य᳓ इन्द्र सोमपा᳓तमो
म᳓दः शविष्ठ चे᳓तति
ये᳓ना हं᳓सि नि᳓ अत्रि᳓णं त᳓म् ईमहे
हे इन्द्र यः त्वं सोमपातमः अतिशयेन सोमस्य पाता । हे शविष्ठ बलवत्तम । शव इति बलनाम । तस्माद्विनन्तादातिशायनिक इष्ठन् । ' विन्मतोलुक् ' । टिलोपः। हे ईदृशेन्द्र तस्य तव सोमपानजनितो यः मदः चेतति सम्यग्जानाति वृत्रवधादीनि कार्याणि कर्तुम् । य इत्यस्य चेततीत्यनेनापि संबन्धात् यद्वृत्तान्नित्यम् ' इति तिङ् न निहन्यते । अथवैतदेवं वाक्यम् । हे बलवत्तमेन्द्र सोमपातमः सोमस्य पातृतमो यस्त्वं मदः सोमैर्मादयितव्यस्तर्पणीयः संश्चेतति । पुरुषव्यत्ययः । चेतसि सम्यग्जानासि ।' मदोऽनुपसर्गे ' इति मदेः कर्मण्यप् । येन सोमपानजनितेन मदेन अत्रिणम् अत्तारं राक्षसादिकं नि हंसि निहिनस्सि निकृष्टां हिंसां प्रापयसि तं मदं तादृङ्मदोपेतं त्वां वा ईमहे । याञ्चाकर्मायम् । याचामहे । यद्वा । ई गतौ । देवादिकः । छान्दसो विकरणस्य लुक् । ईयामहे उपगच्छामः । स्तुतिभिः संभजामह इत्यर्थः ॥
JOY, Mightiest Indra, known and marked, sprung most from Soma-draughts, wherewith
Thou smitest down the greedy fiend, for that we long.
Most powerful Indra, your exhilaration that is conspicuous as the best drinker of soma,
with which you strike down the devourer—for that we beg.
Welch Rausch, Indra, der stärkste ist, vom Somatrunk erregteste, Durch den du niederschlägst den Feind, den wünschen wir.
Deinen Rausch, du gewaltigster Indra, der du als größter Somatrinker bekannt bist, in welchem du den Atrin niederschlägst, den erbitten wir;
(То,) опьянение, о Индра, которое
Проявляется как больше всех поглощающее сому, о сильнейший,
Благодаря которому ты разбиваешь Атрина – мы просим о нем.
ये᳓ना द᳓शग्वम् अ᳓ध्रिगुं
वेप᳓यन्तं सु᳓वर्णरम्
ये᳓ना समुद्र᳓म् आ᳓विथा त᳓म् ईमहे
हे इन्द्र येन सोमपानजनितेन मदेन दशग्वम् । ये दशभिर्मासैः सत्त्रासनं परिसमाप्य निरगमन् ते दशग्वा अङ्गिरसः। तेषामन्यतमम् अधिगुम् अधृतगमनमनिवारितगतिमेतत्संज्ञं चर्षिं वेपयन्तं तमांसि वर्जयन्तं स्वर्णरं सर्वस्य नेतारं सूर्यं च आविथ वृत्रादेर्दस्योरपनयनेन ररक्षिथ । येन च मदेन समुद्रम् उदधिमन्तरिक्षं वा आविथ ररक्षिथ। तं त्वदीयं मदं तद्वन्तं त्वां वा ईमहे थाचामहे । मदे हि सति हृष्टः सन्निन्द्रो बहु धनं प्रयच्छति । अतस्तत्कारणस्य मदस्य याञ्चोपपन्ना ॥
Wherewith thou bolpest Adhrigu, the great Dasagva, and the God
Who stirs the sunlight, and the sea, for that we long.
That with which (you helped) Daśagva and Adhrigu possessing solar glory, who sets atremble,
with which you helped the sea—for that we beg.
Durch den du Schutz dem Zehner gabst, dem eilenden, dem Glanzesherrn, Dem Allerreger, und dem Meer, den wünschen wir.
Mit dem du dem Dasagva, dem Adhrigu, dem erregenden Svarnara, mit dem du dem Meere beigestanden hast, den erbitten wir;
Благодаря которому (ты помог) Дашагве, Адхригу,
Приводящему в трепет Сварнаре,
Благодаря которому ты помог морю – мы просим о нем.
ये᳓न सि᳓न्धुम् मही᳓र् अपो᳓
र᳓थाँ इव प्रचोद᳓यः
प᳓न्थाम् ऋत᳓स्य या᳓तवे त᳓म् ईमहे
हे इन्द्र महीः महतीः अपः वृष्ट्युदकानि सिन्धुं स्यन्दनशीलां नदीं समुद्रं वा प्रति येन सोमपानजन्येन मदेन प्रचोदयः प्रेरयसि । तत्र दृष्टान्तः । रथानिव । यथा रथिनो रथान् स्वाभिलषितदेशगमनाय प्रेरयन्ति तद्वत् । ऋतस्य यज्ञस्य पन्थां पन्थानं मार्गं यातवे यातुं प्राप्तुं तं मदम् ईमहे याचामहे ॥
Wherewith thou dravest forth like cars Sindhu and all the mighty floods
To go the way ordained by Law, for that we long.
(That) by which you impel the great waters forth to the Sindhu like chariots
to travel the path of truth—for that we beg.
᳓
Durch den du vorwärtstriebst den Strom, die grossen Wasser Wagen gleich, Dass sie auf rechtem Wege gleich, den wünschen wir.
Mit dem du zum Sindhu die größten Gewässer wie Wagen vorwärts triebest, daß sie den rechten Weg laufen, den erbitten wir.
Благодаря которому к Синдху ты погнал
Великие воды, словно колесницы,
Чтоб они текли правильным путем – мы просим о нем.
इमं᳓ स्तो᳓मम् अभि᳓ष्टये
घृतं᳓ न᳓ पूत᳓म् अद्रिवः
ये᳓ना नु᳓ सद्य᳓ ओ᳓जसा वव᳓क्षिथ
हे अद्रिवः वज्रवन्निन्द्र घृतं न घृतमिव मन्त्रपूतमाज्यमिव पूतं शुद्धम् इमम् अस्मदीयं स्तोमं स्तोत्रं बुध्यस्वेति शेषः । किमर्थम् । अभिष्टये अभिप्राप्त्यै । इष्टस्य धनादेरस्माकं लाभायेत्यर्थः । येन स्तोत्रेण स्तूयमानः सन् ओजसा आत्मीयेन बलेन सद्यः तदानीमेव स्तुतिसमय एव नु क्षिप्रं ववक्षिथ अस्मान् वहसि अभिलषितं प्रापयसि इमं स्तोममित्यन्वयः ॥
Accept this laud for aid, made pure like oil, thou Caster of the Stone,
Whereby even in a moment thou hast waxen great.
