प्र स॒म्राजे॑ बृ॒हद॑र्चा गभी॒रं ब्रह्म॑ प्रि॒यं वरु॑णाय श्रु॒ताय॑ । वि यो ज॒घान॑ शमि॒तेव॒ चर्मो॑प॒स्तिरे॑ पृथि॒वीं सूर्या॑य ॥
प्र । स॒म्ऽराजे॑ । बृ॒हत् । अ॒र्च॒ । ग॒भी॒रम् । ब्रह्म॑ । प्रि॒यम् । वरु॑णाय । श्रु॒ताय॑ । वि । यः । ज॒घान॑ । श॒मि॒ताऽइ॑व । चर्म॑ । उ॒प॒ऽस्तिरे॑ । पृ॒थि॒वीम् । सूर्या॑य ॥
अत्रिः स्वात्मानं संबोध्य ब्रवीति । हे अत्रे त्वं सम्राजे सम्यक् राजमानायेश्वराय श्रुताय सर्वत्र श्रूयमाणाय वरुणाय उपद्रवस्य निवारकाय जनानामावरकाय चैतन्नामकाय देवाय बृहत् प्रभूतं गभीरं दुरवगाहं बह्वर्थोपेतं प्रियं प्रियभूतं ब्रह्म स्तोत्ररूपं कर्म प्र अर्च प्रार्चय । प्रोञ्चारयेत्यर्थः । यः वरुणः शमितेव चर्म शमिता पशुविशसनकर्ता यथोपस्तरणाय चर्म हन्ति तद्वत् पृथिवीं विस्तीर्णमन्तरिक्षम् ॥ ‘ तृतीयस्यां पृथिव्याम् ' (तै. सं. १. २. १२. १ ) इति श्रुतेः अन्तरिक्षस्यापि पृथिवीशब्दवाच्यत्वम् ॥ सूर्याय सूर्यस्य उपस्तिरे आस्तरणाय वि जघान विस्तारयामास । विस्तृतं हि व्यवहारयोग्यं भवति तस्मात् व्यवहाराय अन्तरिक्षं विस्तारितवान् । ‘ उरुं हि राजा वरुणश्चकार' (ऋ. सं. १. २४. ८) इति ह्युक्तम् ॥
“Offer a solemn, profound, and acceptable prayer to the imperial and renowned Varuṇa, who has spread the firmament as a bed for the sun, as the immolator (spreads) the skin of the victim.”
SING forth a hymn sublime and solemn, grateful to glorious. Varuna, imperial Ruler,
Who hath struck out, like one who slays the victim, earth as a skin to spread in front of Surya.
Chant forth to the sovereign king a lofty and deep formulation, dear to famed Varuṇa,
who, like a butcher an animal hide, split apart the earth to form an
underlayer for the sun.
Auf, singe laut dem Varuna ein Loblied, ein tiefes, lieb dem allberühmten Herrscher, Der ausgebreitet, wie das Fell der Schlächter, die Erd' als einen Teppich für die Sonne.
Dem Allkönig stimme ein erhabenes, tiefsinniges Erbauungslied an, ein liebes dem berühmten Varuna, der die Erde zum Teppich für die Sonne auseinandergeschlagen hat wie der Zurichter die Tierhaut.
Вседержителю вознесу я возвышенную, глубокую
Молитву, приятную прославленному Варуне,
Который, как заклатель – шкуру, разбил
Землю, чтобы разостлать ее под солнцем.
