तुवा᳓म् अग्ने हवि᳓ष्मन्तो
देव᳓म् म᳓र्तास ईळते
म᳓न्ये त्वा जात᳓वेदसं
स᳓ हव्या᳓ वक्षि आनुष᳓क्
हे अग्ने त्वां देवं दीप्यमानं हविष्मन्तः होमसाधनद्रव्यसमेताः मर्तासः मर्त्याः ईळते स्तुवन्ति । अहं च जातवेदसम् । जातमुत्पन्नं चराचरं भूतजातं वेत्तीति जातवेदाः । अथवा जातानि स्थावरजङ्गमात्मकानि एनं विदुरिति जातवेदाः । यद्वा । वेद इति धननाम । जातं सर्वं वेदो धनं यस्यासौ जातवेदाः । एवंविधं त्वा त्वां मन्ये स्तौमि । मनिरत्र स्तुत्यर्थे वर्तते धातूनामनेकार्थत्वात्। सः त्वं हव्या हवनसाधनानि हवींषि आनुषक् निरन्तरतया अनुषक्तं यथा तथा वक्षि वहसि ॥ हविष्मन्तः । हविःशब्दः औणादिकइस्प्रत्ययान्तः । प्रत्ययस्वरेणान्तोदात्तः । ‘ तदस्यास्ति' इति मतुप् । पदसंज्ञाया अपवादत्वेन ‘ तसौ मत्वर्थे ' इति भसंज्ञायां रुत्वाभावः । मतुब्जसोरनुदात्तत्वात् प्रत्ययस्वर एव शिष्यते । देवम् । अच्प्रत्ययान्तत्वात् देवशब्दोऽन्तोदात्तः । मर्तासः । ‘ मृङ् प्राणत्यागे'। ' असिहसिमृङ् ' इत्यादिना तन् । गुणः । मर्तः । जसेरसुक् । मर्तासः । नित्त्वादाद्युदात्तः । ईळते। 'ईड स्तुतौ'। अदादित्वाच्छपो लुक्। आत्मनेपदेष्वनतः '। टेरेत्वम् । अत्र डकारस्य अध्येतृसंप्रदायप्राप्तो लकारः । लसार्वधातुकानुदात्तत्वेन धातुस्वरे प्राप्ते आष्टमिको निघातः । मन्ये । श्यनो नित्त्वात् आद्युदात्तत्वम् । त्वा ।' युषि मिश्रणे'। मदिक्प्रत्ययान्तो युष्मच्छब्दः प्रत्ययस्वरेणान्तोदात्तः । त्वमावेकवचने ' इति मपर्यन्तस्य त्वादेशः । ‘ द्वितीयायां च' ( पा. सू. ७. २. ८७ ) इत्याकारः। एकादेश उदात्तेनोदात्तः' इत्येकादेशोऽप्युदात्त एव । त्वामौ द्वितीयायाः' इति त्वादेशः । स्थानिवद्भावेनान्तोदात्तत्वे प्राप्ते ‘ अनुदात्तं सर्वमपादादौ ' इत्यनुदात्तत्वम् । जातवेदसम् । जनी प्रादुर्भावे' । क्तः । ‘ श्वीदितो निष्ठायाम् ' इतीट्प्रतिषेधः । ‘ जनसनखनां सञ्झलोः' इत्यात्वम् । प्रत्ययस्वरेणान्तोदात्तः । वेदस्शब्दोऽपि असुन्प्रत्ययान्तत्वात् आद्युदात्तः । कर्मधारयपक्षे समासान्तोदात्तापवादत्वेन ‘ तत्पुरुषे तुल्यार्थ° ' इत्यादिना पूर्वपदप्रकृतिस्वरत्वे प्राप्ते कृदुत्तरपदप्रकृतिस्वरत्वम् । तदपवादत्वेन ‘गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इति पूर्वपदप्रकृतिस्वरत्वम् । बहुव्रीहिपक्षे ' बहुव्रीहौ प्रकृत्या पूर्वपदम्' इति । हव्या । हवमर्हतीत्यस्मिन्नर्थे ‘यः' इत्यनुवर्तमाने 'छन्दसि च ' इति यः । नपुंसकत्वाच्छिरादेशः । ‘ शेश्छन्दसि बहुलम्' इति लोपः । प्रत्ययलक्षणेन नुम् । दीर्घनलोपौ । प्रत्ययस्वरेणान्तोदात्तः । वक्षि ।' वह प्रपणे'। सिप्। लुगनुवृत्तौ ‘ बहुलं छन्दसि ' इति शपो लुक् । ढत्वकत्वषत्वानि । सिपः पित्त्वादनुदात्तत्वेन धातुस्वरेण आद्युदात्तत्वे प्राप्ते निघातः । आनुषक् । अनुपूर्वस्य षञ्जेः क्विप् नकारलोपः कुत्वं च । धात्वादेः सकारस्य ' उपसर्गात्सुनोति°' इत्यादिना षत्वम् । दीर्घश्छान्दसः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
BEARING; oblations mortal men, O Agni, worship thee the God.