This praise song for dominance, purified like ghee, o master of the stones,
by which now in a single day with might you have waxed strong—
Dies Lob geniess zur Freude dir wie reines Schmalz, o Schleuderer, Durch das du alsobald mit Macht gewachsen bist.
Diesem Lobgesang verhilf zur Geltung, der wie Schmalz abgeklärt ist, du Herr des Preßsteins, durch den du sogleich an Kraft gewachsen bist.
Это восхваление в поддержку (тебе),
(Оно.) словно чистый жир, о хозяин давильных камней,
(Такое,) благодаря которому ты тут же возрос силой.
इमं᳓ जुषस्व गिर्वणः
समुद्र᳓ इव पिन्वते
इ᳓न्द्र वि᳓श्वाभिर् ऊति᳓भिर् वव᳓क्षिथ
हे गिर्वणः गिरां स्तुतीनां संभक्तः यद्वा स्तुतिभिः संभजनीयेन्द्र इमं स्तोमं मया क्रियमाणं जुषस्व सेवस्व । स च स्तोमः समुद्रइव समुद्रो यथा चन्द्रोदयं प्राप्य पिन्वते वर्धते। अभिधेयस्येन्द्रगुणगणस्याधिक्येन तत्प्रतिपादिका स्तुतिरपि विस्तृता भवतीत्यर्थः ॥ पूर्वस्यामृचि ववक्षिथेत्यनेन युक्तो येनेति शब्दोऽत्रापि सामर्थ्यात्तेन संबध्यते । अत एवास्य ‘तिङ्ङतिङः' इति निघाताभावः ॥ हे इन्द्र येन स्तोमेन हेतुना विश्वाभिः व्याप्ताभिः ऊतिभिः रक्षाभिः ववक्षिथ वहसि श्रेयांस्यस्मान् प्रापयसि ॥ वहेः सनन्ताल्लिटि ‘ °अमन्त्रे ' इति निषेधादामभावे थलि लिटि रूपमेतत् ॥ ॥ १ ॥
Be pleased, Song-lover, with this song it flows abundant like the sea.
Indra, with all thy succours thou hast waxen great.
This one enjoy, o you who yearn for songs—it swells like the sea. O Indra, with all your forms of help you have waxed strong.
᳓
Dies Lob, o der du Lieder liebst, gleich einem Meere schwillt es an; Durch all die Laben Indra bist gewachsen du.
Hab an ihm Gefallen, du Lobbgehrender - er schwillt wie das Meer an - der du Indra, durch alle deine Hilfen groß geworden bist.
Наслаждайся им, о жаждущий воспевания,
Оно прибывает, словно море.
О Индра, благодаря всем поддержкам ты возрос.
यो᳓ नो देवः᳓ पराव᳓तः
सखित्वना᳓य मामहे᳓
दिवो᳓ न᳓ वृष्टि᳓म् प्रथ᳓यन् वव᳓क्षिथ
यः देवः दानादिगुणयुक्त इन्द्रः परावतः परावताद्दूरात् द्युलोकादागत्य नः अस्माकं सखित्वनाय सखित्वाय मामहे धनानि प्रददौ । मंहतेर्दानकर्मण एतद्रूपम् । यद्वा । अस्माभिः पूज्यते । ‘मह पूजायाम् ' । अस्माच्छान्दसः कर्मणि लिट् । उत्तरार्धर्चः प्रत्यक्षकृतः । हे इन्द्र दिवो न वृष्टिं दिवः सकाशाद्वृष्टिमिव प्रथयन् अस्मदीयानि धनानि विस्तारयन् यस्त्वं ववक्षिथ अस्मान् वोढुमिच्छसि तादृशं त्वां स्तौमीति शेषः ॥
The God who from afar hath sent gifts to maintain our friendship's bond,
Thou. spreading them like rain from heaven, hast waxen great.
The god from afar who has become ready for partnership with us— spreading like the one who spreads the rain from heaven [=Parjanya], you have waxed strong.
Der uns als Gott von ferne her geführt hat zur Genossenschaft, Wie Himmelsdunst dich breitend bist gewachsen du.
Der Gott, der aus der Ferne zur Freundschaft für uns bereit ist, der du wie der den Regen des Himmels ausbreitende Parjanya groß geworden bist.
(Тот) бог, который издалека
Одарял нас из дружеских чувств,
Будто дождь с неба распространяя – ты возрос.
ववक्षु᳓र् अस्य केत᳓वो
उत᳓ व᳓ज्रो ग᳓भस्तियोः
य᳓त् सू᳓रियो न᳓ रो᳓दसी अ᳓वर्धयत्
अस्य इन्द्रस्य केतवः प्रज्ञानान्यस्मत्स्तुतिविषयाणि । यद्वा । रथे उत्क्षिप्ताः पताकाः केतवः । ववक्षुः अवहन् । अस्माञ्छ्रेयांसि प्रापयन् । उत अपि च गभस्त्योः । बाहुनामैतत् । इन्द्रस्य हस्तयोरवस्थितः वज्रः च अवहत् । यत् यदायमिन्द्रः सूर्यो न सर्वस्य प्रेरक आदित्य इव रोदसी द्यावापृथिव्यौ वृष्ट्यादिप्रदानेन अवर्धयत् तदानीमित्यर्थः ॥
The beams that mark him have grown strong, the thunder rests between his arms,
When, like the Sun, he hath increased both Heaven and Earth.
His beacons waxed strong and the mace in his two hands,
when, like the sun, he made the two worlds grow.
Es wuchsen seine Lichter auf, und in den Armen ihm der Blitz, Als Erd' und Himmel sonnengleich er kräftigte.
Seine Abzeichen und die Keule in seinen Händen sind gewachsen, als er wie die Sonne beide Welten größer machte.
Возросли его знамена
И дубина грома в руках,
Когда он, как солнце, две половины вселенной усилил.
य᳓दि प्रवृद्ध सत्पते
सह᳓स्रम् महिषाँ᳓ अ᳓घः
आ᳓द् इ᳓त् त इन्द्रिय᳓म् म᳓हि प्र᳓ वावृधे
हे प्रवृद्ध प्रकर्षेण महन् हे सत्पते सतामनुष्ठातॄणां पालयितरिन्द्र सहस्रं सहस्रसंख्याकान् महिषान् । महन्नामैतत् । महतोऽसुरान् वृत्रादीन् यदि यदा अघः अवधीः । हन्तेश्छान्दसमेतद्रूपम् । यद्वा ।' घस्लृ अदने ' । लुङि सिपि ' मन्त्रे घस ' इति च्लेर्लुक् । आदित् अनन्तरमेव हे इन्द्र ते तव इन्द्रियं वीर्यं महि महद्बहुलं सत् प्र वावृधे प्रकर्षेण वर्धते ॥
When, Mighty Lord of Heroes, thou didst cat a thousand buffaloes,
Then grew and waxed exceeding great thine Indra-power.
When, o full-grown master of settlements, you devoured a thousand buffaloes,
just after that your great Indrian power grew forth.
