इदं᳓ वसो सुत᳓म् अ᳓न्धः +++(=अशनीयम्)+++
पि᳓बा सु᳓पूर्णम् उद᳓रम् ।
अ᳓न्-आभयिन् ररिमा᳓ +++(=दद्मः)+++ ते ।।
हे वसो वासयितरिन्द्र इदं पुरोवर्तमानं सुतम् अभिषुतम् अन्धः अन्नं सोमलक्षणं पिब । यथा उदरं त्वदीयं जठरं सुपूर्णम् अतिशयेन संपूर्णं भवति तथेत्यर्थः । हे अनाभयिन् । आ समन्ताद्बिभेतीत्याभयी । बिभेतेरौणादिक इनिः । नाभय्यनाभयी । तादृश हे इन्द्र ते तुभ्यं त्वदर्थं ररिम उक्तलक्षणं सोमं दद्मः । ‘रा दाने' । छान्दसो लिट् ॥
HERE is the Soma juice expressed; O Vasu, drink till thou art full:
Undaunted God, we give it thee.
This pressed stalk, o good one—drink your belly well full—
have we given to you, o you who bring no threat.
Trank ist dir gebraut, o guter, trink daran den Bauch recht voll dir, Dir ist er geweiht, o kühner,
Diesen ausgepreßten Trank, du Gütiger, - trink dir den Bauch recht voll - haben wir dir dargebracht, o Furchtloser.
Этот выжатый напиток, о благой, –
Пей, переполнив живот! –
Мы поднесли тебе, о бесстрашный.
नृ᳓भिर् धूतः᳓ सुतो᳓ अ᳓श्नैर् +++(=अश्मभिः)+++
अ᳓व्यो +++(=मेषस्य)+++ वा᳓रैः +++(=वालैः)+++ प᳓रिपूतः ।
अ᳓श्वो न᳓ निक्तो᳓ +++(=शोधितः)+++ नदी᳓षु २
नृभिः अध्वरस्य नेतृभिर्ऋत्विग्भिः धूतः आधूतोऽदाभ्यग्रह आधवनेन संस्कृतः अश्नैः अश्मभिर्ग्रावभिः करणभूतैः सुतः अध्वर्युभिरभिषुतः अव्यः अवेर्मेषस्य वारैः वालैः परिपूतः । दशापवित्रस्य नाभिभूतया ऊर्णास्तुकया हि सोमः परिपूयते । तदुक्तं भगवता आपस्तम्बेन-- शुक्लामूर्णास्तुकां यजमानाय प्रयच्छति तां शकटे दशापवित्रस्य नाभिं कुरुते शुक्लं वलक्ष्याः पवित्रममोतं भवति' इति । नदीषु नदनास्वप्सु अश्वो न अश्व इव निक्तः निर्णिक्तः शोधितः । यथाप्सु स्नातोऽश्वोऽपगतमलः सन् दीप्तो भवति एवं वसतीवर्याख्याभिरद्भिरभिषुतः सोमो दीप्तो भवतीत्यर्थः। ईदृशो यः सोमः ‘तं ते यवम्' इत्युत्तरया संबन्धः ॥
Washed by the men, pressed out with stones, strained through the filter made of wool,
'Tis like a courser bathed in stream.
Rinsed by men, pressed by stones, purified by the sheep’s fleece,
washed like a horse in the rivers—
Steingepresst, gespült von Männern, und durch Widders Fell gereinigt, Rossen gleich im Strom gebadet.
Von den Männern geschüttelt, von den hungrigen Steinen ausgepreßt, mit Schafhaaren geseiht, wie ein Roß im Flußwasser geschwemmt;
Мужами прополосканный, выжатый камнями,
Через цедилки из овечьей шерсти процеженный,
Словно конь, выкупанный в речных потоках:
तं᳓ ते य᳓वं य᳓था गो᳓भिः
स्वादु᳓म् अकर्म +++(=अकार्ष्म)+++ श्रीण᳓न्तः +++(=मिश्रयन्तः)+++।
इ᳓न्द्र त्वा ऽस्मि᳓न्त् सधमा᳓दे +++(=सहमदने यज्ञे ([आह्वयामि])+++) ३
तं पूर्वोक्तगुणं सोमं हे इन्द्र ते त्वदर्थं यवं यथा यवमयं सवनीयपुरोडाशमिव गोभिः गवि भवैः क्षीरादिभिः श्रयणद्रव्यैः श्रीणन्तः मिश्रीकुर्वन्तः स्वादु रसत्वेन स्वादनीयम् अकर्म अकार्ष्म । करोतेर्लुङि ‘मन्त्रे घस' इति च्लेर्लुक् । यस्मादेवं तस्मात् हे इन्द्र त्वा त्वां तादृशं सोमं पातुम् अस्मिन् वर्तमाने सधमादे सहमदने यज्ञे आह्वयामीति शेषः ॥
This juice have we made sweet for thee like barley, blending it with milk.
Indra, I call thee to our feast.
Preparing it with cows [=milk], we have made it sweet for you, like barley (enjoyed) by cows.
Indra, (we have made) you (to be) at this joint revelry.
Mischend haben wir versüsst ihn jetzt mit Milch wie Gerstenkuchen, Indra, dir bei diesem Feste.
Den haben wir dir süß gemacht, ihn wie Gerste mit Kuhmilch mischend. Indra, dich lade ich zu diesem Opfergelage.
Его для тебя мы сделали вкусным,
Смешивая, словно ячмень с молоком.
О Индра, (мы зовем) тебя на это совместное пиршество.