वने॑षु॒ व्य१॒॑न्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया॑सु । हृ॒त्सु क्रतुं॒ वरु॑णो अ॒प्स्व१॒॑ग्निं दि॒वि सूर्य॑मदधा॒त्सोम॒मद्रौ॑ ॥
वने॑षु । वि । अ॒न्तरि॑क्षम् । त॒ता॒न॒ । वाज॑म् । अर्व॑त्ऽसु । पयः॑ । उ॒स्रिया॑सु । हृ॒त्ऽसु । क्रतु॑म् । वरु॑णः । अ॒प्ऽसु । अ॒ग्निम् । दि॒वि । सूर्य॑म् । अ॒द॒धा॒त् । सोम॑म् । अद्रौ॑ ॥
अयं वरुणः वनेषु वृक्षाग्रेषु अन्तरिक्षं वि ततान विस्तारितवान् । तथा वाजसनेयकं - ‘ वनेषु हीदमेषु वृक्षाग्रेष्वन्तरिक्षं विततं तस्मादाह वनेषु व्यन्तरिक्षं ततान' इति । वाजं बलम् अर्वत्सु अश्वेषु वि ततान । पयः क्षीरम् उस्रियासु गोषु । उस्रियेति गोनाम । उत्स्राविणोऽस्यां भोगा इति तद्व्युत्पत्तिः । हृत्सु हृदयेषु क्रतुं कर्मसंकल्पम् । यद्धि मनसा ध्यायति तत्कर्मणा करोति । अप्सु उदकेषु अग्निं वैद्युतमौर्वं वा । सर्वत्र वि ततानेति संबन्धः । किंच दिवि द्युलोके सूर्यम् अदधात् स्थापितवान् । सोमं च अद्रौ पर्वतेऽदधात् ॥
“He has extended the firmament over the tops of the trees, has given strength to horses, milk to cows, determination to the heart; he has plural ced fire in the waters, the sun in heaven, the Soma in the mountains.”
In the tree-tops the air he hath extended, put milk in kine and vigorous speed in horses,
Set intellect in hearts, fire in the waters, Siurya in heaven and Soma on the mountain.
He stretched out the midspace upon the trees, the prize of victory in the steeds, the milk in the ruddy (cows);
Varuṇa placed resolve in hearts, fire in waters, the sun in heaven, and soma on the stone.
Er dehnte aus in Wäldern kühle Lüfte, schuf Milch in Kühen, in den Rossen Raschheit, Im Herzen Weisheit, in den Wolken Blitze, die Sonn' am Himmel, Soma auf den Bergen.
Über den Bäumen hat Varuna die Lüfte ausgebreitet, in die Rennpferde hat er den Sieg, in die Kühe die Milch gelegt, ins Herz die Überlegung, ins Wasser den Agni, an den Himmel die Sonne, auf den Berg den Soma gesetzt.
Среди деревьев протянул он воздух,
Волю к победе Варуна (вложил) в скакунов, молоко - в коров.
Вдохновение – в сердца, Агни – в воды,
Солнце поместил на небо. сому – на гору.
नी॒चीन॑बारं॒ वरु॑ण॒: कव॑न्धं॒ प्र स॑सर्ज॒ रोद॑सी अ॒न्तरि॑क्षम् । तेन॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ यवं॒ न वृ॒ष्टिर्व्यु॑नत्ति॒ भूम॑ ॥
नी॒चीन॑ऽबारम् । वरु॑णः । कव॑न्धम् । प्र । स॒स॒र्ज॒ । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् । तेन॑ । विश्व॑स्य । भुव॑नस्य । राजा॑ । यव॑म् । न । वृ॒ष्टिः । वि । उ॒न॒त्ति॒ । भूम॑ ॥
नीचीनबारम् अधोमुखबिलं प्र ससर्ज कृतवान् । कम् । कवन्धम् । कवनमुदकम् । तत् धीयतेऽत्रेति कवन्धो मेघः । तं तथाकरोत् । अथवा कवन्धमुदकम् । तदुदकं नीचीनबारं नीचीननिर्गमनबिलं चकार । मेघं विदार्य उदकमधोमुखं चकारेत्यर्थः । किं प्रतीत्युच्यते । रोदसी द्यावापृथिव्यौ अन्तरिक्षं च प्रति । लोकत्रयहितायेत्यर्थः । तेन उदकेन विश्वस्य सर्वस्य भुवनस्य भूतजातस्य राजा स्वामी वरुणः भूम भूमिं व्युनत्ति क्लेदयति । वृष्टिः सेक्ता पुमान् यवं न यवमिव यवान् यथा प्ररोहाय सर्वत्र प्रसारयति तद्वत् भूमिं सर्वत्रोनत्ति । अथवा वृष्टिर्वरुण इति संबन्धः । वर्षकः पर्जन्य इत्यर्थः । अस्मिन् पक्षे यवं पुरुष इवेति पुरुषशब्दोऽध्याहार्यः । अत्र ‘नीचीनबारं वरुणः कवन्धम् ' ( निरु. १०. ४ ) इत्यादिनिरुक्तं द्रष्टव्यम् ॥
“Varuṇa has set free the (water of the) downward opening cloud for the (benefit of the) heaven, the earth, and the firmament, thence is the monarch of all the world, watering the soil as the rain bedews the barley.”