Sobald, o grosser starker Held, du hundert Büffel aufgezehrt, Da war's, dass deine Indramacht sich kräftigte.
Sobald du, erstarkter rechtmäßiger Herr, tausend Büffel verzehrt hattest, da erst ist deine Indrastärke mächtig gewachsen.
Если, о усиленный благой повелитель,
Ты поглотил тысячу буйволов,
То тут-то твоя мощь Индры страшно усилилась.
इ᳓न्द्रः सू᳓र्यस्य रश्मि᳓भिर्
नि᳓ अर्शसान᳓म् ओषति
अग्नि᳓र् व᳓नेव सासहिः᳓ प्र᳓ वावृधे
अयम् इन्द्रः सूर्यस्य सर्वस्य प्रेरकस्यादित्यस्य रश्मिभिः किरणैः करणभूतैः अर्शसानम् ॥ ‘ अर्त्तेर्गुणः शुद् च' (उ. सू. २. २४५) इति ‘ऋ गतौ ' इत्यस्मादसानच्प्रत्ययः शुडागमश्च । अत्र केवलोऽप्यर्तिराङ्पूर्वार्थो द्रष्टव्यः । आङ्पूर्वश्च बाधने वर्तते । यथा आर्तिमार्तोः ' (श. बा. १३. १. २. ४ ) इति ॥ अर्शसानं बाधमानं सन्देहादिकमसुरं नि ओषति नितरां दहति । ‘ उष दाहे'। तत्र दृष्टान्तः । अग्निर्वनेव । यथा वनारण्यानि दावानलो भस्मसात् करोति तद्वत् । एवं सासहिः शत्रूणामभिभवनशील इन्द्रः प्र वावृधे प्रकर्षेण वर्धते ॥
Indra consumeth with the rays of Surya the malicious man:
Like Agni conquering the woods, he hath grown strong.
With the rays of the sun Indra burns down Arśasāna;
victorious like fire over the woods, he grew forth.
Den Frevler brennet Indra weg wie mit der Sonne Strahlenglut; Wie Feuer, das den Wald verbrennt, ward kräftig er.
Indra brennt mit den Strahlen der Sonne den Arsasana nieder, wie Agni die Bäume; der Siegreiche ist erstarkt.
Индра лучами солнца
Сжигает дотла Аршасану,
Как Агни – деревья. Победоносный усилился.
इयं᳓ त ऋत्वि᳓यावती
धीति᳓र् एति न᳓वीयसी
सपर्य᳓न्ती पुरुप्रिया᳓ मि᳓मीत इ᳓त्
हे इन्द्र ते त्वाम् इयं पुरोवर्तिनी मया क्रियमाणा धीतिः स्तुतिः एति गच्छति । कीदृशी । ऋत्वियावती । ऋतौ वसन्तादिकालेऽनुष्ठेयं यज्ञकर्म ऋत्वियम् । तद्वती नवीयसी अतिशयेनाभिनवा स्तुतिः । सपर्यन्ती पूजयन्ती पुरुप्रिया पुरु बहुलं प्रीणयित्री सती मिमीत इत् इन्द्रगतान् गुणान् परिच्छिनत्त्येव । माहात्म्यं प्रख्यापयत्येव सेयमित्यन्वयः । अनुमीयमानेन वच्छब्देन च योगान्मिमीत इत्यस्य निघाताभावः । यद्वा। सपर्यन्ती पुरुप्रियेतीदमप्येतीत्यनेन संबन्धनीयम् । अतः पूर्वपदस्य भिन्नवाक्यस्थत्वात् ‘ समानवाक्ये युष्मदस्मदादेशा वक्तव्याः' इति वचनात्तदपेक्षया निघाताभावे सति ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥ ॥ २ ॥
This newest thought of ours that suits the time approaches unto thee:
Serving, beloved in many a place it metes and marks.
This newer visionary thought goes to you, conforming to her season [/to the ritual sequence].
Rendering service, dear to many—she is (well-)measured indeed.
Dies regelrechte Andachtslied, dies neue eilet hin zu dir, Anbetungsvoll und vielbeliebt, es ist bereit.
Für dich geht diese rechtzeitige Dichtung aufs neue hinaus, ehrerbietig, viellieb wird sie nach dem Versmaß gemessen.
Это своевременное произведение,
Совсем новое движется к тебе.
Почтительное, очень приятное, оно измеряется только (подвигами Индры).
ग᳓र्भो यज्ञ᳓स्य देवयुः᳓
क्र᳓तुम् पुनीत आनुष᳓क्
स्तो᳓मैर् इ᳓न्द्रस्य वावृधे मि᳓मीत इ᳓त्
यज्ञस्य यष्टव्यस्येन्द्रस्य गर्भः गरिता स्तोता। 'गॄ शब्दे'। 'अर्तिगॄभ्यां भन्' । यद्वा । यजेर्भाव एव नङ्प्रत्ययः । यागस्य गर्भो ग्रहीतानुष्ठाता देवयुः देवं दानादिगुणयुक्तमिन्द्रमात्मन इच्छन् आनुषक् अनुषक्तमानुपूर्व्येण संततं यथा भवति तथा क्रतुं प्रज्ञापकं सोमं पुनीते दशापवित्रेण शोधयति । इन्द्रपानार्थमिति शेषः । यद्वा । यज्ञस्य गर्भो दीक्षितः । पुनर्वा एतमृत्विजो गर्भं कुर्वन्ति ' (ऐ. ब्रा. १. ३) इत्यादि ब्राह्मणम् । स देवकामः क्रतुं ज्योतिष्टोमादिकमानुषक् । आनुपूर्व्यनामैतत् । यदाह यास्कः- ‘ आनुषगति नामानुपूर्व्यस्य' (निरु. ६. १४) इति । स स्तोता इन्द्रस्य । कर्मणि षष्ठी । इन्द्रविषयैः स्तोमैः स्तोत्रैः ववृधे वर्धते । यद्वा । वृधिना प्रयोज्यव्यापारवाचिना प्रयोजकव्यापारो लक्ष्यते । स्तोमैः स्तोत्रैस्तमिन्द्रं वर्धयति । स च स्तोमैः मिमीत इत् इन्द्रस्य गुणजातं परिच्छिनत्त्येव । अनुगतार्थो भवतीत्यर्थः ॥
The pious germ of sacrifice directly purifies the soul.
By Indra's lauds it waxes great, it metes and marks.
As embryo of the sacrifice, seeking the gods, (the thought?) purifies its intention following the proper order.
By praises of Indra it has grown—it is (well-)measured indeed.
Des Opfers gottgefäll'ger Spross durchläutre stetig seine Kraft, Durch Indra's Loblied ward er stark; er steht bereit.
Des Opfers neugeborenes Kind, das nach den Göttern verlangt, läutert gründlich seinen Geist. Durch Indra´s Lobpreisungen ist es groß geworden, es wird nach dem Versmaß gemessen.
Зародыш жертвы, преданный богам,
Последовательно очищает силу духа.
