अह॑श्च कृ॒ष्णमह॒रर्जु॑नं च॒ वि व॑र्तेते॒ रज॑सी वे॒द्याभि॑: । वै॒श्वा॒न॒रो जाय॑मानो॒ न राजावा॑तिर॒ज्ज्योति॑षा॒ग्निस्तमां॑सि ॥
अहः॑ । च॒ । कृ॒ष्णम् । अहः॑ । अर्जु॑नम् । च॒ । वि । व॒र्ते॒ते॒ इति॑ । रज॑सी॒ इति॑ । वे॒द्याभिः॑ । वै॒श्वा॒न॒रः । जाय॑मानः । न । राजा॑ । अव॑ । अ॒ति॒र॒त् । ज्योति॑षा । अ॒ग्निः । तमां॑सि ॥
आहरति पुरुषोऽस्मिन् कर्माणीति अहः। कृष्ण कृष्णवर्णम् । एतत्सामानाधिकरण्यादहःशब्दो रात्रिवचनः । तमसा कृष्णवर्णा रात्रिः च अर्जुनं च सौरेण तेजसा शुक्लवर्णम् अहः दिवसश्च रजसी स्वस्वभासा सर्वं जगद्रञ्जयन्तौ वेद्याभिः वेदितव्याभिरनुकूलतया ज्ञातव्याभिः स्वप्रवृत्तिभिः वि वर्तेते विविधं पर्यावर्तते । यद्वा । रजसी द्यावापृथिव्यौ । उपलक्षणमेतत् । लोकत्रयं प्रत्यावर्तेते । एतच्च वैश्वानराग्नेराज्ञया इति शेषः । स हि देवतात्वेनात्र प्रतिपाद्यः । स च वैश्वानरः अग्निः जायमानो न राजा प्रादुर्भवन् प्रवर्धमानः राजेव ज्योतिषा तेजसा तमांसि अवातिरत् अवतिरतिर्वधकर्मा । अवतिरति विनाशयति ।
“The dark day and the light day revolve alternate, affecting (the world) by their recognizable (properties); Agni vaiśvānara, manifested like a prince, dispels darkness by his lustre.”
ONE half of day is dark, and bright the other: both atmospheres move on by sage devices.
Agni Vaisvanara, when born as Sovran, hath with his lustre overcome the darkness.
The black day and the silvery day roll out through the two dusky realms according to their knowing ways.
Agni Vaiśvānara, (even) while being born, like a king suppressed the dark shades with his light.
Es rollen schwarz und weiss die Tageshälften, von selbst der dunkle und der helle Luftraum, Der Männerhort verjagte kaum geboren das Dunkel durch sein Licht, ein König, Agni.
Es drehen sich der schwarze Tag und der helle Tag, die lichte und die dunkle Seite mit Vorbedacht. Agni Vaisvanara überwand, eben geboren, wie ein König mit seinem Lichte die Finsternis.
Черный день и светлый день –
Вращаются два пространства по (своему) разумению.
Агни-Вайшванара, рождаясь,
Как царь, преодолел светом мрак.
