त्वं हि क्षैत॑व॒द्यशोऽग्ने॑ मि॒त्रो न पत्य॑से । त्वं वि॑चर्षणे॒ श्रवो॒ वसो॑ पु॒ष्टिं न पु॑ष्यसि ॥
त्वम् । हि । क्षैत॑ऽवत् । यशः॑ । अग्ने॑ । मि॒त्रः । न । पत्य॑से । त्वम् । वि॒ऽच॒र्ष॒णे॒ । श्रवः॑ । वसो॒ इति॑ । पु॒ष्टिम् । न । पु॒ष्य॒सि॒ ॥
हे अग्ने त्वं हि त्वं खलु क्षैतवत् । क्षितिः क्षयोऽपचयः । तत्संबन्धि क्षैतं शुष्कं काष्ठम् । तद्युक्तं यशः अन्नं हविर्लक्षणं पत्यसे अभिपतसि गच्छसि । तत्र दृष्टान्तः । मित्रो न । अहरभिमानी देवो मित्रः । स इव । यद्वा यश इति गृहनाम । क्षैतवत् । क्षैतं निवासकं हविर्लक्षणमन्नम् । तद्युक्तं यजमानगृहं मित्रभूतः पुरुष इवाभिपतसि । यद्वा पत्यतिरैश्वर्यकर्मा । ईदृशमन्नं पत्यसे ईशिषे । अतः कारणात् हे विचर्षणे विशेषेण सर्वस्य द्रष्टः वसो वासकाग्ने त्वं श्रवः श्रवणीयमन्नं यजमानगृहस्थं न । अयं नशब्दश्चार्थे । अन्नकार्यभूतां पुष्टिं च पुष्यसि वर्धयसि ॥
“You alight, Agni, like Mitra, upon the oblation offered with the dry fuel; therefore, beholder of all, possessor of riches, you cherish us with food and nourishment.”
THOU, Agni, even as Mitra, hast a princely glory of thine own.
Thou, active Vasu, makest fame increase like full prosperity.
You, o Agni, like Mitra are indeed master of the glory belonging to the settlements.
You prosper fame like prosperity, o good one without boundaries.
Du, Agni, hast, dem Mitra gleich, zu eigen königliche Zier, O guter, Ruhm entfaltest du, allweiser, einer Blume gleich.
Du, Agni, besitzest ja volkstümliches Ansehen gleich Mitra dem Bundesfreund; du Ausgezeichneter mehrest deinen Ruhm, du Guter, wie man seinen Wohlstand mehrt.
Ведь ты, о Агни, обладаешь достоинством,
Свойственным вождю, словно Митра.
Ты, о распространившийся среди народов, делаешь так, что слава
Процветает, как (вызывают) процветание (богатства), о Васу.
त्वां हि ष्मा॑ चर्ष॒णयो॑ य॒ज्ञेभि॑र्गी॒र्भिरीळ॑ते । त्वां वा॒जी या॑त्यवृ॒को र॑ज॒स्तूर्वि॒श्वच॑र्षणिः ॥
त्वाम् । हि । स्म॒ । च॒र्ष॒णयः॑ । य॒ज्ञेभिः॑ । गीः॒ऽभिः । ईळ॑ते । त्वाम् । वा॒जी । या॒ति॒ । अ॒वृ॒कः । र॒जः॒ऽतूः । वि॒श्वऽच॑र्षणिः ॥
हे अग्ने त्वां हि स्म त्वामेव खलु चर्षणयः मनुष्याः यज्ञेभिः यज्ञसाधनैर्हविभिः गीर्भिः स्तुतिभिः ईळते स्तुवन्ति । अपि च वाजी । वाजो गमनम् । तद्वान् सूर्यः त्वां याति गच्छति । प्रविशतीत्यर्थः । तथा च श्रूयते – 'अग्निं वावादित्यः सायं प्रविशति तस्मादग्निर्दूरान्नक्तं ददृशे ' (तै. ब्रा. २.१.२.९ ) इति । वाजिशब्दश्च सूर्यवाचकत्वेन क्वचित् श्रूयते - अग्निर्वायुः सूर्यस्ते वै वाजिनः' (तै.. ब्रा. १. ६. ३. ९) इति ‘वायुः सप्तिरादित्यो वाजी' ( तै. ब्रा, १.३.६ ) इति च । कीदृशो वाजी । अवृकः हिंसकरहितः रजस्तूः । उदकमत्र रज उच्यते । तस्य वृष्टिलक्षणस्य प्रेरयिता । यद्वा । रजसां लोकानां तरिता गन्ता विश्वचर्षणिः सर्वस्य द्रष्टा ॥
“Men verily worship you with sacrifice and with praises; the inoffensive sun, the sender of rain, the beholder of the universe, proceeds to you.”