Он усилился благодаря восхвалениям Индры. Он измеряется только (подвигами Индры).
सनि᳓र् मित्र᳓स्य पप्रथ
इ᳓न्द्रः सो᳓मस्य पीत᳓ये
प्रा᳓ची वा᳓शीव सुन्वते᳓ मि᳓मीत इ᳓त्
मित्रस्य मित्रभूतस्य स्तोतुः सनिः धनस्य दाता इन्द्रः सोमस्य पीतये पानाय पप्रथे प्रथितो विस्तीर्णशरीरो बभूव । यथा पीतो बहुलः सोमः उदरेऽन्तर्भवति तथा प्रवृद्धशरीरो बभूवेत्यर्थः । तत्र प्रथमे दृष्टान्तः । प्राची प्राञ्चन्ती प्रकर्षेण स्तुत्यगुणगणं प्राप्नुवती वाशीव । वाङ्नामैतत् । स्तुतिरूपा वाक् सुन्वते । ‘षष्ठ्यर्थे चतुर्थी वक्तव्या' इति चतुर्थी । सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य संबन्धिनी यथा स्तुत्यगुणबाहुल्येन विस्तीर्णा भवति तथेन्द्रः पप्रथ इत्यर्थः । प्रथिता च सा मिमीत इत् इन्द्रमाहात्म्यं यथावत् परिच्छिनत्त्येव ॥
Indra who wins the friend hath spread himself to drink the Soma-draught:
Like worshipper's dilating praise; it metes and marks.
Indra, who is the gain from our alliance, spreads himself out for soma-drinking.
(The thought) advancing like an axe for the presser—it is (well-) measured indeed.
Des Freundes Spende dehnt sich aus, so Indra auch zum Somatrunk, Gleich wie das Beil in Pressers Hand, ist sie bereit.
Indra, der Gewinn der Freundschaft hat sich breit gemacht, um Soma zu trinken. -Sich im Takt vorwärts bewegend für den Somapresser wie eine Axt wird sie nach dem Versmaß gemessen.
Индра – добыча дружбы расширился
Для питья сомы.
Он как направленный вперед топор для выжимающего (сому).
Он измеряется только (своими) подвигами.
यं᳓ वि᳓प्रा उक्थ᳓वाहसो
अभिप्रमन्दु᳓र् आय᳓वः
घृतं᳓ न᳓ पिप्य आस᳓नि ऋत᳓स्य य᳓त्
विप्राः मेधाविनः उक्थवाहसः उक्थानां शस्त्राणां वोढारः प्रापयितारः आयवः मनुष्याः यम् इन्द्रम् अभिप्रमन्दुः अभि प्रकर्षेण मादयन्ति ॥ मदेर्व्यत्ययेन परस्मैपदम् । ‘ द्विर्वचनप्रकरणे छन्दसि वा ' ( का. ६. १. ८. १) इति वचनात् द्विर्वचनाभावः ॥ तस्येन्द्रस्य आसनि आस्ये । ‘ पद्दन्' इत्यादिना आस्यशब्दस्य आसन्नादेशः । घृतं न घृतमिव शुद्धं पिप्ये सेचनेन वर्धये । प्यायतेश्छान्दसो लिट् । लिड्यङोश्च' इति पीभावः । किं तत् । हविः। ऋतस्य यज्ञस्य संबन्धि यत् सोमलक्षणं हविरस्ति तदित्यर्थः ॥
He whom the sages, living men, have gladdened, offering up their hymns,
Hath swelled like oil of sacrifice in Agni's mouth.
Whom [=Indra] the inspired Āyus, whose conveyance is solemn speech, have brought to exhilaration—
like ghee, it swells in his mouth—(the speech) that belongs to truth.
Ihm, den die muntre Sängerschar durch Sprüche recht erheitert hat, Ihm schwillt wie Butter in dem Mund des Opfers Werk.
Zu dem die redekundigen Ayu´s im Fahrzeug der Lieder pilgerten, wie Schmalz quillt in ihrem Munde über, was das Wort der Wahrheit ist.
Кого обрадовали вдохновленные
Исполнители гимнов Аю,
(Для того) в устах, словно жир, сочится (речь), которая истинна.
उत᳓ स्वरा᳓जे अ᳓दिति
स्तो᳓मम् इ᳓न्द्राय जीजनत्
पुरुप्रशस्त᳓म् ऊत᳓य ऋत᳓स्य य᳓त्
उत अपि च अदितिः अदीना देवमाता अखण्डनीयस्तोता वा स्वराजे स्वयमेव राजमानाय इन्द्राय पुरुप्रशस्तं बहुलमुत्कृष्टं यद्वा पुरुभिर्बहुभिः प्रशंसितव्यं स्तोमं स्तोत्रं जीजनत् अजीजनत् अजनयत् । किमर्थम् । ऊतये रक्षणार्थम् । यत् स्तोत्रम् ऋतस्य यज्ञस्य सत्यस्य वा संबन्धि भवति तं स्तोममित्यन्वयः ॥
Aditi also hath brought forth a hymn for Indra, Sovran Lord:
The work of sacrifice for help is glorified.
And Aditi gave birth to the praise song for Indra, the sovereign king, (the song) proclaimed by many for his help—(the song) that belongs to truth.
᳓
Und Indra, dem selbstleuchtenden hat Lobsang Aditi erzeugt; Zur Wonne, vielgepriesen ist des Opfers Werk.
Auch Aditi erzeugte dem Selbstherrscher Indra ein Loblied, ein vielgelobtes, um seinen Beistand zu gewinnen, was das Wort der Wahrheit ist.
А также Адити для самодержца
Индры создала восхваление
Ради (его) помощи, многопрославленную (речь), которая истинна.
अभि᳓ व᳓ह्नय ऊत᳓ये
अ᳓नूषत प्र᳓शस्तये
न᳓ देव वि᳓व्रता ह᳓री ऋत᳓स्य य᳓त्
वह्नयः वोढार ऋत्विजः ऊतये रक्षणार्थं प्रशस्तये प्रशस्त्यर्थं च अभि अनूषत इन्द्रमम्यष्टुवन् । 'नू स्तुतौ ' । कुटादिः । हे देव दानादिगुणयुक्तेन्द्र । न इति संप्रत्यर्थे । संप्रति विव्रता विविधकर्माणौ हरी त्वदीयावश्वौ ऋतस्य यज्ञस्य सत्यस्य वा संबन्धि यत् स्तोत्रं हविर्वा विद्यते तदभिलक्ष्य त्वां वहत इति शेषः । ॥ ३ ॥
The ministering priests have sung their songs for aid and eulogy:
God, thy Bays turn not from the rite which Law ordains.
The draft-horses have roared to (him) for help and for his glorification. Your two fallow bays, o god, do not follow a commandment separate (from the one) that belongs to truth.
᳓
Es jauchzten ihm die Priester zu zur Wonne, zur Verherrlichung, Nicht widerstrebt sein Füchsepaar dem Opferwerk.
