तमु॑ ष्टुहि॒ यो अ॒भिभू॑त्योजा व॒न्वन्नवा॑तः पुरुहू॒त इन्द्र॑: । अषा॑ळ्हमु॒ग्रं सह॑मानमा॒भिर्गी॒र्भिर्व॑र्ध वृष॒भं च॑र्षणी॒नाम् ॥
तम् । ऊँ॒ इति॑ । स्तु॒हि॒ । यः । अ॒भिभू॑तिऽओजाः । व॒न्वन् । अवा॑तः । पु॒रु॒ऽहू॒तः । इन्द्रः॑ । अषा॑ळ्हम् । उ॒ग्रम् । सह॑मानम् । आ॒भिः । गीः॒ऽभिः । व॒र्ध॒ । वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् ॥
अभिभूत्योजाः अभिभावुकतेजाः वन्वन् शत्रून् हिंसन् अवातः शत्रुभिरहिंसितः ॥ वनोतेर्निष्ठान्तस्य नञ्पूर्वस्य रूपम् । यद्वा वातेर्वातम् ॥ अनभिगतः पुरुहूतः बहुभिराहूतः यः इन्द्रः अस्तीति शेष: । हे भरद्वाज तमु ष्टुहि तमेवेन्द्रं स्तुहि । अपि च आभिः वक्ष्यमाणाभिः गीर्भिः स्तुतिरूपाभिर्वाग्भिः तमिन्द्रं वर्ध वर्धय । कीदृशम् । अषाळ्हम् अनभिभूतम् उग्रम् उद्गूर्णम् ओजस्विनं वा सहमानं शत्रूनभिभवन्तं चर्षणीनां प्रजानां संबन्धिनं वृषभं वर्षितारम् ॥
“Praise him who is Indra, the invoker of many, endowed with overpowering vigour, the destroyer (of foes), unharmed by them; exalt with these praises the irresistible, fierce, victorious Indra, the showerer (of benefits) upon mankind.”
GLORIFY him whose might is all-surpassing, Indra the much-invoked who fights uninjured.
Magnify with these songs the never-vanquished, the Strong, the Bull of men, the Mighty Victor.
Praise him whose might is overpowering, the vanquishing but
unvanquished, much-summoned Indra.
Mighty, conquering but unconquered, the bull of the settled domains— strengthen him with these songs.
Den Indra preise, der von hoher Kraft ist, und ungefährdet siegreich, vielgerufen, Den unbesiegten Sieger, den gewalt'gen, mit diesen Liedern stärk den Herrn der Menschen.
Ihn preise, der von überlegener Stärke, der unbesiegte Sieger, der der vielgerufene Indra ist. Den Unbezwungenen, Gewaltigen, Bezwingenden erbaue mit diesen Lobreden, den Bullen der Völker!
Того восхваляй, кто (всех) превосходит силой,
(Кто) покоряющий, (но) непокоренный многопризываемый Индра!
Несокрушимого, грозного, сокрушающего подкрепи
Этими хвалебными песнями быка народов!
स यु॒ध्मः सत्वा॑ खज॒कृत्स॒मद्वा॑ तुविम्र॒क्षो न॑दनु॒माँ ऋ॑जी॒षी । बृ॒हद्रे॑णु॒श्च्यव॑नो॒ मानु॑षीणा॒मेक॑: कृष्टी॒नाम॑भवत्स॒हावा॑ ॥
सः । यु॒ध्मः । सत्वा॑ । ख॒ज॒ऽकृत् । स॒मत्ऽवा॑ । तु॒वि॒ऽम्र॒क्षः । न॒द॒नु॒ऽमान् । ऋ॒जी॒षी । बृ॒हत्ऽरे॑णुः । च्यव॑नः॒ । मानु॑षीणाम् । एकः॑ । कृ॒ष्टी॒नाम् । अ॒भ॒व॒त् । स॒हऽवा॑ ॥
बृहद्रेणुः बृहतो महतो रेणोः पांसोरुत्थापकः । संग्रामेष्विति यावत् । एकः मुख्यः सहावा बलवान् सः इन्द्रः मानुषीणां मनोः संबन्धिनीनां कृष्टीनां प्रजानां यजमानानां च्यवनः अभिगन्ता अभवत् आसीत् । कीदृशः । युध्मः योद्धा सत्वा दाता । सनोतेरिदं रूपम् । खजकृत् खजानां संग्रामाणां कर्ता । खज इति संग्रामनामैतत् । समद्वा । यजमानैः सह मदः समत् तद्वान् । तुविम्रक्षः । मृक्षतिः संस्नेहनकर्मा । तुवीनां बहूनां वर्षणेन संस्नेहनकर्ता नदनुमान् शब्दवान् ऋजीषी । ऋजीषशब्देन सवनद्वयाभिषुतः पुनस्तृतीयसवनेऽप्यभिषुतः सोम उच्यते । तद्वान् ।
“He is ever the combatant, the donor, the engaged in battle, the sympathizer (with the sacrificer), the benefactor of many, the loud-sounding, the partaker of the stale libation, the stirrer up of dust (in strife), the chief protector of men the descendants of Manu, the endowed with strength.”
He, Champion, Hero, Warrior, Lord of battles, impetuous, loudly roaring, great destroyer,
Who whirls the dust on high, alone, oerthrower, hath made all races of mankind his subjects.
He—the fighting warrior, creator of tumult, combat-hardened, the powerfully destructive, bellowing partaker of the silvery drink,
with high-mounting dust—alone became the victorious rouser of the communities of the sons of Manu.
Der tapfre Kämpfer, Schlacht erregend, streitbar, der viele tilgt, wild tobend vorwärts dringet, Er, Staub aufwirbelnd, war allein der starke Erschütterer der menschlichen Geschlechter.
