इन्द्रं॑ वो॒ नर॑: स॒ख्याय॑ सेपुर्म॒हो यन्त॑: सुम॒तये॑ चका॒नाः । म॒हो हि दा॒ता वज्र॑हस्तो॒ अस्ति॑ म॒हामु॑ र॒ण्वमव॑से यजध्वम् ॥
इन्द्र॑म् । वः॒ । नरः॑ । स॒ख्याय॑ । से॒पुः॒ । म॒हः । यन्तः॑ । सु॒ऽम॒तये॑ । च॒का॒नाः । म॒हः । हि । दा॒ता । वज्र॑ऽहस्तः । अस्ति॑ । म॒हाम् । ऊँ॒ इति॑ । र॒ण्वम् । अव॑से । य॒ज॒ध्व॒म् ॥
हे यजमानाः वः युष्माकं संबन्धिनः नरः नेतार ऋत्विजः सख्याय सखिभावार्थम् इन्द्रं सेपुः परिचरन्ति स्पृशन्ति वा । कथंभूताः । महः महान्ति स्तोत्राणि यन्तः उपयन्तः प्राप्नुवन्तः । कुर्वन्त इत्यर्थः । तथा सुमतये । सुमतिः शोभनानुग्रहात्मिका तदीया बुद्धिः । तां चकानाः कामयमानाः ॥ ‘क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानसंज्ञा । चकाना इति कामयतेश्छान्दसं रूपम् ॥ यद्वा । महो महत्कर्म यन्तः' अनुतिष्ठन्तः सुमतये सुमतिं शोभनां स्तुतिं चकानाः शब्दयन्तः ॥ ‘कै गै शब्दे ' इत्यस्माल्लिटः कानचि रूपम् ॥ हि यस्मात् वज्रहस्तः वज्रपाणिरिन्द्रः महः महतो धनस्य दाता अस्ति भवति तस्मात् रण्वं रमणीयं महामु महान्तमेव अवसे रक्षणाय यजध्वं हविर्भिः पूजयत ॥
“Your priests, (oḥ worshippers), proppitiate Indra for his friendship, offering great (praise), and desirous of his favour; for the wielder of the thunderbolt is the giver of vast (wealth); worship him, therefore, who is mighty and benevolent, (to obtain) his protection.”
YOUR men have followed Indra for his friendship, and for his loving-kindness glorified him.
For he bestows great wealth, the Thunder-wielder: worship him, Great and Kind, to win his favour.
The men serve Indra for you [=patrons or priests] for the sake of his partnership and benevolence, as they go on finding pleasure in the
great one,
for he whose hand holds the mace is the giver of a great (thing). Sacrifice to the great and delightful one for help.
Um Freundschaft ehrten eure Priester Indra, hineilend, nach des grossen Gunst verlangend; Denn blitzbewehrt verleiht er grossen Reichthum; so ehrt den grossen, muntern, dass er helfe.
Den Indra ehren die Herren für euch zur Freundschaft, voll Verlangen nach der Gunst des Großen kommend; denn der Keulenträger ist der Geber großer Gabe. Opfert dem Großen, Erfreuenden, daß er gnädig sei!
Индру почитали мужи, чтоб он дружил с вами,
Полные желания идя к милости великого.
Ведь носитель ваджры – даритель (богатства) великого.
Жертвуйте – чтоб он помогал – отрадному, великому!