Die Wortführer haben zu ihm um seinen Beistand geschrieen, zu seinem Preise. Nicht sind dir, o Gott, die Falben widerspenstig, was das Wort der Wahrheit ist.
Ведущие (речь) приветствовали (его) криками
Ради (его) помощи, ради прославления.
Пара (твоих) буланых коней не сопротивляется (речи), которая истинна.
य᳓त् सो᳓मम् इन्द्र वि᳓ष्णवि
य᳓द् वा घ त्रित᳓ आप्तिये᳓
य᳓द् वा मरु᳓त्सु म᳓न्दसे स᳓म् इ᳓न्दुभिः
हे इन्द्र विष्णवि विष्णौ पानार्थमागते सत्यन्यदीये यागे सोमं यत् यदि तेन विष्णुना सार्धं पिबसि । यद्वा यदि च आप्त्ये अपां पुत्रे त्रिते एतत्संज्ञे राजर्षौ यजमाने सोमं पिबसि । घ इति पूरणः । यद्वा यदि च मरुत्सु च सोमपानायागतेष्वन्यदीये यज्ञे मन्दसे माद्यसि । तथाप्यस्मदीयैरेव इन्दुभिः सोम सं सम्यक् माद्य ॥
If, Indra, thou drink Soma by Visnu's or Trta Aptya's side,
Or with the Maruts take delight in flowing drops;
When (you drink) soma in company with Viṣṇu or when with Trita Āptya,
or when in company with the Maruts you reach exhilaration with the drops—
Ob du beim Vischnu, Indra, dich ob bei dem Trita Aptia, Bei Maruts dich des Soma's freust am Indusaft,
Wenn du, Indra, den Soma bei Vishnu, oder wenn du bei Trita Aptya trinkst, oder wenn du bei den Marut dich ergötzest an den Somasäften;
Когда, о Индра, (ты пьешь) сому у Вишну,
Или же когда у Триты Аптьи,
Или когда у Марутов опьяняешься соками,
य᳓द् वा शक्र पराव᳓ति
समुद्रे᳓ अ᳓धि म᳓न्दसे
अस्मा᳓कम् इ᳓त् सुते᳓ रणा स᳓म् इ᳓न्दुभिः
हे शक्र शक्तेन्द्र परावति परागते दूरदेशे समुद्रे समुन्दनशीले सोमे । अधि सप्तम्यर्थानुवादी । यद्वा यदि वा मन्दसे माद्यसि तथापि अस्माकमित् अस्माकमेव सोमे अभिषुते सति इन्दुभिः सोमरसैः सं रण सम्यग्रमस्व ॥
Or, Sakra, if thou gladden thee afar or in the sea of air,
Rejoice thee in this juice of ours, in flowing drops.
Or when, able one, you reach exhilaration at a distance, upon the sea, take pleasure just in our pressing with its drops—
Ob du in weiter Ferne dich erfreust, o Held, am Somameer, Ergötz vor allen dich bei uns am Indusaft,
Oder wenn du Mächtiger in der Ferne, im Meer dich ergötzest, so erfreue dich erst recht an unserem Soma, an den Somasäften;
Или когда, о могучий, вдалеке
На море ты опьяняешься,
То порадуйся прежде всего (соме,) выжатому у нас, (наслаждаясь) соками,
य᳓द् वा᳓सि सुन्वतो᳓ वृधो᳓
य᳓जमानस्य सत्पते
उक्थे᳓ वा य᳓स्य र᳓ण्यसि स᳓म् इ᳓न्दुभिः
हे सत्यते सतां पालयितरिन्द्र सुन्वतः सोमाभिषवं कुर्वतः यजमानस्य यद्वा यदि वा वृधः असि वर्धयिता भवसि । वृधेरन्तर्णीतण्यर्थादिगुपधलक्षणः कः । यस्य च यजमानस्य उक्थे शस्त्रे वा शंसिते सति रण्यसि रमसे । एवमपि इन्दुभिः अस्मदीयैरेव सोमैः सम्यग्रमस्व॥
Or, Lord of Heroes if thou aid the worshipper who shed; the, juice,
Or him whose laud delights thee, and his flowing drops.
Or when you are the strengthener of the presser, of the sacrificer, o lord of settlements,
or in whose solemn speech you take pleasure—together with the drops.
Magst du des Pressers Beistand sein, des Opfernden, o tapfrer Held, An Sängers Spruch erlaben dich am Indusaft.
Oder wenn du, der Stärker des Somapressenden, des Opfernden bist, du rechtmäßiger Gebieter, oder an wes Loblied du dich erfreuest, an den Somasäften.
Или когда ты усиливаешь выжимающего (сому),
Жертвователя, о благой повелитель,
(Того,) чьему гимну ты радуешься, (наслаждаясь) соками.
देवं᳓-देवं वो अ᳓वस
इ᳓न्द्रम्-इन्द्रं गृणीष᳓णि
अ᳓धा यज्ञा᳓य तुर्व᳓णे वि᳓ आनशुः
हे ऋत्विग्यजमानाः वः युष्माकम् अवसे रक्षणाय देवंदेवम् इन्द्रमिन्द्रं दानादिगुणयुक्तम् । इन्द्रो बहुषु देशेषु युगपत्प्रवृत्तेषु यागेषु तत्र तत्र हविःस्वीकरणीय बहूनि शरीराण्याददानः स्वयमेकोऽप्यनेकः संस्तत्र तत्र संनिधत्ते । तथा च निगमान्तरम्-- ‘ इन्द्रो मायाभिः पुरुरूप ईयते । ऋ. सं. ६, ४७, १८) इति । तदपेक्षयेयं वीप्सा । बहु विभज्य वर्तमानं सर्वं तमिन्द्रं गृणीषणि अहं स्तौमि । गृणातेर्लिङि छान्दसमेतद्रूपम् । यद्वा । कारकमेवैतत् । गृणीषणि स्तवनेच्छायां सत्याम् । अध अनन्तरं सर्वमिन्र्द्रं मदीयाः स्तुतयः व्यानशुः व्याप्नुवन्ति । किमर्थम् । तुर्वणे तूर्णं संभजनाय यज्ञाय यागार्थम् । यद्वा । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थी। यज्ञं यष्टव्यं तुर्वणे शत्रूणां हिंसितारं तूर्णसंभजनं वा ॥
To magnify the God, the God, Indra, yea, Indra for your help,
And promptly end the sacrifice-this have they gained.
Upon hymning the god time after time, for (him) to help you, upon hymning Indra time after time,
then they came through to victory for the sacrifice.
Zum Heile preiset euren Gott, den Indra, Indra fort und fort, Um Opfers Segen zu empfahn, sie drangen durch.
Immer nur den Gott, immer nur Indra soll man loben, euch zum Beistand. Dann haben sie so, daß ihr Opfer den Vorrang hat, Erfolg gehabt.
Бога Индру надо каждый раз
Воспевать для поддержки вам,
И тогда чтоб жертва превзошла (всё) – они достигли (цели).
