यद॒द्य सू॑र्य॒ ब्रवोऽना॑गा उ॒द्यन्मि॒त्राय॒ वरु॑णाय स॒त्यम् । व॒यं दे॑व॒त्रादि॑ते स्याम॒ तव॑ प्रि॒यासो॑ अर्यमन्गृ॒णन्त॑: ॥
यत् । अ॒द्य । सू॒र्य॒ । ब्रवः॑ । अना॑गाः । उ॒त्ऽयन् । मि॒त्राय॑ । वरु॑णाय । स॒त्यम् । व॒यम् । दे॒व॒ऽत्रा । अ॒दि॒ते॒ । स्या॒म॒ । तव॑ । प्रि॒यासः॑ । अ॒र्य॒म॒न् । गृ॒णन्तः॑ ॥
हे सूर्य सर्वस्य प्रेरकैतन्नामक देव उद्यन् उदयंस्त्वं यत् यदि अद्य अस्मिन्ननुष्ठानकाले अस्मान् ब्रवः ब्रयाः । किमिति । अनागाः अनागस इति । एतेऽपापा इति यदि देवेषु मध्ये ब्रूयाः तर्हि वयं हे अदिते अदीन देव देवत्रा देवेषु देवानां मध्ये मित्राय वरुणाय च सत्यम् अवितथं स्याम अनागसो भवेम। किंच हे अर्यमन् दातः त्वां गृणन्तः स्तुवन्तः तव प्रियासः प्रियाः स्याम त्वत्प्रेमविषया भवेम । यद्वा । उत्तरार्धं एकं वाक्यम् । हे अदिते हे अर्यमन् उक्तलक्षण देव वयं देवेषु मध्ये त्वां गृणन्तस्तवैव प्रियाः स्याम । यदि मां देवेष्वपापं ब्रूयास्तर्हि तैरयमनपराधीत्यनुगृहीतस्त्वां स्तुत्वा तव प्रियो भवेयमित्यर्थः ॥
“Sūrya, when rising today, declare the truḥ to Mitra and Varuṇa, that we are void of sin; may we, Aditi,be (approved of) among the gods; praising you, Aryaman, may we be dear to you.”
WHEN thou, O Sun, this day, arising sinless, shalt speak the truth to Varuna and Mitra,
O Aditi, may all the Deities love us, and thou, O Aryaman, while we are singing.
If today as you arise, o Sun, you who are free of offense will speak the truth [=that we are free of offense] to Mitra and Varuṇa,
we would be (offenseless) before the gods, Aditi, and dear to you,
Aryaman, as we sing.
Wenn du beim Aufgang heut uns wahrhaft schuldlos, o Sonne nennst dem Varuna und Mitra, So werden wir, o Aditi, den Göttern und dir, o Arjaman, wir Sänger lieb sein.
Wenn du heut, o Surya, die Schuldlosen melden wirst, so sollst du bei deinem Aufgang dem Mitra und Varuna die Wahrheit melden. Wir möchten vor den Göttern schuldlos, o Aditi, als Sänger dir lieb sein, o Aryaman.
Если сегодня, о Сурья, восходя, ты провозгласишь род человеческий невиновным,
(Провозглашая) истину Митре (и) Варуне,
Пусть будем мы (такими) перед богами, о Адити,
Приятными тебе, о Арьяман, когда мы воспеваем.
ए॒ष स्य मि॑त्रावरुणा नृ॒चक्षा॑ उ॒भे उदे॑ति॒ सूर्यो॑ अ॒भि ज्मन् । विश्व॑स्य स्था॒तुर्जग॑तश्च गो॒पा ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न् ॥
ए॒षः । स्यः । मि॒त्रा॒व॒रु॒णा॒ । नृ॒ऽचक्षाः॑ । उ॒भे इति॑ । उत् । ए॒ति॒ । सूर्यः॑ । अ॒भि । ज्मन् । विश्व॑स्य । स्था॒तुः । जग॑तः । च॒ । गो॒पाः । ऋ॒जु । मर्ते॑षु । वृ॒जि॒ना । च॒ । पश्य॑न् ॥
हे मित्रावरुणा एषः पुरतो दृश्यमानः स्यः सः सर्वैः स्तुत्यत्वेन प्रसिद्धः नृचक्षाः नृणां मनुष्याणां द्रष्टा सूर्यः उभे द्यावापृथिव्यौ अभि अभिलक्ष्य उदेति ज्मन् अन्तरिक्षे गच्छन् । स विशेष्यते । विश्वस्य सर्वस्य स्थातुः स्थावरस्य जगतः जङ्गमस्य च गोपाः गोपायिता। किं कुर्वन् । 'मर्तेषु मनुष्येषु स्थितानि ऋजु ऋजूनि सुकृतानि वृजिना वृजिनानि पापानि च पश्यन् ॥
“This Sūrya, the beholder of man, rises, Mitra and Varuṇa, upon both (heaven and earth), moving (inthe sky); he who is the preserver of all that is stationary or moveable, witnessing the upright acts or the sins ofmortals.”
