उदु॒ त्यच्चक्षु॒र्महि॑ मि॒त्रयो॒राँ एति॑ प्रि॒यं वरु॑णयो॒रद॑ब्धम् । ऋ॒तस्य॒ शुचि॑ दर्श॒तमनी॑कं रु॒क्मो न दि॒व उदि॑ता॒ व्य॑द्यौत् ॥
उत् । ऊँ॒ इति॑ । त्यत् । चक्षुः॑ । महि॑ । मि॒त्रयोः॑ । आ । एति॑ । प्रि॒यम् । वरु॑णयोः । अद॑ब्धम् । ऋ॒तस्य॑ । शुचि॑ । द॒र्श॒तम् । अनी॑कम् । रु॒क्मः । न । दि॒वः । उत्ऽइ॑ता॑ । वि । अ॒द्यौ॒त् ॥
त्यत् तत् प्रसिद्धं चक्षुः प्रकाशकं महि महत् विस्तृतं मित्रयोः ”वरुणयो: प्रियं । मित्रशब्दो वरुणशब्दश्च इतरेतरयोगात् मित्रावरुणावुभावप्याचष्टे। मित्रावरुणयोः प्रियम् अदब्धं रक्षोभिरहिंसितं शुचि शुद्धं निर्मलं दर्शतं दर्शनीयम् । एवंभूतम् ऋतस्य आदित्यस्य अनीकं तेजः आ सर्वेषामभिमुखम् उत् एति उद्गच्छति । उदिता उदितौ सूर्यस्योदये सति उदितं तत्तेजः दिवः अन्तरिक्षस्य रुक्मो न भूषणमिव व्यद्यौत् विद्योतते । प्रकाशते ॥
“The expansive, illuminating, unobstructive, pure, and beautiful radiance of the sun, grateful to Mitra and Varuṇa, having risen, shines like the ornament of the sky.”
THAT mighty eye of Varuna and Mitra, infallible and dear, is moving upward.
The pure and lovely face of holy Order hath shone like gold of heaven in its arising.
Up goes this great eye of Mitra and of Varuṇa—dear and undeceivable. The blazing, sightly face of truth has flashed forth on its rising like the bright ornament of heaven.
Auf geht dies grosse, holde, unversehrte, das Auge nun des Varuna und Mitra; Des heil'gen helles, sehenswerthes Antlitz, beim Aufgang glänzte wie des Himmels Gold es.
Da kommt das große Auge des Mitra, das liebe, untrügbare des Varuna herauf. Das reine, gern gesehene Bild des Gesetzes ist im Aufgang wie ein Goldschmuck des Himmels aufgeblitzt.
Вот выходит этот великий глаз Митры,
Приятный (глаз) Варуны, не допускающий обмана.
Чистый, прекрасный лик закона
Ярко засверкал на небе, словно золотое украшение на восходе (солнца).
वेद॒ यस्त्रीणि॑ वि॒दथा॑न्येषां दे॒वानां॒ जन्म॑ सनु॒तरा च॒ विप्र॑: । ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न्न॒भि च॑ष्टे॒ सूरो॑ अ॒र्य एवा॑न् ॥
वेद॑ । यः । त्रीणि॑ । वि॒दथा॑नि । ए॒षा॒म् । दे॒वाना॑म् । जन्म॑ । स॒नु॒तः । आ । च॒ । विप्रः॑ । ऋ॒जु । मर्ते॑षु । वृ॒जि॒ना । च॒ । पश्य॑न् । अ॒भि । च॒ष्टे॒ । सूरः॑ । अ॒र्यः । एवा॑न् ॥
यः सूर्यः त्रीणि त्रिसंख्यानि विदथानि वेदितव्यानि स्थानानि त्रील्ँलोकान् वेद वेत्ति जानाति । एषाम् एतल्लोकत्रयवर्तिनां देवानां वसुरुद्रादित्यात्मनां सनुतः । अन्तर्हितनामैतत् । अन्तर्हितमप्रज्ञायमानं जन्म जननं च यः विप्रः मेधावी सूर्यो वेत्ति । आकारः पूरकः । सः सूरः सूर्यः मर्तेषु मनुष्येषु विद्यमानानि ऋजु ऋजूनि शोभनानि कर्माणि वृजिना वृजिनान्यशोभनानि कर्माणि च पश्यन् साक्षितया जानन् अभि चष्टे अभितः सर्वं जगत् प्रकाशयति । तथा अर्यः स्वामी भूत्वा एवान् प्राप्तव्यान् कामांश्च मनुष्येषु प्रकाशयति ॥
“He who knows the three cognizable (worlds); the sage (who knows) the mysterious birth of the divinities (abiding in them); he who is beholding the good and evil acts of mortals, he, the sun, the lord, makes manifest their intentions.”
The Sage who knows these Gods' three ranks and orders, and all their generations near and distant,
Beholding good and evil acts of mortals, Sura marks well the doing of the pious.
The inspired poet who knows their three divisions and the breeds of the gods far away and here,
who sees the straight and the crooked among mortals, the Sun looks upon the ways of the stranger.
Der Sonnengott, der die drei Götterscharen und ihren Ursprung kennet fern und nahe, Der Recht und Unrecht bei den Menschen schauet, hat sorgsam Acht auf des Gerechten Pfade.