नाहं तन्तुं॒ न वि जा॑ना॒म्योतुं॒ न यं वय॑न्ति सम॒रेऽत॑मानाः । कस्य॑ स्वित्पु॒त्र इ॒ह वक्त्वा॑नि प॒रो व॑दा॒त्यव॑रेण पि॒त्रा ॥
न । अ॒हम् । तन्तु॑म् । न । वि । जा॒ना॒मि॒ । ओतु॑म् । न । यम् । वय॑न्ति । स॒म्ऽअ॒रे । अत॑मानाः । कस्य॑ । स्वि॒त् । पु॒त्रः । इ॒ह । वक्त्वा॑नि । प॒रः । व॒दा॒ति॒ । अव॑रेण । पि॒त्रा ॥
वैश्वानरस्य महत्त्वमाख्यास्यन्नृषिस्तदर्थं यज्ञं वस्त्रात्मकतया रूपयन् तस्य दुर्ज्ञानत्वमनया प्रतिपादयतीति यज्ञवादिनो मन्यन्ते । तन्तुम् । तन्तवः पटस्य प्रागायतानि सूत्राणि । तानि च यज्ञात्मकस्य वस्त्रस्य गायत्र्यादीनि छन्दांसि स्तुतशस्त्राणि च । तानि अहं न वि जानामि । तथा ओतुम् । ओतवस्तिरश्चीनानि सूत्राणि । तानि चात्र यजूंष्याध्वर्यवाणि कर्माणि च । तान्यहं न वि जानामि । अपि चैतदुभयसाध्यं तं पटं यज्ञलक्षणं न वि जानामि यं पटं यज्ञलक्षणं समरे संगमने देवयजने अतमानाः सततं चेष्टमाना ऋत्विजः वयन्ति तन्तूनोतूंश्च संतन्वन्ति । वस्त्ररूपेण निष्पादयन्ति इत्यर्थः । इह अस्मिन् लोके कस्य स्वित् । स्विदिति वितर्के । कस्य खलु पुत्रः मनुष्यः वक्त्वानि वक्तव्यानि तानीमानि परः परस्तादमुष्मिन् लोके वर्तमानो यः सूर्यस्तस्य पित्रा अवरेण अवस्तात् अस्मिन् लोके वर्तमानेन वैश्वानराग्निनानुशिष्टः सन् वदाति वदेत्। न कश्चिदपि प्रवदितुं शक्नोतीत्यर्थः । एतच्च संप्रदायविद्भिरुक्तं- वैश्वानरस्य पुत्रोऽसौ परस्ताद्दिवि यः स्थितः । छन्दांस्यध्वरवस्त्रस्य स्तुतशस्त्राणि तन्तवः ॥ यजूंषि चेष्टाश्चौतुः स्याद्वस्त्रं वातव्यमध्वरः । परः परः स्थितः सूर्यः पिताग्निः पार्थिवो मतः' इति ॥ रूपकतया जगत्सृष्टेर्दुर्ज्ञानत्वमनया प्रतिपादयतीत्यात्मविदो मन्यन्ते । तन्तुं तन्तून् तन्तुस्थानानि सूक्ष्माणि वियदादीन्यपञ्चीकृतानि भूतानि न विजानामि । ओतुमोतून् पञ्चीकृतानि स्थूलान्योतुस्थानीयान्यपि वियदादीनि न विजानामि । न च तत्कार्यं पटस्थानीयं प्रपञ्चं विजानामि यं प्रपञ्चं समरे तन्तुनामोतूनां च संगमनेऽतमानाः सततं चेष्टमानाः संसारिणो वयन्ति उत्पादयन्ति । तेषां भोगार्थमीश्वरः सृजतीति कर्तृत्वमुपचर्यते । इहास्मिन्विषये परः परस्ताद्बुद्धेरविषये वर्तमानानि वक्त्वानि वक्तव्यानीमान्यवरेणार्वाचीनेन सृष्ट्युत्तरकालमुत्पन्नेन पित्रा स्वजनकेनानुशिष्टः सन् कस्य खलु पुत्रो वदाति । वदेत् । स्वोत्पत्तेः प्राचीनं वृत्तान्तमजानानः कश्चिदपि न वदेदित्यर्थः ॥
“I understand not the threads (of the warp), nor the threads of the woof, nor that (cloth) which those who are assiduous in united exertion weave; of what (man) may the son declare the words that are to be spoken in the next world, (instrumental ucted) by a father abiding below.”
I know not either warp or woof, I know not the web they weave when moving to the contest.
Whose son shall here speak words that must be spoken without assistance from the Father near him?
I do not know the thread, nor know how to weave, nor (know) what the wanderers [=fingers? threads? shuttles?] weave at their meeting.
Whose son will be able to speak what is to be said here, as someone higher than his father, (who is) below?
Nicht weiss ich recht zu spannen noch zu weben das Werk, was sie zum Wettstreit gehend weben; Wie mag ein Sohn noch besser als sein Vater verkünden nun, was hier gesagt soll werden?
Nicht verstehe ich den Faden noch den Einschlag, nicht weiß ich, welchen Faden sie weben, wenn sie in den Wettstreit eintreten. Wessen Sohn könnte hier wohl Worte reden, höher als sein Vater hienieden?
Не пойму я ни основу, ни уток,
Ни какую (ткань) ткут они, вступая в состязание.
Чей же сын смог бы произносить
Речи выше оказавшегося внизу отца?