Dieser kampfgeübte Soldat, streitbar, schlachtgewohnt, viele aufreibend, lärmend, den Trestersaft trinkend, bei dem der Staub hoch geht, er ward der alleinige sieghafte Aufrüttler der menschlichen Völker.
Этот борющийся воин, создающий вихрь сражения, любящий войну,
Стирающий многих в порошок, поднимающий шум, пьющий сому из выжимок,
Высоко вздымающий пыль, стал единственным
Победоносным сотрясателем людских племен.
त्वं ह॒ नु त्यद॑दमायो॒ दस्यूँ॒रेक॑: कृ॒ष्टीर॑वनो॒रार्या॑य । अस्ति॑ स्वि॒न्नु वी॒र्यं१॒॑ तत्त॑ इन्द्र॒ न स्वि॑दस्ति॒ तदृ॑तु॒था वि वो॑चः ॥
त्वम् । ह॒ । नु । त्यत् । अ॒द॒म॒यः॒ । दस्यू॑न् । एकः॑ । कृ॒ष्टीः । अ॒व॒नोः॒ । आर्या॑य । अस्ति॑ । स्वि॒त् । नु । वी॒र्य॑म् । तत् । ते॒ । इ॒न्द्र॒ । न । स्वि॑त् । अ॒स्ति॒ । तत् । ऋ॒तु॒ऽथा । वि । वो॒चः॒ ॥
हे इन्द्र त्यत् स्यः स त्वम् । त्यदिति तच्छब्दपर्यायः । अत्र लिङ्गव्यत्ययः । दस्यून् कर्महीनान् जनान् नु क्षिप्रम् अदमयः दान्तानकरोः । हशब्दः पूरणार्थः । अपि च एक: मुख्यस्त्वं कृष्टीः पुत्रदासादीन् आर्याय कर्मकृते जनाय अवनोः अददाः । एवं स्तुवन्नप्यृषिरिन्द्रं यदा नाद्राक्षीत् तदा तस्य वीर्यसद्भावे विचिकित्समानः परार्धर्चमाह । हे इन्द्र ते तव यत् पूर्वमुक्तं तत् वीर्यं सामर्थ्यं स्विन्नु अस्ति । किं स्विद्भवति । स्विन्नु इति विचिकित्सायाम् । यद्वा नास्ति स्वित् । तत् बलम् ऋतुथा काले काले वि वोचः विशेषेण ब्रूहि ॥
“You are he who has quickly humbled the Dasyus; you are the chief one who has given posterity to the Arya;but, Indra, is not verily your power such? If it be not, then in due season confess.”
Thou, thou alone, hast tamed the Dasyus; singly thou hast subdued the people for the Arya.
In this, or is it not, thine hero exploit, Indra? Declare it at the proper season.
It was just you who tamed the Dasyus, and who alone vanquished (their) communities for the Ārya.
Does that heroic power now exist for you, Indra, or does it not? You will announce that at the proper season.
Du warst es, der da überwand die Fremden, allein die Stämme unterwarf dem Arjer, Ist wirklich dies dein Heldenwerk, o Indra? ist's nicht dein Werk? das künde nach der Wahrheit.
Du machtest da die Dasyu´s zahm, du allein gewannst für den Arier die Länder. Hast du denn noch diese Manneskraft, o Indra, oder hast du sie nicht? Das mögest du genau erklären.
Ты же только что приручил дасью,
Один покорил племена для ария.
Есть ли сейчас у тебя это мужество, Индра,
Или нет – провозгласи это совершенно ясно!
सदिद्धि ते॑ तुविजा॒तस्य॒ मन्ये॒ सह॑: सहिष्ठ तुर॒तस्तु॒रस्य॑ । उ॒ग्रमु॒ग्रस्य॑ त॒वस॒स्तवी॒योऽर॑ध्रस्य रध्र॒तुरो॑ बभूव ॥
सत् । इत् । हि । ते॒ । तु॒वि॒ऽजा॒तस्य॑ । मन्ये॑ । सहः॑ । स॒हि॒ष्ठ॒ । तु॒र॒तः । तु॒रस्य॑ । उ॒ग्रम् । उ॒ग्रस्य॑ । त॒वसः॑ । तवी॑यः । अर॑ध्रस्य । र॒ध्र॒ऽतुरः॑ । ब॒भू॒व॒ ॥
पूर्वमन्त्रे इन्द्रस्य बलसदसद्भावं संदिह्य अनया बलमस्त्येवेत्यवधारयन्नाह । हि यस्मादर्थे । हि यस्मात् कारणात् हे 'सहिष्ठ बलवत्तमेन्द्र तुविजातस्य बहुयज्ञेषु प्रादुर्भूतस्य तुरतः अस्मान् हिंसतः तुरस्य शत्रूणां हिंसितुर्बलवतो वा ते तव सहः बलं सदित् विद्यमानमेवाहं मन्ये। उग्रस्य ओजस्विनः तवसः प्रवृद्धस्य अरध्रस्य शत्रुभिर्वशीकर्तुमशक्यस्य । रधेर्वशीकरणार्थस्य रूपम् । रध्रतुरः वशीकरणीयानां सपत्नानां हिंसकस्य तव बलं बभूव भवत्येव । कीदृशम् । उग्रम् उद्गूर्णं तवीयः प्रवृद्धतरम् । यतस्त्वं वृत्रादीन् शत्रून् हंसि अतस्ते बलं विद्यत एवेत्यर्थः ॥
“Yet, most mighty one, I believe that powre is verily always in you, who are manifest at many rites, and are the enemy of (our) enemies; (the power) that is fierce in the fierce one, most mighty in the mighty one, most unassailable in the subduer (of foes).”
