रद॑त्प॒थो वरु॑ण॒: सूर्या॑य॒ प्रार्णां॑सि समु॒द्रिया॑ न॒दीना॑म् । सर्गो॒ न सृ॒ष्टो अर्व॑तीॠता॒यञ्च॒कार॑ म॒हीर॒वनी॒रह॑भ्यः ॥
रद॑त् । प॒थः । वरु॑णः । सूर्या॑य । प्र । अर्णां॑सि । स॒मु॒द्रिया॑ । न॒दीना॑म् । सर्गः॑ । न । सृ॒ष्टः । अर्व॑तीः । ऋ॒त॒ऽयन् । च॒कार॑ । म॒हीः । अ॒वनीः॑ । अह॑ऽभ्यः ॥
अयं वरुणः देवः सूर्याय सर्वस्य प्रेरकायादित्याय पथः मार्गानन्तरिक्षप्रदेशान् प्र रदत् प्रायच्छत् । समुद्रिया समुद्र उदधौ भवानि । यद्वा। समुद्भवन्त्यस्मादाप इति समुद्रमन्तरिक्षम् । तत्र भवानि । अर्णांसि उदकानि नदीनां प्रासृजत् । सर्गो न । सृज्यते युद्धभूमौ सादिना प्रेर्यत इति सर्गोऽश्वः । स यथा अर्वतीः वडवाः प्रति शीघ्रं गच्छति तद्वत् ऋतायन् ऋतं शीघ्रं गमनमात्मन इच्छन् महीः महतीः अवनीः रात्रीः अहभ्यः अहोभ्यः सकाशात् चकार भेदेन कृतवान् । अस्तं गच्छन् सूर्य एव वरुण इत्युच्यते । स हि स्वगमनेन रात्रीर्जनयति ॥
“Varuṇa prepared a path for the sun; he set free the waters of the rivers genitive rated in the firmament;hastening (to his task), as a horse let loose rushes to (a flock of) mares, he divided the great nights from thedays.”
VARUNA cut a pathway out for Surya, and led the watery floods of rivers onward.
The Mares, as in a race, speed on in order. He made great channels for the days to follow.
Varuṇa dug the paths for the sun. Forward (went) the floods of rivers to the sea,
(those) mares, like a surge sent surging, following the truth. He made great streambeds for the days.
Der Sonne bahnte Varuna die Pfade und liess zum Meer die Stromesfluten rinnen; Wie Reis'ge eilend ihre Stuten lenken, so schuf den Tagen er die grossen Bahnen.
Varuna zeichnet der Sonne die Wege vor, er ließ die zum Meer gehenden Fluten der Ströme laufen wie ein abgelassenes Rennen die Rennstuten, den rechten Weg einhaltend. Er hat den Tagen die großen Bahnen gemacht.
Варуна проложил пути солнцу.
Он вы(пустил) потоки рек, впадающих в море,
Словно скаковых кобылиц, (чей) бег отпущен, (он,) соблюдающий закон.
Он создал могучие русла для (течения) дней.
आ॒त्मा ते॒ वातो॒ रज॒ आ न॑वीनोत्प॒शुर्न भूर्णि॒र्यव॑से सस॒वान् । अ॒न्तर्म॒ही बृ॑ह॒ती रोद॑सी॒मे विश्वा॑ ते॒ धाम॑ वरुण प्रि॒याणि॑ ॥
आ॒त्मा । ते॒ । वातः॑ । रजः॑ । आ । न॒वी॒नो॒त् । प॒शुः । न । भूर्णिः॑ । यव॑से । स॒स॒ऽवान् । अ॒न्तः । म॒ही इति॑ । बृ॒ह॒ती इति॑ । रोद॑सी॒ इति॑ । इ॒मे इति॑ । विश्वा॑ । ते॒ । धाम॑ । व॒रु॒ण॒ । प्रि॒याणि॑ ॥
हे वरुण ते त्वदीयस्त्वयान्तरिक्षे प्रेर्यमाणः वातः वायुः आत्मा सर्वस्य प्राणिजातस्य प्राणरूपेण धारयिता । स च रजः उदकम् आ नवीनोत् समन्तात् प्रेरयति । वातेन हि वृष्टिर्जायते । भूर्णिः जगतो भर्ता स वायुः यवसे घासे प्रक्षिप्ते सति यथा पशुरन्नवान् भवति तद्वत् ससवान् । 'ससम्' इत्यन्ननाम् । तद्वान् भवति । हविर्लक्षणमन्नमपि तस्मै प्रयच्छन्तीत्यर्थः। यद्वा सनोतेः क्वसौ रूपम् । ततः ससवान् संभक्तवान् वातो घासे सति पशुर्यथा भारवाही भवति तद्वज्जगतो भर्ता । हे वरुण मही महत्यौ बृहती परिवृढे इमे रोदसी द्यावापृथिव्यौ अन्तः मध्ये। द्यावापृथिव्योर्मध्य इत्यर्थः । ते तव विश्वा सर्वाणि धाम धामानि स्थानानि तेजांसि वा प्रियाणि सर्वेषां प्रीतिकराणि भवन्ति ॥
“Your spirit is the wind; he sends abroad the waters; he, the cherisher of the world, is the feeder on(ssacrificial) food, like an animal upon fodder; all your glories, Varuṇa, manifested between the vast andspacious heaven and earth, give delight (to all).”