Looking on man, O Varuna and Mitra, this Sun ascendeth up by both the pathways,
Guardian of all things fixt, of all that moveth, beholding good and evil acts of mortals.
O Mitra and Varuṇa, this very Sun, who draws the gaze of men, rises up over both [=standing and moving beings] on earth—
the herdsman of everything, (both) the standing and the moving, seeing the straight and crooked (acts) among mortals.
Der Sonnengott geht auf, Varuna-Mitra, zur Doppelwelt hinschreitend, männerschauend, Des stehenden und wandernden Behüter, beschauend Recht und Unrecht an den Menschen.
Da geht, o Mitra und Varuna, Surya, der Aufseher, über beiden auf der Erde auf, der Wächter über alles was steht und geht, Rechtes und Schlechtes unter den Sterblichen erschauend.
Вот этот Сурья, смотрящий на людей, о Митра-Варуна!
Он восходит навстречу обоему на земле:
Он хранитель всего, что стоит и что движется,
Видя прямое среди людей и кривое.
अयु॑क्त स॒प्त ह॒रित॑: स॒धस्था॒द्या ईं॒ वह॑न्ति॒ सूर्यं॑ घृ॒ताची॑: । धामा॑नि मित्रावरुणा यु॒वाकु॒: सं यो यू॒थेव॒ जनि॑मानि॒ चष्टे॑ ॥
अयु॑क्त । स॒प्त । ह॒रितः॑ । स॒धऽस्था॑त् । याः । ई॒म् । वह॑न्ति । सूर्य॑म् । घृ॒ताचीः॑ । धामा॑नि । मि॒त्रा॒व॒रु॒णा॒ । यु॒वाकुः॑ । सम् । यः । यू॒थाऽइ॑व । जनि॑मानि । चष्टे॑ ॥
हे मित्रावरुणा मित्रावरुणौ युवयोरागमनाय सधस्थात् सहस्थानादन्तरिक्षात् अन्तरिक्षे सप्त सर्पणस्वभावान् एतत्संख्याकान् वा हरितः हरिद्वर्णानश्वान् अयुक्त युक्तवान् रथे । 'हरित आदित्यस्य ' इति हि निरुक्तम् । याः हरितः ईम् एनम् सूर्यं देवं घृताचीः घृताञ्चना उदकवत्यः । उदकप्रदा इत्यर्थः । तादृश्यः सत्यो वहन्ति ता अयुक्त । अथोदितः सन् धामानि स्थानानि लोकान् जनिमानि जन्मानि । जन्मभाजः प्राणिन इत्यर्थः। तांश्च युवाकुः युवां कामयमानः यः देवः सं चष्टे सम्यक् पश्यति यूथेव गोयूथानीव यूथपाः । स यथा सर्वं यूथं तदवान्तरगोव्यक्तिं च सम्यक् पश्यति तद्वल्लोकान् प्राणिनश्च पश्यति ॥
“He has harnessed his seven bay steeds, Mitra and Varuṇa, (to come) from your commondwelling-plural ce, (the firmament); the horses that, shedding water, convey that Sūrya who, friendly to you both,(contemplates all) regions, and looks carefully upon living creatures as (a herdsman) upon the herd.”
He from their home hath yoked the Seven gold Coursers who, dropping oil and fatness, carry Surya.
Yours, Varuna and Mitra, he surveyeth the worlds and living creatures like a herdsman.
He has harnessed from his abode his seven antelopes, which, rich in ghee, convey him, the Sun,
who, seeking you, o Mitra and Varuṇa, surveys your domains and the tribes (of men), like your herds.
