तिस्रो᳓ वा᳓चः प्र᳓ वद ज्यो᳓तिरग्रा
या᳓ एत᳓द् दुह्रे᳓ मधुदोघ᳓म् ऊ᳓धः
स᳓ वत्सं᳓ कृण्व᳓न् ग᳓र्भम् ओ᳓षधीनां
सद्यो᳓ जातो᳓ वृषभो᳓ रोरवीति
ऋषिरात्मानं स्तुतौ प्रेरयति । हे ऋषे तिस्रः त्रिविधा ऋग्यजुःसामात्मिकाः स्तुतिरूपाः वाचः प्र वद प्रब्रूहि । कीदृश्यो वाचः । ज्योतिरग्राः । ज्योतिर्द्योतमानः प्रणवोऽग्रे प्रमुखो यासां तादृशीः । याः वाचः मधुदोघं मधुन उदकस्य दोहकं वृष्ट्युदकस्य कर्तारम् एतत् नभसि दृश्यमानम् ऊधः उद्धृतं मेघम् । यद्वा । लुप्तोपममेतत् । ऊध इव पयस आश्रयभूतं मेघं दुह्रे दुहते । दुहेर्लटि ‘लोपस्त आत्मनेपदेषु' (पा. सू. ७. १. ४१ ) इति तलोपः । बाहुलको रुट् । स्तोत्रैः प्रीतो हि पर्जन्यो मेधैर्वर्षयति । अतो वाच एव दुहन्तीत्युपचर्यते । यद्वा । वदेति व्यत्ययेन मध्यमः । तिस्र इति द्रुतविलम्बितमध्यमभेदेन त्रिविधा ज्योतिरग्रा विद्युत्प्रमुखा वाचः प्रवदेतेति। या गर्जितलक्षणा वाचो वृष्टिप्रदमेतं मेघं दुह्रे उदकानि दुहन्ति । एवंभूतः सः च पर्जन्यः वत्सं सह निवसन्तं वैद्युताग्निं कृण्वन् प्रादुष्कुर्वन् तमेव ओषधीनां व्रीह्यादीनां च गर्भं कुर्वन् सद्यः शीघ्रं जातः प्रादुर्भूतः वृषभः वर्षिता सन् रोरवीति भृशं शब्दायते ॥
SPEAK forth three words, the words which light precedeth, which milk this udder that produceth nectar.
Quickly made manifest, the Bull hath bellowed, engendering the germ of plants, the Infant.
Speak forth the three speeches with light at their front, which milk this udder milking out honey.
Creating the calf, the embryo of the plants [=Agni], as soon as he is born the bull sets to bellowing.
Drei Worte nenne, denen Licht vorangeht, und die das nektarreiche Euter saugen, Laut brüllt der Stier, sobald er ist geboren, schafft junge Brut und Keime der Gewächse.
Heb an die drei Stimmen, denen das Licht vorangeht, die das Süßes spendende Euter melken! Das Kalb erzeugt er, den Keim der Pflanzen; der Stier brüllt alsbald nach seiner Geburt.
Произнеси три речи, впереди которых свет,
(Те,) что доятся из этого вымени, струящего мед.
Создавая теленка, зародыша растений,
Едва родившись, бык сразу же громко ревет.
यो᳓ व᳓र्धन ओ᳓षधीनां यो᳓ अपां᳓
यो᳓ वि᳓श्वस्य ज᳓गतो देव᳓ ई᳓शे
स᳓ त्रिधा᳓तु शरणं᳓ श᳓र्म यंसत्
त्रिव᳓र्तु ज्यो᳓तिः सुअभिष्टि᳓ अस्मे᳓
यः पर्जन्यः ओषधीनां वर्धनः वर्धयिता । यः च अपाम् उदकानां वर्धकः । यः च देवः द्योतमानः पर्जन्यः विश्वस्य सर्वस्य जगतः ईशे ईष्टे। ‘लोपस्त आत्मनेपदेषु ' इति तलोपः । अधीगर्थ ' (पा. सू. २. ३. ५२ ) इति कर्मणि शेषत्वेन विवक्षिते षष्ठी। अनुदात्तेत्त्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः। 'यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः। सः पर्जन्यः त्रिधातु त्रिभूमिकं शरणं गृहं शर्म सुखं च यंसत् यच्छतु । अस्मभ्यं ददात्वित्यर्थः ॥ यमेर्लेट्यडाग़मः । सिब्बहुलम्' इति सिप्। ' इतश्च लोपः' इतीकारलोपः। तथा त्रिवर्तु त्रिषु ऋतुषु अतिशयेन वर्तमानम् । श्रूयते हि - ‘ त्रीणि वा आदित्यस्य तेजांसि वसन्ता प्रातर्ग्रीष्मे मध्यंदिने शरद्यपराह्णे ' (तै. सं. २. १. २. ५) इति । एवंविधं स्वभिष्टि स्वभ्येषणं ज्योतिः तेजश्च अस्मे अस्मभ्यं प्रयच्छतु ॥
Giver of growth to plants, the God who ruleth over the waters and all moving creatures,
Vouchsafe us triple shelter for our refuge, and threefold light to succour and befriend us.