इ᳓न्द्र इ᳓त् सोमपा᳓ ए᳓क
इ᳓न्द्रः सुतपा᳓ विश्वा᳓युः
अन्त᳓र् देवा᳓न् म᳓र्तियांश् च
इन्द्र इत् इन्द्रः एकः एव देवान् मर्त्यान् मनुष्यान् च अन्तः मध्ये देवेषु च मध्ये सोमपाः कृत्स्नस्य सोमस्य पाता । नान्ये । ते ह्येकदेशभाजः । अत एव सुतपाः सुतस्याभिषुतस्यास्मदीयस्य सोमस्य कार्त्स्येन पाता । इन्द्रः एक एव विश्वायुः । स चेन्द्रः सर्वान्नो भवति । धानाकरम्भादिहवींषि सवनेष्विन्द्रायैव हूयन्ते तदभिप्रायेणेदमुच्यते । अत एवंविध इन्द्रोऽस्मदीयं हविः स्वीकरोत्वित्यर्थः ॥
Beloved of all, Indra alone drinks up the flowing Soma juice
Among the Gods andmortal men.
It’s just Indra who is the lone drinker of soma, Indra the lifelong drinker of the pressings
among gods and mortals,
Indra ist allein der Trinker, der erfreunde Somaschlürfer Unter Sterblichen und Göttern.
Indra ist der alleinige Somatrinker, Indra der lebenslängliche Safttrinker unter Göttern und Menschen.
Это Индра – тот, кто один пьет сому,
Индра пьет выжатый (сок) весь век
Среди богов и смертных!
न᳓ यं᳓ शुक्रो᳓ न᳓ दु᳓राशीर्
न᳓ तृप्रा᳓ उरुव्य᳓चसम्
अपस्पृण्वते᳓ सुहा᳓र्दम्
उरुव्यचसं विस्तीर्णव्यापनं सुहार्दं सुहृदयं यम् इन्द्रं शुक्रः रसाधिक्येन दीप्तः सोमः न अपस्पृणुते।' स्पृ प्रीतिबलयोः'। अत्रोपसर्गवशात् प्रीत्यभावे वर्तते । नञा च प्रीत्यभावो निवार्यते । न प्रीणयतीति न अपि तु प्रीणयत्येव । तथा दुराशीः दुःखेन निष्पाद्याशीराश्रयणद्रव्यं यस्य तार्तीयसवनिकस्य सोमस्य सोऽपि यमिन्द्रं न अपस्पृणुते प्रीणयत्येव । तृप्राः तर्पका अन्ये चरुपुरोडाशादयश्च यमिन्द्रं न अपस्पृण्वते न न प्रीणयन्ति अपि तु प्रीणयन्त्येव तमिन्द्रं स्तुम इति शेषः । यद्वा । अप इत्युपसर्गों धात्वर्थानुवादकः । यमिन्द्रं शुक्रादयो नापस्पृण्वते न प्रीणयन्ति । उरुव्यचसमिति हेतुगर्भविशेषणम् । यतोऽयमिन्द्र उरुव्यचा विस्तीर्णव्याप्तिकः अतः कारणादपर्याप्ताः सन्तः शुक्रादयः प्रीणयितुं न शक्नुवन्तीति भावः ॥ ॥ १७ ॥
The Friend, whom not the brilliant-hued, the badly-mixt or bitter draught,
Repels, the far-extending God;
Whom neither the clear [=unmixed] nor the poorly mixed nor the (juices) that are sharp
keep away—him of broad extent whose heart is good—
Den nicht dünnes, schlechtgemischtes, schäumendes Gebräu erfreuet, Ihn, den breiten, wohlbeleibten,
Den weder der klare, noch der schlechtgemischte noch die scharfen Somasäfte abstoßen, den Geräumigen mit dem guten Herzen.
(Тот,) кого ни чистый, ни плохо смешанный (сома),
Ни терпкие (соки) не отвращают,
(Его,) огромного с крепким сердцем:
गो᳓भिर् य᳓द् ईम् अन्ये᳓ अस्म᳓न्
मृगं᳓ न᳓ व्रा᳓ मृग᳓यन्ते
अभित्स᳓रन्ति धेनु᳓भिः
यत् ये अस्मत् अस्मत्तः अन्ये ऋत्विग्यजमानाः ईम् एनमिन्द्रं गोभिः गवि भवैः क्षीरादिभिः संस्कृतैः सोमैः सहिताः सन्तः मृगयन्ते अन्विष्यन्ते । तत्र दृष्टान्तः । व्राः वरीतारो जालादिभिरुपायैर्निरुन्धाना व्याधाः मृगं न यथा मृगमन्विष्यन्ति तद्वदनाधिकारिण एव बलादिन्द्रस्यान्वेषणे वर्तन्त इत्यर्थः । ‘मृग अन्वेषणे ' इति धातुः । ये च जनाः धेनुभिः । धेनुरिति वाङ्नाम । वाग्भिः स्तुतिभिश्च अभित्सरन्ति अभिमुखं कुत्सितं गच्छन्ति । सम्यक् स्तोतुं न शक्नुवन्तीत्यर्थः । ‘ त्सर च्छद्मगती । तथाविधा जना इन्द्रं नोपलभन्त इत्यर्थः ॥
While other men than we with milk chase him as hunters chase a deer,
And with their kine inveigle him.
When those other than us go hunting him with cows, like
(self-)choosing women hunting (husbands),
and creep up on him with their milk-cows.
Wenn ihn wie ein Reh die Treiber, andere als wir erjagen, Und ihn mit der Milch beschleichen.
Wenn auch andere als wir mit den Kühen auf ihn Jagd machen wie Lockweibchen auf ein Wild, mit Milchkühen nach ihm pirschen.
Когда же другие, а не мы, с коровьим молоком
Охотятся (за ним), словно толпа (охотников) за диким зверем,
Подкрадываются со (своими) дойными коровами:
त्र᳓य इ᳓न्दरस्य+ सो᳓माः
सुता᳓सः सन्तु देव᳓स्य
सुवे᳓ क्ष᳓ये सुतपा᳓व्नः
देवस्य दानादिगुणयुक्तस्य इन्द्रस्य पानार्थं त्रयः सवनत्रयरूपेण त्रिधा वर्तमानाः स्वे क्षये स्वकीये यज्ञगृहे सुतासः अभिषुताः सन्तु भवन्तु । सुतपाव्नः । हेतुगर्भविशेषणमेतत् । यस्मादयमिन्द्रोऽभिषुतस्यैव सोमस्य पाता तस्मादभिषुताः सन्त्वित्यर्थः ॥ ।
For him, for Indra, for the God, be pressed three draughts of Soma juice
In the juice-drinker's own abode.
