प्रा॒तर॒ग्निं प्रा॒तरिन्द्रं॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ । प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रं हु॑वेम ॥
प्रा॒तः । अ॒ग्निम् । प्र॒तः । इन्द्र॑म् । ह॒वा॒म॒हे॒ । प्र॒तः । मि॒त्रावरु॑णा । प्रा॒तः । अ॒श्विना॑ । प्र॒तः । भग॑म् । पू॒षण॑म् । ब्रह्म॑णः । पति॑म् । प्र॒तः । सोम॑म् । उ॒त । रु॒द्रम् । हु॒वे॒म॒ ॥
प्रातः उषःकाले अग्निं देवं हवामहे वयं स्तोतार आह्वयामः । तथा प्रातःकाले इन्द्रं हवामहे। तथा मित्रावरुणा मित्रावरुणावहोरात्राभिमानिनौ देवौ प्रातः वयं हवामहे । तथाश्विनौ देवानां भिषजौ प्रातः वयं हवामहे । तथा प्रातः भगं देवं पूषणं देवं ब्रह्मणस्पतिं मन्त्राभिमानिनमेतत्संज्ञकं चाह्वयामः। तथा प्रातः सोमम् एतत्संज्ञकं देवम् उत अपि च रुद्रं देवं च हुवेम आह्वयामः ॥
_
प्रातःकालेऽग्न्यादीन्देवानाह्वयामः । प्रतिदेवं वाक्यभेदेन प्राधान्यद्योतनाय प्रातश्शब्दावृत्तिः । यत्रावृत्तिर्नास्ति तत्राप्यावृत्तिरुन्नेया ॥
“We invoke at dawn Agni; at dawn Indra; at dawn Mitra and Varuṇa; at dawn the Aśvins; at dawnBhaga, Pūṣan, Brahmaṇaspati; at dawn Soma and Rudra.”
AGNI at dawn, and Indra we invoke at dawn, and Varuna and Mitra, and the Asvins twain.
Bhaga at dawn, Pusan, and Brahmanaspati, Soma at dawn, Rudra we will invoke at dawn.
At early morning we call on Agni, at early morning on Indra, at early morning on Mitra and Varuṇa, at early morning on the Aśvins;
at early morning on Bhaga, Pūṣan, Brahmaṇaspati, at early morning on Soma and Rudra should we call.
Frühmorgens laden Agni wir und Indra ein, frühmorgens Mitra-Varuna, die Ritter früh, Frühmorgens Bhaga, Puschan und Brihaspati, frühmorgens laden Soma wir und Rudra ein.
Am Morgen rufen wir Agni, am Morgen Indra, am Morgen Mitra und Varuna, am Morgen die beiden Asvin, am Morgen Bhaga, Pusan, Brahmanaspati. Am Morgen wollen wir Soma und Rudra rufen.
Рано утром Агни, рано утром Индру мы призываем,
Рано утром Митру-Варуну, рано утром Ашвинов,
Рано утром Бхагу, Пушана, Брахманаспати,
Рано утром Сому, а также Рудру мы хотим призывать.
प्रा॒त॒र्जितं॒ भग॑मु॒ग्रं हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता । आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥
प्रा॒तः॒ऽजित॑म् । भग॑म् । उ॒ग्रम् । हु॒वे॒म॒ । व॒यम् । पु॒त्रम् । अदि॑तेः । यः । वि॒ऽध॒र्ता । आ॒ध्रः । चि॒त् । यम् । मन्य॑मानः । तु॒रः । चि॒त् । राजा॑ । चि॒त् । यम् । भग॑म् । भ॒क्षि॒ । इति॑ । आह॑ ॥
यः भगो देवः विधर्ता विश्वस्य जगतो धारकः जितं जयशीलम् उग्रम् उद्गूर्णम् अदितेः पुत्रं भगं देवं प्रातःकाल एव वयं हुवेम आह्वयामः । आध्रश्चित् दरिद्रोऽपि स्तोता यं भगं देवं मन्यमानः स्तुवन् भगं भजनीयं धनं भक्षि भज विभज मह्यं देहि इति आह ब्रवीति । तुरश्चित् । तुरतिर्गतिकर्मा। प्राप्तधनोऽपि राजा चित् समर्थोऽपि जनः यं भगं देवं भजनीयं धनं मह्यं भक्षि देहीत्याह । तं भगं प्रातरेव वयं हुवेमेति संबन्धः ॥
प्रातःकाले जितं जययुक्तमुग्रं वैरिषु तीव्रं भगं देवं हुवेम आह्वयामः । कीदृशम्? अदितेः पुत्रमादित्यं, य आदित्यो विशेषेण जगतो धारयिता तमिति पूर्वत्रान्वयः । आध्रश्चित् दरिद्रोऽपि यं देवमभिमतप्रदं मन्यमानः भगं देवं भक्षीत्याह भजनं करोमीति ब्रूते, तथा तुरश्चित् कार्येषु त्वरमाणोऽपि यं भगं कार्यसाधकं मन्यमानो भजेयेति ब्रूते, तथा राजाचित् रजाऽपि यं भगं राज्यसाधकं मन्यमानो भजेयेति ब्रूते तं भगमाह्वयाम इति पूवत्रान्वयः ॥
“We invoke at dawn fierce Bhaga, the son of Aditi, who is the sustainer (of the world), to whom the poorman praising him applies, saying, give (me wealth), to whom the opulent prince (addresses the same prayer).”