Der die dreifache Kunde von ihnen und der Götter Geschlechter kennt, der Kundige schaut nach jenseits und herwärts. Indem er das Rechte und Falsche in den Menschen schaut, nimmt der Sonnengott die Wünsche des hohen Herrn wahr.
Кто знает у них три жертвенных раздачи,
(Знает) рождение богов, (видит) далеко и близко, (Солнце) вдохновенное,
Глядя на прямое и кривое у смертных,
Это Солнце замечает действия чужого.
स्तु॒ष उ॑ वो म॒ह ऋ॒तस्य॑ गो॒पानदि॑तिं मि॒त्रं वरु॑णं सुजा॒तान् । अ॒र्य॒मणं॒ भग॒मद॑ब्धधीती॒नच्छा॑ वोचे सध॒न्य॑: पाव॒कान् ॥
स्तु॒षे । ऊँ॒ इति॑ । वः॒ । म॒हः । ऋ॒तस्य॑ । गो॒पान् । अदि॑तिम् । मि॒त्रम् । वरु॑णम् । सु॒ऽजा॒तान् । अ॒र्य॒मण॑म् । भग॑म् । अद॑ब्धऽधीतीन् । अच्छ॑ । वो॒चे॒ । स॒ऽध॒न्यः॑ । पा॒व॒कान् ॥
हे देवाः महः महतः ऋतस्य यज्ञस्य गोपान रक्षकान् वः युष्मान् स्तुषे स्तुवे । उ इति पूरणः । तानेव देवानाह । अदितिम् अदीनां देवमातरं मित्रं वरुणं चैतान् सुजातान् शोभनजननान् अर्यमणं भगं च अदब्धधीतीन् अहिंसितकर्मणः सधन्यः धनसहितान् 'पावकान् विश्वस्य शोधकान् । ईदृशान् सर्वान् देवान् अच्छ वोचे अभिप्रब्रवीमीत्यर्थः ॥
“I praise you, protectors of the solemn sacrifice, the well-born Aditi, Mitra and Varuṇa and Aryaman and Bhaga; I celebrate the gods whose acts are unimpeded, the bestowers of wealth, the dispensers of purity.”
I praise you Guards of mighty Law eternal, Aditi, Mitra, Varuna, the noble,
Aryaman, Bhaga, all whose thoughts are faithful: hither I call the Bright who share in common.
I will praise you, the great herdsmen of truth: Aditi, Mitra, Varuṇa, the well-born ones.
Aryaman, Bhaga, those of undeceivable inspired thoughts, the pure companions, do I call here.
Ich preise euch, des Rechtes hohe Hüter, Aditi, Mitra, Varuna, die edlen, Arjaman, Bhaga, sie die reingesinnten, ich rufe her die flammenden Genossen.
Ich preise euch, die Wächter des hohen Gesetzes: Aditi, Mitra, Varuna, die Edlen. Aryaman, Bhaga, die von untrüglicher Einsicht, bitte ich her, die in Gütergemeinschaft leben, die Reinen.
Вот славлю я для вас хранителей великого закона:
Адити, Митру, Варуну, прекраснорожденных,
Арьямана, Бхагу, не обманывающих надежд.
Я приглашаю (их), связанных (друг с другом), очищающих.
रि॒शाद॑स॒: सत्प॑तीँ॒रद॑ब्धान्म॒हो राज्ञ॑: सुवस॒नस्य॑ दा॒तॄन् । यून॑: सुक्ष॒त्रान्क्षय॑तो दि॒वो नॄना॑दि॒त्यान्या॒म्यदि॑तिं दुवो॒यु ॥
रि॒शाद॑सः । सत्ऽप॑तीन् । अद॑ब्धान् । म॒हः । राज्ञः॑ । सु॒ऽव॒स॒नस्य॑ । दा॒तॄन् । यूनः॑ । सु॒ऽक्ष॒त्रान् । क्षय॑तः । दि॒वः । नॄन् । आ॒दि॒त्यान् । या॒मि॒ । अदि॑तिम् । दु॒वः॒ऽयु ॥
रिशादसः रिशतां हिंसकानामसितॄन् क्षेप्तॄन् यद्वा रिशानां हिंसकानामत्तॄन् भक्षयितॄन् सत्पतीन् सतां पालयितॄन् अदब्धान् अहिंसितान् महः महतः राज्ञः राजमानानीश्वरान् वा सुवसनस्य शोभननिवासस्य दातॄन् यूनः नित्यतरुणान् सुक्षत्रान् शोभनधनान् शोभनबलान् वा क्षयतः सर्वत्र निवसतः। यद्वा । क्षयतिरैश्वर्यकर्मा । ईशानान् दिवः द्युलोकस्य नॄन् नेतॄन् आदित्यान् अदितेः पुत्रान् । ईदृशान् सर्वान् देवान् दुवोयु । लुप्तविभक्तिकमेतत् । दुवोयुं दुवोऽस्मदीयं परिचरणं कामयमानाम् अदितिं देवमातरं च यामि प्राप्नोमि । यद्वा । यामि याचामि ॥
“The scatterers of the malevolent, the defenders of the virtuous, the irresistible, the mighty lords, the donors of good dwellings, ever young, very powerful, omnipresent, leader of heaven, the sons of Āditya; I have recourse to Aditi, who is gratified by mine adoration.”