स इत्तन्तुं॒ स वि जा॑ना॒त्योतुं॒ स वक्त्वा॑न्यृतु॒था व॑दाति । य ईं॒ चिके॑तद॒मृत॑स्य गो॒पा अ॒वश्चर॑न्प॒रो अ॒न्येन॒ पश्य॑न् ॥
सः । इत् । तन्तु॑म् । सः । वि । जा॒ना॒ति॒ । ओतु॑म् । सः । वक्त्वा॑नि । ऋ॒तु॒ऽथा । व॒दा॒ति॒ । यः । ई॒म् । चिके॑तत् । अ॒मृत॑स्य । गो॒पाः । अ॒वः । चर॑न् । प॒रः । अ॒न्येन॑ । पश्य॑न् ॥
यद्यपि उक्तेन प्रकारेण दुर्ज्ञानानि तथाप्येतानि वैश्वानरोऽग्निः जानाति वदति चेत्यनया प्रतिपादयति। स इत् स एव वैश्वानरोऽग्निः तन्तुं तन्तुस्थानीयानि गायत्र्यादीनि छन्दांसि स्तुतशस्त्राणि वि जानाति तथा सः एव ओतुम् ओतुस्थानीयानि यजूंष्याध्वर्यवाणि च कर्माणि वि जानाति । ऋतुथा काले काले तत्तदनुष्ठानसमये वक्त्वानि वक्तव्यानि च तानि वदाति वदेत् । यः अयं वैश्वानरः अमृतस्य गोपाः उदकस्य गोपायिता रक्षिता अवः अवस्तात् भूलोके चरन् पार्थिवाग्निरूपेण संचरन् परः परस्ताद्दिवि अन्येन सूर्यात्मना पश्यन् सर्वं जगत् प्रकाशयन् ईम् इमानि परिदृश्यमानानि सर्वाणि भूतानि चिकेतत् जानाति स एवेति पूर्वत्र संबन्धः । यद्वा । स इत् स एव तन्तुं तन्तुस्थानीयानि सूक्ष्मभूतानि वि जानाति नान्यः कश्चित् । तथौतुमोतुस्थानीयानि स्थूलभूतानि च स एव वि जानाति । स एव वक्त्वानि वक्तव्यान्युपदेष्टव्यानीमान्यृतुथा काले काले यदा यदा विद्यासंप्रदायोच्छेदस्तदा तदा वदाति वदेत् । कोऽसौ यो विजानीयाद्वदेच्चेत्यत आह । यो वैश्वानरो विश्वनरात्मकः परमात्मामृतस्यामृतत्वस्य विमोक्षणस्य गोपा रक्षितावोऽवस्तात् संसारदशायां चरन् अन्तःकरणोपेतः जीवात्मभावेन संचरन् परः परस्तादविद्याया ऊर्ध्वं वर्तमानेनान्येनोक्तविलक्षणेन निरुपाधिकेन सच्चिदादिलक्षणेन रूपेण पश्यन् सर्वं जगत् प्रकाशयन् ईमिमानि चिकेतत् जानाति । तथा च परमात्मानं प्रकृत्य श्रूयते - तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति' ( श्वे. उ. ६.१४ ) इति ॥
“He verily knows the threads of the warp and or the woof, he speaks in due season what is to be said, who comprehends all this (universe); who is the protector of ambrosial water, sojourning both above and below, and contemplating (the world) under a different (manifestation).”
For both the warp and woof he understandeth, and in due time shall speak what should be spoken,
Who knoweth as the immortal world's Protector, descending, seeing with no aid from other.
Just he (knows) the thread; he knows how to weave; he will be able to speak what is to be said in proper order—
(the one) who will rightly perceive him [=Agni]: “(He [=the poet] is) the herdsmen of the immortal”—(the son who, though) he moves about below, sees above the other [=his father].
»Der weiss zu spannen recht und weiss zu weben, und kündet trefflich, was gesagt soll werden, Wer recht versteht zu achten auf den ew'gen, ob später kommend, doch dem andern vorschaut.«
Nur dieser versteht den Faden, er den Einschlag, er wird richtig die Worte reden, der ihn kennt als der Hüter der Unsterblichkeit, der hier unten lebend doch höher sieht als ein anderer.