For true, I deem, thy strength is, thine the Mighty, thine, O Most Potent, thine the Conquering Victor;
Strong, of the strong, Most Mighty, of the mighty, thine, driver of the churl to acts of bounty.
It certainly does exist for you!—so I think: strength, o strongest one, (has come) to you, who were powerfully born, the surpassing surpasser— mighty (strength) has come to the mighty one, more powerful (strength) to the powerful one who, himself not feeble, furthers the feeble.
Dein ist's, so mein' ich, dein des vielgebornen, dir regem, raschem war, o stärkster, Stärke, Dem kräft'gen kräft'ge, mächtiger als Macht ist, der unermüdlich du den müden anregst.
Denn ich glaube, daß deine Macht wirklich ist, des Starkgeborenen, du Mächtiger, des überlegenen Meisters. Gewaltige Macht ward dem Gewaltigen, stärker als stark, dem nicht Schwachen, dem Schwachen Durchhelfenden.
Подлинной ведь я считаю у тебя, мощнорожденного,
(Эту) силу, о сильнейший, у прорывающегося мастера прорывов.
Грозная (власть) всегда была у грозного, сильнее сильной,
У неслабого, у спасающего слабого.
तन्न॑: प्र॒त्नं स॒ख्यम॑स्तु यु॒ष्मे इ॒त्था वद॑द्भिर्व॒लमङ्गि॑रोभिः । हन्न॑च्युतच्युद्दस्मे॒षय॑न्तमृ॒णोः पुरो॒ वि दुरो॑ अस्य॒ विश्वा॑: ॥
तत् । नः॒ । प्र॒त्नम् । स॒ख्यम् । अ॒स्तु॒ । यु॒ष्मे इति॑ । इ॒त्था । वद॑त्ऽभिः । व॒लम् । अङ्गि॑रःऽभिः । हन् । अ॒च्यु॒त॒ऽच्यु॒त् । द॒स्म॒ । इ॒षय॑न्तम् । ऋ॒णोः । पुरः॑ । वि । दुरः॑ । अ॒स्य॒ । विश्वाः॑ ॥
प्रत्नं पुराणम् । चिरकालानुवर्तीत्यर्थः । तत् प्रसिद्धं नः अस्मदीयं सख्यं स्तुत्यस्तोतृलक्षणं सखित्वं हे इन्द्र युष्मे युष्मासु अस्तु । पूजार्थं बहुवचनम् । हे अच्युतच्युत् अच्युतानामविचलितानां च्यावक हे दस्म दर्शनीयेन्द्र त्वम् इषयन्तम् आयुधानि प्रेरयन्तं वलम् एतन्नामानमसुरम् इत्था सत्यमेव वदद्भिः त्वां स्तुवद्भिः अङ्गिरोभिः सह हन् हतवानसि । अपि च अस्य वलस्य पुरः नगराणि वि ऋणोः व्यगमयः । वियुक्तान्यकार्षीरित्यर्थः । विश्वाः सर्वाः दुरः पुरीणां द्वारश्च व्यृणोः ॥ ॥ ४ ॥
“May that our ancient friendship with you ever endure; as when, along with the Aṅgirasas, celebrating your praises, you, beautiful Indra, caster down of the immoveable (roks), did verily slay Bala, hurling (his darts against you), and force open his cities, and all his gates.”
Be this our ancient bond of friendship with you and with Angirases here who speak of Vala.
Thou, Wondrous, Shaker of things firm, didst smite him in his fresh strength, and force his doors and castles.
“Let our age-old partnership with you (all) (still) exist,” with the Aṅgirases speaking in just this way—along with them
you smashed the prospering Vala cave, o wondrous shaker of the
unshakable, and you opened its strongholds and its doors, all of them.
Es sei mit euch uns diese alte Freundschaft; von Angiras besungen, schlugst, o hehrer, Den kräft'gen Vala du, o Allerschüttrer, erschlossest seine Burgen all und Thüren.
Das soll unsere alte Freundschaft mit euch sein", mit den ebenso sprechenden Angiras´ erschlugest du den die Kühe genießenden Vala, du das Unbewegliche bewegende Meister. Du schlossest seine Burgen, alle seine Tore auf.
Пусть будет у нас с вами эта старая дружба! –
С Ангирасами, говорящими таким образом, ты разбил
Валу, наслаждающегося (коровами), о удивительный сотрясатель несотрясаемого.
Ты раскрыл (его) крепости, все его врата.
स हि धी॒भिर्हव्यो॒ अस्त्यु॒ग्र ई॑शान॒कृन्म॑ह॒ति वृ॑त्र॒तूर्ये॑ । स तो॒कसा॑ता॒ तन॑ये॒ स व॒ज्री वि॑तन्त॒साय्यो॑ अभवत्स॒मत्सु॑ ॥
सः । हि । धी॒भिः । हव्यः॑ । अस्ति॑ । उ॒ग्रः । ई॒शा॒न॒ऽकृत् । म॒ह॒ति । वृ॒त्र॒ऽतूर्ये॑ । सः । तो॒कऽसा॑ता । तन॑ये । सः । व॒ज्री । वि॒त॒न्त॒साय्यः॑ । अ॒भ॒व॒त् । स॒मत्ऽसु॑ ॥
उग्रः ओजस्वी ईशानकृत् । स्तोतॄन् ईशानान् समर्थान् करोतीति ईशानकृत् । सः इन्द्रः महति प्रभूते वृत्रतूर्ये संग्रामे । वृत्रतूर्य इति संग्रामनामैतत् । धीभिः स्तोतृभिः स्तुतिभिर्वा हव्यः जयार्थिभिराह्वातव्यः अस्ति भवति । हिशब्दः पादपूरणः । तोकसाता तोकस्य पुत्रस्य सातौ लाभे निमित्ते तनये तत्पुत्रे निमित्ते सति सः इन्द्रः आह्वातव्योऽस्ति । वज्री वज्रवान् सः इन्द्रः समत्सु संग्रामेषु वितन्तसाय्यः विशेषेण विस्तार्यः स्तोत्रैर्वन्दनीयः अभवत् भवति । यद्वा वितन्तसाय्यः शत्रूणां हिंसकः । तन्तस इति धातुर्हिंसाकर्मा । तस्य कर्तरि रूपम् ॥
“Fierce Indra, maker of rules you are he who is to be invoked with praise in a great conflict; you are he (who is to be invoked) for sons and grandsons, he, the wielder of the thunderbolt, who is to be especially glorified in battles.”