Lords of the brave, infallible, foe-destroyers, great Kings, bestowers of fair homes to dwell in,
Young, Heroes, ruling heaven with strong dominion, Adityas, Aditi I seek with worship.
Those who care for the stranger, the lords of settlements, undeceivable, the great kings, givers of good dwelling,
the youths of good rule ruling over Heaven, the superior men—the
Ādityas I beseech and Aditi, in quest of friendship.
Die unbethörten Herrscher, Feindvertilger, die grossen Fürsten, Geber schöner Kleidung, Die Himmelsmänner, jung und kräftig herrschend, der Aditi Geschlecht verehr' ich opfernd.
An die Herrenstolzen, die rechtmäßigen Herrn, die untrüglichen, die großen Könige, die Geber guter Wohnung, die jugendlichen guten Herrscher, die mächtigen Herrn des Himmels, an die Aditya´s alle und Aditi wende ich mich ehrerbietig.
Заботящихся о чужом благих повелителей, не допускающих обмана,
Великих царей, дарителей хорошего жилья,
Юных добрых властителей, мужей, живущих на небе,
Адитьев я молю (и) Адити, полный почтения.
द्यौ॒३॒॑ष्पित॒: पृथि॑वि॒ मात॒रध्रु॒गग्ने॑ भ्रातर्वसवो मृ॒ळता॑ नः । विश्व॑ आदित्या अदिते स॒जोषा॑ अ॒स्मभ्यं॒ शर्म॑ बहु॒लं वि य॑न्त ॥
द्यौः॑ । पितः॑ । पृ॒थि॑वि । मातः॑ । अध्रु॑क् । अग्ने॑ । भ्रा॒तः॒ । व॒स॒वः॒ । मृ॒ळत॑ । नः॒ । विश्वे॑ । आ॒दि॒त्याः॒ । अ॒दि॒ते॒ । स॒ऽजोषाः॑ । अ॒स्मभ्य॑म् । शर्म॑ । ब॒हु॒लम् । वि । य॒न्त॒ ॥
हे पितः पितृस्थानीय द्यौः द्युलोक हे मातः मातृस्थानीये अध्रुक् अद्रोग्ध्रि पृथिवि हे भ्रातः भ्रातृस्थानीय अग्ने हे वसवः वासयितारो देवाः ते सर्वे यूयं नः अस्मान् मृळत सुखयत । हे विश्वे आदित्याः सर्वेऽदितिपुत्रा देवा हे अदिते यूयं सजोषाः संगता भूत्वा अस्मभ्यं बहुलम् अधिकं शर्म सुखं विस्तृतं वा गृहं वि यन्त प्रयच्छत ॥ ॥ ११ ॥
“Father Heaven, innocent mother Earth, brother Agni, and you, Vasus, grant us happiness; all you sons of Aditi, and you Aditi, alike well-plural ased, bestow upon us ample felicity.”
O Heaven our Father, Earth our guileless Mother, O Brother Agni, and ye Vasus, bless us.
Grant us, O Aditi and ye Adityas, all of one mind, your manifold protection.
O Father Heaven, Mother Earth lacking the lie, Brother Agni, good ones—have mercy on us.
All you Ādityas and Aditi jointly—spread out ample shelter for us.
O Vater Himmel, treue Mutter Erde, o Bruder Agni, seid uns hold, ihr guten, Aditja's ihr und Aditi vereinigt, o reichet alle ausgedehnten Schutz uns.
Vater Himmel, truglose Mutter Erde, Bruder Agni, ihr Götter, seid uns gnädig! Ihr Aditya´s alle und Aditi im Bunde, gewähret uns ausgedehnten Schutz!
О Небо-отец, о Земля-мать, безобманная,
О Агни-брат, о Васу, – смилуйтесь над нами!
О все Адитьи, о Адити, единодушная (с богами),
Нам даруйте прочную защиту!
मा नो॒ वृका॑य वृ॒क्ये॑ समस्मा अघाय॒ते री॑रधता यजत्राः । यू॒यं हि ष्ठा र॒थ्यो॑ नस्त॒नूनां॑ यू॒यं दक्ष॑स्य॒ वच॑सो बभू॒व ॥
मा । नः॒ । वृका॑य । वृ॒क्ये॑ । स॒म॒स्मै॒ । अ॒घ॒ऽय॒ते । री॒र॒ध॒त॒ । य॒ज॒त्राः॒ । यू॒यम् । हि । स्थ । र॒थ्यः॑ । नः॒ । त॒नूना॑म् । यू॒यम् । दक्ष॑स्य । वच॑सः । ब॒भू॒व ॥
हे यजत्राः यष्टव्या देवाः नः अस्मान् वृकाय हिंसकाय स्तेनाय वृक्ये तस्य स्त्रियै च मा रीरधत मा वशं नैष्ट । मी वशीकुरुत । यद्वा । वृकोऽरण्यश्वा तस्य स्त्री वृकी । अपि च समस्मै सर्वस्मै अघायते अघमनर्थमस्माकमिच्छते शत्रुजनायास्मान् मा वशं नयत । यूयं हि यूयं खलु नः अस्माकं तनूनां शरीराणां रथ्यः नेतारः स्थ भवथ। यूयम् एव दक्षस्य अस्मदीयस्य बलस्य वचसः वाक्यस्य च नेतारः बभूव । अतः कारणात् अस्मान् मा रीरधतेत्यन्वयः ॥
“Subject us not, adorable (deities), to the robber or his wife; not to any one designing us harm; for you are the regulators of our person ns, of our strength, of our speech.”