Aus seinem Sitze schirrt er sieben Rosse, die buttertriefend ihn, den Lichtgott, fahren, Zu eurem Thron euch beide liebend eilt er, die Wesen musternd, wie ein Hirt die Heerde.
Er hat jetzt die sieben schmalzigen Falbinnen von ihrem Stand weg angeschirrt, die den Surya fahren, der in eurem Dienste eure Schöpfungen, Mitra und Varuna, die Geschlechter wie der Hirt die Herden überwacht.
(Вот) запряг он семь рыжих кобылиц, (выведя их) из общего стойла,
(Тех,) богатых жиром, что возят Сурью,
Который предан вам, о Митра-Варуна,
(И) озирает (ваши) установления, роды (людские), словно (пастух) стада.
उद्वां॑ पृ॒क्षासो॒ मधु॑मन्तो अस्थु॒रा सूर्यो॑ अरुहच्छु॒क्रमर्ण॑: । यस्मा॑ आदि॒त्या अध्व॑नो॒ रद॑न्ति मि॒त्रो अ॑र्य॒मा वरु॑णः स॒जोषा॑: ॥
उत् । वा॒म् । पृ॒क्षासः॑ । मधु॑ऽमन्तः । अ॒स्थुः॒ । आ । सूर्यः॑ । अ॒रु॒ह॒त् । शु॒क्रम् । अर्णः॑ । यस्मै॑ । आ॒दि॒त्याः । अध्व॑नः । रद॑न्ति । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । स॒ऽजोषाः॑ ॥
हे मित्रावरुणौ वां युवयोरर्थाय पृक्षासः अन्नानि चरुपुरोडाशादीनि मधुमन्तः माधुर्योपेतानि तत्साधनान्योषध्यादीनि वा उत् अस्थुः संपादितान्यासन् । सूर्यः च शुक्रं दीप्तम् अर्णः अर्णवमन्तरिक्षम् आ अरुहत् आरोहति । यस्मै सूर्याय तद्गमनार्थम् आदित्याः अदितेः पुत्री देवाः आध्वनः मार्गान् रदन्ति विलिखन्ति साधयन्ति । के ते। मित्रः अर्यमा वरुणः च एते त्रयोऽपि देवाः सजोषसः समानप्रीतयः सन्तः । स देव आरुहदिति ॥
“For yo, (Mitra and Varuṇa), the sweet-flavoured viands have been prepared; the sun has ascended theshining firmament, for whom the Ādityas and the consentient Mitra, Varuṇa, Aryaman make ready paths.”
Your coursers rich in store of sweets have mounted: to the bright ocean Surya hath ascended,
For whom the Adityas make his pathway ready, Aryaman, Mitra, Varuna, accordant.
The strengthening, honeyed ones [=offerings] belonging to you two have risen up, and the Sun has mounted the gleaming flood—
he for whom the Ādityas—Mitra, Aryaman, and Varuṇa all together— clear his roads.
Auf stiegen eure methbeladnen Rosse; der Sonnengott bestieg die helle Lichtflut, Dem die Aditja's seine Bahnen brechen, Varuna, Mitra, Arjaman vereinigt.
Eure starken, honigreichen Rosse sind heraufgekommen; Surya hat jetzt das lichte Meer erstiegen, dem die Aditya´s einträchtig die Wege vorzeichnen: Mitra, Aryaman, Varuna.
Возникли ваши обильные, полные меда (кони).
Сурья поднялся в светлый поток,
Для которого Адитьи открывают пути:
Митра, Арьяман, Варуна единодушные.
