स्वा॒दुष्किला॒यं मधु॑माँ उ॒तायं ती॒व्रः किला॒यं रस॑वाँ उ॒तायम् । उ॒तो न्व१॒॑स्य प॑पि॒वांस॒मिन्द्रं॒ न कश्च॒न स॑हत आह॒वेषु॑ ॥
स्वा॒दुः । किल॑ । अ॒यम् । मधु॑ऽमान् । उ॒त । अ॒यम् । ती॒व्रः । किल । अ॒यम् । रस॑ऽवान् । उ॒त । अ॒यम् । उ॒तो इति॑ । नु । अ॒स्य । प॒पि॒ऽवांस॑म् । इन्द्र॑म् । न । कः । च॒न । स॒ह॒ते॒ । आ॒ऽह॒वेषु॑ ॥
अयम् अभिषुतः सोमः स्वादुः आस्वादनीयः किल भवति । उत अपि च मधुमान् माधुर्यवांश्च अयं सोमो भवति । तथा अयं सोमः तीव्रः किल मदोत्पादने तीक्ष्णः खलु भवति । उत अपि च अयं सोमः रसवान् सारवांश्च भवति । अनेन वाक्यचतुष्टयेन सोमस्य माधुर्यातिशयत्वं च प्रतिपादितम् । उतो अपि च अस्य सोमस्य । द्वितीयार्थे षष्ठी । इमं सोमं पपिवांसं पीतवन्तम् इन्द्रम् आहवेषु संग्रामेषु न कश्चन न कोऽपि सहते अभिभवति । नु इति पूरकः ॥
“Savoury indeed is this (Soma); sweet is it, sharp, and full of flavour; no one is able to encounter Indra in battles after he has been quaffing this (Soma).”
YEA, this is good to taste and full of. sweetness, verily it is strong and rich in flavour.
No one may conquer Indra in the battle when he hath drunken of the draught we offer.
Sweet is this one, certainly, and it is honeyed; sharp is this one, certainly, and it is full of sap.
And now that Indra has drunk of it, no one at all overcomes him at the challenges.
Recht süss fürwahr und honigreich ist dieser, recht scharf fürwahr, und reich an Saft der Soma; Und nimmer kann, wenn Indra ihn getrunken, ihn einer je besiegen in den Kämpfen.
Der ist gewiß schmackhaft und der ist süß; der ist gewiß scharf und der ist würzig. Und wenn Indra von diesem getrunken hat, so zwingt ihn keiner mehr zum Kampfe.
Вкусен он, конечно, а также сладок он,
Резок он, конечно, а также сочен он.
И уж никто не справится с Индрой в сражениях,
Когда тот только что выпил его.
अ॒यं स्वा॒दुरि॒ह मदि॑ष्ठ आस॒ यस्येन्द्रो॑ वृत्र॒हत्ये॑ म॒माद॑ । पु॒रूणि॒ यश्च्यौ॒त्ना शम्ब॑रस्य॒ वि न॑व॒तिं नव॑ च दे॒ह्यो॒३॒॑ हन् ॥
अ॒यम् । स्वा॒दुः । इ॒ह । मदि॑ष्ठः । आ॒स॒ । यस्य॑ । इन्द्रः॑ । वृ॒त्र॒ऽहत्ये॑ । म॒माद॑ । पु॒रूणि॑ । यः । च्यौ॒त्ना । शम्ब॑रस्य । वि । न॒व॒तिम् । नव॑ । च॒ । दे॒ह्यः॑ । हन् ॥
इह अस्मिन् यज्ञे अयं सोमः स्वादुः आस्वादितः पीतः सन् मदिष्ठः अतिशयेन मदयिता आस बभूव। यस्य सोमस्य पानेन इन्द्रो वृत्रहत्ये वृत्रहननकाले ममाद मत्तो बभूव । यः सोमः शम्बरस्य असुरस्य पुरूणि बहूनि च्यौत्ना च्यौत्नानि बलानि जघान । तथा देह्यः दिग्धा उपचिता आसुरी पुरीः तदीयान् देहान् वा नवतिं नव च नवोत्तरनवतिसंख्याका यः सोमः वि हन् व्यहन् अयं सोम इति प्रथमपादेन संबन्धः ॥
“The savoury Soma, drunk on this occasion, has been most exhilarating; by drinking of it Indra has been elevated to the slaying of Vṛtra, and it has destroyed the numerous hosts of Śambara and the ninetynine cities.”
This sweet juice here had mightiest power to gladden: it boldened Indra when he siaughtered Vrtra,
When he defeated Sambara's many onslaughts, and battered down his nineand ninety ramparts.
This sweet one here was the most exhilarating, on which Indra became exhilarated for the smashing of Vr̥tra,
he who (having performed) many exploits smashed apart the nine and ninety walls of Śambara.
Der süsse hier ist's, der am meisten Rausch schafft, von dem Indra im Vritrakampf berauscht war, Als er des Çambara vielfache Werke, die neunundneunzig Wälle schlug in Stücke.
Dieser süße hier war der berauschendste, an dem sich Indra im Vritrakampf berauscht hat, der viele Taten getan, des Sambara neunundneunzig Mauern zerschlagen hat.
Этот сладкий был здесь самым опьяняющим,
Которым Иидра опьяиился при убийстве Вритры,
Который (вызвал) много потрясений у Шамбары:
Разбил девяносто девять (его) валов.
अ॒यं मे॑ पी॒त उदि॑यर्ति॒ वाच॑म॒यं म॑नी॒षामु॑श॒तीम॑जीगः । अ॒यं षळु॒र्वीर॑मिमीत॒ धीरो॒ न याभ्यो॒ भुव॑नं॒ कच्च॒नारे ॥
अ॒यम् । मे॒ । पी॒तः । उत् । इ॒य॒र्ति॒ । वाच॑म् । अ॒यम् । म॒नी॒षाम् । उ॒श॒तीम् । अ॒जी॒ग॒रिति॑ । अ॒यम् । षट् । उ॒र्वीः । अ॒मि॒मी॒त॒ । धीरः॑ । न । याभ्यः॑ । भुव॑नम् । कत् । च॒न । आ॒रे ॥
अयं सोमः पीतः सन् मे मम वाचम् उदयर्ति उद्गमयति । अयम् एव सोमः उशतीं कान्तां मनीषां बुद्धिम् उत् अजीगः उद्गारयति । प्रकाशयति ॥ ‘गॄ निगरणे' इत्यस्माण्ण्यन्ताल्लुङि चङि रूपम् ॥ अपि च अयं धीरः धीमान् सोमः षळुर्वीः ‘षण्मोर्वीरंहसस्पान्तु द्यौश्च पृथिवी चाहश्च रात्रिश्चापश्चौषधयश्च ' इति प्रतिपादिता द्युपृथिव्याद्याः षट् अमिमीत निर्मितवान् । याभ्यः उर्वीभ्यः आरे दूरे विप्रकृष्टे देशे कच्चन किंचन भुवनं भूतजातं न भवति अपि तु आस्वेव सर्वं भूतजातं वर्तते तादृशीरुर्वीर्निर्मितवान् ॥
“This Soma inspires my speech; this develops the desired intelligence; this sagacious (Soma) has created the six vast conditions, from which no creature is distinct.”
This stirreth up my voice when I have drunk it: this hath aroused from sleep my yearning spirit.
This Sage hath measured out the six expanses from which no single creature is excluded.
This one, when it is drunk, rouses my speech; it has awakened an eager inspired thought.
This wise one measured out the six broad (realms), from which no world is at a distance.
Getrunken reget dieser mir das Wort auf, und hat geweckt das sehnsuchtsvolle Lied mir; Sechs Weiten hat der weise abgemessen, von denen fern kein Wesen ist zu finden.
Dieser treibt getrunken mir die Rede hervor, dieser hat den willigen Gedanken geweckt. Dieser Weise maß die sechs weiten Welten aus, außer denen keine Welt besteht.
Этот выпитый приводит к движение мою речь.
Этот пробудил жаждущую мысль.
Этот мудрый измерил шесть широких (пространств),
Без которых нет никакой вселенной.
अ॒यं स यो व॑रि॒माणं॑ पृथि॒व्या व॒र्ष्माणं॑ दि॒वो अकृ॑णोद॒यं सः । अ॒यं पी॒यूषं॑ ति॒सृषु॑ प्र॒वत्सु॒ सोमो॑ दाधारो॒र्व१॒॑न्तरि॑क्षम् ॥
अ॒यम् । सः । यः । व॒रि॒माण॑म् । पृ॒थि॒व्याः । व॒र्ष्माण॑म् । दि॒वः । अकृ॑णोत् । अ॒यम् । सः । अ॒यम् । पी॒यूष॑म् । ति॒सृषु॑ । प्र॒वत्ऽसु॑ । सोमः॑ । दा॒धा॒र॒ । उ॒रु । अ॒न्तरि॑क्षम् ॥
सः खलु अयं सोमः यः पृथिव्याः वरिमाणम् उरुरवं विस्तृतत्वम् अकृणोत् अकरोत् । तथायं सोमः दिवः द्युलोकस्य वर्ष्माणं संहतत्वं दृढत्वमकृणोदकरोत् । अयं सोमः सः हि भवति । अपि च अयं सोमः तिसृषु ओषधीष्वप्सु गोषु च प्रवत्सु प्रकृष्टास्वेतासु पीयूषं रसं दाधार धारयति । तथा उरु विस्तीर्णम् अन्तरिक्षं च धारयति । तथा च मन्त्रान्तरं- त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः । त्वमा ततन्थोर्वन्तरिक्षम् ' ( ऋ. सं. १. ९१. २२ ) इति ॥
“This it is which formed the expanse of the earth, the compactness of the heaven; this Soma has deposited the ambrosia in its three principal (receptacles), and has upheld the spacious firmament.”
This, even this, is he who hath created the breadth of earth, the lofty height of heaven.
He formed the nectar in three headlong rivers. Soma supports the wide mid-air above us.
This is the one who created the expanse of the earth; who created the height of heaven is this one here;
this one (created) the beestings on the three slopes [=worlds?]. Soma upheld the broad midspace.
Er ist es, der der Erde Breite ausmass, und der des Himmels hohe Wölbung baute; Er hielt des Meeres Biestmilch an drei Halden, den weiten Luftkreis Soma fest zusammen.
Dieser ist es, der die Breite der Erde, dieser ist es, der die Höhe des Himmels schuf. Dieser hat in den drei Strömen den Seim geschaffen: Soma hat den weiten Luftraum gefestigt.
Он тот, кто создал ширину земли,
Высоту неба, это он.
Он (создал) сливки в трех потоках.
Сома установил широкое воздушное пространство.