Give us not up to any evil creature, as spoil to wolf or she-wolf, O ye Holy.
For ye are they who guide aright our bodies, ye are the rulers of our speech and vigour.
Don’t make us subject to the wolf, to the she-wolf, to any at all who wishes us ill, o you who deserve the sacrifice,
for you are the charioteers of our bodies and you have become (the
charioteers) of (our?) skillful speech.
Nicht gebt uns hin dem Wolfe, nicht der Wölfin, noch irgend einem Schädiger, o hehre; Denn ihr ja seid die Lenker unsrer Leiber, ihr war't es stets des Geistes und der Rede.
Überantwortet uns nicht irgend einem Übelwollenden, einem Wolf oder einer Wölfin, ihr Verehrungswürdige, denn ihr seid die Lenker unserer Leiber, ihr seid die Lenker des rechten Wortes.
Не отдайте нас во власть ни волку, ни волчице,
Ни кому-нибудь злоумышляющему, о достойные жертвы!
Ведь вы колесничие наших тел,
Вы (всегда) были (колесничими) искусного слова.
मा व॒ एनो॑ अ॒न्यकृ॑तं भुजेम॒ मा तत्क॑र्म वसवो॒ यच्चय॑ध्वे । विश्व॑स्य॒ हि क्षय॑थ विश्वदेवाः स्व॒यं रि॒पुस्त॒न्वं॑ रीरिषीष्ट ॥
मा । वः॒ । एनः॑ । अ॒न्यऽकृ॑तम् । भु॒जे॒म॒ । मा । तत् । क॒र्म॒ । व॒स॒वः॒ । यत् । चय॑ध्वे । विश्व॑स्य । हि । क्षय॑थ । वि॒श्व॒ऽदे॒वाः॒ । स्व॒यम् । रि॒पुः । त॒न्व॑म् । रि॒रि॒षी॒ष्ट॒ ॥
हे देवाः वः युष्माकं स्वभूता वयम् अन्यकृतम् अन्यैः शत्रुभिः कृतमुत्पादितम् एनः पापं मा भुजेम मा भुंक्ष्महि । हे वसवः वासयितारो देवाः यत् येन कृतेन पापेन चयध्वे अस्मान् बाधध्वे । चयतिर्हिंसाकर्मा । तत् च पापं मा कर्म मा कार्ष्म ॥ करोतेर्माङि लुङि ‘मन्त्रे घस' इति च्लेर्लुक् ॥ हे विश्वदेवाः सर्वे देवाः विश्वस्य सर्वस्य जगतो यूयं हि क्षयथ ईश्वरा भवथ । अतः कारणात् अस्मदीयः रिपुः शत्रुः तन्वं स्वशरीरं स्वयम् एव रिरिषीष्ट हिंस्यात् । यथैवं भवति तथा कुरुतेति भावः ॥
“Let us not suffer for the sin committed by another; let us not do that which, Vasus, you prohibit; you rule universal gods, over the universe; (so provide that) mine enemy may inflict injury on his own person n.”
Let us not suffer for the sin of others, nor do the deed which ye, O Vasus, punish.
Ye, Universal Gods! are all-controllers: may he do harm unto himself who hates Me.
Don’t let us pay for the offense done to you by another; don’t let us do that which you avenge, o good ones,
for you rule over all, All Gods. Let the cheat harm his own body.
Lasst nicht uns büssen andrer Leute Frevel, lasst nicht uns thun, was ihr, o gute, hasset; Denn über alles herrscht ihr, Götter alle; es mag der Feind den eignen Leib verletzen.
Nicht möchten wir fremde Sünde wider euch büßen, nicht wollen wir das tun, was ihr heimsuchet, ihr Guten, denn ihr vermöget alles, ihr Allgötter. Der Schelm soll sich selbst Schaden antun.
Да не расплатимся мы за грех, содеянный против вас другими,
Да не совершим мы того, о Васу, что вы наказуете!
Ведь вы господствуете надо всем, о Все-Боги!
Пусть обманщик сам себя повредит!
नम॒ इदु॒ग्रं नम॒ आ वि॑वासे॒ नमो॑ दाधार पृथि॒वीमु॒त द्याम् । नमो॑ दे॒वेभ्यो॒ नम॑ ईश एषां कृ॒तं चि॒देनो॒ नम॒सा वि॑वासे ॥
नमः॑ । इत् । उ॒ग्रम् । नमः॑ । आ । वि॒वा॒से॒ । नमः॑ । दा॒धा॒र॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । नमः॑ । दे॒वेभ्यः॑ । नमः॑ । ई॒शे॒ । ए॒षा॒म् । कृ॒तम् । चि॒त् । एनः॑ । न॒म॒सा । आ । वि॒वा॒से॒ ॥
आस्तां तावद्देवानां माहात्म्यं तदीयो नमस्कारोऽपीत्थंमहाभाग इति ब्रुवाणः कैमुतिकन्यायेन देवान् स्तौति । नम इत् नमस्कार एव उग्रम् उद्गूर्णबलं सर्वोत्कृष्टम् । तेन हि सर्वं लभ्यते । अतः नमः नमस्कारम् आ विवासे परिचरामि । नमः नमस्कार एव पृथिवीमुत द्यां द्युलोकं च दाधार धारयति । द्यावापृथिव्यौ प्राणिभिर्नमस्क्रियमाणे सत्यौ तदुपभोगाय चिरकालमवतिष्ठेते । अतः देवेभ्यः ईदृशं नमः करोमि। एषां देवानां नमः नमस्कारः ईशे ईष्टे । यतस्तेन ते वशीकृताः । कृतं चित् कृतमप्याचरितमपि एनः पापं नमसा नमस्कारेण आ विवासे । विवासो वर्जनम् । वर्जयामि । विनाशयामि ॥
“Reverence be to the potent (company of universal gods); I offer (them) reverence; reverence sustains both earth and heaven; revernce be to the gods; reverence is sovereign over them; I expiate by reverence whatever sin may have been committed.”