Varuna lets the big cask, opening downward, flow through the heaven and earth and air's mid-region.
Therewith the universe's Sovran waters earth as the shower of rain bedews the barley.
Varuṇa has poured out the cask with its opening below upon the two world-halves and the midspace.
By this he is king of the whole living world. Like rain the barley, he
soaks the land.
Er kehret um der Wolken Wassertonne, lässt strömen sie auf Himmel, Luft und Erde; Des ganzen Weltalls König netzt den Boden mit ihr, wie Regen netzt die Gerstenfelder.
Varuna goß den Schlauch mit der Öffnung nach unten in beide Welten und den Luftraum aus; damit durchnetzt der König der ganzen Welt den Erdboden, wie der Regen das Korn.
Бочку с отверстием внизу Варуна
Вылил на оба мира (и) в воздушное пространство,
Ею царь всего мироздания,
Как дождь – хлеба, орошает почву.
उ॒नत्ति॒ भूमिं॑ पृथि॒वीमु॒त द्यां य॒दा दु॒ग्धं वरु॑णो॒ वष्ट्यादित् । सम॒भ्रेण॑ वसत॒ पर्व॑तासस्तविषी॒यन्त॑: श्रथयन्त वी॒राः ॥
उ॒नत्ति॑ । भूमि॑म् । पृ॒थि॒वीम् । उ॒त । द्याम् । य॒दा । दु॒ग्धम् । वरु॑णः । व॒ष्टि॒ । आत् । इत् । सम् । अ॒भ्रेण॑ । व॒स॒त॒ । पर्व॑तासः । त॒वि॒षी॒ऽयन्तः॑ । श्र॒थ॒य॒न्त॒ । वी॒राः ॥
वरुणः भूमिं पृथिवीं प्रथितमन्तरिक्षम् । अन्तरिक्षस्यापि पृथिवीशब्दवाच्यत्वं पूर्वमुक्तम् । उत अपि च द्यां द्युलोकम् उनत्ति क्लेदयति । यदा अयं दुग्धम् उदकपूरणं वष्टि कामयते । अथवा दुग्धमुदकम् । तेन तत्कार्यमोषध्यादिकं लक्ष्यते । औषध्यादयः प्रवर्धन्तामिति यदा कामयते आदित् अनन्तरमेव सं वसत समाच्छादयन्ति । के। पर्वतासः पर्ववन्तः। अद्रयः । केन । अभ्रेण मेघेन । किंच तविषीयन्तः बलमिच्छन्तः वीराः विशेषेण वृष्टेः प्रेरयितारो मरुतः श्रथयन्त श्रथयन्ति मेघान् ॥
“Varuṇa waters earth, mid-air, and heaven, when he plural ases (to send forth) the milk (of the cloud); thereupon the mountains cloth (their summits) withthe rain-cloud, and the hero, (Maruts), exulting in their strength, compel (the clouds) to relax.”
When Varuna is fain for milk he moistens the sky, the land, and earth to her foundation.
Then straight the mountains clothe them in the rain-cloud: the Heroes, putting forth their vigour, loose them.
He soaks the land, the earth, and heaven. When Varuṇa wishes milk to flow, then surely it does:
the mountains cloak themselves with the rain cloud; showing their
might, the heroes [=the Maruts?] let themselves loose.