We will invoke strong, early-conquering Bhaga, the Son of Aditi, the great supporter:
Thinking of whom, the poor, yea, even the mighty, even the King himself says, Give me Bhaga.
We should call on the one victorious at early morning, Bhaga the strong, Aditi’s son, who is the distributor,
to whom even a person who thinks himself weak (and also) even the powerful, even the king says “Apportion me a portion.”
Wir wollen den, der früh gewinnt und austheilt, den mächt'gen Bhaga, den Aditja, rufen, Von dem der schwache, ja auch der sich stark dünkt, der König selbst »dich möcht' ich haben« saget.
Bhaga, den mächtigen Sieger am Morgen, wollen wir rufen, der Aditi Sohn, der der Verteiler ist, zu dem auch wer sich für schwach hält, und auch der Mächtige, zu dem selbst der König sagt: Ich möchte des Glückes, des Bhaga, teilhaft werden.
Рано утром побеждающего Бхагу грозного мы хотим призывать,
Сына Адити, (того,) кто распределитель (благ),
О котором и слабый, и тот, кто считает себя сильным,
И сам царь говорит: Пусть буду я причастен к Бхаге!
भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद॑न्नः । भग॒ प्र णो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि॑र्नृ॒वन्त॑: स्याम ॥
भग॑ । प्रऽने॑त॒रिति॒ प्रऽने॑तः । भग॑ । सत्य॑ऽराधः । भग॑ । इ॒माम् । धिय॑म् । उत् । अ॒व॒ । दद॑त् । नः॒ । भग॑ । प्र । नः॒ । ज॒न॒य॒ । गोभिः॑ । अश्वैः॑ । भग॑ । प्र । नृऽभिः॑ । नृ॒ऽवन्तः॑ । स्या॒म॒ ॥
हे भग देव त्वं प्रणेता प्रकर्षेण नेतासि । तादृश प्रणेतः हे भग त्वं सत्यराधः सत्यधनोऽसि । तादृश सत्यराधो हे भग त्वं नः अस्मभ्यं ददत् कामान् प्रयच्छन् इमाम् अस्मदीयां धियं स्तुतिम् उदव उद्रक्ष फलयुक्तां कुरु । हे भग त्वं गोभिरश्वैः च नः अस्मान् प्र जनय प्रोद्भूतान् कुरु । हे भग त्वत्प्रसादाद्वयं नृभिः नेतृभिः पुत्रादिभिः नृवन्तः मनुष्यवन्तः प्र स्याम प्रभवेम ॥
_
हे प्रणेतः प्रकर्षेण नेतुं कुशल हे भगदेव अस्मान् कर्मणि प्रणयेति शेषः । हे सत्यराधः सत्यधन भगदेव अस्मभ्यं धनं देहीति शेषः । हे भग नोऽस्मभ्यमिमां धियं ददत् कर्मानुष्ठानबुद्धिं प्रयच्छन् उदव उत्कर्षेण रक्ष । हे भगदेव नः अस्मान् गोभिरश्वैः प्रजनय तद्युक्तान् कुर्वित्यर्थः । हे भग त्वत्प्रसादाद्वयं नृभिः पुत्रपौत्रादिभिः पुरुषैः नृवन्तः पुरुषवन्तः स्याम ॥
“Bhaga, chief leader of rites, Bhaga, faithful granting (our wishes), fructify ceremony, enrich us withcattle and horses; may we Bhaga, be eminent with male descendants and followers.”