अ॒यं वि॑दच्चित्र॒दृशी॑क॒मर्ण॑: शु॒क्रस॑द्मनामु॒षसा॒मनी॑के । अ॒यं म॒हान्म॑ह॒ता स्कम्भ॑ने॒नोद्द्याम॑स्तभ्नाद्वृष॒भो म॒रुत्वा॑न् ॥
अ॒यम् । वि॒द॒त् । चि॒त्र॒ऽदृशी॑कम् । अर्णः॑ । शु॒क्रऽस॑द्मनाम् । उ॒षसा॑म् । अनी॑के । अ॒यम् । म॒हान् । म॒ह॒ता । स्कम्भ॑नेन । उत् । द्याम् । अ॒स्त॒भ्ना॒त् । वृ॒ष॒भः । म॒रुत्वा॑न् ॥
अयं सोमः चित्रदृशीकं विचित्रदर्शनं यद्वा आश्चर्यत्वेन दर्शनीयम् अर्णः सर्वस्य प्रेरकं सौरं ज्योतिः विदत् लम्भयति । क स्मन् काले। शुक्रसद्मनां शुक्रं निर्मलमन्तरिक्षं सद्म सदनं यासां तासाम् उषसाम् अनीके प्रमुखे । उष:काल इत्यर्थः । अपि च महान् प्रवृद्धः अयं सोमः महता स्थविष्ठेन स्कम्भनेन स्तम्भनसाधनेन मध्यवर्तिनान्तरिक्षेण द्यां द्युलोकम् उत् अस्तभ्नात् ऊर्ध्वमस्थापयत् । यथाधो न पतति तथान्तरिक्षं तस्याधारत्वेन कृतवानित्यर्थः । कीदृशः सोमः । वृषभः वृष्टेर्जनयिता। सोमाहुत्या हि वृष्टिर्जन्यते । मरुत्वान् मरुद्भिर्युक्तः ॥ ॥ ३० ॥
“This makes known the wonderfully beautiful and inspiring (solar) radiance) at the appearance of the dawns, whose dwelling is the firmament; this mighty (Soma) has sustained the heaven with a powerful support, th sender of rain, the leader of the winds.”
He found the wavy sea of brilliant colours in forefront of the Dawns who dwell in brightness.
This Mighty One, the Steer begirt by Maruts, hath propped the heavens up with a mighty pillar.
This one found the flood with its brilliant appearance at the (fore)front of the dawns with their gleaming seats.
This one, great, with a great pillar propped up heaven—he, the bull, accompanied by the Maruts.
Er fand der Wasser Flut, die glänzend schimmert im Schein der Morgen, die im Lichte wohnen, Der grosse stützte mit der grossen Stütze, den Himmel hoch, der Stier umschart von Maruts.
Dieser fand die Flut, die prächtig anzusehen beim Erscheinen der im Lichte wohnenden Morgenröten. Dieser Große hat mit großer Stütze den Himmel emporgerichtet, der Bulle in Begleitung der Marut.
Он нашел стремнину, ярко сверкающую
Перед лицом утренних зорь, пребывающих в свете.
Этот великий на великой опоре
Воздвиг небо, бык, окруженный Марутами.
धृ॒षत्पि॑ब क॒लशे॒ सोम॑मिन्द्र वृत्र॒हा शू॑र सम॒रे वसू॑नाम् । माध्यं॑दिने॒ सव॑न॒ आ वृ॑षस्व रयि॒स्थानो॑ र॒यिम॒स्मासु॑ धेहि ॥
धृ॒षत् । पि॒ब॒ । क॒लशे॑ । सोम॑म् । इ॒न्द्र॒ । वृ॒त्र॒ऽहा । शू॒र॒ । स॒म्ऽअ॒रे । वसू॑नाम् । माध्य॑न्दिने । सव॑ने । आ । वृ॒ष॒स्व॒ । र॒यि॒ऽस्थानः॑ । र॒यिम् । अ॒स्मासु॑ । धे॒हि॒ ॥
हे शूर शौर्यवन् इन्द्र वृत्रहा वृत्राणामावरकाणां शत्रूणां हन्ता त्वं वसूनां धनानां समरे संग्रामे निमित्तभूते सति कलशे द्रोणकलशेऽवस्थितं सोमं धृषत् धृष्टं यथा भवति तथा पिब । अपि च माध्यंदिने सवने आ वृषस्व आसिञ्चस्व । जठरं सोमेन पूरय । सर्वैन्द्रं हि माध्यंदिनं सवनम् । किंच रयिस्थानः रयीणां धनानां स्थानभूतस्त्वं रयिं धनम् अस्मासु धेहि धारय ॥
“Hero, Indra, who are the slayer of foes in contests for (the acquisition of) treasures, drink boldly from the pitcher; drink copiously at the noonday rite; receptacle of rices, bestow riches upon us.”
Drink Soma boldly from the beaker, Indra, in war for treasures, Hero, Vrtra-slayer!
Fill thyself full at the mid-day libation, and give us wealth, thou Treasury of riches.
Boldly drink the soma in the tub, Indra—as smasher of Vr̥tra at the confluence of goods, o champion.
At the Midday Pressing, drench yourself. Standing amid wealth, establish wealth in us.
Aus Bechern trink den Soma tüchtig, Indra, im Kampf der Tapfern, Held, o Vritratödter, Beim mittäglichen Mahle trinke voll dich, ein Sitz des Reichthums, schenke du uns Reichthum.
Trink herzhaft den Soma aus der Schale, Indra, du der Feindetöter in der Anhäufung von Schätzen, o Held. Schütte ihn in dich bei dem mittäglichen Trankopfer! Im Reichtum wohnend bring uns Reichtum!
Пей с охотой сому в сосуде, о Индра,
Гы убийца врагов при стечении богатств, о герой.
Заливай его в себя при полуденном выжимании!
Живя в богатстве, надели нас богатством!
इन्द्र॒ प्र ण॑: पुरए॒तेव॑ पश्य॒ प्र नो॑ नय प्रत॒रं वस्यो॒ अच्छ॑ । भवा॑ सुपा॒रो अ॑तिपार॒यो नो॒ भवा॒ सुनी॑तिरु॒त वा॒मनी॑तिः ॥
इन्द्र॑ । प्र । नः॒ । पु॒र॒ए॒ताऽइ॑व । पश्य॑ । प्र । नः॒ । न॒य॒ । प्र॒ऽत॒रम् । वस्यः॑ । अच्छ॑ । भव॑ । सु॒ऽपा॒रः । अ॒ति॒ऽपा॒र॒यः । नः॒ । भव॑ । सुऽनी॑तिः । उ॒त । वा॒मऽनी॑तिः ॥
हे इन्द्र त्वं पुरएतेव पुरतो गन्तेव नः अस्मान् प्र पश्य प्रकर्षेणेक्षस्व । यथा मार्गरक्षकः स्वयं पुरतो गच्छन्ननुगच्छतो रक्षणीयान् पथिकान् पश्यति तथा पश्येत्यर्थः । तथा वस्यः वसीयः श्रेष्ठं धनम् अच्छ आभिमुख्येन प्रतरं प्रकृष्टतरमतिशयेन प्र णय अस्मान् प्रापय । तथा सुपारः सुष्ठु पारयिता दुःखेभ्यस्तारयिता भव । तथा नः अस्मान् स्तोतॄन् अतिपारयः शत्रूनतिक्रामय । सुनीतिः शोभननयनश्चास्माकं भव। उत अपि च वामनीतिः वामानां वननीयानां धनानां नेता भव । यद्वा । अस्मदर्थं श्रेष्ठप्रापणो भव ॥
“Like one who goes before us, Indra, (on the road), look out, bring before us infinite wealth; be our conductor beyond the bounds (of want), convey us safely over (peril); be our careful guide, our gude to desirable (affluence).”
Look out for us, O Indra, as our Leader, and guide us on to gain yet goodlier treasure.
Excellent Guardian, bear us well through peril, and lead us on to wealth with careful guidance.
Indra, look forward for us, like the man who goes ahead; lead us further forward, toward a better state.
Become one of good passage, who gives us passage beyond; become one of good guidance and valued guidance.
Blick vor uns her, o Indra, wie ein Führer, und leite weiter uns zu reicherm Gute; Du setz uns über, schön hinüberfahrend, sei sichrer Leiter, der uns herrlich leite.
Indra! Schau für uns aus wie ein Wegführer, geleite uns weiter zum Glück, sei ein guter Retter, der uns hinausführt; sei ein guter Führer und ein trefflicher Führer!
О Индра, смотри для нас вперед как проводник!
Вези нас дальше вперед к счастью!
Будь хорошим перевозчиком, который нас перевезет через (опасности)!
Будь хорошим вождем и превосходным вождем!
उ॒रुं नो॑ लो॒कमनु॑ नेषि वि॒द्वान्त्स्व॑र्व॒ज्ज्योति॒रभ॑यं स्व॒स्ति । ऋ॒ष्वा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू उप॑ स्थेयाम शर॒णा बृ॒हन्ता॑ ॥
उ॒रुम् । नः॒ । लो॒कम् । अनु॑ । ने॒षि॒ । वि॒द्वान् । स्व॑र्ऽवत् । ज्योतिः॑ । अभ॑यम् । स्व॒स्ति । ऋ॒ष्वा । ते॒ । इ॒न्द्र॒ । स्थवि॑रस्य । बा॒हू इति॑ । उप॑ । स्थे॒या॒म॒ । श॒र॒णा । बृ॒हन्ता॑ ॥
हे इन्द्र विद्वान् जानंस्त्वम् उरुं विस्तीर्णं लोकं स्थानं स्वर्गाख्यं नः अस्मान् अनु नेषि अनुगमय । तथा स्वर्वत् सुखवत् अभयं भयरहितं ज्योतिः च स्वस्ति क्षेमेणानु नेषि अस्माननुगमय । हे इन्द्र स्थविरस्य स्थूलस्य वृद्धस्य ते तव संबन्धिनौ ऋष्वा दर्शनीयौ बृहन्ता महान्तौ बाहू त्वदीयौ हस्तौ शरणा शरणौ रक्षकौ रक्षकतया उप स्थेयाम उपतिष्ठेम । सेवेमहि ॥
“Do you, Indra, who are wise, conduct us to the spacious world (of heaven), to a blessed state of happiness, light, and safety; may we recline in the graceful, protecting, and mighty arms of you the ancient one.”
Lead us to ample room, O thou who knowest, to happiness, security, and sunlight.
High, Indra, are the arms of thee the Mighty: may we betake. us to their lofty shelter.
Lead us along to a wide world, as the one who knows—to sun-filled light, to fearlessness, to well-being.
High are the arms of you who are stalwart, Indra. Might we approach these two lofty shelters.
Zu weitem Raume leite uns, du weiser, zu hellem Glanze und zu sicherm Wohlsein; Hoch ragen, starker Indra, deine Arme, lass uns zu festen Zufluchtsstätten kommen.
Führ uns kundig in ein weites Gefilde zum sonnenhaften Licht, zur Sicherheit, zum Heile! Hoch sind deine Arme, des Stämmigen, o Indra. In diesen schützenden, großen Armen möchten wir Zuflucht finden.