आ यस्मि॒न्हस्ते॒ नर्या॑ मिमि॒क्षुरा रथे॑ हिर॒ण्यये॑ रथे॒ष्ठाः । आ र॒श्मयो॒ गभ॑स्त्योः स्थू॒रयो॒राध्व॒न्नश्वा॑सो॒ वृष॑णो युजा॒नाः ॥
आ । यस्मि॑न् । हस्ते॑ । नर्याः॑ । मि॒मि॒क्षुः । आ । रथे॑ । हि॒र॒ण्यये॑ । र॒थे॒ऽस्थाः । आ । र॒श्मयः॑ । गभ॑स्त्योः । स्थू॒रयोः॑ । आ । अध्व॑न् । अश्वा॑सः । वृष॑णः । यु॒जा॒नाः ॥
यस्मिन् इन्द्रे नर्याः नृभ्यो हिता रायः आ मिमिक्षुः आसिच्यन्ते आपूर्यन्ते । व्यत्ययेन कर्मणि कर्तृप्रत्ययः । इन्द्रे कुत्रेति चेत् । हस्ते तदीये बाहौ । यद्वा । एतत्समानाधिकरणमिन्द्रस्य विशेषणम् । हस्ते हन्तर्यस्मिन्निन्द्र इत्यर्थः । उक्तं यास्केन- हस्तो हन्तेः प्राशुर्हनने ' (निरु. १.७) इति । यद्वा । ईदृशे यस्मिन्निन्द्रे वर्तमाना नृहिता राय आमिमिक्षुः आसिञ्चन्ति आपूरयन्ति स्तोतॄन् । यश्चेन्द्रः रथेष्ठाः रथे स्थाता तत्स्वभावः सन् हिरण्यये सुवर्णमये रथे आ तिष्ठति । यद्वा । रथेष्ठा रथेऽवस्थिता रायो धनानि हिरण्मये रथे तिष्ठन् य इन्द्र आ सिञ्चति अभिवर्षति । यस्य च स्थूरयोः स्थूलयोर्विस्तृतयोः गभस्त्योः । बाहुनामैतत् । बाह्रोः रश्मयः अभीशवः आ सिच्यन्ते आयम्यन्ते। यस्य च अश्वासः अश्वाः वृषणः सेक्तारः युवानः युजानाः रथे युज्यमानाः अध्वन् अध्वनि मार्गे आ मिमिक्षुः आसिञ्चन्ति आपूरयन्ति । आगच्छन्तीत्यर्थः । तमिन्द्रं स्तुम इति शेषः ॥
“In whose hand (riches) good for man are accusative ulated, the chariot-mounted in a golden car; in whose arms the rays of light (are collected); whose vigorous horses, yoked (to his car, convey him) on the road (of the firmament).”
Him to whose hand, men closely cling, and drivers stand on his golden chariot firmly stationed.
With his firm arms he holds the reins; his Horses, the Stallions, are yoked ready for the journey.
To which hand manly powers are firmly attached, (as) a chariot driver is to his golden chariot,
(as) reins are to the two brawny fists, (as) bullish horses yoked together are to the road.
Bei welchem glänzten in der Hand die Gaben, auf goldnem Wagen dort der Wagenlenker, Und in den festen Armen seine Zügel, und auf der Bahn die ihm geschirrten Hengste.
In dessen Hand die Manneskräfte gehören - es gehört der Wagenlenker Indra auf den goldenen Wagen, die Zügel in seine derben Hände, die angeschirrten Bullenrosse auf den Weg.
В чьей длани сосредоточены силы мужества,
(Тот) стоит на золотой колеснице,
Поводья в двух крепких руках,
Кони-жеребцы готовы в путь.