Mighty is homage: I adopt and use it. Homage hath held in place the earth and heaven.
Homage to Gods! Homage commands and rules them. I banish even committed sin by homage
Reverence is powerful. I seek to attract reverence here. Reverence upholds heaven and earth.
Reverence to the gods; reverence is master of them. With reverence
I seek to redeem even an offense committed.
Gebet ist mächtig, das Gebet gewinn' ich, Gebet hielt fest den Himmel und die Erde; Gebet den Göttern! das Gebet beherrscht sie, begangne Schuld auch tilge durch Gebet ich.
Die Anbetung ist mächtig, die Anbetung bitte ich her. Die Anbetung erhält Erde und Himmel. Anbetung gebührt den Göttern, die Anbetung hat über sie Macht. Auch die getane Sünde bitte ich durch Anbetung ab.
Поклонение – это грозно. Поклонения я хочу дооиться.
Поклонение несет землю и небо.
Поклонение – для богов. Поклонение правит ими.
Даже содеянный грех я хочу замолить поклонением.
ऋ॒तस्य॑ वो र॒थ्य॑: पू॒तद॑क्षानृ॒तस्य॑ पस्त्य॒सदो॒ अद॑ब्धान् । ताँ आ नमो॑भिरुरु॒चक्ष॑सो॒ नॄन्विश्वा॑न्व॒ आ न॑मे म॒हो य॑जत्राः ॥
ऋ॒तस्य॑ । वः॒ । र॒थ्यः॑ । पू॒तऽद॑क्षान् । ऋ॒तस्य॑ । प॒स्त्य॒ऽसदः॑ । अद॑ब्धान् । तान् । आ । नमः॑ऽभिः । उ॒रु॒ऽचक्ष॑सः । नॄन् । विश्वा॑न् । वः॒ । आ । न॒मे॒ । म॒हः । य॒ज॒त्राः॒ ॥
हे यजत्राः यष्टव्या देवाः वः युष्मदीयस्य ऋतस्य यज्ञस्य रथ्यः रंहितॄन् नेतॄन् पूतदक्षान् शुद्धबलान् ऋतस्य यज्ञस्य पस्त्यसदः यज्ञसंबन्धिनि पस्त्ये देवयजनलक्षणे गृहे सीदतो निषण्णान् अदब्धान् रक्षःप्रभृतिभिरहिंसितान् उरुचक्षसः बहुद्रष्टॄन् नॄन् नेतॄन् महः महतः तान् विश्वान सर्वान् वः युष्मान् आ आभिमुख्येन क्रियमाणैः नमोभिः नमस्कारैः आ नमे आनतोऽस्मि ॥
“Adorable (deities), I venerate with reverential salutations all you who are mighty, the mighty, the regulators of your sacrifice, of pure vigour, dwellers in the chamber of worship, unsubdued, far-seeing, leaders (of rites).”
You Furtherers of Law, pure in your spirit, infallible, dwellers in the home of Order,
To you all Heroes mighty and far-seeing I bow me down, O Holy Ones, with homage.
You charioteers of truth who possess refined skill, settled in the dwelling places of truth, undeceivable,
all you great superior men of broad gaze do I bend here with
reverences, o you who deserve the sacrifice.
Euch reingesinnte Lenker heil'gen Brauches, des heil'gen Brauches treue Hausgenossen, Euch bet' ich an, die weithinschaunden alle, mit Demuth euch, die hohen, hehren Männer.
Euch, die Lenker des Gesetzes von lauterem Wollen, die im Hause des Gesetzes wohnen, die untrüglichen, diese weitschauenden Männer, euch alle, die Großen, mache ich durch Anbetung geneigt, ihr Opferwürdige.
Вас, колесничих закона с чистой силой действия,
Пребывающих в доме закона, не допускающих обмана,
Этих мужей, далеко глядящих, поклонениями
Я всех вас могучих склоняю, о достойные жертв.