I deem thee Jatavedas: bear our offerings, thou, unceasingly.
Thee, O Agni, the god, mortals bringing offerings magnify. I deem thee the Gâtavedas. Carry then the offerings (to the gods) in thy due way.
You, Agni, a god, do mortals summon, bearing offerings.
I think you to be Jātavedas: convey our oblations in proper order.
Es preisen Agni dich, den Gott, die opferreichen Sterblichen; Dein denk' ich, der du Wesen kennst; die Opfer fahr ohn' Unterlass.
Dich, Agni, den Gott, berufen die Sterblichen, Opfergaben bringend. Ich erachte dich für den Jatavedas; fahr als solcher die Opferspenden, wie sich's gebührt!
Тебя, о Агни, бога, призывают
Смертные, принося жертвенные возлияния.
Я считаю тебя Джатаведасом.
Увози жертвы по порядку!
अग्नि᳓र् हो᳓ता दा᳓सुवतः
क्ष᳓यस्य वृक्त᳓बर्हिषः
सं᳓ यज्ञा᳓सश् च᳓रन्ति यं᳓
सं᳓ वा᳓जासः श्रवस्य᳓वः
यम् अग्निं यज्ञासः सर्वे यज्ञाः सं चरन्ति सहिता गच्छन्ति । श्रवस्यवः यजमानस्य प्रभूतां कीर्तिं संपादयन्तः वाजासः हवींषि यमग्निं सं चरन्ति प्राप्नुवन्ति । एवंविशिष्टः अग्निः दास्वतः हविष्प्रक्षेपणादिदानवतः वृक्तबर्हिषः। वृक्तानि लूनानि बर्हींषि दर्भा येनासौ वृक्तबर्हिः । तस्य क्षयस्य । क्षियन्ति निवसन्त्यस्मिन् स्वर्गसाधनफलानीति क्षयः । तस्य यजमानस्य यागार्थं होता देवानामाह्वाता भवति ॥ दास्वतः । ‘दा दाने '। असुन्प्रत्ययान्तः । मतुपः आदुपधत्वात् वत्वम् । धातुस्वरेणाद्युदात्त एव। क्षयस्य । ‘क्षि निवासगत्योः'। 'क्षयो निवासे ' इत्याद्युदात्तत्वम् । वृक्तबर्हिषः । ‘ वृजी वर्जने '। वर्जनम् अत्रोपचारात् छेदनम् । निष्ठा । प्रत्ययस्वरेणान्तोदात्तः । बहुव्रीहित्वात् पूर्वपदप्रकृतिस्वरत्वम् । यज्ञासः । यज्ञशब्दः ‘यजयाच°' इत्यादिना नड्प्रत्ययान्तः अन्तोदात्तः । चरन्ति । ‘चर गतिभक्षणयोः'। अदुपदेशाल्लसार्वधातुकानुदात्तत्वम् ।' यद्वृत्तान्नित्यम्' इति निघाताभावः । वाजासः । वजेर्घञ् । वाजः । ‘कर्षात्वतः° ' इत्यन्तोदात्तत्वम्। छान्दसत्वात् ‘ ञ्नित्यादिर्नित्यम्' इत्याद्युदात्तः । श्रवस्यवः । ‘ छन्दसि परेच्छायाम्' इति क्यच् । 'क्याच्छन्दसि' इत्युप्रत्ययः । प्रत्ययस्वरेणान्तोदात्तः ॥
In the man's home who offers gifts, where grass is trimmed, Agni is Priest,
To whom all sacrifices come and strengthenings that win renown.
Agni is the Hotri of the dwelling where they offer gifts and spread the sacrificial grass, he with whom sacrifices, with whom glorious gains assemble.