With holy thoughts must he be called, the Mighty, showing his power in the great fight with Vrtra.
He must be called to give us seed and offspring, the Thunderer must he moved and sped to battle.
He is to be summoned with insightful thoughts—the mighty one who performs the master’s part in the great overcoming of Vr̥tra,
in the winning of progeny, in (the winning of) posterity. As the
mace-bearer he became worth tussling for in battles.
Denn durch Gebet lässt sich erflehn der hehre, der Herrschaft übt im grossen Vritrakampfe, Dass Kind und Enkel wir erlangen, ist er, der Blitzende, in Schlachten herzulocken.
Denn er ist mit Gebeten anzurufen, der Gewaltige, der Reichmacher, in der großen Feindeschlacht; er ward bei der Gewinnung von Samen, von leiblicher Nachkommenschaft, der Keulenträger in den Schlachten, der, um den man sich reißt.
Ведь его надо призывать молитвами, грозного,
Действующего как хозяин, во время великой битвы с врагами.
Он при завоевании потомства, продолжении рода, этот громовержец
В сражениях, был тем, кого надо рвать к себе с разных сторон.
स म॒ज्मना॒ जनि॑म॒ मानु॑षाणा॒मम॑र्त्येन॒ नाम्नाति॒ प्र स॑र्स्रे । स द्यु॒म्नेन॒ स शव॑सो॒त रा॒या स वी॒र्ये॑ण॒ नृत॑म॒: समो॑काः ॥
सः । म॒ज्मना॑ । जनि॑म । मानु॑षाणाम् । अम॑र्त्येन । नाम्ना॑ । अति॑ । प्र । स॒र्स्रे॒ । सः । द्यु॒म्नेन॑ । सः । शव॑सा । उ॒त । रा॒या । सः । वी॒र्ये॑ण । नृऽत॑मः । सम्ऽओ॑काः ॥
सः इन्द्रः अमर्त्येन विनाशरहितेन नाम्ना शत्रूणां नमयित्रा मज्मना बलेन । मज्मनेति बलनामैतत् । मानुषाणां मनुष्याणां जनिम जन्म । संघमित्यर्थः । अति प्र सर्रेुष अतिप्रपेदे । सः इन्द्रः द्युम्नेन यशसा समोकाः समानस्थानो भवति । किंच सः इन्द्रः शवसा बलेन समोका भवति । उत अपि च नृतमः नेतृतमः सः इन्द्रः राया धनेन वीर्येण सामर्थ्येन च समोका भवति ॥
“With immortal, foe-humiliating might he has promoted the (multiplied) birth of mankind; he, the chief of leaders, dwells in the same dwelling with fame, with strength, with riches, with heroism.”
He in his might, with name that lives for ever, hath far surpassed all human generations.
He, most heroic, hath his home with splendour, with glory and with riches and with valour.
Through his greatness and his immortal name he has extended himself over the races of the sons of Manu.
He is at home with brilliance and with power and wealth, and he, the best of men, with heroism—
Er dringt mit Macht hindurch durch die Geschlechter der Menschen mit unsterblichem Erscheinen, Mit schönem Gut, mit Stärke und mit Reichthum, mit Heldenkraft gepaart der männlich stärkste,
Mit seiner Mächtigkeit, seinem unsterblichen Namen überdauert er der Menschen Geschlechter. Er ist mit Glanz, mit Kraft und Reichtum, er mit Heldenmut gepaart, der Mannhafteste.
Он (своей) мощью, (своим) бессмертным именем
Пережил поколения людей.
Он блеском, он силой, а также богатством,
Он храбростью наделен, самый мужественный.
स यो न मु॒हे न मिथू॒ जनो॒ भूत्सु॒मन्तु॑नामा॒ चुमु॑रिं॒ धुनिं॑ च । वृ॒णक्पिप्रुं॒ शम्ब॑रं॒ शुष्ण॒मिन्द्र॑: पु॒रां च्यौ॒त्नाय॑ श॒यथा॑य॒ नू चि॑त् ॥
सः । यः । न । मु॒हे । न । मिथु॑ । जनः॑ । भूत् । सु॒मन्तु॑ऽनामा । चुमु॑रिम् । धुनि॑म् । च॒ । वृ॒णक् । पिप्रु॑म् । शम्ब॑रम् । शुष्ण॑म् । इन्द्रः॑ । पु॒राम् । च्यौ॒त्नाय॑ । श॒यथा॑य । नु । चि॒त् ॥
यः इन्द्रः न मुहे संग्रामे कदापि न मुह्यति । यश्च मिथु मिथ्या वृथा जनः जनयिता न भूत् न भवति किंतु सुमन्तुनामा प्रज्ञाननामा। प्रख्यातनामेत्यर्थः । सः इन्द्रः पुरां शत्रुसंबन्धिनीनां पुरीणां च्यौत्नाय च्यवनाय नाशनाय शयथाय शत्रूणां मरणाय च नृ चित् शीघ्रमेव कर्म कुरुत इति शेषः । तथा चुमुरिं धुनिं च एतन्नामकावसुरौ वृणक् अवृणक् हिंसितवान् । वृणक्तिर्हिंसाकर्मा । अपि च पिप्रुं शम्बरं शुष्णम् एतन्नामकान् त्रीनसुरान् हिंसितवान् ॥
“He who is never perplexed, who is no engenderer of that which is in vain, whose name is renowned, who promptly (exerts himself) for the overturning of the cities (of the asuras), and for the destruction (of his foes); you, (Indra), have indeed slain Cumuri, Dhuni, Pipru, Śambara, and Śuṣṇa.”