Bhaga our guide, Bhaga whose gifts are faithful, favour this song, and give us wealth, O Bhaga.
Bhaga, augment our store of kine and horses, Bhaga, may we be rich in men and heroes.
O Bhaga the leader, o Bhaga whose generosity is real, o Bhaga—promote this poetic insight of ours as you give to us.
Bhaga, propagate us with cows and horses; Bhaga, might we, possessed of superior men, be preeminent through our men.
O Bhaga, Führer, Bhaga, wahrhaft reicher, begünst'ge, Bhaga, dieses Lied, uns spendend, O Bhaga, mach uns reich an Ross und Rindern, und lass, o Bhaga, uns an Helden reich sein.
Bhaga, du Führer, Bhaga, du wahrhaft Belohnender, Bhaga, nimm dieses Gebet gut auf, indem du uns schenkst! Bhaga, mehre uns an Rindern, an Rossen; Bhaga, an Männern möchten wir reich sein.
О Бхага, ведущий вперед, о Бхага, истинно дарящий,
О Бхага, поддержи эту молитву, одаряя нас!
О Бхага, обогати нас коровами (и) конями!
О Бхага, пусть мы, богатые мужами, выделяемся мужами!
उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्ना॑म् । उ॒तोदि॑ता मघव॒न्त्सूर्य॑स्य व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥
उत॑ । इ॒दानी॑म् । भग॑ऽवन्तः । स्या॒म॒ । उ॒त । प्र॒ऽपि॒त्वे । उ॒त । मध्ये॑ । अह्ना॑म् । उ॒त । उत्ऽइ॑ता । म॒घ॒ऽव॒न् । सूर्य॑स्य । व॒यम् । दे॒वाना॑म् । सु॒ऽम॒तौ । स्या॒म॒ ॥
उत अपि च इदानीं वयं भगवन्तः स्याम । हे भग भगेन त्वया स्वामिना युक्ता भवेम । यद्वा । भगवन्तो धनवन्तः स्याम । उत अपि च प्रपित्वे अह्रां प्राप्ते पूर्वाह्ने भगवन्तः स्याम। उत अपि च अह्नां दिवसानां मध्ये मध्याह्ने भगवन्तः स्याम । उत अपि च हे मघवन् धनवन् भग देव सूर्यस्य सर्वस्य प्रेरकस्य देवस्य उदिता उदितौ उदये सति वयं त्वदनुग्रहात् देवानाम् इन्द्रादीनां सुमतौ अनुग्रहबुद्धौ स्याम भवेम ॥
उतेदानीमस्मिन्कालेऽपि भगवन्तः अनेन भगेन देवेन युक्ताः स्याम । उत प्रपित्वे सायंकालेऽपि, उत अह्नां मध्ये मथ्याह्नकालेऽपि, उतोदिता उदयकालेऽपि भतेन देवेन युक्ताः स्याम । हे मघवन् देव वयं सूर्यस्य तव सुमतौ स्याम अनुग्रहबुद्धौ तिष्ठेम ॥
“May we now have Bhaga (for our lord), whether in the forenoon or mid- day, or at sun-rise; may we,Maghavan, enjoy the favour of the gods.”
So may felicity be ours at present, and when the day approaches, and at noontide;
And may we still, O Bounteous One, at sunset be happy in the Deities' loving-kindness.
And just now might we be possessed of portion [/accompanied by Bhaga], and at evening and at the middle of the days,
and at the rising of the sun, o bounteous one, might we be in the good grace of the gods.
Auch jetzt versorge uns mit reichem Antheil beim Tages Anbruch und in Tages Mitte; Und, o gewalt'ger, bei der Sonne Heimgang lass du uns stehen in der Gunst der Götter.
Und zu dieser Stunde möchten wir glücklich sein und im Vorrücken der Sonne und in der Mitte der Tage und bei Aufgang der Sonne, o Gabenreicher, möchten wir in der Gunst der Götter stehen.
А также пусть будем мы сейчас счастливыми,
А также утром, а также в середине дней,
А также на восходе солнца, о щедрый!
Пусть будем мы в милости у богов!