The wind, thy breath, hath sounded through the region like a wild beast that seeks his food in pastures.
Within these two, exalted Earth and Heaven, O Varuna, are all the forms thou lovest.
Your breath, the wind, roars again and again through airy space, like an ardent animal [=stallion], victorious in its pasture.
(Here are) all your own domains, Varuṇa, between these two great and lofty world-halves.994 VII.88
Dein Hauch, der Wind, durchrauscht den weiten Luftraum, wie gier'ge Heerden, die im Grase schwelgen; Und zwischen diesen beiden weiten Welten sind, Varuna, dir lieb die Stätten alle.
Dein Odem schnaubt als Wind in den Luftraum wie ein ungeduldiges Tier, das auf der Weide den Kampf gewonnen hat. Zwischen diesen beiden großen, hohen Welten sind alles deine lieben Erscheinungsformen, o Varuna.
Дыхание твое, как ветер, шумит на просторе,
Словно яростный зверь на лугу, одержавший победу.
Меж этих двух великих высоких миров
(Пребывают) все твои желанные установления.
परि॒ स्पशो॒ वरु॑णस्य॒ स्मदि॑ष्टा उ॒भे प॑श्यन्ति॒ रोद॑सी सु॒मेके॑ । ऋ॒तावा॑नः क॒वयो॑ य॒ज्ञधी॑रा॒: प्रचे॑तसो॒ य इ॒षय॑न्त॒ मन्म॑ ॥
परि॑ । स्पशः॑ । वरु॑णस्य । स्मत्ऽइ॑ष्टाः । उ॒भे इति॑ । प॒श्य॒न्ति॒ । रोद॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ । ऋ॒तऽवा॑नः । क॒वयः॑ । य॒ज्ञऽधी॑राः । प्रऽचे॑तसः । ये । इ॒षय॑न्त । मन्म॑ ॥
स्पशन्ति स्पृशन्तीति स्पशश्चराः । वरुणस्य देवस्य स्पशः चराः स्मदिष्टाः । स्मदित्येतत् प्रशस्थार्थे सहार्थे च वर्तते । प्रशस्तगतयः । यद्वा । सह प्रेषिताः सन्तः । सुमेके शोभनमेहने सुरूपे वा उभे रोदसी द्यावापृथिव्यौ परि पश्यन्ति परित ईक्षन्ते । उभयोर्लोकयोर्वर्तमानान् पुण्यापुण्यकारिणो जनान् पश्यन्तीत्यर्थः । यस्मादेवं तस्मात् तद्भीत्या ऋतावानः कर्मवन्तः यज्ञधीराः यज्ञेषु कृतबुद्धयः प्रचेतसः प्राज्ञाः कवयः क्रान्तदर्शिनः ये जनाः मन्म मन्मानि स्तोत्राणि इषयन्त गमयन्ति वरुणं प्रापयन्ति । तानपि परिपश्यन्तीत्यर्थः । अतोऽस्मानपि स्तोतॄन् ज्ञात्वा पापात् मुञ्चन्त्वित्यृषिराशास्ते ॥
“The excellent spies of Varuṇa behold the beautiful heaven and earth, as well as those (men) who, thecelebrators of rites, constant in sacrifice, wise and intelligent address (to him their) praise.”
Varuna's spies, sent forth upon their errand, survey the two world-halves well formed and fashioned.