ते हि श्रेष्ठ॑वर्चस॒स्त उ॑ नस्ति॒रो विश्वा॑नि दुरि॒ता नय॑न्ति । सु॒क्ष॒त्रासो॒ वरु॑णो मि॒त्रो अ॒ग्निॠ॒तधी॑तयो वक्म॒राज॑सत्याः ॥
ते । हि । श्रेष्ठ॑ऽवर्चसः । ते । ऊँ॒ इति॑ । नः॒ । ति॒रः । विश्वा॑नि । दुः॒ऽइ॒ता । नय॑न्ति । सु॒ऽक्ष॒त्रासः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः । ऋ॒तऽधी॑तयः । व॒क्म॒राज॑ऽसत्याः ॥
ये देवा वक्ष्यमाणगुणाः ते हि ते खलु श्रेष्ठवर्चसः प्रशस्यतमदीप्तयो भवन्ति । अतः त उ त एव नः अस्माकं विश्वानि सर्वाणि दुरिता पापानि तिरः तिरोहितानि यथा भवन्ति तथा नयन्ति नयन्तु । विनाशयन्त्वित्यर्थः । ये वरुणादयो देवाः सुक्षत्रासः शोभनबलाः शोभनधना वा ऋतधीतयः सत्यकर्माणः वक्मराजसत्याः । वक्म वचनं स्तोत्रम् । तस्य राजान ईशाना वक्मराजाः स्तोतारः । तेषु सत्या अवितथाः । एवंभूतास्ते हीत्यन्वयः ॥ ॥ १२ ॥
“May they, exceeding in splendour, so guide us, that all iniquities may disappear, they, the very powerful Varuṇa, Mitra, Agni, practisers of truth, and faithful to those who are prominent in (their) praise.”
For these are they who shine with noblest splendour; through all our troubles these conduct us safely-
Varuna, Mitra, Agni, mighty Rulers, trueminded, faithful to the hymn's controllers.
For they possess the best luster and they lead us across all difficulties— those of good rule, Varuṇa, Mitra, Agni, whose inspired thoughts are truth, who are in reality rulers of speech.
Denn sie, mit schönstem Glanz begabt, sie führen uns über alles Misgeschick hinüber, Schön waltend Mitra, Varuna und Agni, mit heil'gem Sinn und treu dem Redeführer.
Denn sie besitzen das höchste Ansehen; sie führen uns über alle Fehltritte hinweg, Varuna, Mitra, Agni, die guten Herrscher, die rechtgesinnten, die beredten Könige, die wahrhaften.
Ведь они с наилучшим блеском, они же нас
Ведут через все трудности,
Обладатели прекрасной власти Варуна, Митра, Агни,
Чьи мысли – закон, кто поистине цари (священной) речи.
ते न॒ इन्द्र॑: पृथि॒वी क्षाम॑ वर्धन्पू॒षा भगो॒ अदि॑ति॒: पञ्च॒ जना॑: । सु॒शर्मा॑ण॒: स्वव॑सः सुनी॒था भव॑न्तु नः सुत्रा॒त्रास॑: सुगो॒पाः ॥
ते । नः॒ । इन्द्रः॑ । पृ॒थि॒वी । क्षाम॑ । व॒र्ध॒न् । पू॒षा । भगः॑ । अदि॑तिः । पञ्च॑ । जनाः॑ । सु॒ऽशर्मा॑णः । सु॒ऽअव॑सः । सु॒ऽनी॒थाः । भव॑न्तु । नः॒ । सु॒ऽत्रा॒त्रासः॑ । सु॒ऽगो॒पाः ॥
ते देवाः नः अस्माकं क्षाम निवासभूमिं वर्धन् वर्धयन्तु । के ते। इन्द्रः पृथिवी च पूषा च भगः च अदितिः अदीना देवमाता च पञ्च जनाः ‘देवमनुष्याणां गन्धर्वाप्सरसाम्' ( ऐ. ब्रा. ३. ३१ ) इत्यादिब्राह्मणोक्ता देवमनुष्यादयश्च ते च नः अस्मदर्थं सुशर्माणः सुसुखाः स्ववसः शोभनान्नाः सुनीथाः सुप्रापणाश्च भवन्तु । अस्मभ्यं शोभनसुखादिकं प्रयच्छन्त्विति भावः। तथा सुत्रात्रासः सुष्ठु त्रातारः सुगोपाः शोभनगोपायितारश्च भवन्तु । उपस्थितेभ्यः शत्रुभ्यो रक्षणं त्राणम् । तेषामुत्पत्तिनिरोधेन रक्षणं गोपनम् ॥
“May they, Indra, Earth, Pūṣan, Bhaga, Aditi and the five orders of beings, give increase to our habitations; may they be to us granters of happiness, bestowers of food, guides to good, our gracious defenders and preservers.”
May they, Earth, Aditi, Indra, Bhaga, Pusan increase our laud, increase the Fivefold people.
Giving good help, good refuge, goodly guidance, be they our good deliverers, good protectors.
They strengthen our earthly realm—Indra, Earth, Pūṣan, Bhaga, Aditi, the Five Peoples.
Affording good shelter, good help, good guidance, let them be good herdsmen for us, offering us good protection.
Sie mögen uns stärken: Indra, die Erde, der Erdboden, Puschan, Aditi, die fünf Geschlechter; sie mögen uns schönschirmend, schön helfend, schön leitend, schön schützend, schön behütend sein.
Die mögen unseren Wohnsitz zum Gedeihen bringen: Indra, die Erde, Pusan, Bhaga, Aditi, die fünf Völker; sie sollen uns gute Schützer, gute Helfer, gute Weiser, gute Schirmer, gute Hirten sein.
Пусть увеличат они наше место поселения: Индра, Земля,
Пушан, Бхага, Адити, пять народов!
Пусть будут они нам хорошими защитниками, хорошими помощниками,
Хорошими вождями, хорошими спасителями, хорошими охранителями!
