भ्यम् अध्रिगो
प्र᳓ नो राया᳓ प᳓रीणसा
र᳓त्सि वा᳓जाय प᳓न्था᳐म्
हे अग्ने ओजिष्ठं बलवत्तमं द्युम्नम् । द्योतते कटकमुकुटादिरूपेण सर्वत्र प्रकाशते इति द्युम्नं धनम् । अस्मभ्यम् आ भर आहर । हे अध्रिगो अधृतगमन। अधृतमप्रतिहतं गमनं यस्येति अधृता अनिवारिता गावो रश्मयो यस्येति वा अधृतगुः अध्रिगुः । तस्य संबोधनम् । नः अस्मान् परीणसा परितो व्यापकेन राया धनेन प्र प्रकर्षेण योजय । वाजाय अन्नलाभाय पन्थां पन्थानमन्नस्य मत्समीपप्राप्तिसाधनं मार्गं रत्सि विलिख । कुर्वित्यर्थः ॥ ओजिष्ठम् । “ उब्ज आर्जवे '। ‘ उब्जेर्बले बलोपश्च' इत्यसुन् बलोपश्च । गुणः । ओजः । तदस्यास्ति' इत्यर्थे ' अस्मायामेधा' इत्यादिना विनिः । ‘अतिशायने' इति इष्ठन्। विन्मतोर्लुक् । ‘ टेः' इति टिलोपः। नित्त्वादाद्युदात्तः । द्युम्नम् । ‘ द्युत दीप्तौ ' इत्यस्माद्धातोः ' सुम्नद्युम्ननिम्न ' इत्यादिना नक्प्रत्ययो मकारश्चान्तादेशो निपात्यते । प्रत्ययस्वरेणान्तोदात्तः । अध्रिगो । अधृतशब्दस्य अध्र्यादेशः । गोशब्दस्योपसर्जनह्रस्वत्वम् । आमन्त्रितस्य निघातः । परीणसा । ‘णस कौटिल्ये' । अत्र व्याप्त्यर्थो धातूनामनेकार्थत्वात् । अस्मात् संपदादिलक्षणो भावे क्विप् । परि प्राप्तं नस् व्यापनं यस्य तत्तथोक्तम् ।' उपसर्गादसमासेऽपि ' इति णत्वम् । अत्र प्रापणक्रियया युक्तस्य परेर्णसतिं प्रत्युपसर्गसंज्ञा नास्ति ‘यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञाः ' (पा. सू. १. ४. ६०. ३) इति न्यायात् । अतः कथं णत्वम् । एवं तर्हि ' उपसर्गाद्बहुलम् इति वचनात् णसो णत्वं भविष्यति ।' निपातस्य च ' इति पूर्वपदस्य दीर्घः । ‘ बहुव्रीहौ प्रकृत्या' इति पूर्वपदप्रकृतिस्वरत्वम् । रत्सि ।' रद विलेखने ' । भौवादिकः । 'बहुलं छन्दसि ' इति शपो लुक् । पादादित्वान्निघाताभावः । पन्थाम् । द्वितीयैकवचने ‘ इतोऽत् सर्वनामस्थाने ' इत्यत् । नकारलोपश्छान्दसः । 'पथिमथोः सर्वनामस्थाने ' इत्याद्युदात्तत्वम् ॥
BRING us most mighty splendour thou, Agni, resistless on thy way.
With overflowing store of wealth mark out for us a path to strength.
Agni, bring us the mightiest splendour, O liberal one 1! With wealth and plenty cleave a path for us to booty.
O Agni, who are never poor, bring here the most powerful
brilliance to us.
With wealth and abundance, cut a path to victory’s prize for us.674 V.11
Unhemmbar schreitend führe uns, o Agni, stärksten Reichthum zu, Und brich durch Güterfülle uns zu Macht und Wohlergehn die Bahn;
Agni! Bring uns mächtigstes Ansehen, du Reicher; bahn uns mit vollzähligem Reichtum den Weg zum Gewinn!