Веди нас как знаток по широкому простору
К солнечному свету, безопасности, счастью!
Высоко вздымаются, о Индра, руки у тебя, крепкого.
Мы хотим найти прибежище в (этих) охраняющих мощных (руках)!
वरि॑ष्ठे न इन्द्र व॒न्धुरे॑ धा॒ वहि॑ष्ठयोः शताव॒न्नश्व॑यो॒रा । इष॒मा व॑क्षी॒षां वर्षि॑ष्ठां॒ मा न॑स्तारीन्मघव॒न्रायो॑ अ॒र्यः ॥
वरि॑ष्ठे । नः॒ । इ॒न्द्र॒ । व॒न्धुरे॑ । धाः॒ । वहि॑ष्ठयोः । श॒त॒ऽव॒न् । अश्व॑योः । आ । इष॑म् । आ । व॒क्षि॒ । इ॒षाम् । वर्षि॑ष्ठाम् । मा । नः॒ । ता॒री॒त् । म॒घ॒ऽव॒न् । रायः॑ । अ॒र्यः ॥
हे इन्द्र वरिष्ठे उरुतमे विस्तीर्णतमे वन्धुरे आत्मीये रथे नः अस्मान् धाः धेहि । धारय । अपि च हे शतावन् शतसंख्यधनेन्द्र वहिष्ठयोः वोढ़ृतमयोः । आकारः समुच्चये । अश्वयोरा त्वदीययोरश्वयोश्चास्मान् धारय । तथा इषाम् अन्नानां मध्ये वर्षिष्ठां वृद्धतमाम् इषम् अन्नम् आ वक्षि अस्मदर्थमावह । आनय । हे मघवन् धनवन्निन्द्र अर्यः धनस्य स्वामी अन्यः कश्चित् नः अस्माकं रायः धनानि मा तारीत् मा हिंसीत् ॥
“plural ce us, possessor of riches, in your ample chariot, (behind) your powerful horses; bring to us from among all viands the most excellent food; let not, Maghavan, any opulent man surpass us in wealth.”
Set us on widest chariot-seat, O Indra, with two steeds best to draw, O Lord of Hundreds!
Bring us the best among all sorts of viands: let not the foe's wealth, Maghavan, subdue us.
Place us in the widest chariot box, Indra, on the two best-pulling horses, you possessor of hundreds.
Convey hither the highest refreshment of refreshments. Let our (refreshment) not cross over to the “riches of the stranger,”
bounteous one.
Uns setz auf weiten Wagensitz, o Indra, auf schnellstes Rossepaar, o hülfereicher; Fahr Trank herbei, der Tränke allerbesten, nicht raub' ein Feind, o Indra, unsre Habe.
Setz uns, Indra, auf den breitesten Deichselsitz, auf die bestfahrenden Rosse, du Hundertbesitzer. Bring uns Speisegenuß, den höchsten der Genüsse! Nicht sollen die Reichtümer eines hohen Herren die unseren überbieten, o Freigebiger.
Посади нас, о Индра, на широчайшее сиденье колесницы,
На пару коней, лучше всех возящих, о обладатель сотен!
Привези жертвенную усладу, высшую из услад!
Да не превзойдет богатство чужого наше (богатство), о щедрый!
इन्द्र॑ मृ॒ळ मह्यं॑ जी॒वातु॑मिच्छ चो॒दय॒ धिय॒मय॑सो॒ न धारा॑म् । यत्किं चा॒हं त्वा॒युरि॒दं वदा॑मि॒ तज्जु॑षस्व कृ॒धि मा॑ दे॒वव॑न्तम् ॥
इन्द्र॑ । मृ॒ळ । मह्य॑म् । जी॒वातु॑म् । इ॒च्छ॒ । चो॒दय॑ । धिय॑म् । अय॑सः । न । धारा॑म् । यत् । किम् । च॒ । अ॒हम् । त्वा॒ऽयुः । इ॒दम् । वदा॑मि । तत् । जु॒ष॒स्व॒ । कृ॒धि । मा॒ । दे॒वऽव॑न्तम् ॥
हे इन्द्र मृळ मृळय । अस्मान् सुखय । जीवातुं जीवनौषधं च मह्यं दातुम् इच्छ । तथा धियं बुद्धिं चोदय । स्तुतिविषयां कर्मविषयां वा प्रेरय । तीक्ष्णीकुरु । अयसो न धाराम् अयोमयस्य खड्गादेर्धारामिव । सा यथा सूक्ष्मा तद्वत् सूक्ष्मविषयां धियं चोदयेत्यर्थः ॥ किंच त्वायुः त्वामात्मन इच्छन् इदम् इदानीं यत्किंचन अहं वदामि समीचीनमसमीचीनं वा तज्जुषस्व सेवस्व । मा मां च देववन्तं रक्षकैर्देवैरुपेतं कृधि कुरु ॥ ॥ ३१ ॥
“Make me happy, Indra; be plural ased to prolong my life; shapen my intellect like the edge of a metal sword; whatsoever, desirous (of propitiating) you, I may utter, be plural ased by it; render me the object of divine protection.”
Be gracious, Indra, let my days be lengthened: sharpen my thought as 'twere a blade of iron
Approve whatever words I speak, dependent on thee, and grant me thy divine protection.
Indra, be gracious. Seek a means of life for me. Spur on my poetic vision like a blade of copper.
Whatever I say here in devotion to you, just this enjoy. Make me accompanied by the gods.
Sei hold, o Indra, wahre mir das Leben, die Andacht schärfe, wie des Schwertes Schneide; Was irgend hier ich spreche, dir ergeben, das nimm du an und mache gottbeschützt mich.
Indra, sei barmherzig, wünsche mir das Leben, mach das Gedicht schneidig wie die Klinge von Eisen! Alles, was ich da nach dir verlangend sage, daran habe deine Freude, mach mich zum Göttergünstling!
О Индра, помилуй, пожелай мне жизни!
Отточи молитву, словно лезвие из металла!
Когда я, преданный тебе, что-нибудь здесь говорю,
Наслаждайся этим! Сделай меня любимцем богов!
त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒ हवे॑हवे सु॒हवं॒ शूर॒मिन्द्र॑म् । ह्वया॑मि श॒क्रं पु॑रुहू॒तमिन्द्रं॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्र॑: ॥
त्रा॒तार॑म् । इन्द्र॑म् । अ॒वि॒तार॑म् । इन्द्र॑म् । हवे॑ऽहवे । सु॒ऽहव॑म् । शूर॑म् । इन्द्र॑म् । ह्वया॑मि । श॒क्रम् । पु॒रु॒ऽहू॒तम् । इन्द्र॑म् । स्व॒स्ति । नः॒ । म॒घऽवा॑ । धा॒तु॒ । इन्द्रः॑ ॥
त्रातारं शत्रुभ्यः पालयितारम् इन्द्रम् आह्वयामि । तथा अवितारं कामैस्तर्पयितारम् इन्द्रम् आह्वयामि । हवेहवे सर्वेष्वाहवनेषु सुहवं सुखेनाह्वातुं शक्यं शूरं शौर्यवन्तं शक्रं सर्वकार्येषु शक्तं पुरुहूतं पुरुभिर्बहुभिः पालनार्थमाहूतमेवंविधम् इन्द्रं ह्वयामि आह्वयामि । एवमाहूतः मघवा धनवान् सः इन्द्रः स्वस्ति अविनाशं नः अस्मभ्यं धातु ददातु । यद्वा । अस्माकं विदधातु ॥
“I invoke, at repeated sacrifice, Indra, the preserver, the protector, the hero, who is easily propitiated, Indra, the powerful, the invoked of many; may Indra, the lord of affluence, bestow upon us prosperity.”
Indra the Rescuer, Indra the Helper, Hero who listens at each invocation,
Sakra I call, Indra invoked of many. May Indra Maghavan prosper and bless us.
Indra the protector, Indra the helper, Indra the champion good to call at every call—
I call on Indra, the able one, called on by many. Let bounteous Indra establish well-being for us.
Den Retter Indra und den Helfer Indra, der jeden Ruf erhört, den Helden Indra, Den vielgerufnen, starken Indra ruf' ich, er gebe Wohlsein uns, der mächt'ge Indra.
Den Retter Indra, den Schützer Indra, den bei jeder Anrufung leicht zu errufenden Helden Indra rufe ich, den mächtigen, vielgerufenen Indra. Glück soll uns der freigebige Indra bringen!
Спасителя Индру, помощника Индру,
Героя Индру, легко призываемого при каждом зове,
Я зову могучего много раз призванного Индру.
Счастье пусть даст нам щедрый Индра!
इन्द्र॑: सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृळी॒को भ॑वतु वि॒श्ववे॑दाः । बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥
इन्द्रः॑ । सु॒ऽत्रामा॑ । स्वऽवा॑न् । अवः॑ऽभिः । सु॒ऽमृ॒ळी॒कः । भ॒व॒तु॒ । वि॒श्वऽवे॑दाः । बाध॑ताम् । द्वेषः॑ । अभ॑यम् । कृ॒णो॒तु॒ । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥
सुत्रामा सुष्ठु त्राता स्ववान् धनवान् सः इन्द्रः अवोभिः रक्षणैः सुमृळीकः सुष्ठु सुखयिता भवतु । तथा च विश्ववेदाः सर्वधनः सर्वविद्वान् वा स इन्द्रः द्वेषः द्वेष्टॄन शत्रून् बाधतां हिनस्तु । अभयं भयरहितं चास्माकं कृणोतु करोतु । वयं च तत्प्रसादात् सुवीर्यस्य शोभनवीर्यस्य पतयः स्याम भवेम ॥
“May the protecting, opulent Indra be the bestower of felicity by his protections; may he, who is all-knower of felicity by his protections; may he, who is all-knowing, foil our adversaries; may he keep us out of danger, and may we be the possessors of excellent posterity.”
May helpful Indra as our good Protector, Lord of all treasures, favour us with succour,
Baffle our foes, and give us rest and safety, and may we be the lords of hero vigour.
Indra, the protector, the granter of aid with his aids;
All knowing, be kindly to us;
Let him restrain the enemy, let him make security,
May we be lords of strength [4].
Let Indra be of good protection, of good help with his help, very gracious, affording all possessions.
Let him thrust away hatred; let him create fearlessness. Might we be lords of good heroes in abundance.
Schönschirmend sei, der alles kennet, Indra, und gnadenreich, mit Hülfen kräftig helfend; Die Feinde schlag' er, schaffe sichern Frieden, und Herren sein wir grosser Heldenscharen.
Indra, der gute Schirmer, der gute Helfer mit seinen Hilfen, soll uns barmherzig sein, der Allwissende. Er soll die Anfeindungen vertreiben, Sicherheit schaffen. Wir wollen Besitzer tüchtiger Mannschaft sein.