भग॑ ए॒व भग॑वाँ अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तः स्याम । तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीति॒ स नो॑ भग पुरए॒ता भ॑वे॒ह ॥
भगः॑ । ए॒व । भग॑ऽवान् । अ॒स्तु॒ । दे॒वाः॒ । तेन॑ । व॒यम् । भग॑ऽवन्तः । स्या॒म॒ । तम् । त्वा॒ । भ॒ग॒ । सर्वः॑ । इत् । जो॒ह॒वी॒ति॒ । सः । नः॒ । भ॒ग॒ । पु॒रः॒ऽए॒ता । भ॒व॒ । इ॒ह ॥
हे देवाः भगः देवः एव भगवान् धनवान् अस्तु । तेन भगेन देवेन धनेन वा वयं भगवन्तः स्याम धनवन्तो भवेम । हे भग तं प्रसिद्धं त्वा त्वां सर्व इत् सर्व एव जनः जोहवीति भृशं पुनःपुनर्वाह्वयति । हे भग देव सः त्वम् इह अस्मिन् यज्ञे नः अस्माकं पुरएता पुरोगन्ता भव ॥
_
हे देवाः भगाख्यो देव एव मगवानस्तु तेन देवेन भगवन्तः सौभाग्यवन्तः स्याम । हे भगाख्य देव तं तादृशं त्वां सर्वइत् सर्व एव लोकः जोहवीमि आह्वयतीत्यर्थः । हे भगदेव स त्वमिह अस्मिन् कर्मणि नोऽस्माकं पुर एता पुरतो गन्ता भव ॥
“May Bhaga, gods, be the possessor of opulence, and, through him, may we be possessed of wealth,every one verily repeatedly invokes you, Bhaga; do you, Bhaga, be our preceder at this solemnity.”
May Bhaga verily be bliss-bestower, and through him, Gods! may happiness attend us.
As such, O Bhaga, all with might invoke thee: as such be thou our Champion here, O Bhaga.
Let Bhaga himself be possessed of portion, o gods. In this way might we be possessed of portion [/accompanied by Bhaga].
Each and every one constantly calls on you, Bhaga. Become our guide here, Bhaga.
Ja reich an Gaben sei, o Götter, Bhaga, durch ihn auch mögen wir an Gaben reich sein; Drum ruft zu dir, o Bhaga, wahrlich jeder, so gehe du, o Bhaga, hier voran uns.
Bhaga allein muß der Glückbringer sein, ihr Götter. Durch ihn möchten wir glücklich sein. Dich, Bhaga, ruft jedermann an; du Bhaga, sei uns hier der Anführer!
Это Бхага пусть будет носителем счастья, о боги!
С ним (и) мы пусть будем счастливыми!
Ведь каждый громко зовет тебя, о Бхага.
Будь нам тут, о Бхага, идущим впереди!
सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ । अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं॑ नो॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आ व॑हन्तु ॥
सम् । अ॒ध्व॒राय॑ । उ॒षसः॑ । न॒म॒न्त॒ । द॒धि॒क्रावा॑ऽइव । शुच॑ये । प॒दाय॑ । अ॒र्वा॒ची॒नम् । व॒सु॒ऽविद॑म् । भग॑म् । नः॒ । रथ॑म्ऽइव । अश्वाः॑ । वा॒जिनः॑ । आ । व॒ह॒न्तु॒ ॥
शुचये शुद्धाय गमनयोग्याय पदाय स्थानाय दधिक्रावेव अश्वो यथा तथा उषसः उषोदेवताः अध्वराय अस्मदीयाय यागाय सं नमन्त संगच्छन्तु । वाजिनः वेगवन्तः अश्वाः रथमिव रथं यथा तथोषसः अर्वाचीनम् अस्मदभिमुखं वसुविदं धनस्य प्रापकं भगं देवं नः अस्मान् प्रति आ वहन्तु आनयन्तु ॥
अस्य भगदेवस्य प्रसादादुषसः उषःकालदेवताः अध्वराय यज्ञनिष्पत्त्यर्थं संनमन्त समनमन्त । तत्र दृष्टान्तः - दधिक्रावेत्यश्वस्य नाम । अश्वो यथाऽऽधानकाले शुचयेऽग्निनिष्पत्तये पदाय आहवनीयायतने संभाराणामुत्तरतः पादेनाक्रमणाय संप्राप्नोति तथैवोषःकालदेवता अपि प्राप्नुवन्तु । अन्योऽपि दृष्टान्त उच्यते - वाजिनो वेगवन्तोऽश्वा यथा रथमावहन्ति, तथा नोऽर्वाचीनमस्माकमभिमुखं वसुविदं धनस्य लब्धारं भगदेवमावहन्तु इह र्कमण्यानयन्तु ॥
“May the dawn come to our sacrifice as a horse to a suitable station; as rapid steeds convey a chariot,so may the dawns bring to us Bhaga, down- descending, charged with riches.”