श्रि॒ये ते॒ पादा॒ दुव॒ आ मि॑मिक्षुर्धृ॒ष्णुर्व॒ज्री शव॑सा॒ दक्षि॑णावान् । वसा॑नो॒ अत्कं॑ सुर॒भिं दृ॒शे कं स्व१॒॑र्ण नृ॑तविषि॒रो ब॑भूथ ॥
श्रि॒ये । ते॒ । पादा॑ । दुवः॑ । आ । मि॒मि॒क्षुः॒ । धृ॒ष्णुः । व॒ज्री । शव॑सा । दक्षि॑णऽवान् । वसा॑नः । अत्क॑म् । सु॒र॒भिम् । दृ॒शे । कम् । स्वः॑ । न । नृ॒तो॒ इति॑ । इ॒षि॒रः । ब॒भू॒थ॒ ॥
हे इन्द्र श्रिये ऐश्वर्यार्थं ते त्वदीययोः पादा पादयोः दुवः परिचरणम् आ मिमिक्षुः आसिञ्चन्ति समर्पयन्ति । भरद्वाजः समर्पयति । व्यत्ययेन बहुवचनम् । यद्वा । ते तव पादौ श्रिये श्रयितुं सेवितुं दुवः परिचरणम् आ सिञ्चन्ति अनुतिष्ठन्ति । यस्त्वं शवसा बलेन धृष्णुः शत्रूणां धर्षकः वज्री वज्रवान् दक्षिणावान् । दक्षिणा स्तोतृभ्यो दातव्यं धनम् । तद्वान् हे नृतो नेतरिन्द्र स त्वं सुरभिं प्रशस्तम् अत्कं सततगमनशीलमात्मीयं रूपं दृशे सर्वेषां दर्शनार्थं वसानः आच्छादयन् स्वर्ण सूर्य इव इषिरः गन्तैषणीय वा बभूथ भवसि । कमिति पूरकः ॥
“They offer adoration at your feet to acquire prosperity, for you are the overthrower of enemies by (your) strength, the wielder of the thunderbolt, the bestower of donations; leader (of rites), you are like the rolling sun, wearing in the sight (of all) a graceful and ever moving form.”
Thy devotees embrace thy feet for glory. Bold, thunder-armed, rich, through thy strength, in guerdon,
Robed in a garment fair as heaven to look on, thou hast displayed thee like an active dancer.
For your glory do our friendly services firmly attach themselves to your two feet [=do homage]. As the bold mace-bearer, (you) provide the
priestly gift;
wearing a fragrant cloak, (lovely) to be seen like the sun, you have
become vigorous, o dancer.
Zu deinen Füssen schimmern lieblich Gaben, du kühner Blitzer, Kraft in deiner Rechten, Umhüllt vom Mantel, welcher schön zu schau'n ist, warst prächtig du, wie Himmelsglanz, o Tänzer.
Dir zu Ehren kommen die Huldigungen zu deinen Füßen. Der mutige Keulenträger ist durch seine Macht ein Lohnausteiler. In ein duftiges Gewand sich kleidend, wie die Sonne anzusehen, bist du eilig zum Tänzer geworden.
Для блеска сосредоточено поклонение у ног твоих.
Отважный громовержец благодаря силе (своей) владеет наградой.
Надевая душистый наряд, чтобы было видно,
Ты становишься быстрым, о танцор, словно солнечный свет.
स सोम॒ आमि॑श्लतमः सु॒तो भू॒द्यस्मि॑न्प॒क्तिः प॒च्यते॒ सन्ति॑ धा॒नाः । इन्द्रं॒ नर॑: स्तु॒वन्तो॑ ब्रह्मका॒रा उ॒क्था शंस॑न्तो दे॒ववा॑ततमाः ॥
सः । सोमः॑ । आमि॑श्लऽतमः । सु॒तः । भू॒त् । यस्मि॑न् । प॒क्तिः । प॒च्यते॑ । सन्ति॑ । धा॒नाः । इन्द्र॑म् । नरः॑ । स्तु॒वन्तः॑ । ब्र॒ह्म॒ऽका॒राः । उ॒क्था । शंस॑न्तः । दे॒ववा॑तऽतमाः ॥
यः सोमो वक्ष्यते सः सोमः सुतः अभिषुतः सन् आमिश्लतमः आभिमुख्येन मिश्रतमः' भूत् । इन्द्रेणात्यर्थं संगच्छते। यस्मिन् सोमेऽभिषुते सति पक्तिः पक्तव्यः पुरोडाशादिः पच्यते । भृष्टयवाः धानाः । ताश्च सन्ति हविरर्थं संस्कृता भवन्ति । यस्मिंश्च सोमेऽभिषुते नरः नेतारः ब्रह्मकाराः ब्रह्मणः अन्नस्य हविर्लक्षणस्य कर्तारः ऋत्विजः इन्द्रं स्तोत्रैः स्तुवन्तः उक्था उक्थानि शस्त्राणि च शंसन्तः उच्चारयन्तः देववाततमाः देवानतिशयेनोपगता भवन्ति स सोम इन्द्रेण संमिश्रितोऽभूदित्यन्वयः ॥
“That libation is most perfectly mixed when, upon its being effused, the cakes are baked, and the barley is fried, and the priests, glorifying Indra, offering the (sacrificial) food, and reciting holy prayers, are approaching most nigh to the gods.”