For, verily, men pray to thee with sacrifices and with songs.
To thee the Friendly Courser, seen of all, comes speeding through the air.
It is you then that the boundaried domains reverently invoke, with sacrifices and with hymns;
to you drives the prizewinning (horse), avoiding the wolf, crossing (the mid)space, the one common to all the boundaried domains.
Denn dich ja ehrt der Menschen Schar mit Liedern und mit Opfern hoch; Zu dir geht hin das Segensross, die, Luft durchdringend, allen hold.
Denn dich rufen die Leute mit Opfergebeten und Lobreden an, zu dir kommt das Siegesroß, das dem Wolf entgeht und weite Strecken zurücklegt, das in allen Landen bekannt ist.
Ведь это тебя народы
Призывают жертвами и песнями.
К тебе несется конь, завоевывающий награды, надежный,
Пересекающий пространство, принадлежащий всем народам.
स॒जोष॑स्त्वा दि॒वो नरो॑ य॒ज्ञस्य॑ के॒तुमि॑न्धते । यद्ध॒ स्य मानु॑षो॒ जन॑: सुम्ना॒युर्जु॒ह्वे अ॑ध्व॒रे ॥
स॒ऽजोषः॑ । त्वा॒ । दि॒वः । नरः॑ । य॒ज्ञस्य॑ । के॒तुम् । इ॒न्ध॒ते॒ । यत् । ह॒ । स्य । मानु॑षः । जनः॑ । सु॒म्न॒ऽयुः । जु॒ह्वे । अ॒ध्व॒रे ॥
हे अग्ने सजोषः सजोषसः सह प्रीयमाणाः दिवः स्तुतेः नरः नेतार ऋत्विजः यज्ञस्य केतुं प्रज्ञापकं त्वा त्वाम् इन्धते समिद्धं कुर्वन्ति । कदेति चेदुच्यते । यद्ध यदा खलु स्यः सः मानुषः मनोरपत्यभूतः जनः जातो यजमानो होता वा सुम्नायुः सुम्नं सुखमात्मन इच्छन् अध्वरे हिंसाप्रत्यवायरहिते यज्ञे जुह्वे त्वामाह्वयति तदेत्यर्थः ॥
“The offerers of praise, sympathizing in satisfaction, kindle you the banner of the sacrifice, when man, the descendant of Manu, desiring happiness, invokes you to the rite.”
Of one accord men kindle thee Heaven's signal of the sacrifice,
When, craving bliss, this race of man invites thee to the solemn rite.
In concert the men of heaven kindle you as beacon of the sacrifice, when the human race here, seeking favor, has called upon (you) in the ceremony.
Des Himmels Männer zünden dich, des Opfers Licht, vereinigt an, Sobald das menschliche Geschlecht beim Feste opfert liebevoll.
Dich, das Wahrzeichen des Opfers, entflammen einträglich die Mannen des Himmels, wenn dieses Menschenkind deine Gunst begehrend im Gottesdienst opfert.
Единодушно мужи неба
Зажигают тебя, как знамя жертвы,
Когда этот род человеческий,
Ищущий (твоей) милости, совершает жертвенное возлияние при обряде.