नू स॒द्मानं॑ दि॒व्यं नंशि॑ देवा॒ भार॑द्वाजः सुम॒तिं या॑ति॒ होता॑ । आ॒सा॒नेभि॒र्यज॑मानो मि॒येधै॑र्दे॒वानां॒ जन्म॑ वसू॒युर्व॑वन्द ॥
नु । स॒द्मान॑म् । दि॒व्यम् । नंशि॑ । दे॒वाः॒ । भार॑त्ऽवाजः । सु॒ऽम॒तिम् । या॒ति॒ । होता॑ । आ॒सा॒नेभिः॑ । यज॑मानः । मि॒येधैः॑ । दे॒वाना॑म् । जन्म॑ । व॒सु॒ऽयुः । व॒व॒न्द॒ ॥
अनया ऋषिरात्मानं परोक्षवदाह । हे देवाः भारद्वाजः भरद्वाजगोत्रजः होता स्तोता अयमृषिः दिव्यं दिवि भवं सद्मानं सदनं स्थानं नु क्षिप्रं नंशि व्याप्नोतु । तथा सुमतिं शोभनां मतिं युष्मदीयामनुग्रहबुद्धिं च याति याचते । यातिर्याञ्चाकर्मा । तदर्थम् आसानेभिः आसीनैः सत्रासनं कुर्वद्भिः मियेधैः मेध्यैर्मेधार्हैः अन्ययजमानैः सार्धं यजमानः यागं कुर्वन्नयमृषिः वसूयुः वसूनि धनान्यात्मन इच्छन् देवानां जन्म जनं संघं ववन्द वन्दते । स्तौति ॥
“May the preseenter of the oblation, Bharadvāja, quickly obtain, gods, a celestial abode, as he solicits your good-will; the instrumental tutor of the ceremony, together with pious associates, desirous of riches, glorifies the assembly of the gods.”
Come now, O Gods, to your celestial station: the Bharadvajas' priest entreats your favour.
He, sacrificing, fain for wealth, hath honoured the Gods vath those who sit and share oblations.
To attain the one whose seat is in heaven, o gods, the Hotar of the Bhāradvājas now begs for favor.
Sacrificing with the ritual meals set here, desiring goods, he has extolled the breeds of the gods.
Nun hat Bharadvadscha den himmlichen Sitz erreicht, o Götter; zu hoher Gunst gelangt er, der Priester; opfernd mit den aufgetragenen Speisen hat er das Geschlecht der Götter nach Gut verlangend verehrt.
Möchte ich doch zur himmlischen Bewohnerschaft dringen, ihr Götter. Der Opferpriester aus dem Bharadvajageschlecht geht euch um Gunst an. Mit den sitzenden Opfergenossen opfernd hat er das Geschlecht der Götter, Gut begehrend, gelobt.
Вот хотел бы я попасть в небесное поселение, о боги!
Хотар из рода Бхарадваджей идет за вашей милостью.
Сидящими (рядом с ним) жертвенными дарами жертвователь,
Стремящийся к богатству, почтил род богов.
अप॒ त्यं वृ॑जि॒नं रि॒पुं स्ते॒नम॑ग्ने दुरा॒ध्य॑म् । द॒वि॒ष्ठम॑स्य सत्पते कृ॒धी सु॒गम् ॥
अप॑ । त्यम् । वृ॒जि॒नम् । रि॒पुम् । स्ते॒नम् । अ॒ग्ने॒ । दुः॒ऽआ॒ध्य॑म् । द॒वि॒ष्ठम् । अ॒स्य॒ । स॒त्ऽप॒ते॒ । कृ॒धि । सु॒ऽगम् ॥
हे अग्ने त्वं त्यं तं प्रसिद्धं वृजिनं कुटिलं रिपुं 'पापकारिणं दुराध्यं दुःखस्याध्यातारं दुष्टाभिप्रायमेवंभूतं स्तेनं हिंसकं दविष्ठं दूरतमम् अप अस्य अपक्षिप । असु क्षेपणे ' इति धातुः । हे सत्पते सतां पालयितरग्ने अस्माकं सुगं शोभनेन गन्तव्यं सुखं कृधि कुरु । अत्र सर्वदेवात्मकस्याग्नेः स्तवनाद्वैश्वदेवत्वम् ॥
“Drive away, Agni, to a distance the wicked, felonious, malignant enemy; grant us felicity, protector of the virtuous.”
Agni, drive thou the wicked foe, the evil-hearted thief away,
Far, far, Lord of the brave I and give us easy paths.
Away with this crooked, cheating, ill-intentioned thief, o Agni.
Make an easy passage for him far, far away, o lord of settlements.
Wirf weit hinweg, o Agni, den trügerischen Feind, den bösegesinnten Dieb, o starker Herr, und schaffe Wohlfahrt.
Jenen falschen Schelm, den Dieb, der böße Absichten hat, jage recht weit fort, du rechter Herr Agni! Schaffe gute Fahrt!
(Прогони) прочь того лживого обманщика,
Вора, о Агни, с дурными замыслами!
Создай, о добрый господин, хороший путь как можно дальше от него!