Только он и основу понимает, и уток,
Он может правильно произносить речи –
(Он,) хранитель бессмертия, который понимает это,
Передвигаясь внизу, (но) видя выше другого.
अ॒यं होता॑ प्रथ॒मः पश्य॑ते॒ममि॒दं ज्योति॑र॒मृतं॒ मर्त्ये॑षु । अ॒यं स ज॑ज्ञे ध्रु॒व आ निष॒त्तोऽम॑र्त्यस्त॒न्वा॒३॒॑ वर्ध॑मानः ॥
अ॒यम् । होता॑ । प्र॒थ॒मः । पश्य॑त । इ॒मम् । इ॒दम् । ज्योतिः॑ । अ॒मृत॑म् । मर्त्ये॑षु । अ॒यम् । सः । ज॒ज्ञे॒ । ध्रु॒वः । आ । नि॒ऽस॒त्तः । अम॑र्त्यः । त॒न्वा॑ । वर्ध॑मानः ॥
अयं वैश्वानरोऽग्निः प्रथमः आद्यः होता । मानुषो हि होता द्वितीयः । हे मनुष्यास्तम् इमं पश्यत भजतेत्यर्थः । मर्त्येषु मरणस्वभावेषु शरीरेषु अमृतं मरणरहितम् इदं वैश्वानराख्यं ज्योतिः जठररूपेण वर्तत इत्यर्थः । अपि च सः अयम् अग्निः ध्रुवः निश्चलः आ समन्तात् निषत्तः निषण्णः सर्वव्यापी अत एव अमर्त्यः मरणरहितोऽपि तन्वा शरीरेण संबन्धात् जज्ञे जायते । वर्धमानः च भवतीति उपचर्यते ॥।
“This vaiśvānara is the first offerer of burnt offerings; behold him; this is the light immortal among mortals; he has been born in a bodily shape, immoveable, all-pervading, immortal, ever increasing.”
He is the Priest, the first of all: behold him. Mid mortal men he is the light immortal.
Here was he born, firm-seated in his station Immortal, ever waxing in his body.
Here is the foremost Hotar: look at him. Here is the light, immortal among mortals.
Here was he born, set steadfast down here, immortal, becoming strong through his own body.
Hier ist der erste Priester, schaut auf diesen, das Licht hier unter sterblichen unsterblich, Er ward erzeugt und setzt sich bleibend nieder, unsterblich er, an seinem Leibe wachsend.
Dieser ist der erste Hotri, schauet ihn, der ist das unsterbliche Licht unter den Sterblichen. Er ward geboren, hat dauernd seinen Sitz inne, der Unsterbliche, am Leibe wachsend.
Вот первый хотар – взгляните на него!
Это свет бессмертный среди смертных.
Это он родился, прочно уселся,
Бессмертный, растущий телом.
ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्व॒न्तः । विश्वे॑ दे॒वाः सम॑नस॒: सके॑ता॒ एकं॒ क्रतु॑म॒भि वि य॑न्ति सा॒धु ॥
ध्रु॒वम् । ज्योतिः॑ । निऽहि॑तम् । दृ॒शये॑ । कम् । मनः॑ । जवि॑ष्ठम् । प॒तय॑त्ऽसु । अ॒न्तरिति॑ । विश्वे॑ । दे॒वाः । सऽम॑नसः । सऽके॑ताः । एक॑म् । क्रतु॑म् । अ॒भि । वि । या॒न्ति॒ । सा॒धु ॥
ध्रुवं निश्चलं मनः मनसः तस्मादपि जविष्ठम् अतिशयेन वेगवत् ईदृशं वैश्वानराख्यं ज्योतिः पतयत्सु गच्छत्सु जङ्गमेषु प्राणिषु अन्तः मध्ये निहितं प्रजापतिना स्थापितम् । किमर्थम् । दृशये कम् । दर्शनार्थम् । किंच विश्वे सर्वे देवाः च समनसः समानमनस्काः सकेताः समानप्रज्ञाश्च सन्तः एकं मुख्यं गन्तारं वा क्रतुं कर्मणां कर्तारं साधु सम्यक अभि वि यन्ति आभिमुख्येन विविधं प्राप्नुवन्ति सेवन्त इत्यर्थः । यद्वा । पतयत्सु गच्छत्सु प्राणिष्वन्तर्मध्ये हृदये मनो जविष्ठं मनसोऽप्यतिशयेन वेगयुक्तं ध्रुवं निश्चलं निर्विकल्पम् । तथा च वाजसनेयकम्-- अनेजदेकं मनसो जवीयः' (वा. सं. ४०. ४ ) इति । ज्योतिर्ब्रह्म चैतन्यं निहितम् । न केनचित् स्थापितम् । यो वेद निहितं गुहायां परमे व्योमन' (तै. आ. ८. १ ) इति हि श्रूयते । किमर्थम् । दृशये