ऋध॒द्यस्ते॑ सु॒दान॑वे धि॒या मर्त॑: श॒शम॑ते । ऊ॒ती ष बृ॑ह॒तो दि॒वो द्वि॒षो अंहो॒ न त॑रति ॥
ऋध॑त् । यः । ते॒ । सु॒ऽदान॑वे । धि॒या । मर्तः॑ । श॒शम॑ते । ऊ॒ती । सः । बृ॒ह॒तः । दि॒वः । द्वि॒षः । अंहः॑ । न । त॒र॒ति॒ ॥
ऋधत् । स यजमान ऋध्नुयात् हे अग्ने सुदानवे शोभनदानाय तुभ्यम् ॥ षष्ठ्यर्थं चतुर्थी ॥ तव संबन्धिना धिया कर्मणा यः मर्तः मरणधर्मा यजमानः शशमते शाम्यति । यद्वा । शमतिः स्तुतिकर्मा । त्वदर्थं कर्मणा युक्तः सन् स्तौति । सः यजमानः बृहतः महतः दिवः दीप्तस्य तव संबन्धिन्या ऊती ऊत्या रक्षया द्विषः द्वेष्टॄन् अंहो न आहननशीलं पापमिव तरति अतिक्रामति ॥
“May the mortal prosper who propitiates you (his) benefactor, by holy rites; through the protection of you who are resplendent, he overcomes those who hate him, as if they were mortal sins.”
Let the man thrive who travails sore, in prayer, far thee the Bountiful.
He with the help of lofty Dyaus comes safe through straits of enmity.
The mortal who will bring (the sacrifice) to fulfillment with his insight and will perform ritual labor for you of good gifts,
with the help of lofty heaven he crosses hatreds like narrow straits.
Der Mann gedeihet, welcher dir, dem reichen, dienet andachtsvoll; Er, durch des grossen Himmels Schutz, durchsetzt den Feind wie eine Schlucht.
Der Sterbliche, der es dir, dem Gabenschönen, recht macht und mit Andacht den Dienst versieht, der kommt durch die Gnade des hohen Himmels über die Anfeindungen wie über die Not hinweg.
Смертный, который удачно трудится с помощью молитвы
Для тебя, обладающего прекрасными дарами, –
Благодаря поддержке высокого неба
Он пересекает проявления враждебности, словно узкое место.
स॒मिधा॒ यस्त॒ आहु॑तिं॒ निशि॑तिं॒ मर्त्यो॒ नश॑त् । व॒याव॑न्तं॒ स पु॑ष्यति॒ क्षय॑मग्ने श॒तायु॑षम् ॥
स॒म्ऽइधा॑ । यः । ते॒ । आऽहु॑तिम् । निऽशि॑तिम् । मर्त्यः॑ । नश॑त् । व॒याऽव॑न्तम् । सः । पु॒ष्य॒ति॒ । क्षय॑म् । अ॒ग्ने॒ । श॒तऽआ॑युषम् ॥
हे अग्ने, समिधा समिन्धनहेतुभूतेनेध्मेन सह ते त्वदीयां निशितिं निशितां तनूकृतां मन्त्रसंस्कृताम् आहुतिं यः मर्त्यः मनुष्यः नशत् व्याप्नुयात् । नशतिर्व्याप्तिकर्मा । सः मनुष्यो यजमानः वयावन्तम् । वयाः शाखाः पुत्रपौत्रादिलक्षणाः । तद्युक्तं शतायुषं बहुविधान्नं चिरकालजीवनं वा क्षयं गृहं पुष्यति पोषयति वर्धयति । तत्र चिरकालमवतिष्ठत इत्यर्थः ॥ ॥ १ ॥
“The mortal who feeds your consecrated burnt offering with fuel enjoys, Agni, a dwelling peopled with descendants, and a life of a hundred years.”
The mortal who with fuel lights thy flame and offers unto thee,
Supports a house with many a branch, Agni, to live a hundred years.
The mortal who after kindling (you) will achieve the offering to you and the whetting of you,
he prospers his dwelling place, (so that it has many) branches and
hundred(-year) lifespans, o Agni.
Der Mann, der durch Entzünden dir des Opfers Guss und Glut verschafft, Der erntet nahrungsreichen Sitz, und, Agni, hundertfache Kraft.
Welcher Sterbliche es fertig gebracht hat, dir mit Brennholz zu opfern um dich anzufachen, der mehrt sein Haus, daß es sich weit verzweigt und man hundert Jahre lebt, o Agni.