О Агни, принеси нам самый сильный
Блеск, о богатый (бог)!
Полной мерой богатства
Проложи нам путь к награде!
तुवं᳓ नो अग्ने अद्भुत
क्र᳓त्वा द᳓क्षस्य मंह᳓ना
तुवे᳓ असुर्य᳡म् आ᳓रुहत्
क्राणा᳓ मित्रो᳓ न᳓ यज्ञि᳓यः
हे अग्ने अद्भुत सामर्थ्यातिशयेन सर्वेषामाश्चर्यभूत त्वं नः अस्माकं क्रत्वा कर्मणा अस्मत्कृतेन यज्ञादिव्यापारेण प्रीतः सन् 'दक्षस्य बलस्य धनस्य वा मंहना मंहनं नाम दानं कुर्विति शेषः । यतः कारणात् त्वे त्वयि असुर्यम् असुरघ्नं बलम् आरुहत् आरूढं अतः मित्रो न सूर्य इव यज्ञियः यज्ञार्हस्त्वं क्राणा यज्ञधातुकराक्षसापनोदनलक्षणानि कर्माणि कुर्वाणो भव ॥ अद्भुत । आमन्त्रितस्याद्युदात्तत्वम् । क्रत्वा । ‘ डुकृञ् करणे । कृञः कतुः' इति कतुप्रत्ययः । ककारो गुणवृद्धिप्रतिषेधार्थः । यणादेशः । क्रतुः कर्म । तृतीयैकवचने ' जसादिषु वावचनम् ' इति वचनान्नाभावाभावः । दक्षस्य । ‘ दक्ष गतिहिंसनयोः '। दक्ष्यन्ते हिंस्यन्तेऽनेन शत्रव इति दक्षं बलम् । ‘ करणाधिकरणयोश्च ' इति घञ् । ञित्वात् आद्युदात्त: । मंहना। मंहतिर्दानकर्मा । ‘सुपां सुलुक् इत्याकारादेशः । त्वे । ‘सुपां सुलुक् ' इत्यादिना डेः शेआदेशः । सुबादेशत्वादनुदात्तः । त्वशब्दः प्रत्ययस्वरेणान्तोदात्तः । ‘ एकादेश उदात्तेनोदात्त: ' इत्येकादेशस्योदात्तत्वम् । आरुहत् । रुहेर्धातोर्लुङि ‘ कृमृदृरुहिभ्यश्छन्दसि ' इति च्लेरङादेशः । ङित्त्वाद्गुणाभावः । क्राणा । डुकृञ् करणे ' । शानच् । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । यणादेशः । ‘ सुपां सुलुक्° ' इत्यात्वम् । चितः ' इत्यन्तोदात्तः । यज्ञियः । यज्ञमर्हतीत्यस्मिन्नर्थे • यज्ञर्त्विग्भ्यां घखञौ ' इति घः । प्रत्ययस्वरेणान्तोदात्तः ॥
Ours art thou, wondrous Agni, bywisdom and bounteousness of power.
The might of Asuras rests on thee, like Mitra worshipful in act.
Thou, O wonderful Agni, (protect) us, through thy power of mind, through the bounteousness of thy strength. Upon thee mysterious power has entered. (Thou art) indeed 1 like worshipful Mitra.
You, o undeceiving Agni! By your will, by your readiness of skill for us, and by your effective action—upon you has lordliness mounted—you are worthy of the sacrifice, like Mitra.
Die Bahn, o hehrer Agni, uns durch Weisheit und durch Kräftigung; Auf dir stieg Himmelskraft empor, wie Mitra wirkst du heiliger.
Du, o wunderbarer Agni, bist durch die Einsicht und Bereitwilligkeit deines Willens - auf dir ist die Asuramacht erwachsen - durch dein Mitwirken für uns wie Mitra zu verehren.
Ты для нас, о Агни удивительный,
Благодаря силе духа, щедрости силы действия –
В тебе поднялась природа Асуры –
Благодаря содействию (нам) достоин жертв, подобно Митре.