Индра, прекрасный спаситель, прекрасный помощник со (своей) помощью
Пусть будет очень милостив (к нам) (он,) всеведущий!
Пусть прогонит он ненависть, пусть создаст безопасность!
Да будем мы повелителями хорошего мужского потомства!
तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म । स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒द्द्वेष॑: सनु॒तर्यु॑योतु ॥
तस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ । सः । सु॒ऽत्रामा॑ । स्वऽवा॑न् । इन्द्रः॑ । अ॒स्मे इति॑ । आ॒रात् । चि॒त् । द्वेषः॑ । स॒नु॒तः । यु॒यो॒तु॒ ॥
यज्ञियस्य यज्ञार्हस्य सुमतौ शोभनायामनुग्रहात्मिकायां बुद्धौ वयं स्याम । तद्विषयभूताः भवेम । तथा भद्रे कल्याणे सौमनसे सुमनसो भावे अपि तदीये स्याम भवेम । स इन्द्रोऽस्मास्वनुग्रहात्मिकां बुद्धिं सौमनस्यं च करोत्वित्यर्थः । सुत्रामा सुष्ठु त्राता स्ववान् धनवान् सः इन्द्रः च अस्मे अस्मत्त: आराच्चित् दूरदेश एव द्वेषः द्वेष्टॄन् सनुतः । अन्तर्हितनामैतत् । अन्तर्हितान् युयोतु पृथक्करोतु ॥
“May we continue in the favour of that adorable (deity) even in his auspicious good-will; may that protecting and opulent Indra drive far from us, into extinction, all those who hate us.”
May we enjoy the grace of him the Holy, yea, may we dwell in his auspicious favour.
May helpful Indra as our good Preserver drive from us, even from afar, our foemen.
May we enjoy the favour of him the worshipful,
And also his loving kindness;
May the protector Indra, the granter of aid,
For ever fend far from us the enemy.
Might we be in the favor of him who deserves the sacrifice, in his propitious benevolence.
Let Indra of good protection, of good help to us keep hatred away even from a distance.
᳓
Wir mögen stehn in deiner Huld, des Heil'gen, in segensvollem Glücke fest gegründet; Er, Indra, schön uns helfend und errettend, verjage uns den Feind, auch wenn er fern ist.
Wir wollen in der Gunst und glückbringenden Gnade dieses Opferwürdigen leben. Dieser Indra, unser guter Schirmer und guter Helfer soll schon von ferne die Anfeindung abseits wenden.
Да будем мы в милости у него, достойного жертв,
И в добром (его) расположении!
Этот прекрасный спаситель, прекрасный помощник Индра для нас
Еще издалека пусть прогонит ненависть далеко прочь!
अव॒ त्वे इ॑न्द्र प्र॒वतो॒ नोर्मिर्गिरो॒ ब्रह्मा॑णि नि॒युतो॑ धवन्ते । उ॒रू न राध॒: सव॑ना पु॒रूण्य॒पो गा व॑ज्रिन्युवसे॒ समिन्दू॑न् ॥
अव॑ । त्वे इति॑ । इ॒न्द्र॒ । प्र॒ऽवतः॑ । न । ऊ॒र्मिः । गिरः॑ । ब्रह्मा॑णि । नि॒ऽयुतः॑ । ध॒व॒न्ते॒ । उ॒रु । न । राधः॑ । सव॑ना । पु॒रूणि॑ । अ॒पः । गाः । व॒ज्रि॒न् । यु॒व॒से॒ । सम् । इन्दू॑न् ॥
हे इन्द्र त्वे त्वां नियुतः स्तोतुः गिरः उक्थात्मिका वाच: ब्रह्माणि सामरूपाणि स्तोत्राणि च अव धवन्ते अभिगच्छन्ति । तत्र दृष्टान्तः। ऊर्मिः जलसंघः प्रवतो न प्रवणदेशानिव। यथोच्छ्रितात् स्थलात् निम्नदेशं शीघ्रं गच्छति तद्वत् । नशब्दः समुच्चये । उरु उरूणि बहु राधः राधांसि च हविर्लक्षणानि धनानि पुरूणि बहूनि सवना सवनानि बहवोऽभिषुताः सोमाश्च त्वामेवाभिगच्छन्ति । हे वज्रिन् वज्रवन्निन्द्र अपः वसतीवर्याख्याः गाः गोविकारान् ऋतदध्यादीन् श्रपणार्थान् इन्दून् सोमांश्च सं युवसे सम्यक् मिश्रयसि । त्वां यष्टुं वसतीवरीभिरभिषुत्य तं सोममाशिरादिभिः श्रपणद्रव्यैः संस्कुर्वन्तीत्यर्थः ॥
“To you the praises and prayers of the worshipper hasten like a torrent down a declivity; and you thunderer, aggregate the immense wealth (of sacrificial offerings), copious libations, and milk, and the Soma.”
Like rivers rushing down a slope, O Indra, to thee haste songs and prayers and linked verses.
Thou gatherest, Thunderer! like widespread bounty, kine, water, drops, and manifold libations.
Down to you, Indra, run the hymns and the sacred formulations as teams, like a wave along the slopes.
As broad as your bounty are the many pressings. You join together the waters, the cows, and the drops, you possessor of the mace.
Zu dir hin strömen, wie vom Abhang Wellen, Gebete, Indra, Lieder, Spruchgespanne, Du spannst dir an als reichen Lohn, o Blitzer, viel Spenden, Wasser, Milch und Indutränke.
Zu dir, Indra, eilen wie die Wellen ihre Bahnen so die Lobreden, die Segensworte, die Gaben. Ausgedehnt wie eine Schenkung sind die vielen Somaspenden. Du nimmst die Wasser, Kuhmilch, die Somasäfte für dich in Beschlag, o Keulenträger.
К тебе, о Индра, словно волна по откосам,
Сбегают хвалебные песни, священные слова, дары.
Словно широкие проявления привязанности, вбираешь ты в себя
Многие выжимания (сомы): воды, молоко, о громовержец, соки сомы.
क ईं॑ स्तव॒त्कः पृ॑णा॒त्को य॑जाते॒ यदु॒ग्रमिन्म॒घवा॑ वि॒श्वहावे॑त् । पादा॑विव प्र॒हर॑न्न॒न्यम॑न्यं कृ॒णोति॒ पूर्व॒मप॑रं॒ शची॑भिः ॥
कः । ई॒म् । स्त॒व॒त् । कः । पृ॒णा॒त् । कः । य॒जा॒ते॒ । यत् । उ॒ग्रम् । इत् । म॒घऽवा॑ । वि॒श्वहा । अवे॑त् । पादौ॑ऽइव । प्र॒ऽहर॑न् । अ॒न्यम्ऽअ॑न्यम् । कृ॒णोति॑ । पूर्व॑म् । अप॑रम् । शची॑भिः ॥
कः स्तोता ईम् एनमिन्द्रं स्तवत् स्तुयात् । स्तोतुं शक्नुयात् । कः वा पृणात् एनं प्रीणयेत् । कः च यजाते एनं हविर्भिर्यजेत। यत् यस्मात् अयं मघवा धनवानिन्द्रः उग्रमित् उद्गूर्णमेव विश्वहा सर्वदा अवेत् आत्मानं वेत्ति जानाति सर्वदा उग्र एव भवति तस्मात् कारणात् न कोऽप्येनं स्तोतुं प्रीणयितुं यष्टुं वा शक्नोतीति भावः । इतोऽपि स्तुत्यादेरविषय इत्याह । यस्मादयमिन्द्रः शचीभिः आत्मीयाभिः प्रज्ञाभिः पूर्वं प्रथमभाविनं सन्तं स्तोतारम् अपरं पश्चाद्भाविनं च अन्यमन्यं परस्परव्यतिहारेण कृणोति करोति । यः प्रथमभावी मुख्यः स्तोता तं जघन्यं करोति यश्च जघन्यः स्तोता तं मुख्यं करोति । तत्र दृष्टान्तः । प्रहरन् पादाविव । यथा पादौ प्रहरन् मार्गे प्रक्षिपन् पुरुषः पूर्वं पादमपरं करोत्यपरं च पूर्वं तद्वत् । अतोऽपि कारणात् इन्द्रः स्तुत्यादेरविषय इति भावः । एतदादिकेन पञ्चर्चेन इन्द्रस्यातिस्वातन्त्र्यं प्रतिपाद्यते ॥ ॥ ३२ ॥
“Who may (adequately) praise him? Who may satisfy him? Who offer worthy adoration? Since Maghava is daily conscious of his own terrible (power); by his acts he makes first one and then the other precede and follow, as (a man) throws out his feet (alternately in walking).”
Who lauds him, satisfies him, pays him worship? E'en the rich noble still hath found him mighty.
With power, as when one moves his feet alternate, he makes the last precede, the foremost follow.
Who will praise him, who will fill him, who will sacrifice to him, if the bounteous one would always help only the strong?
Like one who puts down his two feet one after the other, with his powers he makes the one who was behind to be in front.
Wer preist ihn recht, wer sättigt, wer verehrt ihn, dass auch dem starken stets der mächt'ge helfe? Wie Füsse setzend, einen vor den andern, lässt mächtig er den vordern hinten bleiben.
Wer möchte ihn preisen, wer ihm spenden, wer opfern, wenn der Gabenreiche allezeit nur den Gewaltigen begünstigte? Wie man die Füße einen um den anderen vorsetzt, so macht er den Vorderen zum Hintermann durch seine Macht.
Кто будет его восхвалять, кто одаривать, кто почитать,
Если щедрый все время поддерживал только грозного?
Подобно тому как (при ходьбе) выставляют ноги вперед: то одну, то другую,
Переднего он делает задним (своими) силами.
शृ॒ण्वे वी॒र उ॒ग्रमु॑ग्रं दमा॒यन्न॒न्यम॑न्यमतिनेनी॒यमा॑नः । ए॒ध॒मा॒न॒द्विळु॒भय॑स्य॒ राजा॑ चोष्कू॒यते॒ विश॒ इन्द्रो॑ मनु॒ष्या॑न् ॥
शृ॒ण्वे । वी॒रः । उ॒ग्रम्ऽउ॑ग्रम् । द॒म॒ऽयन् । अ॒न्यम्ऽअ॑न्यम् । अ॒ति॒ऽने॒नी॒यमा॑नः । ए॒ध॒मा॒न॒ऽद्विट् । उ॒भय॑स्य । राजा॑ । चो॒ष्कू॒यते॑ । विशः॑ । इन्द्रः॑ । म॒नु॒षया॑न् ॥
अयमिन्द्रः वीरः वीर्यवानिति शृण्वे श्रूयते । किं कुर्वन् । उग्रमुग्रम् उद्गूर्णमुद्गूर्णं बलिनं शत्रुं प्रति दमायन् । दमः दमनम् । बाधनमिच्छन् । अन्यमन्यं प्रथमं नेतव्यमन्यं पश्चान्नेतव्यं चान्यं पूर्वमपरं परस्परव्यतिहारेण स्तोतॄन् अतिनेनीयमानः अत्यन्तं पुनःपुनर्नयन् । अपि च एधमानद्विट् एधमानानां वर्धमानानामसुन्वतां द्वेष्टा उभयस्य दिव्यस्य पार्थिवस्य च धनस्य राजा ईश्वरोऽयम् इन्द्रः विशः निवेशयितॄन् स्वस्य परिचारकान् मनुष्यान् चोष्कूयते रक्षणार्थं पुनःपुनराह्वयति ॥
“The hero Indra is renowned; humiliating every formidable (foe), and repeatedly changing the plural ce of one (worshipper) with that of another; Indra, the enemy of the arrogant, the soverign of both (heaven and earth), calls again and again (to encourage) the men who are his worshippers.”