Stranger to guile, who ne'er was false or faithless, bearing a name that may be well remembered,
Indra crushed Cumuri, Dhuni, Sambara, Pipru, and Susna, that their castles fell in ruin.
He, the man who is not to be confused and is not wrong, bearing a name that is good to think upon. Cumuri and Dhuni
did Indra wring out, and Pipru, Śambara, and Śuṣṇa—to shake their strongholds and for (them) to lie there even now.
Zu schrecken nicht ist er, der Mann, noch falsch er, der wohlbekannte Indra stürzte Dhuni Und Tschumuri, Çambara, Pipru, Çuschna zur Burgzerschmettrung, ew'ger Niederlage.
Er, der nicht der Mann ist, welcher irren oder fehlen kann, dessen Namens man gern gedenkt, er hat den Cumuri und Dhuni - Indra rang mit Pipru, Sambara, Susna, um die Burgen zu erschüttern, daß sie für immer daliegen.
Он, который не ошибается, не (тот) муж, чтобы впасть в заблуждение,
(Он,) чье имя охотно вспоминают, (усыпил) Чумури и Дхуни.
Индра отринул Пипру, Шамбару, Шушну
Для сотрясения крепостей, чтобы они так и остались лежать.
उ॒दाव॑ता॒ त्वक्ष॑सा॒ पन्य॑सा च वृत्र॒हत्या॑य॒ रथ॑मिन्द्र तिष्ठ । धि॒ष्व वज्रं॒ हस्त॒ आ द॑क्षिण॒त्राभि प्र म॑न्द पुरुदत्र मा॒याः ॥
उ॒त्ऽअव॑ता । त्वक्ष॑सा । पन्य॑सा । च॒ । वृ॒त्र॒ऽहत्या॑य । रथ॑म् । इ॒न्द्र॒ । ति॒ष्ठ॒ । धि॒ष्व । वज्र॑म् । हस्ते॑ । आ । द॒क्षि॒ण॒ऽत्रा । अ॒भि । प्र । म॒न्द॒ । पु॒रु॒ऽद॒त्र॒ । मा॒याः ॥
हे इन्द्र उदवता उद्गच्छता । अवतिरत्र गतिकर्मा । त्वक्षसा शत्रूणां तनूकर्त्रा पन्यसा स्तुत्यतरेण' बलेन युक्तस्त्वं वृत्रहत्याय शत्रुहननाय स्वकीयं रथं च तिष्ठ आरोह । तथा दक्षिणत्रा दक्षिणे हस्ते पाणौ वज्रं स्वकीयमायुधम् आ धिष्व आधत्स्व । तदनन्तरं हे पुरुदत्र बहुधनेन्द्र त्वमासुरीः मायाः अभि अभिगम्य प्र मन्द प्रकर्षेण जहि । अत्र मन्दतिर्वधकर्मा ॥
“(Endowed) with upward-rising, foe-thinning, and glorified (vigour), ascend your car for the destruction of Vṛtra; take the thunderbolt in your right hand, giver of wealth, baffle the devices (of the asuras).”
With saving might that must be praised and lauded, Indra, ascend thy car to smite down Vrtra.
In thy right hand hold fast thy bolt of thunder, and weaken, Bounteous Lord, his art and magic.
With your helpful energy, (ever) more to be admired, up and mount your chariot, Indra, for the Vr̥tra-smashing.
Place your mace in your hand on the right side. Stimulate your magical powers, o you who give much.
Mit hülfereicher, wunderbarer Thatkraft besteige du zur Vritraschlacht den Wagen; Nimm in die rechte Hand den Blitz, o Indra, die Zauberkünste tilge vielgewährend.
Mit helfender und löblicher Tatkraft besteige zur Feindeschlacht den Wagen, Indra! Nimm die Keule in die rechte Hand, zieh aus gegen die Blendwerke, du Gabenreicher!
(Ты) с (твоей) приводящей в движение и удивительной способностью действовать
Взойди, о Индра, на колесницу для убийства Вритры!
Вложи ваджру в правую руку,
Вдохнови нас против колдовских чар, о многодающий!
अ॒ग्निर्न शुष्कं॒ वन॑मिन्द्र हे॒ती रक्षो॒ नि ध॑क्ष्य॒शनि॒र्न भी॒मा । ग॒म्भी॒रय॑ ऋ॒ष्वया॒ यो रु॒रोजाध्वा॑नयद्दुरि॒ता द॒म्भय॑च्च ॥
अ॒ग्निः । न । शुष्क॑म् । वन॑म् । इ॒न्द्र॒ । हे॒ती । रक्षः॑ । नि । ध॒क्षि॒ । अ॒शनिः॑ । न । भी॒मा । ग॒म्भी॒रया॑ । ऋ॒ष्वया॑ । यः । रु॒रोज॑ । अध्व॑नयत् । दुः॒ऽइ॒ता । द॒म्भय॑त् । च॒ ॥
अग्निर्न अग्निरिव । नशब्द उपमार्थीयः । यथाग्निः शुष्कं नीरसं वनं वृक्षसमूहं दहति हे इन्द्र हेतिः त्वदीयं वज्रं तद्वच्छत्रून् नाशयति । तदेवाह । अशनिर्न भीमा । यथाशनिर्भीमा भवति तद्वद्भयंकरस्त्वं रक्षः राक्षसं नि धक्षि वज्रेण नितरां दह । यः इन्द्रः गम्भीरया शत्रुभिरधर्षणीयया ऋष्वया महत्या । अश्व इति महन्नामैतत् । हेत्या रुरोज शत्रून् बभञ्ज। अध्वनयत् युद्धे गर्जनलक्षणं शब्दं करोति च । तथा दुरिता दुरितानि दम्भयच्च भिनत्ति च । स त्वं रक्षो नि धक्षीति पूर्वेणान्वयः ॥ ॥ ५ ॥
“In like manner as Agni consumes the dry forest, so, Indra, your weapon (destroys your enemies); as (formidable as you) fearful shaft, consume the rākṣasas; you who have shouted aloud (in the combat) and demolished all evil things.”