The one who is the increaser of plants, who of the waters, who, as god, holds sway over the whole moving world,
he will extend triply layered sheltering shelter, triply turned very superior light to us.
Der Mehrer der Gewächse und der Wasser, der Gott, der über alle Welt gebietet, Er reiche Schutz und Schirm der dreifach schirmet, dreifältig Licht, das Zuflucht uns gewähret.
Der Mehrer der Pflanzen und der Wasser, der Gott, der über die ganze Welt gebeut, er möge den dreifach schützenden Schutz, das dreifältige, überlegene Licht uns gewähren.
Бог, который укрепляет растения, который – воды,
Который властвует надо всем живым миром,
Пусть дарует он тройную защиту-укрытие,
Тройной свет, благоприятный для нас!
स्तरी᳓र् उ त्वद् भ᳓वति सू᳓त उ त्वद्
यथावशं᳓ तनु᳓वं चक्र एषः᳓
पितुः᳓ प᳓यः प्र᳓ति गृभ्णाति माता᳓
ते᳓न पिता᳓ वर्धते ते᳓न पुत्रः᳓
त्वदिति तकारान्तोऽन्यशब्दपर्यायोऽनुदात्तः सर्वनामसु पठितः। अस्य पर्जन्यस्य त्वत् अन्यद्रूपं स्तरीः निवृत्तप्रसवा गौः सा यथा न दोग्ध्री तद्वद्वर्षुकं न भवति । उ इति पूरकः । द्वितीय उशब्दश्चार्थे । त्वत् अन्यच्च रूपं सूते धेनुवत्प्रसूते। उदकानि प्रवर्षति । एषः पर्जन्यः तन्वं स्वकीयं शरीरं यथावशं यथाकामं स्तरीत्वेन धेनुत्वेन च चक्रे करोति । अपि च पितुः दिवः सकाशात् पयः वृष्ट्युदकं माता पृथिवी प्रति गृभ्णाति प्रतिगृह्णाति । हृग्रहोर्भः । इति भत्वम् । प्रतिगृहीतेन तेन हविरात्मना परिणतेन पिता द्युलोकः वर्धते । तेन एवोदकेन पुत्रः पृथिव्यां भवः प्राणिसंघोऽपि वर्धते ॥
Now he is sterile, now begetteth offspring, even as he willeth doth he change his figure.
The Father's genial flow bedews the Mother; therewith the Sire, therewith the son is nourished.
Sometimes he becomes a barren cow, sometimes he gives birth; he has fashioned his own body as he wished.
The mother accepts the milk of the father. With it the father grows
strong, with it the son.
Bald ist sie ohne Frucht und bald gebiert sie, und wie er will, gestaltet er den Leib ihr; Des Vaters Samen nun empfängt die Mutter, durch ihn erstarkt der Sohn und auch der Vater.
Bald wird er eine unfruchtbare Kuh, bald gebiert er; nach Belieben wandelt er seinen Leib. Die Mutter empfängt die Milch des Vaters. Dadurch gedeiht der Vater, dadurch der Sohn.
То он становится яловой коровой, то рожает;
По своей воле он создает себе тело.
Мать воспринимает молоко отца –
От этого крепнет отец, от этого сын.
य᳓स्मिन् वि᳓श्वानि भु᳓वनानि तस्थु᳓स्
तिस्रो᳓ द्या᳓वस् त्रे᳐धा᳓ सस्रु᳓र् आ᳓पः
त्र᳓यः को᳓शास उपसे᳓चनासो
म᳓ध्व श्चोतन्ति अभि᳓तो विरप्श᳓म्
यस्मिन् पर्जन्ये विश्वानि भुवनानि सर्वाणि भूतजातानि तस्थुः तिष्ठन्ति । यदधीनवृत्तीनि भवन्तीत्यर्थः । यस्मिंश्च द्यावः द्युप्रभृतयो लोको अवतिष्ठन्ते । यस्माच्च आपः त्रेधा सस्रुः प्राच्यः प्रतीच्योऽवाच्यश्च सत्यो निर्गच्छन्ति । उपसेचनासः उपसेक्तारः त्रयः पौरस्त्यः प्रतीच्य उदीच्यश्चेति त्रिप्रकाराः कोशासः मेघाः विरप्शं महान्तं पर्जन्यम् अभितः परितः मध्वः । कर्मणि षष्ठी । मधूदकं श्चोतन्ति क्षारयन्ति वर्षन्ति ॥
In him all living creatures have their being, and the three heavens with triplyflowing waters.
Three reservoirs that sprinkle down their treasure shed their sweet streams around him with a murmur.
In whom all the creatures abide, (in whom) the three heavens; (in whom) the waters have flowed in three stages—
(his) three buckets for pouring drip an abundance of honey all
around.