इ॒मे चे॒तारो॒ अनृ॑तस्य॒ भूरे॑र्मि॒त्रो अ॑र्य॒मा वरु॑णो॒ हि सन्ति॑ । इ॒म ऋ॒तस्य॑ वावृधुर्दुरो॒णे श॒ग्मास॑: पु॒त्रा अदि॑ते॒रद॑ब्धाः ॥
इ॒मे । चे॒तारः॑ । अनृ॑तस्य । भूरेः॑ । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । हि । सन्ति॑ । इ॒मे । ऋ॒तस्य॑ । व॒वृ॒धुः॒ । दु॒रो॒णे । श॒ग्मासः॑ । पु॒त्राः । अदि॑तेः । अद॑ब्धाः ॥
इमे मित्रः अर्यमा वरुणः च त्रयोऽपि अनृतस्य पापस्य भूरेः प्रभूतस्य चेतारः हन्तारः सन्ति भवन्ति हि। इमे मित्रादयः ऋतस्य यज्ञस्य दुरोणे गृहे ववृधुः वर्धन्ते हविषा स्तुत्या च । कीदृशास्ते । शग्मासः सुखकराः अदितेः पुत्राः अदब्धाः अहिंसिताः ॥
“These (deities), Mitra, Aryaman, Varuṇa, are the detecters of much untruth; these unconquered sons ofAditi, dispensers of happiness, are magnified in the hall of sacrifice.”
For these, even Aryaman, Varuna and Mitra, are the chastisers of all guile and falsehood.
These, Aditi's Sons, infallible and mighty, have waxen in the home of law Eternal.
These are the avengers of much untruth, for they are Mitra, Aryaman, and Varuṇa.
These have grown strong in the house of truth—the capable,
undeceivable sons of Aditi.
Denn diese sind die Rächer vieles Unrechts, Varuna, Mitra, Arjaman im Bunde; Sie wuchsen auf im Hause heil'gen Rechtes, der Aditi truglose starke Söhne.
Sie-Mitra, Aryaman, Varuna-sind ja die Bestrafer der vielen Unwahrheit; sie sind im Hause der Wahrheit groß geworden, die tüchtigen Söhne der Aditi, die Untrüglichen.
Они ведь каратели за многие беззакония –
Митра, Арьяман, Варуна.
Они возросли в обители закона,
Мощные сыновья Адити, не поддающиеся обману.
इ॒मे मि॒त्रो वरु॑णो दू॒ळभा॑सोऽचे॒तसं॑ चिच्चितयन्ति॒ दक्षै॑: । अपि॒ क्रतुं॑ सु॒चेत॑सं॒ वत॑न्तस्ति॒रश्चि॒दंह॑: सु॒पथा॑ नयन्ति ॥
इ॒मे । मि॒त्रः । वरु॑णः । दुः॒ऽदभा॑सः । अ॒चे॒तस॑म् । चि॒त् । चि॒त॒य॒न्ति॒ । दक्षैः॑ । अपि॑ । क्रतु॑म् । सु॒चेत॑सम् । वत॑न्तः । ति॒रः । चि॒त् । अंहः॑ । सु॒ऽपथा॑ । न॒य॒न्ति॒ ॥
इमे आदित्याः मित्रः वरुणः च । एतद्द्यमर्यम्णोऽप्युपलक्षणम् । एते दूळभासः दुर्दभाः अनभिभाव्याः अचेतसं चित् अप्रज्ञानमनुष्ठानविषयज्ञानरहितमपि दक्षैः सामर्थ्यैः चितयन्ति । अपि सुचेतसं प्रकृष्टज्ञानवन्तं पुरुषं क्रतुं कर्तारं कर्मानुष्ठानवन्तं वतन्तः गच्छन्तः अंहः दुष्कृतं तिरश्चित् तिरो नयन्तोऽस्मान् सुपथा शोभनेन मार्गेण नयन्ति प्रापयन्त्यभिमतं यज्ञं स्वर्गादिकं वा ॥ ॥ १ ॥
“These, the unsubdued Mitra, Varuṇa and Aryaman, animate with energies the unconscious (sleepers);repairing tot he intelligent performer (of pious acts), they lead (him), by safe pahs (to heaven), removing alliniquity.”
These, Mitra, Varuna whom none deceiveth, with great power quicken even the fool to wisdom,
And, wakening, moreover, thoughtful insight, lead it by easy paths o'er grief and trouble.
These hard to deceive—Mitra, Varuṇa, (and Aryaman)—cause even the unperceptive man to perceive through their skills.
Fully knowing the resolve based on good perception, they lead by a good path even across narrow straits.
Nicht sind zu täuschen Varuna und Mitra, den Thoren auch belehren sie durch Weisheit, Einflössend einsichtsvolle Geisteskräfte, auf guter Bahn auch über Drangsal führend.
Sie, die schwer zu täuschenden Mitra und Varuna, bringen auch den Unverständigen durch Verstand zur Einsicht. Einen verständigen Entschluß für ihn fassend führen sie auf gutem Pfade selbst über die Not hinweg.