Смертный, который с помощью дров (для костра)
Успешно приносит тебе возлияние и раздувает (тебя), -
Он добивается процветания (своего) дома, о Агни,
Так что тот ветвится и живет сто лет.
त्वे॒षस्ते॑ धू॒म ऋ॑ण्वति दि॒वि षञ्छु॒क्र आत॑तः । सूरो॒ न हि द्यु॒ता त्वं कृ॒पा पा॑वक॒ रोच॑से ॥
त्वे॒षः । ते॒ । धू॒मः । ऋ॒ण्व॒ति॒ । दि॒वि । सन् । शु॒क्रः । आऽत॑तः । सूरः॑ । न । हि । द्यु॒ता । त्वम् । कृ॒पा । पा॒व॒क॒ । रोच॑से ॥
हे अग्ने त्वेषः दीप्तस्य ते तव शुक्रः निर्मलः शुभ्रवर्णो वा धूमः दिवि अन्तरिक्षे आततः विस्तीर्णः सन् ऋण्वति मेघात्मना परिणतो गच्छति । अपि च हे पावक शोधकाग्ने सूरो न सूर्य इव कृपा अभिमुखीकरणसमर्थया स्तुत्या स्तूयमानः त्वं द्युता दीप्त्या रोचसे हि दीप्यसे खलु ॥
“The pure smoke of you the resplendent spreads through the firmament, matures (in clouds), and you, the purifier, shine with radiance like the sun, when propitiated by praise.”
Thy bright smoke lifts itself aloft, and far-extended shines in heaven.
For, Purifier! like the Sun thou beamest with thy radiant glow.
Your smoke, when it is in heaven, is turbulent in motion, stretched out (there) gleaming,
for you shine with your body, o pure one, like the sun with its brilliance.
Es wirbelt auf dein heller Rauch am Himmel leuchtend, ausgedehnt; Denn du erstrahlst, o Flammender, an Glanz und Ansehn sonnengleich.
Heftig steigt dein Rauch auf, hell sich ausbreitend, wenn er am Himmel ist, denn wie die Sonne in ihrem Glanz, so leuchtest du in deiner Schönheit, du Lauterer.
Вздымается твой грозный дым,
Светло распространяясь, когда он на небе:
Ведь словно солнце сиянием,
Светишь ты (своим) обликом, о очищающий!
अधा॒ हि वि॒क्ष्वीड्योऽसि॑ प्रि॒यो नो॒ अति॑थिः । र॒ण्वः पु॒री॑व॒ जूर्य॑: सू॒नुर्न त्र॑य॒याय्य॑: ॥
अध॑ । हि । वि॒क्षु । ईड्यः॑ । असि॑ । प्रि॒यः । नः॒ । अति॑थिः । र॒ण्वः । पु॒रिऽइ॑व । जूर्यः॑ । सू॒नुः । न । त्र॒य॒याय्यः॑ ॥
अध अपि च विक्षु प्रजासु हे अग्ने त्वम् ईड्यः स्तुत्यः असि भवसि । हि यस्मादर्थे । यस्मादेवं तस्मात् नः अस्माकम् 'अतिथिः । लुप्तोपममेतत् । अतिथिरिव प्रियः असि । यद्वा । हविर्वहनाय सततगामी भूत्वास्माकं प्रियोऽसि । तथा पुरीव नगर्यां जूर्यः जीर्णो वृद्धो हितोपदेष्टा राजेव रण्वः रमणीयो गन्तव्यो वा भवसि । तथा सूनुर्न पुत्र इव त्रययाय्यः यजमानैः त्रातव्यः पालयितव्यो भवसि । त्रायतेरेतद्रूपम् । यद्वैतत्सूनोर्विशेषणम् । विघातपःकर्मलक्षणं त्रयं यातीति त्रययाय्यः । यातेरौणादिक आय्यप्रत्ययः । स्पृहयाय्य इति यथा । अथवा त्रययाय्यो जन्मत्रयं प्राप्तः । जन्मत्रयं स्मर्यते-’ मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धनात् । तृतीयं यज्ञदीक्षाया इति जन्मत्रयं स्मृतम्' (मनु. २. १६९) इति । तादृशः पुत्र इव रण्वो रमणीयोऽसि ॥
“You are now to be praised among the people, for you are our well beloved guest, venerated like an elder in the city, and to be cherished like a son.”