यज्ञे᳓भिर् यज्ञ᳓वाहसं
सो᳓मेभिः सोमपा᳓तमम्
हो᳓त्राभिर् इ᳓न्द्रं वावृधुर् वि᳓ आनशुः
यज्ञेभिः यज्ञैर्यजनसाधनैर्हविर्भिः यज्ञवाहसं यज्ञे वोढव्यं प्रापणीयं यज्ञैर्यागैर्यज्ञानां यजमानानां फलस्थ प्रापयितारं वा । अथवा यज्ञवाहसं यज्ञेन प्राप्यम् । न केवलमेकेन यज्ञेन अपि तु सर्वैरित्याह यज्ञेभिरिति । एवं सोमेभिः सोमपातमं सर्वेषां सोमानां पातृतमम् इन्द्रं होत्राभिः स्तुतिभिः वावृधुः स्तोतारो वर्धयन्ति । ताश्च क्रियमाणाः स्तुतयः व्यानशुः तमिन्द्रं व्याप्नुवन्ति च । अश्नोतेर्व्यत्ययेन परस्मैपदम् । । ४ ॥
With worship, him whom men adore, with Soma, him who drinks it most,
Indra with lauds have they increasedthis have they gained.
With sacrifices (they strengthened) him whose vehicle is the sacrifice, with soma-drinks the best soma-drinker;
with libations they strengthened Indra—they came through.
Durch Opfer ihn, der Opfer liebt, durch Soma ihn, der Soma schlürft, Durch Lieder stärkten Indra sie; sie drangen durch.
Mit Opfern haben sie den durch Opfer Angezogenen, mit Soma den größten Somatrinker, mit Opfergaben den Indra gestärkt; sie haben Erfolg.
Жертвами – (того,) кого жертвы притягивают,
Соками сомы – (того,) кто больше всех пьет сому,
Возлияниями Индру они усилили – они достигли (цели).
मही᳓र् अस्य प्र᳓णीतयः
पूर्वी᳓र् उत᳓ प्र᳓शस्तयः
वि᳓श्वा व᳓सूनि दाशु᳓षे वि᳓ आनशुः
अस्य इन्द्रस्य प्रणीतयः प्रणयनानि धनानां प्रकृष्टप्रापणानि महीः महत्यो महान्ति भवन्ति । उत अपि च अस्य प्रशस्तयः प्रशंसनीयाः कीर्तयः पूर्वीः बह्व्यः विस्तृततमा भवन्ति । ता उभयविधाः दाशुषे चरुपुरोडाशादीनि दत्तवते यजमानाय दातुं विश्वा विश्वानि सर्वाणि वसूनि धनानि व्यानशुः व्याप्नुवन्ति ॥
His leadings are with power and might and his instructions manifold:
He gives the worshipper all wealth: this have they gained.
Great is his guidance and many are the encomia for him.
All good things are for the pious man—they came through.
Voll Heil sind seine Führungen, und reichlich seine Segnungen, Dem Frommen schenkt er alles Gut; sie drangen durch.
Groß sind seine Führungen und zahlreich seine Belobungen. Alle Güter sind für den Opferspender bestimmt; sie haben Erfolg.
Мощно его предводительство,
И многочисленны прославления.
Все блага (предназначены) для почитателя его – они достигли цели.
इ᳓न्द्रं वृत्रा᳓य ह᳓न्तवे
देवा᳓सो दधिरे पुरः᳓
इ᳓न्द्रं वा᳓णीर् अनूषता स᳓म् ओ᳓जसे
देवासः देवाः वृत्राय हन्तवे वृत्रमावरकमसुरं हन्तुम् । हन्तेस्तुमर्थे तवेन्प्रत्ययः । इमम् इन्द्रं पुरः दधिरे पुरस्तात् स्वामित्वेनाधारयन् । वाणीः वाण्यः स्तुतिरूपा वाचश्चेममेव इन्द्रम् अनूषत स्तुवन्ति । किमर्थम् । सं समीचीनाय ओजसे बलार्थम् । यथा वृत्रवधानुगुणमुत्कृष्टं बलमस्य जायते तथा स्तुवन्तीत्यर्थः ॥
For slaying Vrtra have the Gods set Indra in the foremost place.
Indra the choral bands have sung, for vigorous strength.
Indra did the gods set in front to smash Vr̥tra.
To Indra did their voices roar—entirely for his might.
Den Indra hat die Götterschar zur Vritratödtung ausersehn, Ihm tönet zu der Sänger Chor zu hoher Kraft.
Daß er den Vritra erschlage, haben die Götter Indra an die Spitze gestellt. Nach Indra haben die Sängerstimmen geschrieen insgesamt zur Stärke.
Индру, чтоб он убил Вритру,
Боги поставили впереди.
Индру голоса (певцов) приветствовали – вместе для силы.
महा᳓न्तम् महिना᳓ वयं᳓
स्तो᳓मेभिर् हवनश्रु᳓तम्
अर्कइ᳓र् अभि᳓ प्र᳓ णोनुमः स᳓म् ओ᳓जसे
महिना महिम्ना महान्तं सर्वेभ्योऽधिकं हवनश्रुतं हवनस्याह्वानस्य श्रोतारमिन्द्रं वयं स्तोमेभिः स्तोमैस्त्रिवृत्पञ्चदशादिभिः अर्कैः अर्चनसाधनैः शस्त्रैश्च अभि प्र णोनुमः आभिमुख्येन प्रकर्षेण पुनःपुनः स्तुमः ॥
We to the Mighty with our might, with lauds to him who hears our call,
With holy hymns have sung aloud, for vigorous strength.
To him, great through his greatness, to him hearing the summons through our praise songs
and chants do we keep roaring—entirely for his might.
Den grossen preisen wir mit Macht; mit Loblied den, der Ruf erhört, Erheben ihn mit Lieder Schall zu hoher Kraft.
Nach dem an Größe Großen, den Ruf erhörenden Indra schreien wir mit Lobliedern, mit Preisgesängen insgesamt zur Stärke;
Великого величием, слышащего зов
(Индру) мы громко приветствуем
Восхвалениями (и) песнями – вместе для силы.
न᳓ यं᳓ विविक्तो᳓ रो᳓दसी
ना᳓न्त᳓रिक्षाणि वज्रि᳓णम्
अ᳓माद् इ᳓द् अस्य तित्विषे स᳓म् ओ᳓जसः
यं वज्रिणं वज्रवन्तमिन्द्रं रोदसी द्यावापृथिव्यौ न विविक्तः न पृथक्कुरुतः स्वसमीपात् पृथक्कर्तुं न शक्नुतः । द्यावापृथिव्यौ व्याप्य य इन्द्रो वर्तत इत्यर्थः । ‘ विचिर् पृथग्भावे ' । अन्तरिक्षणि अन्तरा क्षान्तानि द्यावापृथिव्योर्वर्तमानानि गन्धर्वादीनां स्थानानि च यं न पृथक्कुर्वन्ति । अस्य इन्द्रस्य अमादित् । अमति रुजति शत्रूननेनेत्यमो बलम् । बलादेव तित्विषे सर्वं जगद्दीप्यते । किमर्थम् । ओजसः बलस्य संगमाय । यद्वा। ओजःशब्दाद्विहितस्य विनो ‘ बहुलं छन्दसि' इति लुक् । ओजस्विनो बलवतोऽस्येन्द्रस्येति योज्यम् । समित्युपसर्गः तित्विष इत्यनेन संबध्यते ॥
Not earth, nor heaven, nor firmaments contain the Thunder-wielding God:
They shake before his violent rush and vigorous strength.