Let the three somas be pressed for the god Indra,
for the soma-drinker in (our) own dwelling.
Dreifach sei gebraut dem Indra Somasaft dem Somatrinker, Ihm, dem Gott, im eignen Sitze.
Dreierlei Soma´s sollen dem Gott Indra gepreßt werden, im eigenen Hause des Somatrinkers!
Три вида сомы для Индры –
Бога должны выжиматься
В собственном доме для того, кто пьет сому.
त्र᳓यः को᳓शास श्चोतन्ति
तिस्र᳓श् चमु᳓वः सु᳓पूर्णाः
समाने᳓ अ᳓धि भा᳓र्मन्
त्रयः त्रिसंख्याकाः कोशासः कोशाः सोमस्याश्रयभूता द्रोणकलशपूतभृदाधवनीयाख्याः श्चोतन्ति क्षरन्ति । इन्द्रार्थं सोमं स्रावयन्ति । तिस्रः त्रिविधाः सवनत्रये वर्तमानाः चम्वः चमसाश्च सुपूर्णाः इन्द्रयागाय सोमैः सुपूरिता आसन् । एतत्सर्वं कुत्रेति चेदुच्यते । समाने एकस्मिन्नेव भार्मन् भर्मणि भरे ऋत्विग्भिर्भ्रियमाणे यज्ञे । अधि सप्तम्यर्थानुवादी ॥
Three reservoirs exude their drops, filled are three beakers to the brim,
All for one offering to the God.
Three buckets drip and three cups are well filled
at the same presentation.
Drei der Krüge stehen triefend, drei der Schalen ganz gefüllet, Sie, vereint auf einer Trage.
Drei Eimer laufen über, drei Kufen sind vollgefüllt bei ein und derselben Darbringung.
Три ведра сочатся,
Три жертвенные ложки переполнены
При одном и том же приношении.
शु᳓चिर् असि पुरुनिष्ठाः᳓
क्षीरइ᳓र् मध्यत᳓ आ᳓शीर्तः
दध्ना᳓ म᳓न्दिष्ठः शू᳓रस्य
हे सोम त्वं शुचिरसि । दशापवित्रेण शोधितो भवसि । स त्वं पुरुनिष्ठाः पुरुषु बहुषु पात्रेषु ग्रहचमसादिषु निःशेषेण स्थाता मध्यतः मध्ये मैत्रावरुणग्रहादौ क्षीरैः पयःप्रभृतिभिः श्रयणद्रव्यैः आशीर्तः मिश्रणेन संस्कृतः । तृतीये सवने दध्ना चाशीर्तः । एवंभूतस्त्वं शूरस्य विक्रान्तस्येन्द्रस्य मन्दिष्ठः मादयितृतमो भव ॥
Pure art thou, set in many a place, and blended in the midst with milk
And curd, to cheer the Hero best.
You are clear, outstanding among many; (and you are) mixed with milk in the middle;
and (you, mixed) with curd, (are) the most invigorating for the champion.
Rein bist du, vor vielen herrlich, Soma, ganz mit Milch durchquirlet, Molkenreich zur Lust dem Helden.
Du bist der Reine, auf viele Becher verteilt, in der Mitte ist der mit Milch gemischte, der mit saurer Milch ist für den Helden der berauschendste.
Ты чистый, находящийся во многих (сосудах),
Посредине (тот,) что смешан с молоком,
(А тот, что) с кислым молоком, – самый пьянящий для героя.
इमे᳓ त इन्द्र सो᳓मास्
तीव्रा᳓ अस्मे᳓ सुता᳓सः
शुक्रा᳓ आशि᳓रं याचन्ते
हे इन्द्र ते त्वदीयाः इमे सोमाः तीव्राः तीव्रमदाः अस्मे अस्माभिरध्वर्युभिः सुतासः अभिषुताः शुक्राः शुद्धाः सन्तः आशिरं क्षीरादिकं श्रयणद्रव्यं त्वां याचन्ते । ताञ्छ्रीणीहीत्युत्तरत्रान्वयः ॥ ॥ १८ ॥
Here, Indra, are thy Soma-draughts pressed out by us, the strong, the pure:
They crave admixture of the milk.
These soma-drinks are yours, Indra, the sharp ones pressed among us. The clear ones beg for the milk mixture.
Indra, diese deine scharfen dir von uns gepressten Tränke Suchen Milchgemisch, die klaren.
Diese scharfen Somatränke sind für dich, Indra, bei uns gepreßt. Die Klaren verlangen nach Milchmischung.
Эти резкие соки сомы, о Индра,
Выжаты у нас для тебя.
Прозрачные, они просят добавления молока.
ताँ᳓ आशि᳓रम् पुरोळा᳓शम्
इ᳓न्द्रेमं᳓ सो᳓मं श्रीणीहि
रेव᳓न्तं हि᳓ त्वा शृणो᳓मि
हे इन्द्र तान् पूर्वोक्तान् सोमान् आशिरं श्रयणद्रव्यं च क्षीरादिकं श्रीणीहि मिश्रय यागार्थम् । तदनन्तरं पुरोळाशं धानाकरम्भादिलक्षणं सवनीयपुरोडाशम् इमम् अस्मदीयं सोमं च श्रीणीहि मिश्रय । प्रथमं भक्षितं पुरोळाशं पश्चात्पीतेन सोमेन संयोजयेत्यर्थः । तव प्रार्थने को हेतुरिति चेत् । हि यस्मात् रेवन्तं रयिमन्तम् । ‘ रयेर्मतौ बहुलम्' इति संप्रसारणम् । बहुलधनं त्वां शृणोमि त्वं बहुधन इति सर्वत्र श्रूयते अतः कारणात् त्वामेव प्रार्थयामहे ॥
O Indra, pour in milk, prepare the cake, and mix the Soma-draught.
I hear them say that thou art rich.
Prepare these: the milk mixture, the offering cake, and this soma here, o Indra,
for I hear that you are endowed with riches.