That Soma when effused hath best consistence, for which the food is dressed and grain is mingled;
By which the men who pray, extolling Indra chief favourites of Gods, recite their praises.
(But) the pressed soma has become the most firmly attached (to him), in whose (presence) the cooked food is cooked and there are roasted grains,
while the men who create the sacred formulations are praising Indra and reciting their hymns as the men most cherished by the gods.
Gebraut ist Soma, der sich gern vermischet, in welchem Körner sind und Brühe siedet; Den Indra feiern Männer preisend, betend, und Sprüche sagend, sehr beliebt bei Göttern.
Der gepreßte Soma ist der anziehendste, zu dem Kochspeise gekocht wird und es geröstete Körner gibt, bei dem die von den Göttern am meisten begehrten Herren den Indra preisen, ihm eine Erbauung bereiten und Lobgedichte vortragen.
Очень сильно смешанным бывает этот сома,
К которому готовится вареное кушанье, есть жареные зерна,
(Над которым) мужи, славящие Индру, самые любимые у богов,
Творят молитву, исполняют гимны.
न ते॒ अन्त॒: शव॑सो धाय्य॒स्य वि तु बा॑बधे॒ रोद॑सी महि॒त्वा । आ ता सू॒रिः पृ॑णति॒ तूतु॑जानो यू॒थेवा॒प्सु स॒मीज॑मान ऊ॒ती ॥
न । ते॒ । अन्तः॑ । शव॑सः । धा॒यि॒ । अ॒स्य । वि । तु । बा॒ब॒धे॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । आ । ता । सू॒रिः । पृ॒ण॒ति॒ । तूतु॑जानः । यू॒थाऽइ॑व । अ॒प्ऽसु । स॒म्ऽईज॑मानः । ऊ॒ती ॥
हे इन्द्र ते तव अस्य उक्तगुणस्य शवसः बलस्य अन्तः अवसानं न धायि । अत्र केवलोऽपि दधातिरवपूर्वार्थो द्रष्टव्यः । नावाधायि । अस्माभिर्नाज्ञायीत्यर्थः । यद्बलं रोदसी द्यावापृथिव्यौ महित्वा महत्त्वेन तु क्षिप्रं वि बाबधे यस्माद्बलात् द्यावापृथिव्यौ बिभीत इत्यर्थः । ता तद्बलं सूरिः स्तोता तूतुजानः त्वरितः सन् ऊती ऊत्या तर्पकेण हविषा समीजमानः सम्यग्यजन् आ पृणति आपूरयति । तत्र दृष्टान्तः । यूथेव अप्सु उदकेषु गवां यूथानीव यथा गोपालः अपः पाययन्नद्भिस्तर्पयति तद्वत् ॥
“No limit of your strength has been assigned; heaven and earth are intimidated by its greatness; the pious worshipper, hastening (to sacrifice), and earnestly performing worship, gratifies you with the offering, as (the cow-keeper satisfies) the herds with water.”
No limit of thy might hath been appointed, which by its greatness sundered earth and heaven.
These the Prince filleth full with strong endeavour, driving, as 'twere, with help his flocks to waters.
No limit has been set for this vast power of yours. He forced apart the two world-halves with his greatness.
With his help our patron [=Indra] brings these things to fulfillment as he keeps thrusting, as if driving his herds together to the waters.
Nicht gibt's ein Ende dieser deiner Stärke; mit seiner Grösse drängt er fort das Weltpaar, Dies alles wirket eifervoll der reiche, durch Trunk erquickt, wie Heerden an dem Wasser.