Er netzt der Erde Boden und den Himmel, wenn Varuna der Wolke Milch begehret; Dann hüllen Berge sich in Wetterwolken, und müde werden selbst die starken Wandrer.
Er netzt den Boden, Erde und Himmel. Wenn Varuna gemolken haben will, dann kleiden sich die Berge in Gewölk und kraftbewußte Männer lockern das Kleid.
Он орошает почву, землю и небо,
Когда Варуна хочет, (чтоб было) молоко,
Тучей одеваются горы,
(И) мужи, играя силой, отпускают (поводья).
इ॒मामू॒ ष्वा॑सु॒रस्य॑ श्रु॒तस्य॑ म॒हीं मा॒यां वरु॑णस्य॒ प्र वो॑चम् । माने॑नेव तस्थि॒वाँ अ॒न्तरि॑क्षे॒ वि यो म॒मे पृ॑थि॒वीं सूर्ये॑ण ॥
इमाम् । ऊँ॒ इति॑ । सु । आ॒सु॒रस्य॑ । श्रु॒तस्य॑ । म॒हीम् । मा॒याम् । वरु॑णस्य॑ । प्र । वो॒च॒म् । माने॑नऽइव । त॒स्थि॒ऽवान् । अ॒न्तरि॑क्षे । वि । यः । म॒मे । पृ॒थि॒वीम् । सूर्ये॑ण ॥
आसुरस्य असुरसंबन्धिनः । असुराणामस्य च वध्यघातकभावः संबन्धः । असुरहन्तुरित्यर्थः । अथवा असुरो मेघः । प्राणदानात् तत्संबन्धिनः श्रुतस्य विश्रुतस्य महीं महतीम् इमां मायां प्रज्ञां प्र वोचं प्रब्रवीमि । कैषा मायेति सोच्यते । यः वरुणः अन्तरिक्षे तस्थिवान् तिष्ठन् मानेनेव दण्डेनेव सूर्येण पृथिवीम् अन्तरिक्षं वि ममे परिच्छिनत्ति तस्यैषा माया ॥ ॥ ३० ॥
“I proclaim this great device of the renowned Varuṇa, the destroyer of the Asuras, who, abiding in the mid-heaven, has meted the firmament by the sun, as if by a measure.”
I will declare this mighty deed of magic, of glorious Varuna the Lord Immortal,
Who standing in the firmament hath meted the earth out with the Sun as with a measure.
I proclaim this great cunning of the lordly, famed Varuṇa,
who, standing in the midspace as if with a measuring rod, measured out earth with the sun.
Auch dieses grosse Wunder will ich künden, des Varuna, des hochberühmten Gottes, Der stehend in der Luft die Erde ausmass, dort mit der Sonne wie mit einem Massstab.
Dieses große Kunststück des berühmten asurischen Varuna will ich fein verkünden, der in der Luft stehend wie mit dem Meßstab die Erde mit der Sonne abgemessen hat.
Я хочу достойно провозгласить это великое чудо
Знаменитого Асуры – Варуны,
Кто, стоя в воздушном пространстве, словно мерой,
Солнцем измерил землю.