Diesen Milchguss, diesen Kuchen und den Soma, Indra, mische; Denn ein reicher bist du, hör' ich.
Mische diese, die Milch, den Reiskuchen und diesen Soma, o Indra, denn ich höre, du seiest reich!
Смешивай их: добавление молока,
Жертвенную лепешку, о Индра, этого сому!
Ведь я слышу, что ты богат.
हृत्सु᳓ पीता᳓सो युध्यन्ते
दुर्म᳓दासो न᳓ सु᳓रायाम्
ऊ᳓धर् न᳓ नग्ना᳓ जरन्ते
हे इन्द्र पीतासः त्वया पीताः सोमाः हृत्सु हृदयेषु त्वदीयेषु युध्यन्ते । परस्परं संप्रहारं कुर्वते । तत्र दृष्टान्तः । सुरायां पीतायां जायमानाः दुर्मदासो न । दुष्टमदा यथा पातारं मादयन्ति तद्वत्त्वां मादयितुं परस्परं युध्यन्त इत्यर्थः। अपि च । ग्नाश्छन्दांसि । तानि न जहतीति नग्नाः स्तोतारः । ते च ऊधर्न पयसा पूर्णं गवादेरूध इव सोमपूर्णं त्वां जरन्ते स्तुवन्ति । जरतिः स्तुतिकर्मा ॥
Quaffed juices fight within the breast. The drunken praise not by their wine,
The naked praise not when it rains.
When they have been drunk, they fight each other within the heart, like those badly intoxicated on liquor.
Like the naked in the cold they stay awake.
Die hineingetrunknen kämpfen, wie berauscht vom Suratranke, Nahn der Brust wie nackte Kinder.
Im Herzen getrunken kämpfen die Somatränke wie die in Branntwein bezechten Leute; wie Nackte in der Kälte bleiben sie wach.
Выпитые, они буянят в сердце,
Словно пьяницы в винном угаре.
Они воспевают вымя, как нагие (, просящие одежды).
रेवाँ᳓ इ᳓द् रेव᳓त स्तोता᳓
स्या᳓त् तुवा᳓वतो मघो᳓नः
प्रे᳓द् उ हरिवः श्रुत᳓स्य
हे हरिवः हरिवन् । मतुवसो रुः' इति नकारस्य रुत्वम् । हरी अश्वौ । तद्वन्निन्द्र रेवतः रयिमतो बहुधनोपेतस्य तव स्तोता रेवान् स्यात् रयिमान् भवेत् । इच्छब्दोऽवधारणे । धनवान् भवेदेव न तु दारिद्र्यं प्राप्नोति । उक्तमेवार्थं कैमुतिकन्यायेन द्रढयति । त्वावतः त्वत्सदृशस्य । ‘ युष्मदस्मद्यां । छन्दसि सादृश्य उपसंख्यानम् ' इति वतुप् । मघोनः मघवतो धनाढ्यस्य श्रुतस्य विश्रुतस्य सर्वत्र प्रख्यातस्यान्यस्यापि स्तोता प्रेदु । स्यात् इत्यनुषज्यते । प्रस्यात् । प्रभवेदेव न तु निहीयते । किमु वक्तव्यं तव स्तोता धनवान् भवेदेवेति ॥
Rich be the praiser of one rich, munificent and famed like thee:
High rank be his, O Lord of Bays.
Rich indeed should be the praiser of a rich benefactor like you,
and far(-famed) indeed (the praiser) of a famous one, o possessor of the fallow bays.
Reich soll sein des reichen Sänger, eines mächtigen wie du bist, Hochberühmter Herr der Füchse.
Reich sollte der Sänger eines Reichen und Freigebigen, wie du bist, sein; den Vorrang sollte der Sänger eines berühmten Herrn haben, o Falbenfahrer!
Богатым должен быть восхвалитель
У богатого и щедрого, как ты.
Впереди (всех он дол жен быть) у знаменитого, о хозяин буланых коней.
उक्थं᳓ चन᳓ शस्य᳓मानम्
अ᳓गोर् अरि᳓र् आ᳓ चिकेत
न᳓ गायत्रं᳓ गीय᳓मानम्
गायतेर्गौः । अगोः अस्तोतुः अरिः शत्रुरिन्द्रः शस्यमानं होत्रा पठ्यमानम् उक्थं चन शस्त्रमपि। आ चिकेत अभिजानाति । कित ज्ञाने'। छान्दसो लिट् । नेति संप्रत्यर्थे । न संप्रति प्रस्तोत्रादिभिः गीयमानं गायत्रं गातव्यं साम यद्वा गायत्राख्यमपि चिकेतेत्येव । अतः कारणात् वयमपि तमिन्द्रं स्तुम इत्यर्थः ॥
Foe of the man who adds no milk, he heeds not any chanted hymn
Or holy psalm that may he sung.
Never does the stranger pay attention to a solemn speech being recited if it comes from a man without cattle,
nor to a song being sung.
Das gesprochne Wort beachtet Indra nicht, des Opferlosen, Noch das Lied, das er ihm singet.
Ein hoher Herr hat noch nie, selbst nicht auf das Loblied geachtet, das ein der Rinder barer Sänger vorträgt, noch auf sein gesungenes Lied.
Благочестивый никогда не предназначал для бескоровного
Ни произносимый гимн,
Ни исполняемую песню.
मा᳓ न इन्द्र पीयत्न᳓वे
मा᳓ श᳓र्धते प᳓रा दाः
शि᳓क्षा शचीवः श᳓चीभिः
हे इन्द्र त्वं पीयत्नवे। पीयतिर्वधकर्मा । वधशीलाय हिंसाकारिणे शत्रवे नः अस्मान् मा परा दाः मा परित्याक्षीः । मा च शर्धते अभिभवित्रे अस्मान् मा परा दाः । ‘ शृधु प्रसहने ' इति धातुः। अपि तु हे शचीवः शक्तिमन्निन्द्र शचीभिः आत्मीयैः कर्मभिः शिक्ष अस्माननुशाधि । यद्वा । शिक्षतिर्दानकर्मा । अभीष्टं धनमस्मभ्यं देहि । यद्वा। शत्रून् जेतुं शिक्ष शक्तान् कर्तुमिच्छ । शकेः सनन्तस्य ‘ सनि मीमा' इति इसादेशेऽभ्यासलोपे च कृते लोटि रूपमेतत् ॥ ॥ १९ ॥
Give us not, Indra, as a prey unto the scornful or the proud:
Help, Mighty One, with power and might.