Agni is the Hotar of the dwelling rich in gifts, in which the ritual grass is twisted,
upon whom sacrifices converge and the prizes and seekers of fame
(converge);
Agni ist Priester in dem Sitz, dem reichen mit geweihter Streu, Zu dem die Opfer alle gehn und güterreiche Labungen.
Agni ist der Opferpriester des freigebigen Hauses, in dem das Barhis umgelegt wird, um den sich die Opfer und die Belohnungen wetteifernd scharen;
Агни – хотар богатого дарами
Дома, где разложена жертвенная солома.
(Он тот,) к кому стекаются жертвы,
С(текаются) награды, приносящие славу.
उत᳓ स्म यं᳓ शि᳓शुं यथा
न᳓वं ज᳓निष्ट अर᳓णी
धर्ता᳓रम् मा᳓नुषीणां᳐
विशा᳓म् अग्निं᳓ सुअध्वर᳓म्
उत स्म अपि च मानुषीणां मनोर्जातानां विशाम् । विशन्ति प्रविशन्ति गर्भाशयमिति विशः प्रजाः । तासां धर्तारम् आहारादिपाकद्वारेण शरीरधातूनां पोषकं स्वध्वरं शोभनयज्ञं यम् अग्निम् अरणी द्वे अरणी नवं नूतनं शिशुं यथा अपत्यमिव जनिष्ट अजनिषाताम् । अरणी प्रजानां पोषणार्थं चैतमग्निम् असृजतामित्यर्थः ॥ शिशुम् ।' शो तनूकरणे '। ‘आदेचः' इत्यादिना आत्वम् । ‘ शः कित् सन्वञ्च ' इत्युप्रत्ययः सन्वद्भावश्च । द्विर्भावोऽभ्यासस्य ह्रस्वश्च । ‘ सन्यतः ' इतीत्वम् । ‘ आतो धातोः ' इत्याकारलोपः । नित्त्वादाद्युदात्तः । यथा । 'यथेति पादान्ते' इति सर्वानुदात्तः । जनिष्ट । जनी प्रादुर्भावे'। लुङ् । छन्दसत्वाद्वचनव्यत्ययः । अरणी । ‘ ऋ गतौ'।' अर्तिसृभृधृधम्यश्यवितॄभ्योऽनिः' इति अनिप्रत्ययः आद्युदात्तः। आभ्यामतिं गच्छत्यग्निरित्यरणी । कथमपादानार्थे औणादिकोऽनिः । ‘ ताभ्यामन्यत्रोणादयः ' (पा. सू. ३. ४. ७५ ) इति नियमात् भीमादित्वात् सिद्धम् । मानुषीणाम् । “ मनोर्जातावञ्यतौ षुक्च' इति अञ्प्रत्ययः षुगागमश्च । ञ्नित्यादिर्नित्यम्' इत्याद्युदात्तत्वम् । विशाम् । विश प्रवेशने'। कर्तरि क्विप्। सावेकाचः' इति विभक्तेः उदात्तत्वम् । स्वध्वरम् । हिंसार्थस्य ध्वरतेः पचाद्यच् । न विद्यते ध्वरो यागहिंसा यस्मिन्नित्यध्वरः । बहुव्रीहिस्वरापवादत्वेन ‘ नञ्सुभ्याम् ' इत्यन्तोदात्तः ॥
Whom, as an infant newly-born, the kindling-sticks have brought to life,
Sustainer of the tribes of men, skilled in well-ordered sacrifice.
And he whom the kindling-stick has born, the young one, like a young (calf), the supporter of human clans, Agni the best sacrificer—
And to whom the churning stick has again given birth like a new calf— Agni, the supporter of the clans of the sons of Manu, performing
good rites.
Und den wie einen jungen Sohn auch jetzt das Reibeholz gebar, Den Agni, der das Fest verschönt, der alle Menschenstämme schützt.
Und den das Reibholz wie die Kuh ein Junges neu gebar, den Erhalter der menschlichen Clane, den Agni, der den Gottesdienst gut versieht.
(Он) также (тот,) кого породил кусок дерева для трения,
Словно (корова) новорожденного теленка,
(Этого) поддерживателя племен человеческих,
Агни, прекрасно исполняющего обряд.