The mace-bearer whom the two worlds do not encompass, nor the midspaces,
just from his own onslaught he has flared up—entirely from his might.
Den Erd' und Himmel nicht umfasst, die Lüfte nicht, den Blitzenden, Vor seinem Andrang bebt das All, und seiner Kraft.
Den weder die beiden Welten, noch die Lufträume fassen, den Keulenträger; vor seiner Wut geriet die Welt in Aufregung, vor seiner Stärke.
Кого не могут вместить ни две половины вселенной,
Ни воздушные просторы – громовержца,
Только перед его неистовством сотрясался всегда (мир) - вместе, перед силой.
य᳓द् इन्द्र पृतना᳓जिये
देवा᳓स् त्वा दधिरे᳓ पुरः᳓
आ᳓द् इ᳓त् ते हर्यता᳓ ह᳓री ववक्षतुः
हे इन्द्र पृतनाज्ये । संग्रामनामैतत् । पृतनाः सेना अजन्ति गच्छन्त्यस्मिन्निति वा पृतना जीयतेऽत्रेति वा पृतनाज्यं संग्रामः । तत्र त्वा त्वां यत् यदा देवाः पुरः दधिरे वृत्रहननाय पुरतोऽधारयन् आदित् अनन्तरमेव हर्यता हर्यतौ कान्तौ । हर्य गतिकान्त्योः ' । 'भृमृदृशि' इत्यादिनौणादिकोऽतच्प्रत्ययः । ईदृशौ हरी अश्वौ ते त्वां ववक्षतुः अवहताम् ॥ ॥ ५ ॥
What time the Gods, O Indra, get thee foremost in the furious fight,
Then thy two beautiful Bay Steeds carried thee on.
When, o Indra, at the battle-charge the gods set you in front, just after that your two beloved fallow bays waxed strong.
Als Indra dich zur Feindesschlacht die Götter hatten ausersehn, Da wuchs empor dein Füchsepaar, das herrliche.
Als dich, Indra, die Götter im Kampf an die Spitze gestellt hatten, da erst sind deine geliebten Falben groß geworden.
Когда, о Индра, в состязании
Боги тебя поставили впереди,
Только тогда пара твоих любимых буланых коней возросла.
यदा᳓ वृत्रं᳓ नदीवृ᳓तं
श᳓वसा वज्रिन् अ᳓वधीः
आ᳓द् इ᳓त् ते हर्यता᳓ ह᳓री ववक्षतुः
हे वज्रिन् वज्रवन्निन्द्र नदीवृतम् । नदनान्नद्य आपः । श्रूयते हि- अहावनदता हते तस्मादा नद्यो नाम स्थ ' (तै. सं. ५. ६. १. २) इति । ता आवृण्वन्तं वृत्रम् अवर्षणशीलं मेघमसुरं वा यदा यस्मिन् काले शवसा बलेन अवधीः अहिंसीः । शिष्टं समानम् ॥
When Vrtra, stayer of the floods, thou si"est, Thundeicr with might,
Then thy two beautiful Bay Steeds carried thee on.
When, o mace-bearer, with your vast power you smashed Vr̥tra who was blocking the rivers,
just after that your two beloved fallow bays waxed strong.
᳓
Als du den Stromverschliessenden, den Vritra blitzend schlugst mit Macht, Da wuchs empor dein Füchsepaar, das herrliche.
Als du Keulenträger den Flüssesperrer Vritra mit Kraft erschlugst, da erst sind deine geliebten Falben groß geworden.
Когда Вритру, запрудившего реки,
Ты убил (своей) силой, о громовержец,
Только тогда пара твоих любимых буланых коней возросла.
यदा᳓ ते वि᳓ष्णुर् ओ᳓जसा
त्री᳓णि पदा᳓ विचक्रमे᳓
आ᳓द् इ᳓त् ते हर्यता᳓ ह᳓री ववक्षतुः
हे इन्द्र ते तवानुजः विष्णुः व्यापनशीलो देवः ओजसा बलेन यदा यस्मिन् काले त्रीणि पदानि पदत्रयरूपेण त्रील्ँलोकान् विचक्रमे विक्रान्तवान् परिच्छिन्नवान् । गतमन्यत् ॥
When Visnu, through thine energy, strode wide those three great steps of his,
Then thy two beautiful Bay Steeds carried thee on.
When Viṣṇu strode his three steps by your might,
just after that your two beloved fallow bays waxed strong.
Als Vischnu dann durch deine Kraft der Schritte drei vollendete, Da wuchs empor dein Füchsepaar, das herrliche.
Als Vishnu für dich mit Kraft seine drei Schritte ausgeschritten hatte, da erst sind deine geliebten Falben groß geworden.
Когда для тебя Вишну мощно
Прошагал три шага.
Только тогда пара твоих любимых буланых коней возросла.
यदा᳓ ते हर्यता᳓ ह᳓री
वावृधा᳓ते दिवे᳓-दिवे
आ᳓द् इ᳓त् ते वि᳓श्वा भु᳓वनानि येमिरे
हे इन्द्र त्वदीयौ हर्यता हर्यतौ कान्तौ हरी हरणशीलावश्वौ दिवेदिवे प्रतिदिवसं यदा यस्मिन् काले वावृधाते प्रवृद्धौ बभूवतुः आदित् अनन्तरमेव त्वया विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि येमिरे नियम्यन्ते स्म ।
When thy two beautiful Bay Steeds grew great and greater day by day,
Even then all creatures that had life bowed down to thee.
When your two beloved fallow bays grew strong from day to day, just after that all these worlds held themselves in submission to you.
᳓
Als dein geliebtes Füchsepaar an Grösse zunahm Tag für Tag, Da schmiegten alle Wesen auch sich eng an dich.
Als deine geliebten Falben Tag für Tag größer wurden, da erst haben sich dir alle Wesen gefügt.
Когда пара твоих любимых буланых коней
Стала крепнуть день ото дня,
Только тогда тебе подчинились все существа.
यदा᳓ ते मा᳓रुतीर् वि᳓शस्
तु᳓भ्यम् इन्द्र नियेमिरे᳓
आ᳓द् इ᳓त् ते वि᳓श्वा भु᳓वनानि येमिरे
हे इन्द्र तुभ्यं त्वदर्थं 'मारुतीः मारुत्यो मरुद्रूपाः ते त्वदीयाः विशः प्रजाः यदा यस्मिन् काले नियेमिरे नियच्छन्ति भूतजातानि । अन्यद्गतम् ॥
When, Indra, all the Marut folk humbly submitted them to thee,
Even then all creatures that had life bowed down to thee.