Don’t hand us over to a taunter, Indra, nor to one who vaunts himself.
Do your best (for us), able one, with your abilities.
Uebergib uns nicht dem Hasser, noch dem frechen, der uns trotzet, Stärke, starker, uns mit Stärke.
Gib uns, Indra, nicht dem Hohnsprecher noch dem Überheblichen preis! Strenge dich nach deiner Macht an, du Mächtiger!
Не выдай нас ни оскорбителю,
О Индра, ни кичливому!
Соберись с силами, о сильный!
वय᳓म् उ त्वा तदि᳓दर्था
इ᳓न्द्र त्वाय᳓न्तः स᳓खायः
क᳓ण्वा उक्थे᳓भिर् जरन्ते
हे इन्द्र त्वायन्तः त्वामात्मन इच्छन्तः सखायः समानख्यानाः वयं तदिदर्थाः यत्त्वद्विषयं स्तोत्रं तदित्तदेवार्थः प्रयोजनं येषां तादृशाः सन्तः त्वा त्वां जरामहे स्तुमहे । उ इति पूरणः । कण्वाः कण्वगोत्रोत्पन्ना अस्मदीयाः पुत्रादयश्च उक्थेभिः उक्थैः शस्त्रैः जरन्ते त्वां स्तुवन्ति ॥
This, even this, O Indra, we implore. as thy devoted friends,
The Kanvas praise thee with their hymns.
We have just this aim: as comrades devoted to you, Indra,
the Kaṇvas sing to you with their solemn words.
Kanva's Enkel, deine treuen Freunde, hierauf nur gerichtet, Preisen, Indra, dich mit Sprüchen.
Wir, deine ergebenden Freunde, die nur dies eine Ziel haben, o Indra, die Kanviden besingen dich mit Lobgedichten.
Мы же, преданные тебе друзья,
О Индра, имеем только такую цель:
Канвы воспевают (тебя) гимнами.
न᳓ घेम् अन्य᳓द् आ᳓ पपन
व᳓ज्रिन्न् अप᳓सो न᳓विष्टौ
त᳓वे᳓द् उ स्तो᳓मं चिकेत
हे वज्रिन् वज्रवन्निन्द्र अपसः अपस्विनः कर्मवतः तव संबन्धिनि नविष्टौ अभिनवे यागे वर्तमानोऽहम् अन्यत् त्वद्विषयादन्यत् स्तोत्रं न घें नैव आ पपन अभिष्टौमि । पनतेः स्तुतिकर्मण उत्तमे णलि लिटि रूपम् । अपि तु तवेदु तवैव स्तोमं स्तोत्रं चिकेत अभिजानामि । त्वामेव सर्वदा स्तौमीत्यर्थः ॥
Naught else, O Thunderer, have I praised in the skilled singer's eulogy:
On thy land only have I thought.
I express admiration at nothing else, mace-bearer. Like workmen at their labor,
it’s just your praise song to which I pay attention.
Auf nichts andres sinn' und denk' ich, Blitzer, bei dem Preis des Dichters, Nur dein Leib ist mein Gedanke.
Nicht schlage ich etwas anderes hoch an, du Keulenträger, bei der Neuheit des Dichterwerkes: nur auf dein Lob bin ich bedacht.
Ничего другого я не ставил высоко,
О громовержец, при создании нового произведения.
Только тебе я замышлял хвалу.
इछ᳓न्ति देवाः᳓ सुन्व᳓न्तं
न᳓ स्व᳓प्नाय स्पृहयन्ति
य᳓न्ति प्रमा᳓दम् अ᳓तन्द्राः
सुन्वन्तं सोमाभिषवं कुर्वन्तं यजमानं देवाः इन्द्रादयः सर्वे इच्छन्ति रक्षितुम् । स्वप्नाय न स्पृहयन्ति । स्वप्नावस्थां तस्य सुन्वतो नेप्सन्ति । सर्वदा प्रबुद्धमेव कुर्वन्तीत्यर्थः । ‘ स्पृहेरीप्सितः' (पा. सू. १. ४. ३६ ) इति कर्मणि चतुर्थी। ‘स्पृह ईप्सायाम् । चुरादिरदन्तः । यत एवमतः कारणात् अतन्द्राः अनलसा देवाः प्रमादं प्रकर्षेण मदकरं तदीयं सोमं यन्ति प्राप्नुवन्ति ॥
The Gods seek him who presses out the Soma; they desire not sleep
They punish sloth unweariedly.
The gods seek a presser. They are not eager for sleep.
Tireless, they go to exhilaration.
Götter wünschen Somapresser, nicht begehren sie des Schlummers, Rastlos eilen sie zum Rausche.
Die Götter suchen einen, der Soma braut; nicht bedürfen sie des Schlafes; unermüdlich gehen sie auf Reisen.
Боги ищут выжимающего (сому),
Они не стремятся ко сну:
Безустали идут они навстречу опьянению.
ओ᳓ षु᳓ प्र᳓ याहि वा᳓जेभिर्
मा᳓ हृणीथा अभि᳓ अस्मा᳓न्
महाँ᳓ इव यु᳓वजानिः
हे इन्द्र वाजेभिः वाजैरस्मभ्यं दातव्यैरन्नैः सार्धम् अस्मान् अभि आभिमुख्येन सु सुष्ठु प्र प्रकर्षेण ओ आ उ याहि शीघ्रमायाह्येव आगच्छैव । मा हृणीथाः मा क्रुध्यस्व । हृणीयतिः क्रुध्यतिकर्मा । यद्वा मा लज्जां प्राप्नुहि । ‘हृणीङ् लज्जायाम्' इति कण्ड्वादौ पठ्यते । तत्र दृष्टान्तः । महानिव युवजानिः। युवतिर्जाया यस्य स तथोक्तः। ‘जायाया निङ्' इति समासान्तो निङादेशः । ईदृशो महान् गुणैरधिकोऽपि यथा स्वभार्यां प्रति निर्लज्जः सन् शीघ्रं गच्छति तद्वत् ॥
Come hither swift with gifts of wealth - be not thou angry with us-like
A great man with a youthful bride.