Они – Митра, Варуна, которых трудно обмануть, (и Арьяман) –
Даже неразумного вразумляют (своими) силами действия.
Внушая силу духа, делающую очень разумным,
Они ведут прекрасным путем даже сквозь узость.
इ॒मे दि॒वो अनि॑मिषा पृथि॒व्याश्चि॑कि॒त्वांसो॑ अचे॒तसं॑ नयन्ति । प्र॒व्रा॒जे चि॑न्न॒द्यो॑ गा॒धम॑स्ति पा॒रं नो॑ अ॒स्य वि॑ष्पि॒तस्य॑ पर्षन् ॥
इ॒मे । दि॒वः । अनि॑ऽमिषा । पृ॒थि॒व्याः । चि॒कि॒त्वांसः॑ । अ॒चे॒तस॑म् । न॒य॒न्ति॒ । प्र॒ऽव्रा॒जे । चि॒त् । न॒द्यः॑ । गा॒धम् । अ॒सि॒ । पा॒रम् । नः॒ । अ॒स्य । वि॒ष्पि॒तस्य॑ । प॒र्ष॒न् ॥
इमे मित्रादयः दिवः द्युलोकस्य पृथिव्याः च संबन्धिनः अनिमिषा अनिमेषेण सर्वदा चिकित्वांसः जानन्तः । कम् । अचेतसम् अज्ञानम् । नयन्ति प्रापयन्ति कर्माणि । प्रव्राजे चित् प्रवणेऽप्यत्यन्तनिम्नेऽपि देशे नद्यः नद्याः गाधमस्ति भवति युष्मत्सामर्थ्यात् । ते महान्तः नः अस्माकम् अस्य विष्पितस्य व्याप्तितस्य(?) कर्मणः पारं पर्षन् पारयन्तु नयन्तु ॥
“(Beholding) with unclosing eyes, and cognizant (of the things) of heaven and earth, they conduct theignorant man (to duty); in the lowes depth of the river, (through them), there is a bottom; may they lead us to theopposite shore of the vast expanse.”
They ever vigilant, with eyes that close not, caring for heaven and earth, lead on the thoughtless.
Even in the river's bed there is a shallow. across this broad expanse may they conduct us.
These unwinking, perceptive ones of heaven and of earth lead the unperceptive man.
Even in the onrush of a stream there is a ford. They will bring us across to the far shore of this peril.
Als muntre Wächter Himmels und der Erde, als weise führen sicher sie den Thoren, Auch in des Stromes Bett muss eine Furt sein, sie fahren uns ans Ende der Bedrängniss.
Sie, die ohne Augenschließen auf Himmel und Erde achtgeben, führen den Unverständigen. Auch im Verlauf eines Stromes findet sich eine Furt; mögen sie uns an das andere Ufer dieser Widerwärtigkeit hinüberhelfen.
Они, (всегда) наблюдавшие, не моргая,
За небом и землей, ведут неразумного.
Даже в стремнине реки есть брод.
Пусть переправят они нас на другой берег этой опасности!
यद्गो॒पाव॒ददि॑ति॒: शर्म॑ भ॒द्रं मि॒त्रो यच्छ॑न्ति॒ वरु॑णः सु॒दासे॑ । तस्मि॒न्ना तो॒कं तन॑यं॒ दधा॑ना॒ मा क॑र्म देव॒हेळ॑नं तुरासः ॥
यत् । गो॒पाव॑त् । अदि॑तिः । शर्म॑ । भ॒द्रम् । मि॒त्रः । यच्छ॑न्ति । वरु॑णः । सु॒ऽदासे॑ । तस्मि॑न् । आ । तो॒कम् । तन॑यम् । दधा॑नाः । मा । क॒र्म॒ । दे॒व॒ऽहेळ॑नम् । तु॒रा॒सः॒ ॥
यत् शर्म सुखं गृहं वा गोपावत् रक्षणोपेतं भद्रं स्तुत्यम् अदितिः अदीनोऽर्यमादितिर्वा मित्रः वरुणः च एते त्रयो देवाः सुदासे सुदानाय मह्यं यच्छन्ति प्रयच्छन्ति तस्मिन् शर्मणि तोकं पुत्रं तनयं तत्पुत्रादिकम् । अथवा तनयशब्दोऽपत्यसामान्यवचनः । तोकं बलवन्तं पुत्रम् आ सर्वतः दधानाः धारयन्तो वयं हे तुरासः गमनाय त्वरमाणाः देवहेळनं देवानां मित्रादीनां कोपनं मा कर्म मा कार्ष्म ॥
“Including our sons and grandsons in that preserving and auspicious felicity which Aditi, Mitra andVaruṇa confer upon the liberal donor (of the oblation), may we never, acting precipitately, incur the displeasureof the deities.”