When the Marutian clans held themselves down for you,
just after that all these worlds held themselves in submission to you.
Als deine Marutscharen dann um dich, o Indra, scharten sich, Da schmiegten alle Wesen auch sich eng an dich.
Als die marutischen Clane sich dir, Indra, unterworfen hatten, da erst haben sich dir alle Wesen gefügt.
Когда марутовы племена
Покорились тебе,о Индра,
Только тогда тебе подчинились все существа.
यदा᳓ सू᳓र्यम् अमुं᳓ दिवि᳓
शुक्रं᳓ ज्यो᳓तिर् अ᳓धारयः
आ᳓द् इ᳓त् ते वि᳓श्वा भु᳓वनानि येमिरे
हे इन्द्र अमुं विप्रकृष्टं शुक्रं निर्मलं ज्योतिः द्योतमानं सूर्यं सर्वस्य प्रेरकं शोभनवीर्यं वादित्यं दिवि द्युलोके जगतः प्रकाशनाय यदा यस्मिन् काले अधारयः धारितवानसि । समानमन्यत् ॥
When yonder Sun, that brilliant light, thou settest in the heaven above,
Even then all creatures that had life bowed down to thee.
When you fixed yonder sun, the blazing light, fast in heaven,
just after that all these worlds held themselves in submission to you.
᳓
Als jene Sonn' am Himmel du als helles Licht befestigtest, Da schmiegten alle Wesen auch sich eng an dich.
Als du jene Sonne, das helle Licht am Himmel befestigtest, da erst haben sich dir alle Wesen gefügt.
Когда ты укрепил на небе
То солнце, яркое светило,
Только тогда тебе подчинились все существа.
इमां᳓ त इन्द्र सुष्टुतिं᳓
वि᳓प्र इयर्ति धीति᳓भिः
जामि᳓म् पदे᳓व पि᳓प्रतीम् प्र᳓ अध्वरे᳓
हे इन्द्र विप्रः मेधावी स्तोता अध्वरे यज्ञे इमां पुरोवर्तिनीं पिप्रतीं पूजयन्तीं प्रीणयन्ती वा सुष्टुतिं शोभनां स्तुतिं धीतिभिः कर्मभिः परिचरणैः सार्धं ते त्वां प्र इयर्ति प्रेरयति प्रगमयति । जामिं पदेव यथा बन्धुभूतं पुरुषमुत्कृष्टानि पदानि स्थानानि प्रापयति तद्वत् ॥
To thee, O Indra, with this thought the sage lifts up this eulogy,
Akin and leading as on foot to sacrifice.
The inspired poet, through his insights, raises this good praise to you, Indra, which guides its kin safely across, like footsteps, while the ceremony is pro(ceeding).
Dies Preislied bringt, o Indra, dir der Sänger dar mit frommem Sinn, Das schwesterlich den Schritten folgt beim Opferfest.
Diese Lobrede hebt der Redekundige für dich, Indra, gedankenvoll an, die wie eine Schwester deine Schritte geleitet, vorwärts zum Opfer;
Эту прекрасную хвалу тебе, о Индра,
Вдохновенный (певец) воссылает с молитвами,
(Ту, что) как родная сестра, направляющая шаги (твои) во время обряда.
य᳓द् अस्य धा᳓मनि प्रिये᳓
समीचीना᳓सो अ᳓स्वरन्
ना᳓भा यज्ञ᳓स्य दोह᳓ना प्र᳓ अध्वरे᳓
अध्वरे यज्ञे अस्य इन्द्रस्य धामनि स्थाने तेजसि वा प्रिये प्रीणयितव्ये सति समीचीनासः संगताः स्तोतारः यत् यदा प्र अस्वरन् प्रकर्षेणास्तुवन् । ‘ स्वृ शब्दोपतापयोः'। अयाळिन्द्रस्य प्रिया धामानि ' (तै. ब्रा. ३. ५. ७. ६) इति हि निगमः । कस्मिन् देशे । नाभा नाभौ पृथिव्या नाभिस्थानीये मध्ये यज्ञस्य यजनसाधनस्य सोमस्य दोहना दोहने दोहनाधिकरणेऽभिषवस्थाने । वेद्यामित्यर्थः । तदानीं धनं प्रदेहीत्युत्तरत्र संबन्धः ॥
When in thine own dear dwelling all gathered have lifted up the voice
Milk-streams at worship's central spot, for sacrifice,
When they have sounded in unison in his own dear domain,
in the navel of the sacrifice, along with the milking, while the ceremony is pro(ceeding),
Und wenn in deinem Lieblingssitz die Melker rauschen im Verein In der Verehrung Mittelpunkt beim Opferfest,
Wenn die Sänger bei seiner lieben Erscheinung gemeinsam den Gesang angestimmt haben, dann geht im Nabel des Opfers die Melkung vor sich beim Opfer;
Когда на его любимом месте
Зазвучали вместе (голоса певцов),
(То происходит) доение на пупе жертвоприношения во время обряда.
सुवी᳓रियं सुअश्वियं
सुग᳓व्यम् इन्द्र दद्धि नः
हो᳓तेव पूर्व᳓चित्तये प्र᳓ अध्वरे᳓
सुवीर्यं शोभनवीर्योपेतं स्वश्व्यं शोभनेनाश्वसंघेन च युक्तं सुगव्यं शोभनगोसंघयुक्तं च धनं हे इन्द्र नः अस्मभ्यं दद्धि ददस्व । ‘दद दाने'। अनुदात्तेत् । व्यत्ययेन परस्मैपदम् । छान्दसः शपो लुक्। अहं च अध्वरे यागे होतेव यथा मानुषो होतर्त्विक् स्तौति एवमेव पूर्वचित्तये पूर्वप्रज्ञानायान्येभ्यः स्तोतृभ्यः पूर्वमेवास्मत्स्तोत्रपरिज्ञानाय प्राशंसिषमिति शेषः ॥ ॥ ६ ॥ ॥ २ ॥
As Priest, O Indra, give us wealth in brave men and good steeds ana kine
That we may first remember thee for sacrifice.
Indra, give to us the possession of good heroes, of good horses, of good cows,
like a Hotar, (for us) to be first in your thought, while the ceremony is pro(ceeding).
᳓
So gib uns, Indra, reiche Schar an Söhnen, Rossen, Rindern auch Auf ersten Wunsch als Priester du beim Opferfest.
Gib uns, Indra, den Besitz guter Meister, guter Rosse, guter Rinder, damit wir zuerst bedacht werden, wie der Hotri beim Opfer!
Владение прекрасным мужеством, прекрасными конями,
Прекрасными коровами даруй нам, Индра,
Чтобы прежде всего обдумать, как хотар во время обряда.