Drive forth here with prizes. Stop being angry at us,
like a great man with a young wife.
Komme schnell zu uns mit Gaben, wie ein reicher, neuvermählter; Nicht sei wider uns erzürnet.
Komm fein her mit deinen Belohnungen; sei auf uns nicht ärgerlich wie ein alter Mann, der eine junge Frau hat!
Уверенно иди вперед с наградами!
Не сердись на нас,
Как великий (человек,) имеющий юную жену!
मो᳓ षु᳓ अद्य᳓ दुर्ह᳓णावान्
सायं᳓ करद् आरे᳓ अस्म᳓त्
अश्रीर᳓ इव जा᳓माता
दुर्हणावान् । परैर्दुःसहहननं दुर्हणम् । तद्वानिन्द्रः अद्य इदानीम् अस्मत् आरे अस्माकं समीप आगच्छतु । सु सुष्ठु अतिशयेन सायं दिवसस्यावसानं सायंकालं मो करत् मा कार्षीत् । करोतेर्माङि लुङि ‘ कृमृदृरुहिभ्यः' इति च्लेरङादेशः । जामाता । जायत इति जा अपत्यम् । तस्य निर्माता दुहितुः पतिः । अश्रीरइव । न श्रीरश्रीः । तदस्यास्तीत्यश्रीरः । मत्वर्थीयो रः । गुणैर्विहीनः कुत्सितो जामातासकृदाहूयमानोऽप्यासायंकालं विलम्बते । तद्वत्त्वं कालविलम्बं मा कृथा इत्यर्थः ॥ ॥ २० ॥
Let him not, wrathful with us, spend the evening far from us to-day,
Like some unpleasant son-in-law.
Let him not (be) filled with evil rage. Will he spend his evening at a distance from us
like a son-in-law down on his luck?
Nicht verweil er übelwollend fern von uns am heut'gen Abend wie ein widerwärt'ger Eidam.
Nicht möge er heute in Ungnaden fern von uns Einkehr halten wie ein unfeiner Tochtermann.
Да не заедет он сегодня,
Полный недоброжелательства, далеко от нас,
Словно непочтительный зять!
विद्मा᳓ हि᳓ अस्य वीर᳓स्य
भूरिदा᳓वरीं सुमति᳓म्
त्रिषु᳓ जात᳓स्य म᳓नांसि
अस्य इन्द्रस्य वीरस्य विक्रान्तस्य भूरिदावरीं बहुधनस्य दात्रीं सुमतिं कल्याणीं मतिमनुग्रहबुद्धिं विद्मा हि जानीमः खलु । तथा त्रिषु भूम्यादिषु त्रिषु लोकेषु जातस्य तत्कार्यार्थं प्रादुर्भूतस्य मनांसि हृदयानि च जानीमः । अतस्तस्येन्द्रस्य यथा प्रीतिर्जनिष्यते तथा स्तोत्रं कुर्म इत्यर्थः ॥
For well we know this Hero's love, most liberal of the boons he gives,
His plans whom the three worlds display.
For we know the much-giving benevolence of him,
the hero,
and the thoughts of him who was born in the three.
Denn wir kennen dieses Helden gabenreiche Gunsterweisung, Des dreifach gebornen Güte.
Wir kennen ja seine vielschenkende Gnade, des Helden, die Gesinnung des an drei Orten Geborenen.
Ведь мы знаем милость этого героя,
Влекущую за собой обильное дарение,
Мысли (этого) рожденного в трех (местах).
आ᳓ तू᳓ षिञ्च क᳓ण्वमन्तं
न᳓ घा विद्म शवसाना᳓त्
यश᳓स्तरं शत᳓मूतेः
हे अध्वर्यो कण्वमन्तम् । कणतिः शब्दकर्मा । कण्वाः स्तोतारः । यद्वा । कण्वगोत्रा ऋषयः ॥ तैर्युक्तमिन्द्रमुद्दिश्य तु क्षिप्रम् आ सिञ्च सोमं जुहुधि। शवसानात् । शवो बलम् । तदिवाचरतोऽतिबलात् शतमूतेः । शतं बहुनामैतत् । बह्व्य ऊतयो रक्षा यस्मिन् स शतमूतिः । तादृशादस्मादिन्द्रात् यशस्तरं यशस्वितरं पुरुषं न घ नैव विद्म जानीमः । अतस्तमेवोद्दिश्य सोमं जुहुधीत्यर्थः ॥
Pour forth the gift which Kanvas bring, for none more glorious do we know
Than the Strong Lord with countless aids.
Pour here the Kaṇvas’ (soma). We know no one more glorious than him swelling with strength,
than him who has a hundred forms of help.
Giess ihm ein den Trank der Kanva's; denn wir kennen keinen bessern, Als den starken labungsreichen.
Schenke doch den Soma ein, bei dem Kanviden als Sänger sind! Wir kennen keinen Angeseheneren als den Gewaltigen, der hundert Hilfen hat.
Налей же хозяину канвов!
Не знаем мы более славного,
Чем сильный с сотней поддержек.
ज्ये᳓ष्ठेन सोतर् इ᳓न्द्राय
सो᳓मं वीरा᳓य शक्रा᳓य
भ᳓रा पि᳓बन् न᳓रियाय
हे सोतः अभिषोतरध्वर्यो वीराय विक्रान्ताय शक्राय शक्तियुक्ताय नर्याय नृभ्यो हिताय इन्द्राय ज्येष्ठेन मुख्येनैन्द्रवायवग्रहेण । स हि धाराग्रहाणां मध्ये ज्येष्ठः । तेन सोमं भर हर आहर । वीर्यं प्रापय । स चेन्द्रः पिबत् तं सोमं पिबतु । ।
O presser, offer Soma first to Indra, Hero, Sakra, him
The Friend of man, that he may drink;
With the most superior (might), o presser, bring the soma to Indra, to the able hero.