As Agni, as the dart burns the dry forest, like the dread shaft burn down the fiends, O Indra;
Thou who with high deep-reaching spear hast broken, hast covered over mischief and destroyed it.
As fire does dry wood, like a terrifying missile burn down the demon with your lance, o Indra.
He who shattered the obstacles to progress with a (lance) both deep and high, he smoked them out and subjugated them.
Wie Glut das dürre Holz, verbrenn, o Indra, wie grauser Blitz mit heissem Speer die Geister, Der du mit hohem Spiess, der tief hinabreicht, Unheil zerbrachst, austilgtest und zerstörtest.
Wie das Feuer das trockene Gehölz, so brenn, o Indra, mit deinem Geschoß den bößen Geist nieder, wie der furchtbare Blitzstrahl! Er, der die Burgen mit dumpfer, mit hoher Stimme gebrochen hat, er räucherte die Schlupfwinkel aus und überrumpelte sie.
Словно Агни – сухое дерево, о Индра, (своим) метательным оружием
Испепели ракшаса, словно страшная стрела молнии!
(Тот,) кто рушил (крепости то) низким, (то) высоким (раскатом грома),
Заставил затрещать вместилище зла и подавил (их).
आ स॒हस्रं॑ प॒थिभि॑रिन्द्र रा॒या तुवि॑द्युम्न तुवि॒वाजे॑भिर॒र्वाक् । या॒हि सू॑नो सहसो॒ यस्य॒ नू चि॒ददे॑व॒ ईशे॑ पुरुहूत॒ योतो॑: ॥
आ । स॒हस्र॑म् । प॒थिऽभिः॑ । इ॒न्द्र॒ । रा॒या । तुवि॑ऽद्युम्न । तु॒वि॒ऽवाजे॑भिः । अ॒र्वाक् । या॒हि । सू॒नो॒ इति॑ । स॒ह॒सः॒ । यस्य॑ । नु । चि॒त् । अदे॑वः । ईशे॑ । पु॒रु॒ऽहू॒त॒ । योतोः॑ ॥
हे तुविद्युम्न बहुधन हे सहसः सूनो बलस्य पुत्र इन्द्र । ' ओजसो जातमुत मन्य एनम्' (ऋ. सं. १०. ७३. १०) इति निगमान्तरे बलपुत्रत्वं सिद्धम् । राया धनेन युक्तस्त्वं सहस्रं सहस्रेण । बहुभिरित्यर्थः । तुविवाजेभिः बहुबलैः पथिभिः । पतन्ति गच्छन्त्यमीभिरिति पन्थानो वाहाः । तैः अर्वाक् मदभिमुखः सन् आ याहि आगच्छ । हे पुरुहूत बहुभिराहूतेन्द्र यस्य तव योतोः बलादिभिः पृथक्कर्तुं अदेवः कश्चिदसुरः नू चित् ईशे नेष्टे । अत्र नू चिदिति निषेधार्थे वर्तते ॥
“Opulent, Indra, son of strength, the invoker of many, whose union (with energy) the impious is unable to disjoint, come down to us with thousands of riches by very powerful conveyances.”
With wealth, by thousand paths come hither, Agni, paths that bring ample strength, O thou Most Splendid.
Come, Son of Strength, o'er whom, Invoked of many! the godless hath no power to keep thee distant.
Along a thousand paths affording powerful prizes, o powerfully brilliant Indra, drive here in our direction with wealth,
o much summoned son of strength, whom a godless man never has the power to repel.
Komm her auf tausend segensreichen Pfaden mit reichem Gut, o güterreicher Indra, Komm, Sohn der Kraft, dem kein Gottloser jemals zu widerstehn vermochte, vielgerufner.
Komm herwärts, Indra, auf tausend Wegen, die viel Gewinn bringen, mit Reichtum, du Glanzreicher, du Sohn der Stärke, Vielgerufener, den niemals ein Ungott abzuwehren vermag!
Тысячью путей, о Индра, таящих большую награду,
О ты с большим блеском, приди в наши края с богатством,
О сын силы, которого никогда (тот, кто)
Не-бог не способен удержать, о многопризываемый!