इ॒मामू॒ नु क॒वित॑मस्य मा॒यां म॒हीं दे॒वस्य॒ नकि॒रा द॑धर्ष । एकं॒ यदु॒द्ना न पृ॒णन्त्येनी॑रासि॒ञ्चन्ती॑र॒वन॑यः समु॒द्रम् ॥
इ॒माम् । ऊँ॒ इति॑ । नु । क॒विऽत॑मस्य । मा॒याम् । म॒हीम् । दे॒वस्य॑ । नकिः॑ । आ । द॒ध॒र्ष॒ । एक॑म् । यत् । उ॒द्ना । न । पृ॒णन्ति॑ । एनीः॑ । आ॒ऽसि॒ञ्चन्तीः॑ । अ॒वन॑यः । स॒मु॒द्रम् ॥
कवितमस्य प्रकृष्टप्रज्ञस्य देवस्य द्योतमानस्य स्तुत्यस्य वा वरुणस्य इमां सर्वप्रसिद्धां महीं महतीं मायां प्रज्ञां नकिः नैव आ दधर्ष न हिनस्ति कश्चिदपि । ऊ नु इति पूरणौ। यत् यस्मात् एकं समुद्रम् उद्ना उदकेन न पृणन्ति न पूरयन्ति । काः। एनीः एन्यः शुभ्रा गमनशीला वा आसिञ्चन्तीः उदकमासेचयन्त्यः अवनयः नद्यः । बह्व्यो नद्यः सर्वदोदकेन पूरयन्त्योऽपि नैकमपि समुद्रं पूरयन्तीति । इदं वरुणस्य महत् कर्म इति । अत्र अन्तरिक्षविस्तारादि समुद्रापूरणपर्यन्तं कर्म परमेश्वरस्यैवोचितं न वरुणस्येति न वाच्यं तस्य वरुणादिरूपावस्थानात् । एष ब्रह्मेत्यादिश्रुतेः ॥
“No one has counteracted the device of the most sagacious divinity, whereby the lucid water-shedding rivers do not fill the ocean with water.”
None, verily, hath ever let or hindered this the most wise God's mighty deed of magic,
Whereby with all their flood, the lucid rivers fill not one sea wherein they pour their waters.
And now no one defies this great cunning of the foremost sage poet, the god:
that the mottled streams, pouring out, do not fill the single sea
with water.
Auch dieses grosse Wunderwerk des Gottes, des weisesten, hat keiner noch gehindert, Dass alle Ströme die in Eile rinnen das eine Meer nicht füllen mit den Wogen.
Auch dieses große Kunststück des weisesten Gottes wagt keiner anzutasten, daß die glitzernden Ströme, wenn sie sich ergießen, das eine Meer mit ihrem Wasser nicht füllen.
И на это великое чудо самого вдохновенного
Бога никто не посягнет.
Что искрящиеся потоки, изливаясь,
Не наполняют водой одного океана.
अ॒र्य॒म्यं॑ वरुण मि॒त्र्यं॑ वा॒ सखा॑यं वा॒ सद॒मिद्भ्रात॑रं वा । वे॒शं वा॒ नित्यं॑ वरु॒णार॑णं वा॒ यत्सी॒माग॑श्चकृ॒मा शि॒श्रथ॒स्तत् ॥
अ॒र्य॒म्य॑म् । व॒रु॒ण॒ । मि॒त्र्य॑म् । वा॒ । सखा॑यम् । वा॒ । सद॑म् । इत् । भ्रात॑रम् । वा॒ । वे॒शम् । वा॒ । नित्य॑म् । व॒रु॒ण॒ । अर॑णम् । वा॒ । यत् । सी॒म् । आगः॑ । च॒कृ॒म । शि॒श्रथः॑ । तत् ॥
हे वरुण अर्यम्यम् । अर्यमैवार्यभ्यः ॥ स्वार्थिको यत् । अर्तेरिदं रूपम् ॥ प्रदातारमित्यर्थः । अथवा ईरणात् मननात् च शास्तीत्यर्यमा गुरुः । तम् । वा अथवा मित्र्यम् ॥ ' ञिमिदा स्नेहने ' इत्यस्मात् मित्रम् । स्वार्थिको यत् ॥ अनुरक्तमित्यर्थः । वा अथवा सखायं समानख्यानं सदमित् सर्वदैव भ्रातरं वा । नित्यं निरन्तरं वेशं निकटनिकेतनवर्तिनं वा । अरणं वा अशब्दमित्यर्थः । अथवा अरणमदातारं वा नित्यं निरन्तरम् । एतान् प्रति यत्सीं यदेतत् आगः अपराधं चकृम तत् शिश्रथः अस्मत्तो विनाशय ॥
“If, Varuṇa, we have ever committed an offence against a benefactor, a friend, a companion, a brother, a near neighbour, or, Varuṇa, a dumb man, remove it from us.”