He will drink for manly strength—
Bring im grössten Fass, o Presser, Soma dar dem starken Helden, Indra trinke Manneskraft sich,
Mit dem besten Schoppen bring, du Presser, dem Manne Indra, dem Mächtigen, den Soma, daß er trinke, dem Mannhaften!
В лучшем (кубке) выжимальщик, для Индры,
Могучего героя, принеси сом'у,
Чтобы он пил для мужества!
यो᳓ वे᳓दिष्ठो अव्यथि᳓षु
अ᳓श्वावन्तं जरितृ᳓भ्यः
वा᳓जं स्तोतृ᳓भ्यो गो᳓मन्तम्
यः इन्द्रः अव्यथिषु अव्यथथितृषु सुखकरेषु स्तोतृषु वेदिष्ठः अतिशयेन वेदिता कृतस्य स्तोत्रस्य ज्ञाता स इन्द्रः जारितृभ्यः शंसितृभ्यो होत्रादिभ्यः स्तोतृभ्यः प्रस्तोत्रादिभ्यश्च अश्वावन्तं बहुभिरश्वैरुपेतं गोमन्तं बहुभिर्गोंभिरुपेतं सन्त वाजम् अन्नं बलं वा ददातीति शेषः ॥
Who, in untroubled ways, is best provider, for his worshippers.
Of strength in horses and in kine.
He who among the unwavering is the best at finding the prize that brings horses for the singers,
that brings cattle for the praisers.
Der auf sich'rer Bahn am meisten Labung schafft an Ross und Rindern, Seinen Sängern, die ihn preisen.
Der unter den nie Fehlgehenden am besten den in Rossen und Rindern bestehenden Gewinn für Sänger, für Lobsinger ausfindig macht.
Кто среди не знающих колебаний (богов) лучше всех находит
Для воспевателей награду, состоящую из коней
(И) из коров – для (своих) восх валителей...
प᳓न्यम्-पन्यम् इ᳓त् सोतार
आ᳓ धावत म᳓दियाय
सो᳓मं वीरा᳓य शू᳓राय
हे सोतारः अभिषोतारोऽध्वर्यवः मद्याय मादयितव्याय वीराय विक्रान्ताय शूराय शौर्यवत इन्द्राय पन्यंपन्यमित् सर्वत्र स्तुत्यमेव सोमम् आ धावत अभिगमयत । प्रयच्छतेत्यर्थः ॥ ॥ २१ ॥
Pressers, for him blend Soma juice, each draught most excellent, for him
The Brave, the Hero, for his joy.
Pressers, rinse the soma that is ever to be admired for the one to be exhilarated,
for the hero, the champion.
Schönen, schönen Trank, o Presser, füllet ein dem starken Helden, Soma ihm zum lust'gen Rausche.
Rühret Soma an, stets kostbaren, ihr Presser, für den rauschliebenden starken Mann!
Выжимальщики, размешивайте
Самого удивительного сому
Для любящего опьянение отважного героя!
पा᳐᳓ता वृत्रहा᳓ सुत᳓म्
आ᳓ घा गमन् ना᳓रे᳓ अस्म᳓त्
नि᳓ यमते शत᳓मूतिः
सुतम् अभिषुतं सोमं पाता पानशीलः । ताच्छीलिकस्तृन् । ‘न लोकाव्यय° ' इति कर्मणि षष्ठ्याः प्रतिषेधः । वृत्रहा वृत्रस्यासुरस्य हन्तेन्द्रः आ गमत् । घ इत्यवधारणे । आगच्छत्वेव अस्मत् अस्मत्तः आरे दूरदेशे मा भवतु । आगत्य च शतमूतिः बहुविधरक्षण इन्द्रः नि यमते अस्मदीयाञ्छत्रून्नियच्छतु तिरस्करोतु । यद्वा धनान्यस्मभ्यं नियच्छतु ददातु ॥
The Vrtra-slayer drinks the juice. May he who gives a hundred aids
Approach, nor stay afar from us.
The Vr̥tra-smasher, the drinker of the pressed (soma) will come. Not far from us
will he stop, the one with a hundred forms of help.
Soma trinkend komm er zu uns, nicht sei fern der Vritratödter, Reich an Hülfen kehre ein er.
Der Vritratöter, der den Soma trinkt, soll doch kommen! Nicht möge er fern von uns anhalten, der hundert Hilfen hat.
Убийца Вритры, пьющий выжатого (сому),
Пусть же он придет! Неподалеку от нас
Пусть задержится он с сотней поддержек!
ए᳓ह᳓ ह᳓री ब्रह्मयु᳓जा
शग्मा᳓ वक्षतः स᳓खायम्
गीर्भिः᳓ श्रुतं᳓ गि᳓र्वणसम्
(“ब्रह्मयुजा ब्रह्मणा मन्त्रेण स्तोत्रेण हविषा वा युज्यमानौ शग्मा शग्मौ सुखकरौ शक्तौ वा ईदृशौ हरी अश्वौ इह अस्मिन् यज्ञे सखायं समानख्यानं मित्रभूतमिन्द्रम् आ वक्षतः आवहताम् । कीदृशमिन्द्रम् । गीर्भिः स्तुतिभिः श्रुतं प्रख्यापितमाहात्म्यं गिर्वणसं गिरां संभक्तारं स्तुतिभिः संभजनीयं वा ॥ )
May the strong Bay Steeds, yoked by prayer, bring hither unto us our Friend,
Lover of Song, renowned by songs.
Here, just here will his two capable fallow bays, yoked by the sacred formulation, carry our comrade,
famed through songs, longing for songs.
Starke, liedgeschirrte Rosse mögen bringen den Genossen, Den berühmten liederfreuten.