दर्शनार्थम् । ज्ञानेन हि सर्वं जानन्ति । अपि च । दीव्यन्तीति देवा इन्द्रियाणि । विश्व सर्वे देवाः सर्वाणीन्द्रियाणि चक्षुराद्याः समनसो मनसा सह वर्तमानाः सकेताः सतेजस्काः सन्त एकमद्वितीय क्रतुं सृष्टयादीनां कर्मणां कर्तारं विश्वनरात्मकं परमात्मानमभिलक्ष्य साधु सम्यक् वि यन्ति विविधं गच्छन्ति । देवा एव वेममभि वि यन्ति । आभिमुख्येन विविधमुपयन्ति । उपासत इत्यर्थः । तथा च श्रूयते -- तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्' (बृ. उ. ४. ४. १६) इति ॥
“A steady light, swifter than thought, stationed among moving beings to show (the way) to happiness all the gods being of one mind, and of like wisdom, proceed respectfully to the presence of the one (chief) agent (vaiśvānara).”
A firm light hath been set for men to look on: among all things that fly the mind is swiftest.
All Gods of one accord, with one intention, move unobstructed to a single purpose.
The steadfast light, set down to be seen—the mind swiftest among (all) those that fly—
all the gods, of one mind and one perception, come separately straight to (him) as their single resolve.784 VI.10
᳓
Das stete Licht ist hingesetzt zum Schauen, das unter dem, was fliegt, gedankenschnellste; Die Götter alle gleichen Sinns und Willens, gehn graden Weges auf das eine Werk hin.
Er ist das Licht, das zum Schauen dauernd eingepflanzt ist: der Gedanke, der unter den fliegenden Wesen das schnellste ist. Alle Götter einmütig, einstimmig begegnen sich richtig in dem einen Gedanken.
Прочный свет установлен, чтобы (его) видели, –
Мысль – быстрейшее из того, что летает.
Все боги, единодушные, с единой волей,
С разных сторон правильно сходятся на одном представлении.
वि मे॒ कर्णा॑ पतयतो॒ वि चक्षु॒र्वी॒३॒॑दं ज्योति॒र्हृद॑य॒ आहि॑तं॒ यत् । वि मे॒ मन॑श्चरति दू॒रआ॑धी॒: किं स्वि॑द्व॒क्ष्यामि॒ किमु॒ नू म॑निष्ये ॥
वि । मे॒ । कर्णा॑ । प॒त॒य॒तः॒ । वि । चक्षुः॑ । वि । इ॒दम् । ज्योतिः॑ । हृद॑ये । आऽहि॑तम् । यत् । वि । मे॒ । मनः॑ । च॒र॒ति॒ । दू॒रेऽआ॑धीः । किम् । स्वि॒त् । व॒क्ष्यामि॑ । किम् । ऊँ॒ इति॑ । नु । म॒नि॒ष्ये॒ ॥
वैश्वानरं श्रोतुकामस्य मे मम कर्णा कर्णौ वि पतयतः विविधं गच्छतः । श्रोतव्यानां तदीयगुणानां बहुत्वात् । तथा वैश्वानरं दिदृक्षमाणस्य मम चक्षुः इन्द्रियं वि पतयति विविधं गच्छति । दृष्टव्यानां तदीयरूपाणां बहुत्वात् । तथा ज्योतिः प्रकाशकं हृदये हृदयपुण्डरीके आहितं निहितं यत् बुद्ध्याख्यं तत्त्वम् इदमपि वि पतयति विविधं गच्छति वैश्वानरात्मानं ज्ञातुम् । अपि च दूरआधीः । दूरे विप्रकृष्टे विषय अधीराध्यानं यस्य तादृशम् । छान्दसो लिङ्गव्यत्ययः । मे मदीयं मनः च वि चरति विविधं प्रवर्तते । एवमहमहमिकया सर्वेष्विन्द्रियेषु प्रवृत्तेषु किं स्वित् अहं
वैश्वानरस्य रूपमिति वक्ष्यामि । किमु नु किमु खलु संप्रति मनिष्ये मनसा प्रपत्स्ये । वैश्वानरस्य गुणानामनन्तत्वात् मन्दप्रज्ञेन मया ज्ञातुं न शक्यत इत्यर्थः ॥
“My ears are turned (to hear him), my eyes (to behold him); this light that is plural ced in the heart (seeks to know him); my mind, the receptable of distant (objects) hastens (towards him); what shall I declare him? How shall I comprehend him?”