तुवं᳓ नो अग्न एषां᳐
ग᳓यम् पुष्टिं᳓ च वर्धय
ये᳓ स्तो᳓मेभिः प्र᳓ सूर᳓यो
न᳓रो मघा᳓नि आनशुः᳓
हे अग्ने त्वम् एषां यज्ञर्त्विग्भ्यां नः त्वत्स्तावकानामस्माकं गयम् । गम्यते निवासायेति गयं गृहं गीयते स्तूयत इति वा गयं धनम् । पुष्टिं च गवादिविषयां पुष्टिं च वर्धय वृद्धिं प्रापय । ये लोके प्रसिद्धाः सूरयः लब्धवर्णाः नरः स्तोतारो मनुष्याः स्तोमेभिः स्तोमैः स्तोत्रैः मघानि मंहनीयानि गवादिधनानि यथा प्र आनशुः प्राप्नुवन् तद्वद्वयमपीत्यर्थः ॥ गयम् । गृहपक्षे गमेः ' अघ्न्यादयश्च ' इति यत्प्रत्ययान्तो मकारलोपश्च निपात्यते । धनपक्षे ‘ गा स्तुतौ '। अस्माद्यत्प्रत्ययः । ह्रस्वत्वम् ।' यतोऽनावः' इत्याद्युदात्तत्वम् । पुष्टिम् । ‘ पुष पुष्टौ ' । स्त्रियां क्तिन् । छान्दसत्वादन्तोदात्तत्वम् । स्तोमेभिः । 'ष्टुञ् स्तुतौ '। ' अर्तिस्तुसुहु° । इत्यादिना मन् । गुणः । नित्त्वादाद्युदात्तः । आनशुः । अशू व्याप्तौ । लिट् । द्विर्वचनम् । हलादिशेषः । अत आदेः' इत्यात्वम् । ‘अश्नोतेश्च ' इति नुडागमः । निघातः ॥
Agni, increase our means of life, increase the house and home of these,
The men, the princes who have won great riches through our hymns of praise.
Thou, O Agni, increase for our sake the dominion and the prosperity of those liberal givers, (of those) men who have accomplished liberalities (towards us) for our songs of praise.
You, o Agni! Increase for us the household and prosperity of these, our patrons (and) our men, who have obtained rewards through
praise songs,
Den Männern, unsern Opferherrn, o Agni, mehre Hab' und Gut, Die durch der Lobgesänge Kraft gewonnen haben reichen Schatz.
Mehre du, Agni, Haus und Wohlstand dieser unserer gönnerhaften Herren, die durch unsere Loblieder Schätze zum verschenken erlangt haben;
Ты для нас, о Агни, укрепи
Дом и процветание этих мужей,
Покровителей, которые благодаря (нашим) восхвалениям
Достигли (щедрых) даров.