उत᳓ स्म दुर्गृभीयसे
पुत्रो᳓ न᳓ ह्वारिया᳓णा᳐म्
पुरू᳓ यो᳓ द᳓ग्धा᳓सि व᳓ना
अ᳓ग्ने पशु᳓र् न᳓ य᳓वसे
उत स्म अपि च ह्वार्याणां कुटिलं गच्छतां सर्पाणाम् । यद्वा । आस्कन्दितादिगतिविशेषेण वक्रगमनानामश्वानां पुत्रो न पुत्र इव बालसर्पं इवाशिक्षितबालाश्व इव वा दुर्गृभीयसे दुःखेन गृह्यसे । हे अग्ने यः त्वं पुरु बहूनि वना वनानि दग्धासि दाहको भवसि । कथमिव । यवसे तृणे पशुर्न पशुरिव । अयमर्थः । अत्यन्तक्षुधार्तः पशुस्तृणविषये विसृष्टः सन् यथा सर्वं भक्षयति तद्वदित्यर्थः ॥ दुर्गृभीयसे ।' ग्रह उपादाने' । यक् । ‘ब्रुव ईट्' इत्यनुवृत्तौ ‘बहुलं छन्दसि ' इति ईडागमः। ग्रहिज्यादिना संप्रसारणम् । “ हृग्रहोर्भश्छन्दसि ' इति भकारः। निघातः । ह्वार्याणाम्। ‘ह्वृ कौटिल्ये,' । ऋहलोर्ण्यत् । आदिवृद्धिः । ' तित्स्वरितम्' इति स्वरितत्वम् । पुरु । पॄ पालनपूरणयोः' ।' पृभिदिव्यधिगृधिधृषिदृशिभ्यः' इति कुप्रत्ययः । ‘उदोष्य्दपूर्वस्य ' इत्युत्वम् । प्रत्ययस्वरेण अन्तोदात्तत्वम् । असि । 'यद्वृत्तान्नित्यम्' इति न निघातः ॥
Yea, very hard art thou to grasp, like offspring of the wriggling snakes,
When thou consumest many woods like an ox, Agni, in the mead.
And thou showest thyself hard to seize like a son of … 1, thou who art a burner of many woods, O Agni, like an animal (that consumes all grass) on a meadow 2.
And like a son of twisting (snakes) you are again hard to grasp,
you, who are the consumer of much wood, o Agni, like a grazing animal in a pasture (consuming much grass).
Und schwer bist zu ergreifen du, recht wie ein Sohn der Wasserflut, Der viele Wälder du verbrennst der Heerde gleich, die Gras verzehrt.
Und du bist schwer zu haschen wie das Junge der Vögel, der du viele Hölzer zu verbrennen pflegst, wie das Vieh auf der Weide das Gras abfrißt, o Agni.
Ты также (тот), кого трудно поймать,
Как детеныша петляющих существ.
Ты тот, кто сжигает много дров,
О Агни, словно скот, (съедающий всё) на пастбище.
अ᳓ध स्म य᳓स्य अर्च᳓यः
सम्य᳓क् संय᳓न्ति धूमि᳓नः
य᳓द् ईम् अ᳓ह त्रितो᳓ दिवि᳓
उ᳓प ध्मा᳓तेव ध᳓मति
शि᳓शीते ध्मात᳓री यथा
अध स्म अपि च धूमिनः धूमवतः यस्य अग्नेः अर्चयः अर्चींषि सम्यक् शोभनं संयन्ति सर्वतः प्राप्नुवन्ति त्रितः त्रिषु स्थानेषु ततो व्याप्तः त्रीणि स्थानानि वा अतीत्य दिवि अन्तरिक्षे यत् यदा ईम् अयमात्मानम् उप धमति उपवर्धयति तदा ज्वालाः सर्वतो निर्गच्छन्तीत्यर्थः । कथमिव । ध्मातेव । कर्मारो यथा भस्रादिभिरग्निं संवर्धयति तद्वत्स्वात्मानं वर्धयतीत्यर्थः । किंच ध्मातरि यथा । यथा ध्मातृसमीपे विद्यमानोऽग्निस्तेन ध्मायमानः स आत्मानं शिशीते तीक्ष्णीकरोति तद्वत्स्वयमेव स्वात्मानं तीक्ष्णीकरोतीत्यर्थः। अह इति पादपूरणः ॥ यन्ति । इण् गतौ । यच्छब्दयोगन्निघाताभावः । धमति । ‘ ध्मा शब्दाग्निसंयोगयोः'। पाघ्रादिना धमादेशः । पूर्ववत् निघाताभावः । शिशीते। शो तनूकरणे'। व्यत्ययेनात्मनेपदी। ‘ श्लौ' इत्यनुवर्तमाने ‘ बहुलं छन्दसि' इति विकरणस्य श्लुः । ‘ आदेच उपदेशेऽशिति' इति आत्वम् । ‘श्लौ' इति द्विर्वचनम् । ‘ बहुलं छन्दसि' इत्यभ्यासस्य इत्वम् । ‘उभे अभ्यस्तम्' इत्यभ्यस्तसंज्ञायाम् आतः ‘ई हल्यघोः' इति ईत्वम् । तिङ उत्तरत्वान्निघाताभावः ॥
Whose flames, when thou art sending forth the smoke, completely reach the mark,
When Trta in the height of heaven, like as a smelter fanneth thee, e'en as a smelter sharpeneth thee.