ग्रावा॑णः सोम नो॒ हि कं॑ सखित्व॒नाय॑ वाव॒शुः । ज॒ही न्य१॒॑त्रिणं॑ प॒णिं वृको॒ हि षः ॥
ग्रावा॑णः । सो॒म॒ । नः॒ । हि । क॒म् । स॒खि॒ऽत्व॒नाय॑ । वा॒व॒शुः । ज॒हि । नि । अ॒त्रिण॑म् । प॒णिम् । वृकः॑ । हि । सः ॥
हे सोम नः अस्मदीया इमे ग्रावाणः अभिषवार्थाः पाषाणाः तव सखित्वनाय सख्यार्थं वावशुः कामयन्ते । कम् इति पूरकः । हि यस्मादर्थे । यस्मादेवं तस्मात्त्वं पणिं वणिजमदातारम् अत्रिणम् अदनशीलं राक्षसादिकं नि जहि विनाशय । सः पणिः वृको हि आदानपरः खलु । सर्वदास्मत्तोऽपहरणशीलः । अतस्त्वं जहीत्यर्थः ॥ ‘ कुक वृक आदाने' इति धातुः ॥
“These our grinding stones are anxious, Soma, for your friendship; destroy the voracious Paṇi, for verily he is a wolf.”
Soma, these pressing-stones have called aloud to win thee for our Friend.
Destroy the greedy Pani, for a wolf is he.
Surely our pressing stones have bellowed for your
companionship, Soma.
Smash down the rapacious niggard. For he is a wolf!
Die Presssteine, o Soma, riefen uns ja recht zur Genossenschaft; schlage nieder den gefrässigen Geizhalz; denn ein Wolf ist der.
Denn unsere Preßsteine verlangen nach dir, Soma, zur Kameradschaft. Schlage den Atrin nieder, den Knauser, denn er ist der Wolf!
Ведь наши давильные камни, о Сома,
Настроились на дружбу.
Убей атрина, пани – ведь он волк!
यू॒यं हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा अ॒भिद्य॑वः । कर्ता॑ नो॒ अध्व॒न्ना सु॒गं गो॒पा अ॒मा ॥
यू॒यम् । हि । स्थ । सु॒ऽदा॒न॒वः॒ । इन्द्र॑ऽज्येष्ठाः । अ॒भिऽद्य॑वः । कर्ता॑ । नः॒ । अध्व॑न् । आ । सु॒ऽगम् । गो॒पाः । अ॒मा ॥
हे सुदानवः शोभनदाना देवाः यूयं हि ष्ठ यूयं खलु प्रभवथ । सन्नद्धाः स्थ । इन्द्रज्येष्ठाः । इन्द्रो ज्येष्ठो मुख्यो येषां ते । अभिद्यवः अभिगतदीप्यस्ते यूयम् अध्वन् अध्वनि मार्गे नः अस्माकम् अमा सहैव गोपाः गोपायितारो रक्षितारः सन्तः सुगं सुखम् । आकारः समुच्चये । सुखं च कर्त कुरुत ॥
“You are munificent and illustrious, gods, with Indra for your chief, be with us, protectors, on the road, and grant us happiness.”
Ye, O most bountiful, are they who, led by Indra, seek the sky.
Give us good paths for travel: guard us ivell at home.
Because you of good drops, with Indra preeminent, are heaven-bound, make good passage for us on the road. (Be) herdsmen at home.
Ihr, o gabenreiche [Maruts] seid ja himmelstrebend und habt Indra an der Spitze; drum schafft uns auf unserm Wege guten Fortgang und behütet uns daheim.
Denn ihr Gabenschönen seid ja die Glorreichen mit Indra als Oberstem. Schaffet uns unterwegs gute Fahrt, seid Schützer daheim!
Ведь вы, (о боги) с прекрасными дарами,
С Индрой во главе обращены к небу.
Создайте нам хороший путь в странствии. (Будьте) хранителями (по пути) домой!
अपि॒ पन्था॑मगन्महि स्वस्ति॒गाम॑ने॒हस॑म् । येन॒ विश्वा॒: परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॑ ॥
अपि॑ । पन्था॑म् । अ॒ग॒न्म॒हि॒ । स्व॒स्ति॒ऽगाम् । अ॒ने॒हस॑म् । येन॑ । विश्वाः॑ । परि॑ । द्विषः॑ । वृ॒णक्ति॑ । वि॒न्दते॑ । वसु॑ ॥
पन्थां पन्थानं मार्गम् अपि अगन्महि । अपिगताः प्राप्ताः स्मः । कीदृशम् । स्वस्तिगां सुलेन गन्तव्यम् अनेहसं पापरहितम्। येन पथा गच्छन् विश्वाः सर्वाः द्विषः द्वेष्ट्रीः प्रजाः परि वृणक्ति परिवर्जयति बाधते वसु धनं च विन्दते लभते । तादृशं पन्थानमित्यर्थः ॥ ॥१३॥
“We have travelled along the road prosperously traversed and free from evil, and by which (a man) avoids adversaries and acquires wealth.”
Now have we entered on the road that leads to bliss, without a foe,
The road whereon a man escapes all enemies and gathers wealth.
We have gone on the faultless path leading to well-being,
on which one avoids all hatreds and finds goods.
Wir haben den Pfad betreten, der zum Heile führt und sicher ist, auf dem man alle Hasser vermeidet und Gut gewinnt.
Wir haben den Weg angetreten, der unfehlbar zum Heil führt, auf dem man allen Anfeindungen entgeht und Schätze findet.
Мы вступили на путь,
Ведущий к счастью, лишенный угроз,
На котором избегают всякой
Враждебности, находят добро.