Famed is the Hero as each strong man's tamer, ever advancing one and then another.
King of both worlds, hating the high and haughty, Indra protects the men who are his people.
He is famed as a hero who subdues every strong one, continually leading the one beyond the other in turn. Hating the flashy, king of both (races [=human and divine]), Indra
keeps prodding the clans, the sons of Manu—first one, then
the other.
Man hört, der Held bezwinget jeden Starken und immer andre führt er an die Spitze; Den Stolzen hasst der König beider Welten; die menschenholden Stämme schirmet Indra.
Es heißt, daß der Held jeden Gewaltigen zahm macht, daß er einen um den anderen erhöht. Er haßt den Glückspilz, als König über beide Teile kehrt Indra die Stämme der Menschen um und um.
Герой слывет укрощающим любого грозного,
Выводя вперед то одного, то другого.
Ненавидя удачливого, царь обоих (родов),
Индра сгребает племена людей.
परा॒ पूर्वे॑षां स॒ख्या वृ॑णक्ति वि॒तर्तु॑राणो॒ अप॑रेभिरेति । अना॑नुभूतीरवधून्वा॒नः पू॒र्वीरिन्द्र॑: श॒रद॑स्तर्तरीति ॥
परा॑ । पूर्वे॑षाम् । स॒ख्या । वृ॒ण॒क्ति॒ । वि॒ऽतर्तु॑राणः । अप॑रेभिः । ए॒ति॒ । अन॑नुऽभूतीः । अ॒व॒ऽधू॒न्वा॒नः । पू॒र्वीः । इन्द्रः॑ । श॒रदः॑ । त॒र्त॒री॒ति॒ ॥
अयमिन्द्रः पूर्वेषां पूर्वभाविनां प्रशस्तानां कर्मणां कुर्वतां पुरुषाणां सख्या सखित्वानि परा वृणक्ति वर्जयति । अपि च वितर्तुराणः तान् हिंसन् 'अपरेभिः अपरैः अमुख्यैरप्रशस्तैरपि कर्मानुष्ठातृभिः एति सख्यं प्राप्नोति । तथा अनानुभूतीः अपरिचरणाः प्रजाः अवधून्वानः परित्यजन् पूर्वीः बह्वीः शरदः संवत्सरान् अयम् इन्द्रः तर्तरीति भृशमतिक्रामति । स्तोतृभिः सह सख्यं कुर्वन् चिरकालं वसतीत्यर्थः ॥
“Indra rejects the friendship of those who are formost (in pious acts), and, depositing them, associates with (their) inferiors; or (again) shaking off those who neglect his worship, Indra abides many years with those who serve him.”
He loves no more the men he loved aforetime: he turns and moves away allied with others.
Rejecting those who disregard his worship, Indra victorious lives through many autumns.
He twists away from his partnerships with those in front; continually double-crossing them, he goes with those behind.
Indra keeps enduring through the many autumns, shaking them
[=autumns] off so they don’t close in.
Er löset auf Genossenschaft der frühern, abwechselnd geht im Bund er mit den spätern; Abschüttelnd die, die nicht ihm sind ergeben, durchdringet siegreich Indra viele Herbste.
Er gibt die Freundschaft der Früheren auf, abwechselnd geht er mit anderen. Indra überdauert viele Herbste, sie abschüttelnd, daß sie an ihm nicht wahrgenommen werden.
Он отвергает дружбу прежних,
Попеременно ходит он с другими.
Индра оставляет позади много осеней,
Стряхивая (их) с себя, чтобы они не ощущались.
रू॒पंरू॑पं॒ प्रति॑रूपो बभूव॒ तद॑स्य रू॒पं प्र॑ति॒चक्ष॑णाय । इन्द्रो॑ मा॒याभि॑: पुरु॒रूप॑ ईयते यु॒क्ता ह्य॑स्य॒ हर॑यः श॒ता दश॑ ॥
रू॒पम्ऽरू॑पम् । प्रति॑ऽरूपः । ब॒भू॒व॒ । तत् । अ॒स्य॒ । रू॒पम् । प्र॒ति॒ऽचक्ष॑णाय । इन्द्रः॑ । मा॒याभिः॑ । पु॒रु॒ऽरूपः॑ । ई॒य॒ते॒ । यु॒क्ताः । हि । अ॒स्य॒ । हर॑यः । श॒ता । दश॑ ॥
अयमिन्द्रः प्रतिरूपः रूपाणां प्रतिनिधिः सन् रूपंरूपं तत्तदग्न्यादिदेवतास्वरूपं बभूव । प्राप्नोति । ‘भू प्राप्तौ ' इति धातुः । इन्द्रः स्वमाहात्म्येन तत्तद्देवतारूपो भवतीत्यर्थः । अस्य चेन्द्रस्य तत् प्राप्तमग्न्यादिदेवतास्वरूपं प्रतिचक्षणाय प्रतिनियतदर्शनाय अयमग्निरयं विष्णुरयं रुद्र इत्येवमसंकीर्णदर्शनाय भवति । अपि चायम् इन्द्रो मायाभिः । ज्ञाननामैतत् । ज्ञानैः आत्मीयैः संकल्पैः पुरुरूपः बहुविधशरीरः सन् ईयते बहून् यजमानान् गच्छति । ननु द्वावेवास्याश्वावेकश्च रथः कथमनेन युगपद्बहून् गच्छतीत्यत आह । अस्य इन्द्रस्य हरयः अश्वाः युक्ताः रथे योजिताः शता दश सहस्रसंख्याका अपरिमिताः सन्ति । हि यस्मादेवं तस्माद्बहुशरीराणि स्वीकृत्य युगपत् हविष्मतो यजमानान् गच्छतीत्यर्थः ॥ अन्ये मन्यन्ते । ‘इदि परमैश्वर्ये ' इत्यस्य धातोरर्थानुगमात् इन्द्रः परमात्मा । स चाकाशवत् सर्वगतः सदानन्दरूपः । स एव उपाधिभिरन्तःकरणैः प्रतिशरीरमवच्छिन्न: सन् जीवात्मेति व्यपदिश्यते । स एव अनादिमायाशक्तिभिः वियदादिजगदात्मना विवर्तते शब्दादिविषयहरणशीला इन्द्रियवृत्तयश्च तेनैव संबद्धाः । एतत्सर्वं तस्य परमात्मनो यद्वास्तवं रूपं तस्य दर्शनायेति । अयमर्थोऽनया प्रतिपाद्यते । रूपंरूपम् । रूप्यत इति रूपं शरीरादि । प्रतिशरीरं चिद्रूपः सर्वगतः परमात्मा प्रतिरूपः प्रतिबिम्बरूपः सन् सर्वाणि शरीराणि बभूव । प्राप्नोत् । तच्च प्राप्तं प्रतिबिम्बरूपमस्य परमात्मनः प्रतिचक्षणाय प्रतिनियताकारस्य दर्शनाय भवति । स चेन्द्रः परमेश्वरो मायाभिर्मायाशक्तिभिः पुरुरूपो वियदादिभिर्बहुविधरूपैरुपेतः सन् ईयते चेष्टते । एतदप्यस्य परमात्मनः प्रतिचक्षणाय भवति । अस्य च दश शता सहस्रसंख्याका हरय इन्द्रियवृत्तयः युक्ता विषयग्रहणायोद्युक्ताः सन्ति । तदप्यस्य वास्तवरूपस्य दर्शनाय भवतीति । एवं स्थूलसूक्ष्मशरीरयोर्वियदादिमहाप्रपञ्चस्य च तत्वज्ञानहेतुत्वमनया प्रत्यपादीति ॥
“Indra, the prototype, has assumed various forms, and such is his form as that which (he adopts) for his manifestation; Indra, multiform by his illusion, proceeds (to his many worshippers), for the horses, yoked to his car are a thousand.”
In every figure he hath been the mode: this is his only form for us to look on.
Indra moves multiform by his illusions; for his Bay Steeds are yoked, ten times a hundred.
He has a form corresponding to every form; this form of his is for display.
Indra keeps going about in many forms through his magical powers, for ten hundred fallow bays are yoked for him.
Gleich an Gestalt ward jeglicher Gestalt er, so ist zu schauen die Gestalt des Indra; Durch Zauberkünste geht er vielgestaltig; denn zehnmal hundert Füchse sind geschirrt ihm.
Jeglicher Gestalt hat er sich angepaßt; diese wahre Gestalt von ihm ist in allen wieder zu erkennen. Vermöge seiner Zauberkünste geht Indra in vielen Gestalten, denn zehn hundert Falben sind für ihn angespannt.
Он уподоблял свой облик любому (другому) облику.
Этот его облик (предназначен) для восприятия.
Благодаря волшебным способностям Индра ходит во многих обликах –
Ведь запряжено для него десять сотен буланых коней.
यु॒जा॒नो ह॒रिता॒ रथे॒ भूरि॒ त्वष्टे॒ह रा॑जति । को वि॒श्वाहा॑ द्विष॒तः पक्ष॑ आसत उ॒तासी॑नेषु सू॒रिषु॑ ॥
यु॒जा॒नः । ह॒रिता॑ । रथे॑ । भूरि॑ । त्वष्टा॑ । इ॒ह । रा॒ज॒ति॒ । कः । वि॒श्वाहा॑ । द्वि॒ष॒तः । पक्षः॑ । आ॒स॒ते॒ । उ॒त । आसी॑नेषु । सू॒रिषु॑ ॥
हरिता हरितावश्वौ रथे युजानः युञ्जन् त्वष्टा दीप्त इन्द्रः इह त्रैलोक्ये भूरि भूरिषु बहुषु प्रदेशेषु राजति दीप्यते । उत अपि च सूरिषु स्तोतृष्वस्मादृशेषु आसीनेषु सत्सु विश्वाहा सर्वदा इन्द्रादन्यः कः नाम द्विषतः शत्रोः पक्षः पाचको बाधकः सन् आसते आस्ते । इन्द्र एव सर्वदा शत्रून् बाधत इत्यर्थः । यद्वा । पक्ष इति सकारान्तं समीपवचनम् । इन्द्रादन्यः को नाम द्विषतः शत्रोः समीप आसते आस्ते । इन्द्र एव निर्भयः सन् शत्रुसमीपे स्थातुं शक्नोतीति भावः ॥
“Yoking his horses to his car, Tvaṣṭā shines in many plural ces here in the three worlds; who (else), sojourning daily among his present worshippers, is their proector against adversaries?”