प्र तु॑विद्यु॒म्नस्य॒ स्थवि॑रस्य॒ घृष्वे॑र्दि॒वो र॑रप्शे महि॒मा पृ॑थि॒व्याः । नास्य॒ शत्रु॒र्न प्र॑ति॒मान॑मस्ति॒ न प्र॑ति॒ष्ठिः पु॑रुमा॒यस्य॒ सह्यो॑: ॥
प्र । तु॒वि॒ऽद्यु॒म्नस्य॑ । स्थवि॑रस्य । घृष्वेः॑ । दि॒वः । र॒र॒प्शे॒ । म॒हि॒मा । पृ॒थि॒व्याः । न । अ॒स्य॒ । शत्रुः॑ । न । प्र॒ति॒ऽमान॑म् । अ॒स्ति॒ । न । प्र॒ति॒ऽस्थिः । पु॒रु॒ऽमा॒यस्य॑ । सह्योः॑ ॥
तुविद्युम्नस्य बहुयशसो बहुधनस्य वा स्थविरस्य प्रवृद्धस्य घृष्वेः शत्रूणां घर्षकस्येन्द्रस्य महिमा महत्त्वं दिवः द्युलोकात् पृथिव्याः भूमेश्च प्र ररप्शे प्ररिरिचे । विरप्शीति महन्नामसु पाठात् नाम्नां च प्रायेण धातुजन्यत्वात् रप्शतिरत्रातिशयवाची । पुरुमायस्य बहुप्रज्ञस्य सह्योः शत्रूणामभिभवितुः अस्य इन्द्रस्य शत्रुः शातयिता न अस्ति । प्रतिमानं प्रतिनिधिः न अस्ति । अस्य प्रतिष्ठिः प्रतिष्ठाश्रयः न अस्ति । स एव सर्वस्य प्रतिष्ठेत्यर्थः ॥
“The vastness of the affluent, ancient (Indra), the demolisher (of foes), exceeds that of the heaven and the earth; there is no antagonist, no counterpart, no recipient of him abounding in wisdom, victorious (in war).”
From heaven, from earth is bruited forth the greatness of him the firm, the fiery, the resplendent.
No foe hath he, no counterpart, no refuge is there from him the Conqueror full of wisdom
The greatness of the powerfully brilliant, stalwart, ardent one has overflowed from heaven and earth.
There exists no rival for him, nor counterpart, no opponent for the
strong one with many magical powers.
Weit über Erd' und Himmel ragt die Grösse des wilderregten, tapfern, güterreichen; Kein Feind ist ihm gewachsen, nichts vergleichbar, kein Widerstand dem sehr gewandten Sieger.
Des Glanzreichen, Stattlichen, Freudigen Größe wächst über Himmel und Erde hinaus. Nicht hat er einen Bemeisterer, nicht einen Ebenbürtigen, nicht einen, der dem Listenreichen, Sieghaften standhält.
У (него) с большим блеском, могучего, радостного
Мощь перерастает небо (и) землю.
Нет на него врага, нет (ему) равного,
Нет удержу сильному, многохитрому.
प्र तत्ते॑ अ॒द्या कर॑णं कृ॒तं भू॒त्कुत्सं॒ यदा॒युम॑तिथि॒ग्वम॑स्मै । पु॒रू स॒हस्रा॒ नि शि॑शा अ॒भि क्षामुत्तूर्व॑याणं धृष॒ता नि॑नेथ ॥
प्र । तत् । ते॒ । अ॒द्य । कर॑णम् । कृ॒तम् । भू॒त् । कुत्स॑म् । यत् । आ॒युम् । अ॒ति॒थि॒ऽग्वम् । अ॒स्मै॒ । पु॒रु । स॒हस्रा॑ । नि । शि॒शाः॒ । अ॒भि । क्षाम् । उत् । तूर्व॑याणम् । धृ॒ष॒ता । नि॒ने॒थ॒ ॥
अद्य इदानीमपि हे इन्द्र ते त्वया कृतं करणं तत्कर्म प्र भूत् प्रभवति प्रकाशते । किं तदित्युच्यते । कुत्सं शुष्णात् राक्षसादेतन्नामानमृषिं च आयुं शत्रुभ्यः सकाशात् एतत्संज्ञकं पौरूरवसम् अतिथिग्वम् अतिथीनामभिगन्तारं दिवोदासं च शम्बरात् ररक्षिथेति यत् करणं तत् प्रभवतीति पूर्वेण संबन्धः । ररक्षिथेति द्वितीयाश्रुतेरुचितक्रियाध्याहारः । अपि च अस्मै अनन्तरोक्ताय अतिथिग्वाय पुरु पुरूणि बहूनि सहस्रा सहस्राणि शम्बरस्य धनानि नि शिशाः अददाः । इन्द्रः शम्बरं हत्वा तस्य धनानि दिवोदासाय ददावित्यर्थः । तथा हे इन्द्र त्वं धृषता धर्षणेन त्वदीयेन वज्रेण शम्बरं हत्वा क्षां पृथिवीम् अभि अभिलक्ष्य पृथिव्यां वर्तमानं तूर्वयाणं त्वरितगमनं दिवोदासम् उत् निनेथ आपद्य्अ उदगमयः ॥
“That exploit is celebrated in the present day (which you have) achieved for Kutsa, for Āyu, for Atithigvave; to him you have given many thousands (of riches), and you have quickly elevated Turvayāṇa over the earth by your power.”
This day the deed that thou hast done is famous, when thou, for him, with many thousand others
Laidest low Kutsa, Ayu, Atithigva, and boldly didst deliver Turvayana.
This deed done by you stands out today—that for his sake
[=Tūrvayāṇa’s?] (you ground down) Kutsa, Āyu, and Atithigva;
many thousands did you grind down to earth. You led Tūrvayāṇa up boldly.
Heut steh voran dies Werk, das du vollbrachtest, dass du den Kutsa, Aju, Atithigwa Zu Boden strecktest viele tausend diesem Turvajana und kühn heraus ihn führtest.
Dieses dein getanes Werk soll noch heute gelten, daß du ihm den Kutsa, Ayu, Atithigva überantwortetest. Viele Tausende stachst du zu Boden; dem Turvayana hast du mutig herausgeholfen.
Пусть будет отмечено сегодня то совершенное тобою деяние,
Что Кутсу, Аю (и) Атитхигву (ты) ему (отдал).
Много тысяч (врагов) ты пригвоздил к земле.
Смело выручил ты Турваяну.