Mine ears unclose to hear, mine eye to see him; the light that harbours in my spirit broadens.
Far roams my mind whose thoughts are in the distance. What shall I speak, what shall I now imagine?
My two ears fly widely, widely my sight, widely this light that was deposited in my heart.
Widely goes my mind, my intentions at a distance. What shall I say, and what now shall I think?
᳓
Auf thun sich meine Ohren, auf mein Auge auf dieses Licht, das in mein Herz gesetzt ist; Vor dringt mein Geist nun in die Ferne schauend, was werd' ich sprechen, und woran gedenken?
Meine Ohren fliegen auf, mein Auge geht auf, es geht dieses Licht auf, das ins Herz gesetzt ist. Mein Gedanken schweift fort in die Ferne sinnend. Was soll ich wohl sagen, was soll ich wohl sinnen?
Взлетают мои уши, вз(летает) взгляд,
Вз(летает) этот свет, что заложен в сердце.
Воспаряет моя мысль, проникающая далеко.
Что же скажу я? Что же придумаю?
विश्वे॑ दे॒वा अ॑नमस्यन्भिया॒नास्त्वाम॑ग्ने॒ तम॑सि तस्थि॒वांस॑म् । वै॒श्वा॒न॒रो॑ऽवतू॒तये॒ नोऽम॑र्त्योऽवतू॒तये॑ नः ॥
विश्वे॑ । दे॒वाः । अ॒न॒म॒स्य॒न् । भि॒या॒नाः । त्वाम् । अ॒ग्ने॒ । तम॑सि । त॒स्थि॒ऽवांस॑म् । वै॒श्वा॒न॒रः । अ॒व॒तु॒ । ऊ॒तये॑ । नः॒ । अम॑र्त्यः । अ॒व॒तु॒ । ऊ॒तये॑ । नः॒ ॥
हे वैश्वानर तमसि अन्धकारे तस्थिवांसं स्थितवन्तं त्वां विश्वे सर्वे देवाः अनमस्यन् नमस्कुर्वन्ति । कुतो हेतोः । भियानाः अन्धकाराद्भीताः । तादृशः अमर्त्यः मरणरहितः वैश्वानरः अग्निः नः अस्मान् ऊतये ऊत्या रक्षणेन अवतु रक्षतु । पुनरुक्तिरादरार्था ॥ ॥ ११ ॥
“All the gods, alarmed, venerate you, Agni, abiding in darkness; may vaiśvānara preserve us with his protection; may the immortal Agni preserve us with his protection.”
All the Gods bowed them down in fear before thee, Agni, when thou wast dwelling in the darkness.
Vaisvanara be gracious to assist us, may the Immortal favour us and help us.
All the gods, in fear, offered homage to you, Agni, while you were (still) standing in the darkness.
Let Vaiśvānara give help to aid us; let the immortal one give help to aid us.
Die Götter alle beugten sich in Ehrfurcht vor dir als, Agni, du im Dunkel standest; Der Menschenhort sei uns zum Schutze hülfreich, uns der unsterbliche zum Schutze hülfreich.
Alle Götter verehrten dich aus Furcht, als du, Agni, im Dunkel dich aufhieltest. Vaisvanara soll uns gnädig sein zur Gnade, der Unsterbliche soll uns gnädig sein zur Gnade!
Все боги поклонились тебе в страхе,
О Агни, когда ты пребывал во тьме.
Вайшванара да будет милости к нам на милость!
Бессмертный да будет милостив к нам на милость!