Here Tvastar, yoking to the car the Bay Steeds, hath extended sway.
Who will for ever stand upon the foeman's side, even when our princes sit at ease?
Having yoked the two fallow bay mares to his chariot, Tvaṣṭar rules over the many (forms) here.
Who will always sit on the side of the hostile—and especially when
(our) patrons are sitting (a sacrificial session)?
Die goldfarbenen beiden Stuten sich anschirrend, erglänzet Tvaschtar prächtig hier. Wer sitzt gelassen stets, auch an des Feindes Seite, wie bei den Priestern, welche um ihn sitzen?
Seine beiden Falbinnen an den Wagen spannend schaltet Tvastri hier viel. Wer wird allezeit sich auf die Seite des Feindes schlagen, zumal wann die freigebigen Gönner eine Opfersitzung halten?
Запрягши в колесницу двух буланых кобылиц
Здесь мощно царствует Тваштар.
Кто же будет всегда находиться на стороне ненавистника,
Тем более что сидят богатые покровители)
अ॒ग॒व्यू॒ति क्षेत्र॒माग॑न्म देवा उ॒र्वी स॒ती भूमि॑रंहूर॒णाभू॑त् । बृह॑स्पते॒ प्र चि॑कित्सा॒ गवि॑ष्टावि॒त्था स॒ते ज॑रि॒त्र इ॑न्द्र॒ पन्था॑म् ॥
अ॒ग॒व्यू॒ति । क्षेत्र॑म् । आ । अ॒ग॒न्म॒ । दे॒वाः॒ । उ॒र्वी । स॒ती । भूमिः॑ । अं॒हू॒र॒णा । अ॒भू॒त् । बृह॑स्पते । प्र । चि॒कि॒त्स॒ । गोऽइ॑ष्टौ । इ॒त्था । स॒ते । ज॒रि॒त्रे । इ॒न्द्र॒ । पन्था॑म् ॥
अत्रोक्तम्- अरण्ये निर्जने गर्गो देवान् भूमिं बृहस्पतिम् । इन्द्रं चास्तौत् स्वरक्षार्थमृचा मार्गच्युतोऽनया' इति, ‘अगव्यूतीत्यत्र देवान् पादे भूमिमथोत्तरे। बृहस्पतिं तृतीये तु इन्द्र एवोत्तमे स्तुतः ' इति च ॥ हे देवाः अगव्यूति अगोचरं गोसंचाररहितं निर्जनं क्षेत्रं देशम् आगन्म आगताः स्मः । अतो मां रक्षतेति शेषः । उर्वी विस्तीर्णा सती भूमिः च अंहूरणा। अंहव आहन्तारो दस्यवः तेषां रमणा रमयित्री अभूत् भवति । अस्मानतः सापि रक्षतु । हे बृहस्पते त्वं गविष्टौ गवामन्वेषण उपाये प्र चिकित्स प्रवेदय। इत्था इत्थमनेन प्रकारेण सते भवते दुःखमनुभवते जरित्रे स्तोत्रे मह्यं हे इन्द्र पन्थां पन्थानं मार्ग प्र चिकित्स प्रज्ञापय ॥ ॥ ३३ ॥
“We have wandered, gods, into a desert where there is no track of cattle; the vast extant earth has become the protectress of murderers; direct us, Bṛhaspati, in our search for cattle; show the path, Indra, to your votary being astray.”
Gods, we have reached a country void of pasture the land, though spacious, was too small to hold us.
Brhaspati, provide in war for cattle; find a path, Indra, for this faithful singer.
We have come here to a field without pasturage, o gods. Though it was wide, the land has become narrow.
O Br̥haspati, o Indra, be on the lookout for a path for the singer who is in this state on his quest for cattle.
Wir kamen zu einem weidelosen Lande, o Götter; die Erde, die doch weit ist, ward uns enge; o Brihaspati zeige in dem Kampfe den Pfad, o Indra, dem wahrhaft treuen Sänger.
Ihr Götter! Wir sind in ein wegloses Land gekommen. Die Erde, die doch so breit ist, ist eng geworden. Brihaspati, suche dem Sänger, der auf der Suche nach Kühen in solcher Lage ist, und du, Indra, den Weg auszukunden!
О боги, мы попали в местность без пастбищ.
Хоть земля и широка, (нам) она стала узкой.
О Брихаспати, укажи путь к поискам коров
Певцу, действительно, находящемуся (в таком положении)!
दि॒वेदि॑वे स॒दृशी॑र॒न्यमर्धं॑ कृ॒ष्णा अ॑सेध॒दप॒ सद्म॑नो॒ जाः । अह॑न्दा॒सा वृ॑ष॒भो व॑स्न॒यन्तो॒दव्र॑जे व॒र्चिनं॒ शम्ब॑रं च ॥
दि॒वेऽदि॑वे । स॒ऽदृशीः॑ । अ॒न्यम् । अर्ध॑म् । कृ॒ष्णाः । अ॒से॒ध॒त् । अप॑ । सद्म॑नः । जाः । अह॑न् । दा॒सा । वृ॒ष॒भः । व॒स्न॒यन्ता॑ । उ॒दऽव्र॑जे । व॒र्चिन॑म् । शम्ब॑रम् । च॒ ॥
अयमिन्द्रः सद्मनः सदनात् स्वकीयादन्तरिक्षैकदेशात् स्थानात् जाः जायमानः सूर्यात्मना प्रादुर्भवन् 'सदृशीः तुल्यरूपाः कृष्णाः कृष्णवर्णां रात्रीः दिवेदिवे प्रतिदिवसम् अप असेधत् निवर्तयति । किमर्थम् । अन्यम् अर्धम् अहरर्धम् अपरं भागं प्रकाशयितुम् । अहोरात्रात्मकस्य दिवसस्य हि रात्रिरेको भागः । अपि च वृषभः वर्षयिता स इन्द्रः दासा दासौ उपक्षपयितारौ यज्ञकर्मणां वस्रयन्ता । वस्त्रं निवासहेतुभूतं धनम् । तदिच्छन्तौ वर्चिनं शम्बरं च एतत्संज्ञावसुरौ उदव्रजे । उदकानि व्रजन्त्यस्मिन्नित्युदव्रजो देशविशेषः । तस्मिन् अहन् हतवान् ॥
“Indra, becoming manifest from his abode (in the firmament), dissipates, day by day, the resembling glooms, (so that he may distinguish) the other portion, (or the day); and the showerer has slain the two wealth-seeking slaves, Varcin and Śambara, in (the country of) Udavraja.”
Day after day far from their seat he drove them, alike, from place to place, those darksome creatures.
The Hero slew the meanly-huckstering Dasas, Varcin and Sambara, where the waters gather.
Day after day he drove off from their seat the other half, the black kindred all of the same appearance.
The bull smashed the two Dāsas, mercenaries, Varcin and Śambara, at the moated place.
Er vertrieb täglich die einander gleichenden dunkeln Wesen von ihrem Sitze weg nach der andern Hälfte [der Nacht]; der Stier erschlug die feilschenden Dämonen, die Flutversperrer [ich lese udávrajā] Vartschin und Çambara.
Er vertrieb die Tag für Tag gleichen Nächte, die schwarzen Kinder, aus ihrem Sitz nach der anderen Seite. Der Bulle erschlug die beiden Lösegeld fordernden Dasa´s, den Yarcin und Sambara in Udavraja.
Каждый день одинаковых черных отпрысков
Он гнал прочь с места на другую сторону,
Бык убил двоих торгующихся дасов
У водной преграды: Варчина и Шамбару.
प्र॒स्तो॒क इन्नु राध॑सस्त इन्द्र॒ दश॒ कोश॑यी॒र्दश॑ वा॒जिनो॑ऽदात् । दिवो॑दासादतिथि॒ग्वस्य॒ राध॑: शाम्ब॒रं वसु॒ प्रत्य॑ग्रभीष्म ॥
प्र॒स्तो॒कः । इत् । नु । राध॑सः । ते॒ । इ॒न्द्र॒ । दश॑ । कोश॑यीः । दश॑ । वा॒जिनः॑ । अ॒दा॒त् । दिवः॑ऽदासात् । अ॒ति॒थि॒ऽग्वस्य॑ । राधः॑ । शा॒म्ब॒रम् । वसु॑ । प्रति॑ । अ॒ग्र॒भी॒ष्म॒ ॥
एतदाद्यासु चतसृषु सृञ्जयपुत्रस्य प्रस्तोकस्य राज्ञो दानस्तुतिः। स एव दिवोदासोऽश्वथोऽतिथिग्व इति चाख्यायते । हे इन्द्र ते तव राधसः आराधयितुः स्तोतुः । चतुर्थ्यर्थे षष्ठी । त्वां स्तुवते मह्यं गर्गाय प्रस्तोकः राजा दश कोशयीः सुवर्णपूर्णान् दशसंख्याकान् कोशान् दश वाजिनः अश्वांश्च नु क्षिप्रम् अदात् प्रायच्छत् । इत् इति पूरणः । वयं च तस्मात् दिवोदासात् एतत्संज्ञात् प्रस्तोकात् वसु धनं प्रत्यग्रभीष्म प्रतिगृहीतवन्तः । कीदृशम्। अतिथिग्वस्य तस्यैव प्रस्तोकस्य स्वभूतं राधः राधकं शाम्बरं शम्बरदसुरादागतम् । शम्बरं हत्वा त्वया दत्तं तदीयमित्यर्थः ॥
“Prastoka has given to your worshipper, Indra, ten purses of gold, and ten horses, and we have accepted this treasure from Divodāsa, the spoil won by Atithigva from Śambara.”
Out of thy bounty, Indra, hath Prastoka bestowed ten coffers and ten mettled horses.
We have received in turn from Divodasa Sambara's wealth, the gift of Atithigva.
Prastoka from your bounty, Indra, has just now given ten casks, ten prizewinners.
From Divodāsa, (son?) of Atithigva, we have accepted as bounty the goods belonging to Śambara.
Prastoka gab nun von deinem Schatz, o Indra, zehn Truhen voll und zehn schnelle Rosse; von Divodasa empfingen wir des Atithigva Geschenk und das dem Çambara genommene Gut.
Prastoka hat von deiner Ehrengabe, Indra, zehn Truhen, zehn Preisrenner geschenkt. Von Divodasa als Lohn bekommen.
Сам Прастока сейчас из твоего почетного дара, о Индра,
Подарил десять кузовов, десять коней-победителей.
От Диводасы, (сына) Атитхигвы мы получили
Как почетный дар добро Шамбары.