For in men's houses thou must be glorified as a well-loved guest,
Gay like an elder in a fort, claiming protection like a son.
For now you are to be reverently invoked among the clans, as our dear guest,
to be protected like a son who brings delight to the home, (but also) to be enflamed like a battle-lusty (warrior) in a stronghold.
Denn du bist in den Häusern auch zu preisen uns als lieber Gast, Erfreulich wie im Schloss der Ahn, und zu behüten wie ein Sohn.
Denn nun bist du unser lieber Gast, unter den Clanen anzurufen, behaglich wie ein Greis in seiner Burg, wie ein Sohn schutzbedürftig.
Ты ведь тут среди племен наш
Гость дорогой, достойный призывов,
Радостный, как старец в крепости,
Как сын, которого надо (еще) защищать.
क्रत्वा॒ हि द्रोणे॑ अ॒ज्यसेऽग्ने॑ वा॒जी न कृत्व्य॑: । परि॑ज्मेव स्व॒धा गयोऽत्यो॒ न ह्वा॒र्यः शिशु॑: ॥
क्रत्वा॑ । हि । द्रोणे॑ । अ॒ज्यसे॑ । अग्ने॑ । वा॒जी । न । कृत्व्यः॑ । परि॑ज्माऽइव । स्व॒धा । गयः॑ । अत्यः॑ । न । ह्वा॒र्यः । शिशुः॑ ॥
हे अग्ने क्रत्वा कर्मणा मन्थनरूपेण द्रोणे द्रुमे काष्ठेऽरण्यां विद्यमानस्त्वम् अज्यसे हि व्यज्यसे खलु । तथा वाजी न वेजनवानश्व इव कृत्व्यः । कृत्वीति कर्मनाम । हविर्वहनादीनां कर्मणां कर्ता । स यथा पुरुषं वहति तद्वद्धविर्वहनमग्नेरश्वसादृश्यम् । तथा परिज्मेव परितः सर्वत्र गन्ता वायुरिव दावानलादिरूपेण सर्वत्र गन्ता त्वं स्वधा । अन्ननामैतत् । अन्नं गयः गृहं च भवसि । उभयोर्दातेत्यर्थः । अपि च शिशुः जातमात्रो बालोऽपि त्वम् अत्यो न सततगामी जात्यश्व इव ह्वार्यः कुटिलमितस्ततो गन्तासि । ‘ह्वृ कौटिल्ये' इत्यस्यैतद्रूपम् ॥।
“You are manifested in the timber, Agni, by the act of attrition; you are the bearer (of the oblation) as a horse (is of his rider); you are like the circumsambient wind; you are food and dwelling; you are like a (newborn) babe, and variable (in movement) as a horse.”
Thou, Agni, like an able steed, art urged by wisdom in the wood.
Thou art like wind; food, home art thou, like a young horse that runs astray.
For according to your purpose you are anointed in the wood(en cup) (like soma) [/in your home =hearth] [/driven into the wood(en cup)] like a prize-seeker who gets results.
(You are) encompassing like a household (that encompasses all its
members) through your independent power; (you are) made to go in circles like a young steed (being trained).
Zum Holze lässt du treiben dich, o Agni, wie ein schnelles Ross, Wählst selbst dein Haus dem Winde gleich, dem Renner gleich, der Schlange Kind.
Mit Umsicht wirst du ja im Holzgefäß gesalbt zum Laufe getrieben wie ein siegesgewisses Rennpferd, o Agni. Wie ein fahrender Hausstand ist sein Wesen, wie ein Rennpferd ist der junge Vogel.
Тебя ведь с осмотрительностью мажут в деревянном (сосуде),
О Агни, как (поощряют) скакуна, способного добыть награду.
(Твой) обычай – местопребывание, движущееся кругами.
(Ты продвигаешься,) словно петляющий скакун-жеребенок.