When Aditi and Varuna and Mitra, like guardians, give Sudas their friendly shelter,
Granting him sons and lineal succession, let us not, bold ones! move the Gods to anger.
Since Aditi, Mitra, and Varuṇa offer their welcome herdsmanlike protection to Sudās,
let us, securing our kith and kin under it, not do that which angers the gods, o overpowering ones.
Welch wohlbeschirmten, sichern Schutz dem Sudas Aditi, Mitra, Varuna verleihen, Mit dem beschirmend Kinder, Kindeskinder, lasst fern uns sein vom Götterzorn, o starke.
Der schützende löbliche Schirm, den Aditi, Mitra, Varuna dem Sudas, dem Freigebigen, gewähren, unter diesen stellen wir den leiblichen Samen, und wollen nichts tun, was die Götter ärgert, ihr Oberherren.
(Тот) охраняющий благой щит, который Адити,
Митра, Варуна даруют Судасу,
Помещая под него детей (и) внуков, –
Да не совершим мы чего-либо, раздражающего богов, о сильные!
अव॒ वेदिं॒ होत्रा॑भिर्यजेत॒ रिप॒: काश्चि॑द्वरुण॒ध्रुत॒: सः । परि॒ द्वेषो॑भिरर्य॒मा वृ॑णक्तू॒रुं सु॒दासे॑ वृषणा उ लो॒कम् ॥
अव॑ । वेदि॑म् । होत्रा॑भिः । य॒जे॒त॒ । रिपः॑ । काः । चि॒त् । व॒रु॒ण॒ऽध्रितः॑ । सः । परि॑ । द्वेषः॑ऽभिः । अ॒र्य॒मा । वृ॒ण॒क्तु॒ । उ॒रुम् । सु॒ऽदासे॑ । वृ॒ष॒णौ॒ । ऊँ॒ इति॑ । लो॒कम् ॥
हे मित्रादयः सः अस्मद्द्वेषी वेदिं यागसाधनं होत्राभिः। वाङ्नामैतत् । वाग्रूपाभिः स्तुतिभिः सार्धम् अव यजेत । वेद्यां कर्माणि कुर्वन् देवान्न स्तुयादित्यर्थः। अवपूर्वो यजतिस्त्यागार्थः । स किं प्राप्नुयादिति तत्राह। वरुणध्रुतः वरुणेन त्वया हिंसितः सः काश्चित् रिपः हिंसाः प्राप्नुयादिति शेषः । अस्मांस्तु अर्यमा देवः द्वेषोभिः द्वेष्टृभी रक्षःप्रभृतिभिः परि वृणक्तु वर्जयतु । उरुं विस्तीर्णं लोकं स्थानं सुदासे शोभनदानाय मह्यं प्रयच्छतं हे वृषणा वर्षकौ कामानां मित्रावरुणौ ॥
“Let my adversary desecrate the altar by (ill-expressed) praises; repelled by Varuṇa, may he (undergo)various sufferings; may Aryaman defend us from those who hate us; confer, showerers (of benefits), a vastregion upon the liberal donor (of oblations).”
May he with ofierings purify the altar from any stains of Varuna's reviler.
Aryaman save us us all those who hate us: give room and freedom to Sudas, ye Mighty.
By his libations he should ritually cleanse the altar of any
double-dealing that deceives Varuṇa.
Let Aryaman with his hostilities avoid (him [=Sudās], creating) a wide world for Sudās, o you two bulls.
Vom Altar treibe, Arjaman, durch Opfer die Feinde weg, die Varuna beleid'gen; Es säubre Arjaman ihn rings von Hassern, und Freiheit schafft dem Sudas, o ihr Stiere.