दशाश्वा॒न्दश॒ कोशा॒न्दश॒ वस्त्राधि॑भोजना । दशो॑ हिरण्यपि॒ण्डान्दिवो॑दासादसानिषम् ॥
दश॑ । अश्वा॑न् । दश॑ । कोशा॑न् । दश॑ । वस्त्रा॑ । अधि॑ऽभोजना । दसो॒ इति॑ । हि॒र॒ण्य॒ऽपि॒ण्डान् । दिवः॑ऽदासात् । अ॒सा॒नि॒ष॒म् ॥
दश दशसंख्याकान् अश्वान् दशसंख्याकान् हिरण्यपूर्णान् कोशान् अधिभोजना। भोजनमिति धननाम । अधिकं धनं येषां मूल्यम् । तादृशानि दशसंख्याकानि वस्त्राणि च । दशो दश च दशसंख्याकांश्च हिरण्यपिण्डान् सुवर्णपिण्डानेतान् सर्वान् दिवोदासात् प्रस्तोकादहम् असानिषं समभजम् । लब्धवानस्मि ॥
“I have received ten horses, ten purses, clothes, and ample food and ten lumps of gold from Divodāsa.”
Ten horses and ten treasure-chests, ten garments as an added gift,
These and ten lumps of gold have I received from Divodasa's hand.
Ten horses, ten casks, ten garments, with delights on top—
ten golden balls have I gained from Divodāsa.
Zehn Pferde, zehn Kasten, zehn Kleider als Zugabe, zehn Goldklumpen erhielt ich von Divodasa.
Zehn Rosse, zehn Kasten, zehn Kleider nebst der Bewirtung und zehn Goldklumpen habe ich von Divodasa als Lohn bekommen.
Десять коней, десять кузовов,
Десять одежд и угощения,
Десять слитков золота
Я принял от Диводасы.
दश॒ रथा॒न्प्रष्टि॑मतः श॒तं गा अथ॑र्वभ्यः । अ॒श्व॒थः पा॒यवे॑ऽदात् ॥
दश॑ । रथा॑न् । प्रष्टि॑ऽमतः । श॒तम् । गाः । अथ॑र्वऽभ्यः । अ॒श्व॒थः । पा॒यवे॑ । अ॒दा॒त् ॥
दश दशसंख्याकान् प्रष्टिमतः । प्रष्टिस्त्रिपद आधारः । तद्वद्वहन्तीति प्रष्टयोऽश्वाः । तद्युक्तान् रथान् शतं शतसंख्याकाः गाः च अथर्वभ्यः अथर्वगोत्रेभ्य ऋषिभ्यः पायवे भरद्वाजपुत्राय एतत्संज्ञायास्मद्भ्रात्रे च अश्वथः अश्ववानेतत्संज्ञः प्रस्तोकः अदात् दत्तवान् ।
“Aśvattha has given to Pāyu ten chariots with their horses, and a hundred cows to the priests.”
Ten cars with extra steed to each, for the Atharvans hundred cows,
Hath Asvatha to Payu given.
Ten chariots with side-horses, a hundred cows
has Aśvatha given to the Atharvans, to Pāyu.
Zehn mit Seitenpferden versehene Wagen und hundert Rinder gab Açvatha den Priestern und dem Pāju.
Zehn Wagen samt Beipferden, hundert Kühe hat Asvatha den Atharvan´s dem Payu geschenkt.
Десять колесниц с пристяжными конями,
Сотню коров Атхарванам
(И) Паю подарил Ашватха.
महि॒ राधो॑ वि॒श्वज॑न्यं॒ दधा॑नान्भ॒रद्वा॑जान्त्सार्ञ्ज॒यो अ॒भ्य॑यष्ट ॥
महि॑ । राधः॑ । वि॒श्वऽज॑न्यम् । दधा॑नान् । भ॒रत्ऽवा॑जान् । स॒र्ञ्ज॒यः । अ॒भि । अ॒य॒ष्ट॒ ॥
विश्वजन्यं सर्वजनहितं महि महत् राधः धनं दधानान् धारयतः भरद्वाजान् भरद्वाजपुत्रानस्मान् साञ्जयः सृञ्जयपुत्रः प्रस्तोकः अभ्ययष्ट अपूजयत् ॥ ॥ ३४ ॥
“The son of Sṛñjaya has reverenced the Bharadvājas who have accepted such great wealth for the good of all men.”
Thus Srnjaya's son honoured the Bharadvajas, recipients of all noble gifts and bounty.
The descendant of Sr̥ñjaya has reached toward the Bharadvājas, who have acquired great bounty belonging to all people.
Die Bharadvadscher, welche grosses, allen zu Gute kommendes Geschenk empfingen, beschenkte des Srindschaja Spross.
Der Sohn des Srinjaya hat die Bharadvaja´s geehrt, die eine große, für alle Personen bestimmte Ehrengabe erhielten.
Сын Сринджайи уважил Бхарадваджей,
Получивших великий почетный дар, предназначенный для всех людей.
वन॑स्पते वी॒ड्व॑ङ्गो॒ हि भू॒या अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीर॑: । गोभि॒: संन॑द्धो असि वी॒ळय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि ॥
वन॑स्पते । वी॒ळुऽअ॑ङ्गः । हि । भू॒याः । अ॒स्मत्ऽस॑खा । प्र॒ऽतर॑णः । सु॒ऽवीरः॑ । गोभिः॑ । सम्ऽन॑द्धः । अ॒सि॒ । वी॒ळय॑स्व । आ॒ऽस्था॒ता । ते॒ । ज॒य॒तु॒ । जेत्वा॑नि ॥
हे वनस्पते वनस्पतिविकार रथ त्वं वीड्वङ्गः दृढावयवः भूयाः भव । अस्मत्सखा वयं सखायो यस्य स तादृशश्च भव । प्रतरणः प्रवर्धयिता सुवीरः शोभनैर्वीरैः शूरभटैः पुत्रादिभिर्वा युक्तश्च भव । अपि च त्वं गोभिः गोविकारैश्चर्मभिः संनद्धो असि सम्यक् बद्धो भवसि । तादृशस्त्वं वीळयस्व अस्मान् दृढीकुरु । ते तव आस्थाता त्वयि अवस्थितो रथी च जेत्वानि जेतव्यानि शत्रुसैन्यानि जयतु ॥
“(Chariot made of the) forest lord, be strong of fabric; be our friend; be our protector, and be manned by warriors; you are wrapped with cow-hides; keep us steady; and may he who rides in you be victorious over conquered (foes).”
Lord of the wood, be firm and strong in body: be, bearing us, a brave victorious hero
Show forth thy strength, compact with straps of leather, and let thy rider win all spoils of battle.
O tree, because you should become firm-limbed, a comrade to us, furthering (us), affording good heroes,
you are knotted together with cows [=leather (straps)]. Be firm! Let the one who mounts you win what is to be won.
O Wagengestell, sei fest an deinen Gliedern, uns ein Gefährte, vordringend, heldenfahrend; mit Riemen bist du geschnürt, zeige dich fest; der auf dir steht, möge erbeuten, was zu erbeuten ist.
So mögest du denn, o Baum, fest an Gliedern sein, unser Kamerad, der weiterhilft, ein guter Held. Du bist mit Rindsleder zusammengebunden; halte fest! Dein Wagenlenker soll die Beute ersiegen.
О дерево, будь же крепко членами,
Наш товарищ, выручающий (нас) добрый герой!
Ты связано коровьими (ремнями) – держись крепко!
Взошедший на тебя пусть завоюет добычу!
दि॒वस्पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्य॒: पर्याभृ॑तं॒ सह॑: । अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्रं॑ ह॒विषा॒ रथं॑ यज ॥
दि॒वः । पृ॒थि॒व्याः । परि॑ । ओजः॑ । उत्ऽभृ॑तम् । व॒न॒स्पति॑ऽभ्यः । परि॑ । आऽभृ॑तम् । सहः॑ । अ॒पाम् । ओ॒ज्मान॑म् । परि॑ । गोभिः॑ । आऽवृ॑तम् । इन्द्र॑स्य । वज्र॑म् । ह॒विषा॑ । रथ॑म् । य॒ज॒ ॥
दिवः द्युलोकात् पृथिव्याः भूमेश्च उद्भृतम् उद्धृतं सारत्वेनोपात्तं यत् ओजः बलमस्ति तद्रूपम् । वनस्पतिविकारत्वाद्रथस्य । वनस्पतयो हि पृथिव्याः सारभूताः ते च द्युसंबन्धिभिरुदकैः प्रवृद्धाः । अतो रथस्य लोकद्वयसारत्वमुपपन्नम्। परि पञ्चम्यर्थानुवादी । अपि च वनस्पतिभ्यः वृक्षेभ्यः। परि पूर्ववत् । आभृतम् आहृतं सहः बलरूपम् अपाम् उदकानाम् ओज्मानं प्रेरकम् ॥ यद्वा । ओज्मा वेगः । अपां वेग इव वेगवन्तं गोभिः गोविकारैश्चर्मभिः परि परितः आवृतम् आवेष्टितम् इन्द्रस्य वज्रं वज्रैकदेशम् । श्रूयते हि -- इन्द्रो वृत्राय वज्रमुदयच्छत् स त्रेधा व्यभवत् स्फ्यस्तृतीयं रथस्तृतीयं यूपस्तृतीयम्' इति । एवंगुणविशिष्टं रथं हविषा पुरोडाशादिना हे अध्वर्यो यज ॥ नूनमेषोत्तरा च रथदेवत्यस्य हविषो याज्यानुवाक्ये लिङ्गादवगन्तव्ये ॥
“Worship with oblations the chariot constructed of the substance of heaven and earth, the extracted essence of the forest lords; the velocity of the waters; the encompassed with the cow-hide; the thunderbolt (of Indra).”
Its mighty strength was borrowed from the heaven and earth: its conquering force was brought from sovrans of the wood.
Honour with holy gifts the Car like Indra's bolt, the Car bound round with straps, the vigour of the floods.
Strength has been brought up from heaven, from earth; might has been brought here from the trees.
To the strongness of the waters enclosed by cows, to the mace of
Indra—to the Chariot—sacrifice with an oblation.
Die von der Erde und dem Himmel entnommene Kraft, die von den Bäumen hergenommene Stärke, die Macht der Gewässer, den mit Riemen umgebenen Wagen, der schnell ist wie Indra's Blitz, den verehre mit Opferguss.
Von Himmel und Erde ward die Kraft entnommen, von den Bäumen ist seine Stärke genommen. Die Wucht der Gewässer, die mit Rindsleder bezogen ist, des Indra Donnerkeil, den Wagen verehre mit Opfergabe!
У неба (и) земли была взята мощь,
У деревьев забрана сила.
Энергию вод, перехваченную коровьими ремнями,
Дубину грома Индры, колесницу почитай жертвенным возлиянием.