1 And he whose smoky 2 flames come together, when Trita in heaven blows upon him like a smelter, sharpens (him) as in smelting (him) 3…
Then he whose smoky flames all together join together—
when Trita in heaven blows upon him like a blower [=smelter] (of
metals), he becomes sharp as if at the blowing (of bellows).
Und dessen Flammen rauchumhüllt zusammen wandern im Verein, Wenn Trita in der Himmelshöh ihn anbläst einem Schmelzer gleich, (der in der Schmelze ihn entflammt.)
Dessen qualmende Flammen nun ganz zusammenschlagen; wenn ihn Trita im Himmel anbläst wie der Bläser, so macht er seine Flammen scharf wie in dem Gebläse.
Он еще (тот,) чьи языки пламени
Сплетаются вместе, дымные.
А когда Трита на небе
Раздувает его, словно раздуватель (мехов),
Он оттачивает (пламя), как при выдувании (металла).
त᳓वाह᳓म् अग्न ऊति᳓भिर्
मित्र᳓स्य च प्र᳓शस्तिभिः
द्वेषोयु᳓तो न᳓ दुरिता᳓
तुर्या᳓म म᳓र्तियाना᳐म्
हे अग्ने अहं मित्रस्य सर्वेषां मित्रभूतस्य तव ऊतिभिः युष्मत्कर्तृकरक्षणैः युष्मत्प्रशस्तिभिः च अस्मत्कृतैः स्तोत्रैश्च मर्त्यानां शत्रुभूतानां मनुष्याणां दुरिता दुरितानि तत्कर्तृकाणि पापसाधन कर्माणि द्वेषोयुतो न द्वेषयुक्तान् शत्रूनिव तुर्याम तरेयम् । अयमर्थः । त्वद्रक्षणैस्त्वत्संबन्धिस्तुतिभिश्च बाह्याभ्यन्तरशत्रून् तरेयमित्यर्थः ॥ ऊतिभिः। अव रक्षणे'। क्तिन् । ज्वरत्वरस्रिव्यविमवामुपधायाश्च ' इति ऊठ्। ‘उतियूतिजूतिसातिहेतिकीर्तयश्च' इति अन्तोदात्तत्वेन निपातितः। प्रशस्तिभिः । ‘ शंसु स्तुतौ । क्तिन् । कृदुत्तरपदप्रकृतिस्वरापवादत्वेन ‘तादौ च निति कृत्यतौ ' इति गतेः प्रकृतिस्वरत्वम् । द्वेषोयुतः । ‘ द्विष अप्रीतौ । भावेऽसुन्प्रत्ययः । ‘ यु मिश्रणे' । कर्तरि क्विप् । तुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । तुर्याम । ‘तॄ प्लवनतरणयोः'। प्रार्थनायां लिङ् । यासुट् । ‘लिङः सलोपोऽनन्त्यस्य' इति सकारलोपः । ‘ बहुलं छन्दसि ' इति शपो लुक् । उदोष्य्ऽपूर्वस्य ‘ बहुलं छन्दसि ' इति उत्वम् । यासुडागमस्योदात्तत्वाच्छेषनिघातः । ‘ °अपादादौ ' इति प्रतिषेधान्निघाताभावः ॥
O Agni, by thy succour and by Mitra's friendly furtherance,
May we, averting hate, subbue the wickedness of mortal men.