If we have sinned against the man who loves us, have ever wronged a brother, friend, or comrade,
The neighbour ever with us, or a stranger, O Varuna, remove from us the trespass.
O Varuṇa, the offense that we have committed against any partner, be he one by alliance or one by custom, or against a brother,
or against a neighbor—whether native or foreign—o Varuṇa,
loosen that.
Welch Unrecht wir gethan am Busenfreunde, am liebenden Genossen, was am Bruder, Am eignen Hause oder auch am fremden, das Unrecht alles, Varuna, verzeihe.
Wenn wir, o Varuna, einem wie Aryaman oder Mitra Befreundeten oder wenn wir dem, der allezeit ein Kamerad ist, oder einem Bruder oder einem Insassen - sei es einem Angehörigen oder Fremden - irgend ein Unrecht getan haben, so nimm das von uns, o Varuna!
О Варуна, если другу, подобному Арьяману или Митре,
Или (тому, кто) всегда товарищ или брат,
Соседу, своему или чужому, о Варуна,
Мы причинили зло – отпусти это (нам)!
कि॒त॒वासो॒ यद्रि॑रि॒पुर्न दी॒वि यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म । सर्वा॒ ता वि ष्य॑ शिथि॒रेव॑ दे॒वाधा॑ ते स्याम वरुण प्रि॒यास॑: ॥
कि॒त॒वासः॑ । यत् । रि॒रि॒पुः । न । दी॒वि । यत् । वा॒ । घ॒ । स॒त्यम् । उ॒त । यत् । न । वि॒द्म । सर्वा॑ । ता । वि । स्य॒ । शि॒थि॒राऽइ॑व । दे॒व॒ । अध॑ । ते॒ । स्या॒म॒ । व॒रु॒ण॒ । प्रि॒यासः॑ ॥
कितवासः कितवा द्यूतकृतः "किन् तवास्ति? सर्वं मया जितम्" इति वदतीति कितवः,
न दीवि न देवने द्यूते यथा
यद् रिरिपुः लेपयन्ति - पापम् आरोपयन्ति - यद् अस्मासु द्वेष्टारो मयि त्वम् एतत् पापम् अकरोर् इत्य् आक्षिपन्ति,
अत्र पुरस्ताद् उपचारो ऽपि न-कार उपमार्थीयः
वा अथवा घेति पूरणः यत् पापं सत्यं आरोपम् अन्तरेण कृतवन्तः स्म
उत अपिच यत् कृतं पापं न विद्म न जानीमः
ताः तानि सर्वा सर्वाणि शिथिरेव शिथिलानीव शिथिल-बन्धनानि फलानीव विष्य मोचय (स्यतिर् उपसृष्टो विमोचने)
हे देव अथ अनन्तरं ते तव प्रियासः प्रियाः स्याम भवेम ॥ ८ ॥
“If, like gamesters, who cheat at plural y, (we commit offences) knowingly, or (those) of which we know not, do you divine Varuṇa, extricate us from them all, as if from loosened (bonds), so that we may be dear, Varuṇa, to you.”
If we, as gamesters cheat at play, have cheated, done wrong unwittingly or sinned of purpose,
Cast all these sins away like loosened fetters, and, Varuna let us be thine own beloved.
If (we have cheated) as gamblers cheat in a dice game, whether overtly or whether we are unaware,
unbind all these things (so they will be) like loose things, o god. Then would we be dear to you, Varuṇa.
Wenn wir getäuscht beim Spiel wie falsche Spieler, wenn wir gefehlt, unwissend oder wissend, Was uns verstrickt, das alles löse du uns, Gott Varuna, und wieder sei'n wir lieb dir.
Wenn wir wie Spieler bei dem Spiele betrogen haben, ob wir es gewiß wissen, ob nicht, all das löse von uns wie lockere Bande, o Gott! So mögen wir deine Lieblinge sein, o Varuna.
Если мы обманули, как игроки в игре,
Будь то сознательно, или если мы не знали,
Всё это развяжи, о бог, (чтобы стало это) словно незатянутым!
Пусть станем мы милыми тебе, о Варуна!