To this our worship may all Dawns incline them, and come to the pure place like Dadhikravan.
As strong steeds draw a chariot may they bring us hitherward Bhaga who discovers treasure.
The Dawns (will) jointly bow in reverence to the ceremony, like
Dadhikrāvan to the gleaming footprint [=sacrificial ground].
Like prizewinning horses a chariot let them convey the goods-finding Bhaga here in our direction.
Zum Opfer mögen sich die Morgenröthen, wie Dadhikra zum hellen Orte wenden; Sie mögen nah herbei den reichen Bhaga uns ziehn, wie schnelle Rosse ziehn den Wagen.
Dem Opfer sollen die Morgenröten geneigt sein, wie Dadhikravan der reinen Opferstätte. Sie sollen den Schätzefinder Bhaga zu uns her fahren wie die siegreichen Rosse den Wagen.
Пусть утренние зори склонятся вместе перед обрядом,
Словно Дадхикраван, перед чистой обителью!
В наши края пусть привезут нам Бхагу, находящего добро,
Словно кони, завоевывающие награду, – колесницу!
अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑ती॒: सद॑मुच्छन्तु भ॒द्राः । घृ॒तं दुहा॑ना वि॒श्वत॒: प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
अश्व॑ऽवतीः । गोऽम॑तीः । नः॒ । उ॒षसः॑ । वी॒रऽव॑तीः । सद॑म् । उ॒च्छ॒न्तु॒ । भ॒द्राः । घृ॒तम् । दुहा॑नाः । वि॒श्वतः॑ । प्रऽपी॑ताः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
भद्राः भजनीयाः उषसः उषोदेवताः अश्वावतीः अश्ववत्योऽश्वसहिताः सत्यः गोमतीः गोमत्यश्च वीरवतीः वीरवत्यः पुत्रादिजनोपेताश्च भवन्त्यः नः अस्मभ्यं सदं सर्वदा उच्छन्तु व्युच्छन्तु नैशं तमो विवासयन्तु । कीदृश्यः। घृतम् उदकं दुहानाः सिञ्चन्त्यः विश्वतः सर्वैर्गुणैः प्रपीताः प्रवृद्धाः । एवंभूता उषसस्तम उच्छन्तु । अस्मिन् सूक्ते प्रतिपादिता हे सर्वे देवाः यूयं नः अस्मान् सदा सर्वदा स्वस्तिभिः कल्याणैः पात पालयत ॥ ॥ ८ ॥
अश्वावतीः बहुभिगोभिर्युक्ताः वीरवतीः पुत्रपौत्रादिभिर्वीरैर्युक्ताः भद्राः कल्याणरूपाः घृतं दुहाना घृतक्षीरादिद्रव्याणि संपादयन्त्यः विश्वतः प्रपीनाः सर्वमपि जगप्रकर्षेणाप्याययन्त्यः उषासः यथोक्तगुणविशिष्टा उषःकालदेवता भगस्य प्रसादात् सदं सदनं कर्मानुष्ठानस्थानं प्रत्युच्छन्तु प्रभातं कुर्वन्तु । हे उषासः यूयं स्वस्तिभिः क्षेमरूपैः फलप्रदानैः नः अस्मान् पात रक्षत ॥
“{Text is missing}”
May blessed Mornings dawn on us for ever, with wealth of kine, of horses, and of heroes,
Streaming with all abundance, pouring fatness. Preserve us evermore, ye Gods, with blessings.
Let the Dawns, accompanied by horses, by cows, by heroes, dawn always auspicious for us,
milking out ghee on all sides, teeming. – Do you protect us always with your blessings.
Stets mögen uns die Morgenröthen leuchten die schönen, reich an Rossen, Rindern, Helden, Von Fette triefend, stets von Nahrung schwellend, ihr Götter schützt uns stets mit eurem Segen.
Rossereich, rinderreich, söhnereich, glückbringend mögen uns immerdar die Usas´ aufleuchten, allenthalben Schmalz als Milch gebend, strotzend.-Behütet uns immerdar mit eurem Segen!
Богатые конями, богатые коровами, богатые мужами,
Пусть всегда для нас зажигаются утренние зори, благодатные,
Доясь жиром, набухшие!
Защищайте вы нас всегда своими милостями!