त्वं त्या चि॒दच्यु॒ताग्ने॑ प॒शुर्न यव॑से । धामा॑ ह॒ यत्ते॑ अजर॒ वना॑ वृ॒श्चन्ति॒ शिक्व॑सः ॥
त्वम् । त्या । चि॒त् । अच्यु॑ता । अग्ने॑ । प॒शुः । न । यव॑से । धाम॑ । ह॒ । यत् । ते॒ । अ॒ज॒र॒ । वना॑ । वृ॒श्चन्ति॑ । शिक्व॑सः ॥
हे अग्ने त्वं त्या तानि काष्ठानि । चिच्छब्दोऽपिशब्दसमानार्थो भिन्नक्रमः। अच्युता अच्युतानि च्यावयितुमशक्यान्यपि । अत्सीति शेषः । तत्र दृष्टान्तः । यवसे घासे विसृष्टः पशुर्न पशुरिव । स यथा सर्वं भक्षयति तथा त्वं प्रौढकाष्ठादीनि क्षणमात्रेण दहसीत्यर्थः । हे अजर जरारहिताग्ने यत् यस्य ॥ ‘ सुपां सुलुक्° ' इति षष्ठ्या लुक् ॥ शिक्वसः दीप्तस्य ते तव धाम धामानि तेजांसि वना वननीयानि संभजनीयान्यरण्यानि वृश्चन्ति छिन्दन्ति भक्षयन्ति स त्वमिति पूर्वत्रान्वयः। ह इत्येतत्पादपूरणम् ॥
“You consume Agni, the unfallen (trees) as an animal (feeds) upon pasture, when, undecaying deity, the flames of you who are resplendent shear the forests.”
E'en things imperishable, thou, O Agni, like a gazing ox,
Eatest, when hosts, Eternal One! of thee the Mighty rend the woods.
You (eat) just these unstirrable things, Agni, like livestock in a pasture. (This is your) principle: that your dexterous (flames?) hew the woods, o unaging one.
Das Feste auch bemeisterst du, verzehrend Agni, wie das Vieh, Wenn, Ew'ger, deine Flammenschar das Holz zerspaltet, starker du.
Du frißt selbst die festen Hölzer, o Agni, wie ein Tier das Gras auf der Weide, wenn deine, des Geübten, Kräfte die Bäume fällen, du Alterloser.
Ты (сотрясаешь) даже те (вещи, что) несотрясаемы,
О Агни, словно скот на пастбище,
Когда твои силы рубят
Деревья, о нестареющий, способный действовать (бог).
वेषि॒ ह्य॑ध्वरीय॒तामग्ने॒ होता॒ दमे॑ वि॒शाम् । स॒मृधो॑ विश्पते कृणु जु॒षस्व॑ ह॒व्यम॑ङ्गिरः ॥
वेषि॑ । हि । अ॒ध्व॒रि॒ऽय॒ताम् । अग्ने॑ । होता॑ । दमे॑ । वि॒शाम् । स॒म्ऽऋधः॑ । वि॒श्प॒ते॒ । कृ॒णु॒ । जु॒षस्व॑ । ह॒व्यम् । अ॒ङ्गि॒रः॒ ॥
हे अग्ने अध्वरीयताम् अध्वरं यज्ञमात्मन इच्छतां विशां यजमानानां दमे गृहे त्वं होता देवानामाह्वाता सन् वेषि हि स्तुतिं हवींषि वा यतः कामयसे अतः कारणात् विश्पते विशां पालकाग्ने समृधः समृद्धानस्मान् यजमानान् कृणु कुरु । कृत्वा च हे अङ्गिरः अङ्गनादिगुणयुक्त अङ्गाररूप वाग्ने हव्यम् अस्मदीयं हविः जुषस्व सेवस्व ॥।
“You enter as the ministrant priest into the habitations of men who wish to perform sacrifice; render them prosperous, benefactor of mankind; be propitiated, aṅgiras, by the oblation.”
Agni, thou enterest as Priest the home of men who sacrifice.
Lord of the people, prosper them. Accept the ofrering, Angiras!
Because you pursue (your ritual duties) as Hotar in the house for the clans who perform the ceremonies, o Agni,
make them unified, o clanlord; enjoy (our) oblation, o Aṅgiras.
Denn in der frommen Stämme Haus, o Agni, kommst als Priester du; Gedeihen schaff, o Hauses Herr, geniess das Opfer, Angiras.