Wise are they, holy, skilled in sacrifices, the furtherers of the praise-songs of the prudent.
With united desire the spies of Varuṇa survey both well-supported world-halves,
(as do) the sage poets, possessing the truth and insightful in the
sacrifices, the discerning ones who send their thought.
Des Varuna wohl aufgestellte Späher beschauen beide segensreichen Welten; Die heil'gen Seher, der Verehrung kundig, die das Gebet des einsichtsvollen fördern.
Die Späher des Varuna, vom gleichen Wunsch beseelt, beobachten die beiden festbegründeten Welten, und sie beachten, welche wahrhaftigen, opferkundigen, vorausdenkenden Weisen den Genuß von ihrer Dichtung haben.
Наблюдатели Варуны, воодушевленные одинаковым желанием,
Озирают эти два прочно укрепленных мира.
Истинные поэты, сведущие в жертвоприношении,
Провидцы – (это те) кто подкрепляется молитвой.
उ॒वाच॑ मे॒ वरु॑णो॒ मेधि॑राय॒ त्रिः स॒प्त नामाघ्न्या॑ बिभर्ति । वि॒द्वान्प॒दस्य॒ गुह्या॒ न वो॑चद्यु॒गाय॒ विप्र॒ उप॑राय॒ शिक्ष॑न् ॥
उ॒वाच॑ । मे॒ । वरु॑णः । मेधि॑राय । त्रिः । स॒प्त । नाम॑ । अघ्न्या॑ । बि॒भ॒र्ति॒ । वि॒द्वान् । प॒दस्य॑ । गुह्या॑ । न । वो॒च॒त् । यु॒गाय॑ । विप्रः॑ । उप॑राय । शिक्ष॑न् ॥
मेधिराय मेधाविने मे मह्यं वरुणः उवाच उक्तवान् । किमुक्तवान् तदाह । त्रिः सप्त एकविंशतिसंख्याकानि नामानि अघ्न्या गौः बिभर्ति धारयतीति । वागत्र गौरुच्यते । सा च उरसि कण्ठे शिरसि च बद्धानि गायत्र्यादीनि सप्त छन्दसां नामानि बिभर्ति । यद्वा । वेदात्मिका वागेकविंशतिसंस्थानां यज्ञानां नामानि बिभर्ति धारयति । अपर आह । गौः पृथिवी । तस्याश्च ‘ गौर्ग्मा ज्मा ' इति पठितान्येकविंशतिनामानीति । अपि च विद्वान् जानन विप्रः मेधावी स वरुणः युगाय युक्ताय उपराय उप समीपे रममाणायान्तेवासिने मह्यं शिक्षन् उपदिशन् पदस्य उत्कृष्टस्य स्थानस्य ब्रह्मलोकलक्षणस्य संबन्धीनि गुह्या गुह्यानि रहस्यान्युपदेशगम्यानि । नशब्दश्चार्थे । इमानि च वोचत् उक्तवान् । अतोऽहं वरुणस्य शिष्योऽस्मि । तस्मात् स वरुणः अस्मान् पापात् मोचयत्वित्यर्थः ॥
“Varuṇa thus spoke to me, possessed of understanding; the cow (speech) has thrice sevenappellations; the wise and intelligent Varuṇa, giving instrumental uction to me, his worthy disciple, had declared themysteries of the plural ce (of Brahma).”
To me who understand hath Varuna spoken, the names borne by the Cow are three times seven.
The sapient God, knowing the place's secret, shall speak as 'twere to teach the race that cometh.
Varuṇa said to me who am wise: “The inviolable cow bears three times seven names.”
Knowing of its track, he will speak (its names) like secrets—he, the
inspired poet who strives on behalf of the later generation.
Zu mir sprach Varuna, dem einsichtsvollen: »Die Weltkuh trägt der Namen dreimal sieben«, Der Weise, der des Orts Geheimniss kennet, verkünd' es nicht der Nachwelt, sie zu lehren.
Mir, dem Weisen, hat Varuna kundgetan: "Die Kuh führt dreimal sieben Namen. Wer der rechten Spur des Wortes kundig ist, soll sie wie Geheimnisse lehren, wenn er dem späteren Geschlecht nützlich sein will.
Провозгласил мне, умудренному, Варуна:
Трижды семь имен несет корова.
Кто ведает знак (имен), пусть произносит (их) как сокровенные,
Если этот вдохновенный хочет помочь будущему поколению.