इन्द्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभि॑: । सेमां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ॥
इन्द्र॑स्य । वज्रः॑ । म॒रुता॑म् । अनी॑कम् । मि॒त्रस्य॑ । गर्भः॑ । वरु॑णस्य । नाभिः॑ । सः । इ॒माम् । नः॒ । ह॒व्यद्ऽआ॑तिम् । जु॒षा॒णः । देव॑ । र॒थ॒ । प्रति॑ । ह॒व्या । गृ॒भा॒य॒ ॥
यो रथः इन्द्रस्य वज्रः उक्तप्रकारेण वज्रैकदेशः मरुताम् एतत्संज्ञानां देवगणानाम् अनीकम् अग्रभूतं तद्वच्छीघ्रगामी मित्रस्य अहरभिमानिनो देवस्य गर्भः गर्भवदन्तर्वर्तमानः ॥ अहनि हि रथः संचरति । वरुणस्य रात्र्यभिमानिदेवस्य नाभिः नाभिस्थानीयः । नाभिर्यथा देहमध्ये नैश्चल्येनावतिष्ठते तद्वत् रात्रौ क्वचिदवस्थितः । हे देव द्योतमान रथ य उक्तगुणः सः तादृशस्त्वम् इमां नः अस्मदीयां हव्यदातिं हविर्दानवतीं यागक्रियां जुषाणः सेवमानः सन् हव्या हव्यान्यस्मदीयानि हवींषि प्रति गृभाय प्रतिगृहाण ॥
“Do you, divine chariot, who are the thunderbolt of Indra, the precursor of the Maruts, the embryo of Mitra, the navel of Varuṇa, propitiated by this our sacrifice, accept the oblation.”
Thou Bolt of Indra, Vanguard of the Maruts, close knit to Varuna and Child of Mitra,-
As such, accepting gifts which here we offer, receive, O Godlike Chariot, these oblations.
The mace of Indra, the face of the Maruts, the embryo of Mitra, the navel of Varuṇa—
taking pleasure in this oblation-giving of ours, god Chariot, accept our oblations.
Des Indra Blitz du, der Maruts Glanzerscheinung, des Mitra Spross, des Varuna Verwandter, o Wagen, diese unsre Opfergabe annehmend, ergreife, o Gott, diese Opfer.
Des Indra Donnerkeil, die Heeresspitze der Marut, das Kind des Mitra, des Varuna Nabel bist du. Laß dir diesen Opferanteil von uns gefallen; nimm, du göttlicher Wagen, die Opfergaben an!
Дубина грома Индры, передовой отряд Марутов,
Зародыш Митры, пуп Варуны...
Радуясь этому нашему жертвоприношению,
О божественная колесница, прими жертвенные дары!
उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ मनुतां॒ विष्ठि॑तं॒ जग॑त् । स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒राद्दवी॑यो॒ अप॑ सेध॒ शत्रू॑न् ॥
उप॑ । श्वा॒स॒य॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । पु॒रु॒ऽत्रा । ते॒ । म॒नु॒ता॒म् । विऽस्थि॑तम् । जग॑त् । सः । दु॒न्दु॒भे॒ । स॒ऽजूः । इन्द्रे॑ण । दे॒वैः । दू॒रात् । दवी॑यः । अप॑ । से॒ध॒ । शत्रू॑न् ॥
हे दुन्दुभे पृथिवीमुत अपि च द्यां दिवम् उप श्वासय आत्मीयेन जयघोषणाश्वासय । यथा लोकद्वयं त्वदीयेन शब्देनापूरितं भवति तादृशं शब्दं कुर्वित्यर्थः । अपि च विस्थितं विशेषेण स्थितं जगत् स्थावरं जङ्गमं चोभयविधं प्राणिजातं ते त्वदीयं शब्दं पुरुत्रा बहुधा मनुतां । मन्यताम् । जानातु । हे दुन्दुभे सः त्वम् इन्द्रेण अन्यैः देवैः च सजूः सह दूराद्दवीयः दूरादपि दूरतरं शत्रून् अस्मदीयान् अप सेध अपगमय । अत्र निरुक्तं - दुन्दुभिरिति शब्दानुकरणं दुमो भिन्न इति वा दुन्दुभ्यतेर्वा स्याद्वधकर्मणः' (निरु. ९. १२) इत्यादि ।
“War-drum, fill with your sound both heaven and earth; and let all things, fixed or moveable, be aware of it; do you, who are associated with Indra and the gods, drive away our foes to the remotest distance.”
Send forth thy voice aloud through earth and heaven, and let the world in all its breadth regard thee;
O Drum, accordant with the Gods and Indra, drive thou afar, yea, very far, our foemen.
Make Heaven and Earth gasp. Let the moving (world [=living
creatures]) dispersed in many places pay attention to you.
O Drum, along with Indra, with the gods, drive away the rivals farther than far.
᳓
Auf, schnaube an die Erde und den Himmel, dein nehme wahr ringsum die ausgedehnte Welt; o Pauke, du mit Indra und den Göttern vereint verjage weit hinweg die Feinde.
Mach die Erde und den Himmel erdröhnen! Die vielerorts verbreitete Kreatur soll deiner gedenken. Im Verein mit Indra und den Göttern vertreibe du Pauke die Feinde in fernste Ferne!
Наполни шумом землю и небо!
Пусть вспомнит о тебе мир живых, распространенный в разных местах!
О барабан, вместе с Индрой (и) богами
Прогони врагов в самую дальнюю даль!
आ क्र॑न्दय॒ बल॒मोजो॑ न॒ आ धा॒ निः ष्ट॑निहि दुरि॒ता बाध॑मानः । अप॑ प्रोथ दुन्दुभे दु॒च्छुना॑ इ॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒ळय॑स्व ॥
आ । क्र॒न्द॒य॒ । बल॑म् । ओजः॑ । नः॒ । आ । धाः॒ । निः । स्त॒नि॒हि॒ । दुः॒ऽइ॒ता । बाध॑मानः । अप॑ । प्रो॒थ॒ । दु॒न्दु॒भे॒ । दु॒च्छुनाः॑ । इ॒तः । इन्द्र॑स्य । मु॒ष्टिः । अ॒सि॒ । वी॒ळय॑स्व ॥
हे दुन्दुभे आ क्रन्दय अस्मच्छत्रून् रोदय । बलं सेनारूपम् ओजः शरीरबलं च नः अस्मभ्यम् आ धाः आधेहि । प्रयच्छ । तथा दुरिता दुरितानि दुर्गमनानि बाधमानः हिंसंस्त्वं निः स्तनिहि नितरां शब्दं कुरु ।' स्तन शब्दे' इति धातुः । हे दुन्दुभे दुच्छुनाः अस्मद्दुःखहेतुभूतं शुनं सुखं यासां तादृशीः शत्रुसेनाः इतः अस्मत्स्थानात अप प्रोथ बाधस्व । त्वं च इन्द्रस्य मुष्टिरसि । मुष्टिरिव शत्रूणां हन्ता भवसि । अतोऽस्मान् वीळयस्व दृढीकुरु ॥
“Sound loud against the (hostile) host; animate our prowess; thunder aloud, terrifying the evil-minded; rapid, drum, those whose delight is to harm us; you are the fist of Indra; inspire us with fierceness.”
Thunder out strength and fill us full of vigour: yea, thunder forth and drive away all dangers.
Drive hence, O War-drum, drive away misfortune: thou art the Fist of Indra: show thy firmness.
Roar out your power. Set strength in us. Thunder down, thrusting away difficulties.
Blast away misfortunes from here, o Drum. You are the fist of
Indra: be firm!
᳓
O dröhne Kraft uns zu, verleihe Stärke, Gefahren donnre fort, zurück sie stossend, hinweg, o Pauke, schnaube die Dämonen, du bist des Indra Faust, erweise stark dich.
Brülle uns Stärke zu, verleih uns Kraft, donnere los, die Gefahren bannend! Schnaube die bösen Absichten von hier weg, o Pauke! Du bist des Indra Faust, bleibe fest!
Прореви (нам) силу, надели нас могуществом,
Загреми, прогоняя опасности!
Пыхтеньем прогони прочь отсюда несчастья, о барабан!
Ты – кулак Индры. Держись крепко!
आमूर॑ज प्र॒त्याव॑र्तये॒माः के॑तु॒मद्दु॑न्दु॒भिर्वा॑वदीति । समश्व॑पर्णा॒श्चर॑न्ति नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु ॥
आ । अ॒मूः । अ॒ज॒ । प्र॒ति॒ऽआव॑र्तय । इ॒माः । के॒तु॒ऽमत् । दु॒न्दु॒भिः । वा॒व॒दी॒ति॒ । सम् । अश्व॑ऽपर्णाः । चर॑न्ति । नः॒ । नरः॑ । अ॒स्माक॑म् । इ॒न्द्र॒ । र॒थिनः॑ । ज॒य॒न्तु॒ ॥
अस्याः पूर्वार्धो दुन्दुभिदेवत्य उत्तरार्धश्चैन्द्रः । यद्वा । उभावप्यर्धर्चावेन्द्रौ। हे इन्द्र अमूः शत्रुषु स्थितास्ता गाः आ अज अस्मान् प्रत्यागमय । इमाः अस्मदीया गाः शत्रुभिर्जिघृक्षिताः प्रत्यावर्तय प्रतिनिवर्तय । अयं च दुन्दुभिः केतुमत् प्रज्ञानवत् यथा सर्वैर्ज्ञायते तथा वावदीति भृशं शब्दं करोति । अश्वपर्णाः अश्वपतना अश्ववाहाश्च नः अस्मदीयाश्च नरः पुरुषाः सं चरन्ति शत्रुभिर्युध्यमाना वर्तन्ते । तथा सति हे इन्द्र अस्माकं रथिनः रथारूढाः पुरुषाः शत्रून् जयन्तु ॥
“Recover these our cattle, Indra; bring them back; the drum sounds repeatedly as a signal; our leaders, mounted on their steeds, assemble; may our warriors, riding in their cars, Indra, be victorious.”
Drive hither those, and these again bring hither: the War-drum speaks aloud as battle's signal.
Our heroes, winged with horses, come together. Let our car-warriors, Indra, be triumphant.
Drive those yonder [=cows] hither and make the ones here turn back. The Drum keeps speaking, giving the signal.
Our men, with horses as their wings, are converging: (so) let our
charioteers win, o Indra.
Her treibe jene, jage rückwärts diese, mit lautem Schall ertönet diese Pauke; auf Rossen fliegend eilen unsre Männer; lass, Indra, unsre Wagenkämpfer siegen.
Treibe jene Kühe her, bring diese zurück! Die Pauke dröhnt Signale gebend. Wenn unsere rossebeflügelten Herren sich sammeln, so mögen unsere Wagenkämpfer siegen, o Indra!
Тех (коров) прогони, этих верни!
Громко звучит барабан, пронзительно.
Когда наши конекрылые мужи собираются,
Наши колесничие, о Индра, пусть победят!