Denn du wünschest der Amtierenden Adhvaryu´s, der Clane Hotri im Hause zu sein, o Agni. Schaff, o Clanherr, gelingen; laß dir das Opfer munden, o Angiras!
Ведь ты исполняешь (обязанности) людей, занятых в обряде,
О Агни, (действуя) как хотар племен в доме.
Создай удачу, о господин племен!
Наслаждайся жертвой, о Ангирас!
अच्छा॑ नो मित्रमहो देव दे॒वानग्ने॒ वोच॑: सुम॒तिं रोद॑स्योः । वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄन्द्वि॒षो अंहां॑सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥
अच्छ॑ । नः॒ । मि॒त्र॒ऽम॒हः॒ । दे॒व॒ । दे॒वान् । अग्ने॑ । वोचः॑ । सु॒ऽम॒तिम् । रोद॑स्योः । वी॒हि । स्व॒स्तिम् । सु॒ऽक्षि॒तिम् । दि॒वः । नॄन् । द्वि॒षः । अंहां॑सि । दुः॒ऽइ॒ता । त॒रे॒म॒ । ता । त॒रे॒म॒ । तव॑ । अव॑सा । त॒रे॒म॒ ॥
हे मित्रमहः अनुकूलदीप्ते देव दानादिगुणयुक्त अग्ने रोदस्योः द्यावापृथिव्योर्वर्तमानस्त्वं देवान् यष्टव्यानिन्द्रादीन् अच्छ आभिमुख्येन नः अस्माकं सुमतिं स्तुतिं वोचः ब्रूहि । दिवः स्तुतेः नॄन् नेतॄनस्मान् सुक्षितिं शोभननिवासयुक्तं स्वस्तिम् अविनाशं वीहि गमय ॥ वेतिरत्र अन्तर्भावितण्यर्थो द्रष्टव्यः । वयं च द्विषः द्वेष्टॄन शत्रून् अंहांसि पापानि दुरिता तत्फलरूपाणि दुर्गमनानि च तरेम अतिक्रामेम । तथा ता तानि व्यवहितानि जन्मान्तरकृतानि च पापादीनि तरेम । उक्त एवार्थो दार्ढ्याय पुनरुच्यते । हे अग्ने तव अवसा रक्षणेन द्वेष्टृप्रभृतीनत्यन्तं तरेम ॥ ॥ २ ॥
“Divine Agni, reverenced as a friend, who are abiding in heaven and earth, communicate our praise to the gods; conduct the offerer of adoration to domestic felicity; and may we overcome our adversaries, our iniquities, our difficulties; may we overcome those (sins of a prior existence); may we overcome them by your protection.”
O Agni, God with Mitra's might, call hither the favour of the Gods from earth and heaven.
Bring weal from heaven, that men may dwell securely. May we o'ercome the foe's malign oppressions, may we o'ercome them, through thy help o'ercome them.
O god Agni with the might of Mitra, to us you call the gods, call the grace of the two world-halves.
Pursue well-being, good dwelling, pursue the men of heaven. May we cross over hatreds, over narrow straits difficult to traverse.
May we cross over; with your help may we cross over.
Rufe uns, o freundereicher Gott die Götter her, o Agni, und das Wohlwollen beider Welten; führe die Männer des Himmels her zu Heil und Sicherheit; über des Feindes Drangsale und Gefahren mögen wir hinüberdringen, über sie hinüberdringen, durch deine Hülfe hinüberdringen.
Lade, du wie Mitra gefeierter Gott, die Götter zu uns ein, o Agni, erbitte die Gunst beider Welten! Ersuche die Männer des Himmels um Glück, um gutes Wohnen! Wir möchten über die Anfeindungen, die Nöte, die Fährlichkeiten hinwegkommen, wir möchten über diese hinwegkommen, durch deine Gnade hinwegkommen.
Пригласи к нам богов, о бог, великий как Митра,
О Агни (ниспошли нам) милость двух миров!
Отправляйся к мужам неба за благополучием (и) прекрасным поселением!
Да пересечем мы проявления враждебности, беды, трудности!
Да пересечем мы их! Да пересечем с твоей помощью!