ति॒स्रो द्यावो॒ निहि॑ता अ॒न्तर॑स्मिन्ति॒स्रो भूमी॒रुप॑रा॒: षड्वि॑धानाः । गृत्सो॒ राजा॒ वरु॑णश्चक्र ए॒तं दि॒वि प्रे॒ङ्खं हि॑र॒ण्ययं॑ शु॒भे कम् ॥
ति॒स्रः । द्यावः॑ । निऽहि॑ताः । अ॒न्तः । अ॒स्मि॒न् । ति॒स्रः । भूमिः॑ । उप॑राः । षट्ऽवि॑धानाः । गृत्सः॑ । राजा॑ । वरु॑णः । च॒क्रे॒ । ए॒तम् । दि॒वि । प्र॒ऽई॒ङ्खम् । हि॒र॒ण्यय॑म् । शु॒भे । कम् ॥
तिस्रः त्रिप्रकारा उत्तममध्यमाधमभावेन त्रिविधाः द्यावः द्युलोकाः अस्मिन् वरुणे अन्तः मध्ये निहिताः । तिस्रः पूर्ववत्त्रिविधाः भूमीः भूम्यश्च षड्विधानाः। विधानं विधा । वसन्ताद्यृतुभेदेन षड्विधाः प्रकारा यासु तादृश्यः । उपराः अस्मिन्नेव वरुणे उप्ता अन्तर्भूताः । लोकानां त्रित्वं च ‘त्रयो वा इमे त्रिवृतो लोकाः' (ऐ. ब्रा. २.१७) इत्यादिना ब्राह्मणेनावगम्यते । ‘तिस्रो भूमीर्धारयन्' (ऋ. सं. २.२७,८) इति निगमश्च भवति । इमौ लोकावावृत्य वरुणस्तिष्ठतीत्यर्थः । अपि च गृत्सः स्तुत्यः राजा ईश्वरः सः वरुणः दिवि अन्तरिक्षे हिरण्ययं हिरण्मयं सुवर्णमयं हितरमणीयं वा प्रेङ्खं दोलावद्दिग्द्वयसंस्पर्शिनम् एतं सूर्यं शुभे कं दीप्त्यर्थं चक्रे कृतवान् । ‘ दिवि सूर्यमदधात्सोममद्रौ' (ऋ. सं. ५. ८५. २ ) इति हि श्रूयते ॥
“In him are deposited the three heavens, the three earths with their six seasons are shown in him; themost adorable, royal Varuṇa has made this golden sun undulating in the sky, he has made it to diffuse light.”
On him three heavens rest and are supported, and the three earths are there in sixfold order.
The wise King Varuna hath made in heaven that Golden Swing to cover it with glory.
Three heavens are hidden within him, and below are three earths, arranged in sixes.
The clever King Varuṇa created this, the golden swing in heaven [=the sun], for the sake of beauty.
Drei Himmel sind in diesem Ort geborgen, drei Erden drunter, eine Schar von sechsen; Der weise König Varuna erschuf dort die goldne Schaukel, die am Himmel glänze.
Drei Himmel ruhen in ihm, drei Erden, die darunter sind, zu sechsen geordnet. Der geschickte König Varuna hat für sich diese goldene Schaukel zum Prangen an den Himmel gebracht.
Три неба покоятся в нем,
Три земли, находящиеся ниже, образующие шестерки.
Искусный царь Варуна сотворил себе на небе
Эти золотые качели для блеска.