अनु॒ त्वाहि॑घ्ने॒ अध॑ देव दे॒वा मद॒न्विश्वे॑ क॒वित॑मं कवी॒नाम् । करो॒ यत्र॒ वरि॑वो बाधि॒ताय॑ दि॒वे जना॑य त॒न्वे॑ गृणा॒नः ॥
अनु॑ । त्वा॒ । अहि॑ऽघ्ने । अध॑ । दे॒व॒ । दे॒वाः । मद॑न् । विश्वे॑ । क॒विऽत॑मम् । क॒वी॒नाम् । करः॑ । यत्र॑ । वरि॑वः । बा॒धि॒ताय॑ । दि॒वे । जना॑य । त॒न्वे॑ । गृ॒णा॒नः ॥
हे देव द्योतमानेन्द्र त्वा त्वाम् अध अस्मिन् काले विश्वे सर्वे देवाः स्तोतारः अहिघ्ने मेघहननाय । वृष्टिप्रदानायेत्यर्थः । अनु मदन् अनुमदन्ति अनुस्तुवन्ति । कीदृशं त्वाम् । कवीनां मेधाविनां मध्ये कवितमम् अत्यन्तं कविम् । यत्र यस्मिन् काले गृणानः स्तोतृभिः स्तूयमानस्त्वं बाधिताय दारिद्र्यादिभिः पीडिताय दिवे स्तोत्रे जनाय तन्वे स्तोतॄणां तनयाय च वरिवः धनं करः अकरोः अददाः । अथवा हे देवेन्द्र अधास्मिन् काले विश्वे सर्वे देवाः सुराः । अहिर्वृत्र एवोच्यते । तस्य हननाय कवीनां कवितमं त्वामनुमदन्ति । यत्र यस्मिन् स्तोत्रे सति बाधिताय असुरैः पीडिताय दिवे द्युलोकनिवासाय जनाय तन्वे शोभायै वृत्रहननेन तव शोभार्थं वरिवश्चकर्थ ॥
“Divine Indra, all the gods have glorified you, the wisest of the wise, for the destruction of Ahi; when propitiated, you have given wealth to the distressed worshipper, and to his posterity.”
In thee, O God, the wisest of the Sages, all Gods were joyful when thou slewest Ahi.
When lauded for thyself, thou gavest freedom to sore-afflicted Heaven and to the people.
Then, o god, all the gods cheer you on for the serpent-smashing, (you) the best poet of poets,
when you will create wide space for oppressed heaven, for its people and for yourself as you are being sung.
Da jauchzten dir, o Gott, die Götter alle, der klugen klügstem zu, o Drachentödter, Als dem bedrängten Rettung du verschafftest, dem Volk, dem Himmel und dir selbst, gepriesner.
Da jubelten alle Götter dir, o Gott, dem Weisesten der Weisen im Drachenkampf zu, in dem du gepriesen dem bedrängten Himmel, dem Volke, dir selbst einen Ausweg schufest.
А при убийстве змея тобой восторгались
Все боги, о бог, мудрейший из мудрых.
Когда ты, воспетый, создал широкий выход
Для угнетенного: для неба, для народа, для себя.
अनु॒ द्यावा॑पृथि॒वी तत्त॒ ओजोऽम॑र्त्या जिहत इन्द्र दे॒वाः । कृ॒ष्वा कृ॑त्नो॒ अकृ॑तं॒ यत्ते॒ अस्त्यु॒क्थं नवी॑यो जनयस्व य॒ज्ञैः ॥
अनु॑ । द्यावा॑पृथि॒वी इति॑ । तत् । ते॒ । ओजः॑ । अम॑र्त्याः । जि॒ह॒ते॒ । इ॒न्द्र॒ । दे॒वाः । कृ॒ष्व । कृ॒त्नो॒ इति॑ । अकृ॑तम् । यत् । ते॒ । अस्ति॑ । उ॒क्थम् । नवी॑यः । ज॒न॒य॒स्व॒ । य॒ज्ञैः ॥
हे इन्द्र ते त्वदीयं तत् प्रसिद्धम् ओजः बलं द्यावापृथिवी अनु जिहाते । अमर्त्याः अमरणधर्माणः देवाः त्वदीयं बलमनु जिहते अनुगच्छन्ति । हे कृत्नो बहूनां कर्मणां कर्तः ते त्वदीयम् अकृतं यत् कर्म अस्ति तत् कृष्व कुरुष्व । तदनन्तरं यज्ञैः यज्ञेषु नवीयः नवतरम् उक्थं स्तोत्रं जनयस्व ॥ ॥ ६ ॥
“The heaven and earth, and the immortal gods, acknowledge your might; doer of many deeds, do that which is yet undone by you, give birth to a new hymn at (your) sacrifice.”
This power of thine both heaven and earth acknowledge, the deathless Gods acknowledge it, O Indra.
Do what thou ne'er hast done, O Mighty Worker: beget a new hymn at thy sacrifices.
Heaven and Earth and the immortal gods give way to your
might, Indra.
Do, o doer, what undone (deed) exists for you (to do). Generate a newer hymn for yourself along with sacrifices.
Es gaben, Indra, dieser deiner Stärke die ew'gen Götter, Himmel nach und Erde; O thue, thät'ger, was noch ungethan ist, erzeuge neues Lob dir durch die Opfer.
Dieser deiner Stärke fügen sich Himmel und Erde und die unsterblichen Götter, o Indra. Vollbring, du Vollbringer, was dir noch unvollbracht ist; schaff dir neuen Preis mit Opfern!
Этой силе твоей Небо-и-Земля
Поддались (и) бессмертные боги, о Индра.
Исполни, о исполнитель, неисполненное, что есть у тебя!
Создай себе новую хвалу с жертвоприношениями!