Dieser deiner Kraft ist keine Grenze gesetzt, vielmehr drängt er beide Welten auseinander durch seine Größe. Alle diese Wünsche erfüllt der edle Herr sich beeifernd in seiner Gnade, der sie in der Hand hält, wie der gute Hirt die Herden im Wasser zusammenhält.
Не положено предела этой силе твоей.
Он же (своим) величием оттесняет в разные стороны две половины вселенной.
Господин усердно насыщает (все) эти (существа), –
Словно (пастух), сгоняя в воду стада, – (своею) поддержкой.
ए॒वेदिन्द्र॑: सु॒हव॑ ऋ॒ष्वो अ॑स्तू॒ती अनू॑ती हिरिशि॒प्रः सत्वा॑ । ए॒वा हि जा॒तो अस॑मात्योजाः पु॒रू च॑ वृ॒त्रा ह॑नति॒ नि दस्यू॑न् ॥
ए॒व । इत् । इन्द्रः॑ । सु॒ऽहवः॑ । ऋ॒ष्वः । अ॒स्तु॒ । ऊ॒ती । अनू॑ती । हि॒रि॒ऽशि॒प्रः । सत्वा॑ । ए॒व । हि । जा॒तः । अस॑मातिऽओजाः । पु॒रु । च॒ । वृ॒त्रा । ह॒न॒ति॒ । नि । दस्यू॑न् ॥
एव एवमुक्तेन प्रकारेण ऋष्वः महान् इन्द्रः सुहवः अस्तु सुखेनाह्वातव्यो' भवतु । इत इति पूरणः । हिरिशिप्रः । शिप्रे हनू नासिके वा । हरितवर्णे शिप्रे यस्य तादृशः इन्द्रः ऊती ऊत्यागमनेन अनूती अनूत्यानागमनेन वा सत्वा गमयिता भवति धनानाम् । स्वयमागतोऽनागतोऽपि स्तोतृभ्यो धनं प्रयच्छतीत्यर्थः। एवा हि एवं हि जातः प्रादुर्भूतोऽयमिन्द्रः असमात्योजाः असमाति असमानम् अनुपमम् उत्कृष्टतरमोजो बलं यस्य तादृशः सन् पुरु पुरूणि बहूनि च वृत्रा वृत्राण्यावरकाणि रक्षःप्रभृतीनि हनति हिनस्तु । तथा दस्यून् उपक्षपयितॄन् शत्रूंश्च नि हन्तु ॥ ॥ १ ॥
“Thus may the mighty Indra be successfully invoked; he, the azure-chinned, the giver of wealth, whether by coming or not coming (to the sacrifice); and may he who is of unequalled strength destroy, as soon as manifested, many opposing (evil spirits) and (hostile) Dasyus.”
So be the lofty Indra prompt to listen, Helper unaided, golden-visored Hero.
Yea, so may he, shown forth in might unequalled, smite down the many Vrtras and the Dasyus.
Just in this way let lofty Indra be easily called—the warrior with golden lips, with his help that needs no help,
for in this way was he born with unequalled, surpassing might. He will strike down many obstacles [/Vr̥tras] and Dasyus.
So höre unsern Ruf der hohe Indra, mit goldnem Helm er, stark in Gunst und Ungunst; Denn von Geburt ein unvergleichlich starker, erschlägt er auch viel Feinde und Dämonen.
Also soll der hohe Indra sich gern rufen lassen zur Hilfe und Nichthilfe, der Krieger mit goldenem Gebiß, denn also ist er geboren mit Stärke ohne Gleichen. Und er möge viele Feinde, die Dasyu´s niederschlagen.
Так вот, пусть будет легкопризываемым высокий Индра
С поддержкой, когда нет поддержки, воин с золотыми челюстями.
Ведь он сразу же родился с силой, не имеющей себе равных.
И пусть он убивает много врагов (и) дасью!