May I through thy protection, O Agni, and through the praises of Mitra—may we 1, like dispellers of malice, overcome the dangers of mortals.
By your help, o Agni, and through my proclamations of (Agni as) Mitra, would I—
would we cross over difficulties of mortals, as those repelling hatred do.
Ich, Agni, sei in deiner Gunst und in des Mitra Förderung; Wie Feindverscheucher mögen wir der Menschen Leid bewältigen.
Durch deine Gnade will ich, o Agni, und mit Billigung des Mitra wollen wir den Gefahren, die von Sterblichen drohen, wie Feindeabwehrer den Feinden entgehen.
Я благодаря твоим поддержкам, о Агни,
И восхвалениям Митры, –
Пусть преодолеем мы трудности смертных,
Как (люди), избежавшие враждебности!
तं᳓ नो अग्ने अभी᳓ न᳓रो
रयिं᳓ सहस्व आ᳓ भर
स᳓ क्षेपयत् स᳓ पोषयद्
भु᳓वद् वा᳓जस्य सात᳓य
उतइ᳓धि पृत्सु᳓ नो वृधे᳓
हे अग्ने सहस्वः बलवन् नरः हविषां नेता त्वम् अस्माकं तं रयिं लोके प्रसिद्धं पश्वादिलक्षणं धनम् अभि आ भर आभिमुख्येनाहर । पूर्वोक्तः सः अग्निः क्षेपयत् । अस्मदीयान् शत्रून् क्षेपयतु । सः अग्निः पोषयत् अस्मान् पोषयतु । वाजस्य अन्नस्य सातये लाभाय भुवत् भवतु । उत अपि च हे अग्ने पृत्सु पृतनासु युद्धेषु नः अस्माकं वृधे समृद्धये एधि भव । संग्रामे शत्रुविजयार्थं स त्वं समृद्धिं कुर्वित्यर्थः ॥ सहस्वः । षह मर्षणे ' । असुन् । सहत्यनेन शत्रूनिति सहो बलम् । मतुप् । ‘ मादुपधायाः' इति वत्वम् । “ मतुवसो रुः संबुद्धौ छन्दसि ' इति रुत्वम् । आमन्त्रितस्य च ' इति निघातः । क्षेपयत् । ‘ क्षिप प्रेरणे'। णिजन्तात् लेट् । इतश्च लोपः । ‘लेटोऽडाटौ ' इयडागमः । शप् गुणायादेशौ पररूपत्वं च । पोषयत् ।' पुष पुष्टौ ' । भुवत् । ‘ भू सत्तायाम् ' । भूसुवोस्तिङि' इति गुणप्रतिषेधः । उवङ् । एधि । अस भुवि । ' ष्वसोरेद्धावभ्यासलोपश्च' इति एत्वम् । तस्यासिद्धत्वात् ‘हुझल्भ्यो हेर्धिः' इति धिरादेशः । निघातः । पृत्सु । ‘पदादिषु' इत्यादिना पृतनाशब्दस्य पृदादेशः । सावेकाच्त्वात् अन्तोदात्तत्वम् ॥ ॥ १ ॥
O Agni, to our heroes bring such riches, thou victorious God.
May he protect and nourish us, and help in aining strength: be thou near us in 6rht for our success.
Bring this wealth to us, O powerful Agni, to (these our) men. May he 1 give us dwelling; may he 1 give us prosperity; may he 1 help us in winning booty. And help us to grow strong in fights!
Let our men (be) dominant over wealth, o Agni. Bring that here, o strong one!
He makes us dwell in peace; he makes us thrive; he comes in order (for us) to gain the prize of victory. And let him be present to strengthen us in battles.
O Agni bring des Menschen Gut herbei uns, o gewaltiger, Es schütze uns, es nähre uns, gereich zur Machterlangung uns, (sei in den Schlachten uns zum Heil.)
Diesen Reichtum ...... bring uns, gewaltiger Agni! Er mache ruhiges Wohnen und Gedeihen. Er helfe zur Gewinnung von Lohn - und sei du uns zur Stärkung in den Kämpfen!
Привези нам это богатство, о Агни,
(Чтобы мы и) мужи за(хватили его), о могущественный!
Пусть он поселит (нас) в мире, пусть он даст процветание,
Пусть он послужит (нам) для захвата добычи!
А также будь (готов) усилить нас в боях!