Mit Opfern soll der Priester den Altar entsühnen, er jegliche Betrügereien des Varunahintergehers sühnen. Aryaman soll ihn mit Feindschaft verschonen. Schaffet dem Sudas weiten Raum, Ihr Bullen!
Пусть принесением жертвенных возлияний (жрец) очистит алтарь,
Какие бы прегрешения (ни совершил) тот, (кто) обманывает Варуну!
Пусть пощадит Арьяман, (оградив) от враждебности!
Широкий простор создайте Судасу, о два быка!
स॒स्वश्चि॒द्धि समृ॑तिस्त्वे॒ष्ये॑षामपी॒च्ये॑न॒ सह॑सा॒ सह॑न्ते । यु॒ष्मद्भि॒या वृ॑षणो॒ रेज॑माना॒ दक्ष॑स्य चिन्महि॒ना मृ॒ळता॑ नः ॥
स॒स्वरिति॑ । चि॒त् । हि । सम्ऽऋ॑तिः । त्वे॒षी । ए॒षा॒म् । अ॒पी॒च्ये॑न । सह॑सा । सह॑न्ते । यु॒ष्मत् । भि॒या । वृ॒ष॒णः॒ । रेज॑मानाः । दक्ष॑स्य । चि॒त् । म॒हि॒ना । मृ॒ळत॑ । नः॒ ॥
एषां मित्रादीनां समृतिः संगतिः संहतिर्वा सस्वः अन्तर्हिता निगूढा त्वेषी दीप्ता च भवति । तादृशा एते अपीच्येन । एतदप्यन्तर्हितनाम। निगूढेन सहसा बलेन सहन्ते अभिभवन्त्यस्मद्वे्यष्टॄन् । किंच हे वृषणः अभिमतवर्षका मित्रादयः युष्मत् युष्मत्तः भिया भीत्या रेजमानाः कम्पमाना भवन्ति विरोधिनः । यस्मादेवं तस्मात् दक्षस्य युष्माकं बलस्य महिना महिम्ना महत्त्वेन नः अस्मभ्यं मृळत उपदयां कुरुत ॥
“The association of these (three deities) is of mysterious lustre; by their secret strength they overcome(all enemies); showerers (of benefits), through fear (of you our opponents) are trembling; have mercy upon us inthe mightiness of your strength.”
Hid from our eyes is their resplendent meeting: by their mysterious might they hold dominion.
Heroes! we cry trembling in fear before you, even in the greatness of your power have mercy.
Because their fiery attack is even in secret and they are strong with hidden strength,
(we are) trembling in fear before you, bulls—by the greatness of your very skill, have mercy on us!
Denn ins Geheim ist stark der Feinde Andrang, sie streiten mit verborgnen Siegeskräften; Doch beben sie aus Furcht vor euch, ihr Stiere; mit eures Geistes Allgewalt seid hold uns.
Denn gar unvermerkt ist ihre überraschende Begegnung und sie überwältigen durch heimliche Gewalt. Aus Furcht vor euch, ihr Bullen, zitternd sagen wir: Seid uns durch die Macht des Daksa gnädig!
Ведь это втайне (происходит) их поразительное столкновение:
Они осиливают скрытой силой.
Дрожа от страха перед вами, о быки, (мы молим:)
Пощадите нас силой величия самого Дакши!
यो ब्रह्म॑णे सुम॒तिमा॒यजा॑ते॒ वाज॑स्य सा॒तौ प॑र॒मस्य॑ रा॒यः । सीक्ष॑न्त म॒न्युं म॒घवा॑नो अ॒र्य उ॒रु क्षया॑य चक्रिरे सु॒धातु॑ ॥
यः । ब्रह्म॑णे । सु॒ऽम॒तिम् । आ॒ऽयजा॑ते । वाज॑स्य । सा॒तौ । प॒र॒मस्य॑ । रा॒यः । सीक्ष॑न्त । म॒न्युम् । म॒घऽवा॑नः । अ॒र्यः । उ॒रु । क्षया॑य । च॒क्रि॒रे॒ । सु॒ऽधातु॑ ॥
यः यजमानः ब्रह्मणे परिवृढस्वकर्मणे युष्मत्स्तोत्ररूपाय सुमतिं शोभनां बुद्धिम् आयजाते आयजते । यजतिरत्र दाने । ददाति करोति । किमर्थम्। वाजस्य अन्नस्य सातौ दाने निमित्ते परमस्य उत्कृष्टस्य रायः धनस्य च सातौ। तस्य अर्यः । ईरयति स्तुतीः प्रेरयतीत्यरिः स्तोता। मन्युं स्तोत्रं मघवानः दानवन्तोऽर्यमादयः सीक्षन्त सचन्ते । सेवित्वा च तस्य उरुक्षयाय विस्तीर्णनिवासाय सुधातु सुधाम शोभनस्थानं चक्रिरे कुर्वते ॥
“These munificent (deities) conjointly accept the praise of the worshipper, and bestow a spaciousmansion for a dwelling upon him who, for the sake of food and excellent riches, devotes his mind to yourglorification.”