ये᳓ अग्ने चन्द्र ते गि᳓रः
शुम्भ᳓न्ति अ᳓श्वराधसः
शु᳓ष्मेभिः शुष्मि᳓णो न᳓रो
दिव᳓श् चिद् ये᳓षा᳐म् बृह᳓त्
सुकीर्ति᳓र् बो᳓धति त्म᳓ना
हे अग्ने चन्द्र सर्वेषां प्राणिनामाह्लादकर ये नरः ते गिरः त्वत्संबन्धिस्तोत्ररूपा वाचः शुम्भन्ति शोभनाः कुर्वन्ति ते अश्वराधसः अश्वधना भवन्ति । एतेन सर्वसमृद्धिरुपलक्ष्यते । किंच । शुष्मिणः बलवन्तः सन्तः शुष्मेभिः शुष्मैः स्वकीयैर्बलैः सत्त्वैः शत्रुशोषका भवन्ति । येषां त्वत्संबन्धिनं स्तवं कुर्वतां दिवश्चित् आकाशादपि बृहत् महती सुकीर्तिः भवति । सर्वदिगन्तरालवर्तिनी कीर्तिर्भवतीत्यर्थः । एवंविधं त्वां गयः त्मना आत्मना स्वयमेव बोधति बोधयति ॥ शुम्भन्ति । ‘शुभ शुम्भ दीप्तौ । तुदादिः । पादादित्वान्निघाताभावः । लसार्वधातुकानुदात्तत्वे प्राप्ते सति शिष्टत्वाद्विकरणस्वर एव । अश्वराधसः । ‘ अशू व्याप्तौ । “ अशुपुषि ' इत्यादिना क्वन् । अश्नुते व्याप्नोत्यध्वानमित्यश्वः । नित्त्वादाद्युदात्तः । ‘राध साध संसिद्धौ । असुन् । राध्नुवन्ति साधयन्त्यनेन धर्मदीनीति राधो धनम् । बहुव्रीहित्वात् पूर्वपदप्रकृतिस्वरत्वम् । बृहत् । बृह बृहि वृद्धौ'। शतृ । ङीपो लोपश्छान्दसः । प्रत्ययस्वरः । बोधति । 'बुध अवगमने' । ण्यन्तात् शपि कृते तस्य छन्दस्युभयथा' इति सार्वधातुकसंज्ञायां णिलोपः । ‘ यद्वृत्तान्नित्यम्' इति निघाताभावः । धातुस्वरेणाद्युदात्तः । त्मना । मन्त्रेष्वाङयादेरात्मनः' इत्याकारलोपः ॥
Bright Agni, they who deck their songs for thee have horses as their meed.
The men are mighty in their might, they whose high laud, as that of heaven, awakes thee of its own accord.
They who adorn prayers for thee, O bright Agni, the givers of horses 1: those men are powerful in their power, whose glory awakes by itself (shining) more mightily than even the sky 2.
Who with their gifts of horses, o shimmering Agni, beautify songs for you—
(these) men, spirited with high spirits, whose acclaim (rises) more loftily even than heaven. In person he [=Agni] attends (to them).
Den Männern stark durch kräft'gen Drang, die, heller Agni, Lieder dir Ausschmücken, wie man Rosse schmückt, und deren Preisgesang mit Kraft die Himmel selbst zur Andacht weckt.
Die, o schimmernder Agni, die Loblieder auf dich verschönern, indem sie Rosse schenken, die Herren, mutig an Mut, deren guter Ruf noch höher als selbst der Himmel reicht - er merkt es an sich selbst.
(Те,) о яркий Агни, что украшают
Песни для тебя, даря коней,
Мужи, неистовые вспышками неистовства,
Чья слава выше самогo
Неба – она говорит сама о себе...
त᳓व त्ये᳓ अग्ने अर्च᳓यो
भ्रा᳓जन्तो यन्ति धृष्णुया᳓
प᳓रिज्मानो न᳓ विद्यु᳓तः
स्वानो᳓ र᳓थो न᳓ वाजयुः᳓
हे अग्ने धृष्णुया धृष्णवोऽत्यन्तप्रगल्भाः भ्राजन्तः दीप्यमानाः त्ये ते प्रसिद्धाः तव अर्चयः त्वदीया रश्मयः यन्ति सर्वतो गच्छन्ति । कथमिव । परिज्मानः परितो गन्त्र्यः सर्वतो व्याप्ताः विद्युतः न अचिरप्रभा इव । अनेन प्रकाशातिशय उक्तः । स्वानः शब्दायमानः रथो न रथ इव । अनेनार्चिषां स्वनाधिक्यमुक्तम् । वाजयुः न अन्नकाम इवान्नार्थं युद्धेषु शत्रुविजयाय यथा प्रवर्तते तद्वदित्यर्थः । अनेनाहुतिविषयोऽभिलाष उक्तः ॥ यन्ति । ‘ इण् गतौ ' । धृष्णुया । ञिधृषा प्रागल्भ्ये'।' त्रसिगृधिधृषि° ' इत्यादिना क्नुप्रत्ययः । ‘ आदितश्च' (पा. सू. ७. २. १६ ) इति । इट्प्रतिषेधः । बहुवचने ‘सुपां सुलुक्' इत्यादिना याजादेशः । ‘ चितः' इत्यन्तोदात्तत्वम् । परिज्मानः । ‘ अज व्रज गतौ ' । परिपूर्वाद्धातोः ‘ अन्येभ्योऽपि दृश्यन्ते ' इति मनिन् । अकारलोपः छान्दसः । नित्त्वादाद्युदात्तः । वाजयुः । वाजमात्मन इच्छति इति क्यच् । 'न छन्दस्य पुत्रस्य' इति ईत्वदीर्घयोः प्रतिषेधः । ‘क्याच्छन्दसि' इति उप्रत्ययः ॥
O Agni, those resplendent flames of thine go valorously forth,
Like lightnings flashing round us, like a rattling car that seeks the spoil.