In welchem alle Wesen sind gegründet, drei Himmel, dreifach auch die Wasser rannen, Um ihn den starken fliessen drei der Kufen, die ringsumher von süssem Safte träufeln.
Auf dem alle Welten ruhen, die drei Himmel, von dem dreifach die Gewässer strömen-drei Kufen zum Begießen träufen nach allen Seiten die Überfülle des Süßen.
На ком покоятся все существа,
Три неба, (из кого) трояко струятся воды:-
Три бочки для поливки
(Пусть) растения, охраняемые богами, (дадут) прекрасные ягоды!
इदं᳓ व᳓चः पर्ज᳓न्याय स्वरा᳓जे
हृदो᳓ अस्तु अ᳓न्तरं त᳓ज् जुजोषत्
मयोभु᳓वो वृष्ट᳓यः सन्तु अस्मे᳓
सुपिप्पला᳓ ओ᳓षधीर् देव᳓गोपाः
इदं वचः वचनं स्तोत्रं स्वराजे स्वायत्तदीप्तये पर्जन्याय क्रियते । एतच्च हृदः तदीयस्य हृदयस्य अन्तरम् अन्तर्गतम् अस्तु। स च तत् स्तोत्रं जुजोषत् सेवताम् ।‘जुषी प्रीतिसेवनयोः'। लेट्यडागमश्छान्दसः । शपः श्लुः । मयोभुवः सुखस्य भावयित्र्यः वृष्टयः अस्मे अस्माकं तत्प्रसादात् सन्तु भवन्तु । तथा देवगोपाः देवः पर्जन्यो गोपायिता रक्षिता यासां तथाविधाः ओषधीः ओषधयश्च सुपिप्पलाः सुफला अस्माकं भवन्तु ॥
May this my song to Sovran Lord Parjanya come near unto his heart and give him pleasure.
May we obtain the showers that bring enjoyment, and God-protected plants with goodly fruitage.
Here is a speech for Parjanya the self-ruling: let it be the intimate of his heart. He will enjoy it.
Let there be joy-bringing rain for us; let the plants whose protectors are the gods be well-berried.
Dies Spruchlied sei dem herrschenden Pardschanja im Herzen lieb, er mög sich dran erfreuen; Lustreiche Regen seien unser Antheil und fruchtbeladne Kräuter, gottbeschirmet.
Diese Rede für den Selbstherrscher Parjanya soll seinem Herzen recht nahe gehen; er möge sich daran erfreuen. Erquickende Regen sollen uns werden; die gottbehüteten Pflanzen sollen gute Beeren tragen.
Эта речь для Парджаньи-самодержца
Пусть станет близкой (его) сердцу, пусть он насладиться (ею)!
Пусть капли дождя будут ободряющими для нас!
(Пусть) растения, охраняемые богами, (дадут) прекрасные ягоды!
स᳓ रेतोधा᳓ वृषभः᳓ श᳓श्वतीनां
त᳓स्मिन्न् आत्मा᳓ ज᳓गतस् तस्थु᳓षश् च
त᳓न् म र्त᳓म् पातु शत᳓शारदाय
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः
सः पर्जन्यः शश्वतीनां बह्वीनामोषधीनां रेतोधाः रेतस उदकस्य बीजभूतस्य धाता विनिधाता भवति । वृषभः इत्युपमा । यथा कश्चिद्वृषभो बह्वीनां गवां गर्भस्याधाता भवति तद्वत् । अतः तस्मिन् पर्जन्ये जगतः जङ्गमस्य तस्थुषः स्थावरस्य च आत्मा देहो वर्तते । तत् पर्जन्येन दत्तम् ऋतम् उदकं मा मां शतशारदाय शतसंवत्सरजीवनार्थ पातु रक्षतु ॥ माशब्दस्य ‘ ऋत्यकः ' इति प्रकृतिभावो ह्रस्वत्वं च । अन्यद्गतम् ॥ ॥ १ ॥
He is the Bull of all, and their impregner lie holds the life of all things fixed and moving.
May this rite save me till my hundredth autumn. Preserve us evermore, ye Gods, with blessings.
“The bull is the inseminator of each and every (plant). In him is the life-breath of the moving (world) and of the still.”
Let this truth be protective of me for a hundred autumns. – Do you
protect us always with your blessings.
Er ist der Stier, der alles stets befruchtet, der Odem dessen, was da steht und wandert; Dies Opfer schütze mich auf hundert Jahre. Ihr Götter, schützt uns stets mit eurem Segen.
Er ist der besamende Stier aller Pflanzen, in ihm ist die Seele dessen, was geht und steht. Diese Wahrheit soll mich schützen zu hundertjährigem Leben.-Behütet ihr uns immerdar mit eurem Segen!
Он бык, вкладывающий семя во все (растения),
В нем жизненный дух живого и неподвижного (мира).
Эта истина да сохранит меня для жизни в сто осеней!
Защищайте вы нас всегда (своими) милостями.