He who wins favour for his prayer by worship, that he may gain him strength and highest riches,
That good man's mind the Mighty Ones will follow: they have brought comfort to his spacious dwelling.
Who by sacrifice will gain your favor for his formulation at the winning of victory’s prize and of the highest wealth,
his generous patrons will strive to overpower the battle fury of the outsider. They have made for themselves a wide and secure place for their dwelling.
Wer Göttergunst für sein Gebet erflehet, um zu erlangen Glück und höchsten Reichthum, Für den bezwingen Feindeszorn die mächt'gen und schaffen ausgedehnten Raum der Herrschaft.
Der für seine feierliche Rede die Gunst der Götter erbitten soll, wenn es sich um den Gewinn des Siegerpreises, des höchsten Reichtums handelt, dessen Gönner sollen die böse Absicht des Nebenbuhlers zu bezwingen suchen. Sie haben sich ein weites, reiches Land zum Wohnen bereitet.
Кто для священного слова жертвой добывает благосклонность (богов)
При захвате добычи, высшего богатства –
(Наши) щедрые покровители пусть стремятся осилить ярость чужого!
Они создали себе широкое благоустроенное (пространство) для жилья.
इ॒यं दे॑व पु॒रोहि॑तिर्यु॒वभ्यां॑ य॒ज्ञेषु॑ मित्रावरुणावकारि । विश्वा॑नि दु॒र्गा पि॑पृतं ति॒रो नो॑ यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
इ॒यम् । दे॒व॒ । पु॒रःऽहि॑तिः । यु॒वऽभ्या॑म् । य॒ज्ञेषु॑ । मि॒त्रा॒व॒रु॒णौ॒ । अ॒का॒रि॒ । विश्वा॑नि । दुः॒ऽगा । पि॒पृ॒त॒म् । ति॒रः । नः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
अनया स्तुतिमुपसंहरति । हे देवा देवौ मित्रावरुणौ युवभ्यां युवाभ्यां यज्ञेषु इयं पुरोहितिः पुरस्क्रिया पूजा स्तुतिलक्षणा अकारि कृताभूत्। तां सेवित्वा विश्वानि सर्वाणि दुर्गा दुःखेन गन्तव्यान्यापदः तिरः तिरस्कुरुतम् । तथा कृत्वा नः अस्मान् पिपृतं पारयतम् । शिष्टो गतः ॥ ॥ २ ॥
“Excellent Mitra and Varuṇa, to you this adoration at sacrifices is addressed; remove from us alldifficulties, and ever cherish us with blessings.”
This priestly task, Gods! Varuna and Mitra! hath been performed for you at sacrifices.
Convey us safely over every peril. Preserve us evermore, ye Gods, with blessings.
This installation of the god [=Agni] to the fore has been made for you two, Mitra and Varuṇa.
Take us across all difficulties. – Do you protect us always with your blessings.
Dies Priesterwerk ist euch vollbracht, o Götter, bei diesen Opfern, Varuna und Mitra, Durch alle Drangsal führet uns hinüber; ihr Götter, schützt uns stets mit eurem Segen.
Für euch, Götter Mitra und Varuna, ward dieses Purohitaamt bei den Opfern ausgeübt. Helfet uns über alle Fährlichkeiten hinweg!-Behütet ihr uns immerdar mit eurem Segen!
Для вас, о два бога Митра, Варуна,
Совершалась эта служба пурохиты на жертвоприношениях.
Переправьте нас через все трудности!
Защищайте вы нас всегда (своими) милостями!