Those shining flames of thine, Agni, go fiercely along, like lightnings (flashing) around the earth, like a thundering chariot bent on victory.
These flashing flames of yours, o Agni, go boldly,
like earth-encircling lightning bolts, their sound like a chariot chasing the prize of victory.
Es eilen deine Flammen hier, die glänzenden, o Agni, kühn Wie Blitze fliegend, Wagen gleich, die gutbeladen rasselnd gehn.
Diese Flammen von dir, Agni, die glühenden, gehen ungestüm drauf wie herumfahrende Blitze. Ihr Getöse ist wie das des wettfahrenden Wagens.
Те самые твои языки пламени, о Агни,
Пылающие, дерзко бросаются,
Словно молнии, кружащие (по небу),
Шумные, как колесницы, стремящиеся к добыче.
नू᳐᳓ नो अग्न ऊत᳓ये
सबा᳓धसश् च रात᳓ये
अस्मा᳓कासश् च सूर᳓यो
वि᳓श्वा आ᳓शास् तरीष᳓णि
हे अग्ने नः अस्माकं नु क्षिप्रम् ऊतये रक्षायै भव । सबाधसश्च दारिद्र्यनिमित्तबाधसहितस्य च रातये धनानां दानाय भव । किंच अस्माकासः आस्माकाः पुत्रमित्रादयः सूरयः स्तोतारः विश्वाः सर्वाः आशाः दिशः तरीषणि । तासां तरणे क्षमा भवन्तु । अथवा आशाः कामाः । अयमर्थः । स्वाभिलषितप्रशस्तसमस्तवस्तुसंपादनं कुर्वित्यर्थः ॥ सबाधसः । बाधेरसुन्। बाधसा सह वर्तत इति सबाधाः । 'वोपसर्जनस्थ' इति सहस्य सभावः । कृदुत्तरपदप्रकृतिस्वरत्वम् । रातये ।‘रा दाने' । क्तिन् । 'मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः' इत्यन्तोदात्तः । अस्माकासः । ‘ तस्मिन्नणि च युष्माकास्माकौ ' इत्यणि कृतेऽस्माकादेशः । छान्दसत्वादणो लोपः । बहुवचने असुगागमः । षष्ठीबहुवचने मध्योदात्तत्वेन दृष्टत्वात्तथाविधमादेशमत्रापि कृतवानाचार्यः । विश्वाः । विशेः ‘अशिप्रुषि°' इत्यादिना क्वन् । नित्त्वादाद्युदात्तः । तरीषणि । ‘तॄ प्लवनतरणयोः ' । ' कॄतॄभ्यामीषन' (उ. सू. ४. ४६६) इति ईषन् । बहुलवचनान्नलोपाभावः । अन्तोदात्तश्छान्दसः ॥
Now, Agni, come to succour us; let priests draw nigh to offer gifts;
And let the patrons of our rites subdue all regions of the earth.
Now then, Agni, (come) for our protection, and for the reward of the urgent (worshipper)! May our liberal patrons pass across 1 all regions 2!