अव॒ सिन्धुं॒ वरु॑णो॒ द्यौरि॑व स्थाद्द्र॒प्सो न श्वे॒तो मृ॒गस्तुवि॑ष्मान् । ग॒म्भी॒रशं॑सो॒ रज॑सो वि॒मान॑: सुपा॒रक्ष॑त्रः स॒तो अ॒स्य राजा॑ ॥
अव॑ । सिन्धु॑म् । वरु॑णः । द्यौःऽइ॑व । स्था॒त् । द्र॒प्सः । न । श्वे॒तः । मृ॒गः । तुवि॑ष्मान् । ग॒म्भी॒रऽसं॑सः । रज॑सः । वि॒ऽमानः॑ । सु॒पा॒रऽक्ष॑त्रः । स॒तः । अ॒स्य । राजा॑ ॥
द्यौरिव सूर्य इव दीप्तः वरुणः सिन्धुं समुद्रम् अव स्थात् वेलायामवस्थापयति । यथा वेलां नातिक्रामति तथा करोतीत्यर्थः । कीदृशो वरुणः । द्रप्सो न द्रवणशील उदबिन्दुरिव श्वेतः शुभ्रवर्णः मृगः। लुप्तोपममेतत्। गौरमृग इव तुविष्मान् बलवान् प्रवृद्धो वा गम्भीरशंसः । गम्भीरो महान् शंसः स्तोत्रं यस्य स तथोक्तः। रजसः उदकस्य विमानः निर्माता सुपारक्षत्रः सुष्ठु दुःखात् पारकं क्षत्रं बलं धनं वा यस्य तादृशो वरुणः सतः विद्यमानस्य अस्य जगतः राजा ईश्वरो भवति ॥
“(Radiant) as the sun, Varuṇa plural ced the ocean (in its bed) white as a drop (of water), vigorous as anantelope, objects of profound praise, distributor of water, the powerful transporter beyond sin, the ruler of thisexisting (world).”
Like Varuna from heaven he sinks in Sindhu, like a white-shining spark, a strong wild creature.
Ruling in depths and meting out the region, great saving power hath he, this world's Controller.
Like heaven, Varuṇa has descended to the river—he, the powerful wild animal, like the bright drop;
he of deep recitation, who takes the measure of the airy space; he the king of what is, whose lordship offers good passage.
Als Himmel tauchte Varuna ins Meer sich, als lichter Tropfen sich der mächt'ge Vogel; Weithin gebietend, dringt er durch den Luftraum, des Weltalls König, all sein Reich beherrschend.
Varuna steigt hinab in das Meer wie der Tag, wie der weiße Tropfen, das kraftvolle Tier. In tiefen Worten gepriesen, über den Raum erhaben, führt der König alles dessen, was ist, seine Herrschaft zu gutem Ende.
В море нисходит Варуна, как день,
Как белая капля, (он,) сильный зверь.
Вызывая глубокую хвалу, меряя пространство,
(Он-) царь всего сущего, чья власть ведет к счастливой цели.
यो मृ॒ळया॑ति च॒क्रुषे॑ चि॒दागो॑ व॒यं स्या॑म॒ वरु॑णे॒ अना॑गाः । अनु॑ व्र॒तान्यदि॑तेॠ॒धन्तो॑ यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
यः । मृ॒ळया॑ति । च॒कुषे॑ । चि॒त् । आगः॑ । व॒यम् । स्या॒म॒ । वरु॑णे । अना॑गाः । अनु॑ । व्र॒तानि॑ । अदि॑तेः । ऋ॒धन्तः॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
आगः अपराधं चक्रुषे चित् कृतवतेऽपि स्तोत्रे यः वरुणः मृळयाति उपदयां करोति तस्मिन् वरुणे अनागाः अनागसोऽनपराधाः सन्तः वयं स्याम वर्तमाना भवेम । किं कुर्वन्तः । अदितेः अदीनस्य वरुणस्य संबन्धीनि व्रतानि कर्माणि अनु आनुपूर्व्येण ऋधन्तः समर्धयन्तः । हे वरुणादयो देवा यूयमस्मान् सर्वदा कल्याणैः पालयत ॥ ॥ ९ ॥
“May we be free from sin against that Varuṇa, who has compassion upon him who commits offence, wewho are duly observing the rites of the son Aditi; and do you, (gods), ever cherish us with blessings.”
Before this Varuna may we be sinless him who shows mercy even to the sinner-
While we are keeping Aditi's ordinances. Preserve us evermore, ye Gods, with blessings.
Might we be without offense within Varuṇa, who will have mercy even on him who has committed an offense,
as we obediently fulfill the commandments of Aditi. – Do you protect us always with your blessings.
O wären wir vor Varuna doch schuldlos, vor ihm, der auch des Sünders sich erbarmet, Und recht erfüllend Aditi's Gebote. Ihr Götter, schützt uns stets mit eurem Segen.
Wir wollen vor Varuna, der auch dem Sünder verzeihen möge, sündlos erscheinen, die Gebote der Aditi recht befolgend.-Behütet ihr uns immerdar mit eurem Segen!
Соблюдая заветы Адити,
Да будем мы безгрешны перед Варуной,
Который способен простить даже совершенный грех!
Защищайте вы нас всегда (своими) милостями!