Now, (bring us wealth) to help us, o Agni, and to give to the zealous one, and for our patrons to pass safely through all regions.
Nun, Agni, sei zur Huld bereit, zu schenken dem, der dich bestürmt; Und unsre Opferherren lass durchdringen jeden Himmelsraum.
Nun sei uns, Agni, zur Gnade bereit und zur Beschenkung des inbrünstigen Beters, und unsere freigebigen Patrone sollen nach allen Himmelsrichtungen siegreich vordringen.
(Будь) теперь (готов), о Агни, чтобы помочь нам
И одарить настойчивого (просителя),
А наши покровители
Пусть пересекут все стороны света!
तुवं᳓ नो अग्ने अङ्गिरः
स्तुत᳓ स्त᳓वान आ᳓ भर
हो᳓तर् विभ्वास᳓हं रयिं᳓
स्तोतृ᳓भ्य स्त᳓वसे च न
उतइ᳓धि पृत्सु᳓ नो वृधे᳓
हे अग्ने अङ्गिरः । कार्यकारणयोरभेदोपचारादङ्गिरसां प्रकृतिभूतोऽप्यग्निरङ्गिरा इत्युच्यते । हे अङ्गिरः पूर्वैः महर्षिभिः स्तुतः स्तवानः इदानींतनैश्च स्तूयमानस्त्वं विभ्वासहं महतामप्यभिभवितारम् । अभिभवहेतुत्वादभिभवितृ धनमुच्यते । रयिं धनं नः अस्माकम् आ भर आहर । हे होतः देवानामाह्वातः स्तोतृभ्यः नः अस्मभ्यं स्तवसे स्तोतुं सामर्थ्यं च प्रयच्छ । उत अपि च पृत्सु युद्धेषु नः अस्माकं वृधे समृद्धये एधि भव ॥ स्तवानः । ‘ ष्टुञ् स्तुतौ '। शानचि कर्मणि व्यत्ययेन शप्प्रत्यय आद्युदात्तश्च । विभ्वासहम् । संहितायां विभूनामिति षष्ठीबहुवचनस्य ‘सुपाम्' इत्यादिना आकारादेशः । तत्पुरुषे कृति बहुलम् इति षष्ठ्या अलुक् । पदकारास्तु विपूर्वाद्भवतेः अगागमम् ‘अन्येषामपि दृश्यते' इति दीर्घत्वं च मत्वावग्रहं कुर्वन्ति । कृदुत्तरपदप्रकृतिस्वरत्वम् । स्तवसे ।' ष्टुञ् स्तुतौ '। तुमर्थेऽसेन्प्रत्ययः । नित्त्वादाद्युदात्तः ॥ ॥ २ ॥
Bring to us, Agni, Angiras, lauded of old and lauded now,
Invoker! wealth to quell the strong, that singers may extol thee. Be near us in fight for our success.
Thou, O Agni, Aṅgiras, who hast been praised and who art being praised, bring us, O Hotri, wealth which overpowers (even) skilful men, to thy praisers, and thou shalt be praised by us. And help us to grow strong in fights 1.
You, o Agni, o Aṅgiras, having been praised and being praised, bring us wealth that overwhelms the wide-reaching one, for your praisers and for us to praise (you), o Hotar. And be present for us to grow strong in
battles.
Nun bring, o Agni Angiras, zuvor gepriesen und auch jetzt, O Priester, Gut, das Sieg gewinnt, den Sängern und zum Preise uns, (und sei in Schlachten uns zum Heil.)
Bring du, o Angirase Agni, sonst und jetzt gepriesen, Reichtum, der den des Vibhvan noch übertrifft, o Hotri uns Lobsängern, wenn du von uns besungen wirst, und sei uns zur Stärkung in den Kämpfen!
Ты, о Агни-Ангирас,
Восхваленный (и) восхваляемый, принеси,
О хотар, богатство, превосходящее могучих,
Нам и восхвалителям, чтобы ты восхвалялся и впредь у нас!
А также будь (готов) усилить нас в боях!