Hierher sollen den Freund die durch Beschwörungswort geschirrten tüchtigen Falben fahren, den durch Lobreden Berühmten, Lobbegehrenden.
Сюда пусть привезут двое буланых коней,
Мощных, запрягаемых священным словом,
Друга, прославленного в песнях, любящего песни!
स्वाद᳓वः सो᳓मा आ᳓ याहि
श्रीताः᳓ सो᳓मा आ᳓ याहि
शि᳓प्रिन्न् ऋ᳓षीवः श᳓चीवो
ना᳓य᳓म् अ᳓छा सधमा᳓दम्
हे शिप्रिन् । शिप्रं शिरस्त्राणम् । यद्वा । शिप्रे हनु नासिके वा । तद्वन् हे ऋषीवः ऋषिभिः स्तोतृभिर्युक्त शचीवः शक्तिमन् एवंभूत हे इन्द्र अस्मदीया इमे सोमाः स्वादवः । अभिषवादिभिः संस्कृतत्वेनास्वादनार्हा जाताः । अतस्त्वम् आ याहि आगच्छ। तथा ते सोमाः श्रीताः पयआदिभिः श्रयणद्रव्यैर्मिश्रिताः संस्कृताः । अतोऽपि आ याहि आगच्छ । नेति संप्रत्यर्थे । न संप्रति अयं स्तोता सधमादं सह मादयितव्यं त्वाम् अच्छ अभिमुखं स्तौतीति शेषः । अतोऽप्यायाहीत्यर्थः ॥
Sweet are the Soma juices, come! Blent are the Soma juices, come!
Rsi-like, mighty, fair of cheek, come hither quickly to the feast.
The soma juices are sweet: drive here! The soma juices are
prepared: drive here—
o you with (lovely) lips, accompanied by the seers, possessed of ability—on your own to the landing site, to the joint revelry.
Süss sind diese Tränke, komme, starker Trinker, Sänger liebend Zu dem neuen Rauschgelage.
Süß sind die Soma´s, komm her! Gemischt sind die Soma´s, komm her in eigener Person zu dem Gelage, mit geöffneten Lippen, Rishiumgebener, Machtvoller!
Вкусны соки сомы – приезжай!
Готовы соки сомы – приезжай!
О прекрасногубый, повелитель риши, сильный –
Нет его здесь! – (приезжай) на совместное пиршество!
स्तु᳓तश् च या᳓स् त्वा व᳓र्धन्ति
महे᳓ रा᳓धसे नृम्णा᳓य
इ᳓न्द्र कारि᳓णं वृध᳓न्तः
हे इन्द्र कारिणं कर्मणां कर्तारं वृधन्तः वर्धयन्तो ये स्तुतः स्तोतारः याः च तदीयाः स्तुतयः त्वा त्वां वर्धन्ति वर्धयन्ति । किमर्थम् । महे महते राधसे धनाय नृम्णाय बलाय च । उभयोर्लाभार्थम् । ते तदुभयं लभन्त इत्यध्याहारः। यद्वा । उत्तरत्र ते सत्रा दधिरे शवांसि इति संबन्धः ॥
And lauds which strengthen thee for great bounty and valour, and exalt
Indra who doeth glorious deeds,
The praises that strengthen you for great generosity and manly action, o Indra, strengthening (you) as the decisive victor,
᳓
Die Gesänge, die dich stärken, grosse Manneskraft zu schenken, Mögen deinen Sänger segnen.
Die Lobgesänge, die dich erheben, zu großer Freigebigkeit und Mannestat den Siegesgewinner erhebend, o Indra,
И хвалы, которые тебя вдохновляют
На великое дарение, на мужественное деяние,
О Индра, вдохновляющие (также) певца,
गि᳓रश् च या᳓स् ते गिर्वाह
उक्था᳓ च तु᳓भ्यं ता᳓नि
सत्रा᳓ दधिरे᳓ श᳓वांसि
हे गिर्वाहः गीर्भिः स्तुतिभिः वहनीयेन्द्र ते तुभ्यं क्रियमाणाः गिरश्च स्तुतिरूपाश्च वाचः याः सन्ति । उक्था च उक्थानि च शस्त्ररूपाणि च वचांसि तुभ्यं त्वदर्थं क्रियमाणानि यानि सन्ति । तानि सर्वाणि सत्रा सहैव शवांसि बलानि दधिरे तव विदधिरे ॥ ॥ २२ ॥
And songs to thee who lovest song, and all those hymns addressed to thee-
These evermore confirm thy might.
And the songs for you, o you whose vehicle is song, and the solemn words—these are for you—
those which have in every way deployed their powers.
᳓
Denn die Lieder, liederfreuter, Indra, und der Sänger Sprüche Geben stets dir neue Kräfte.
Und die Lobreden, die deine Kräfte vollständig machen, du von Lobreden Angezo-gener, und diese Lobgedichte sind dein.
И песни, о притягиваемый песнями, которые
Тебе полностью придают силы,
И эти гимны – для тебя.
एवे᳓द् एष᳓ तुविकूर्मि᳓र्
वा᳓जाँ ए᳓को व᳓ज्रहस्तः
सना᳓द् अ᳓मृक्तो दयते
एषः एव इन्द्रः तुविकूर्मिः बहुकर्मा। इत् इति पूरकः । एकः सर्वेषु देवेषु मुख्यः वज्रहस्तः वज्रबाहुः सनात् चिरकालादारभ्य अमृक्तः शत्रुभिरबाधित एवंभूतः स इन्द्रः वाजान् अन्नानि बलानि वा दयते स्तोतृभ्यो ददाति ॥
Thus he, sole doer of great deeds whose hand holds thunder, gives us strength,
He who hath never been subdued.
Just so the powerfully ranging one with mace in hand is the only one to distribute the prizes of victory—indestructible from of old.
Stets ja schenkt der wirkungsreiche, er allein, der blitzbewehrte, Reiches Gut, der unversehrte.
Fürwahr dieser Tatenreiche mit der Keule in der Hand vergibt allein die Gewinne, seit alters ungeschmälert.
В самом деле, этот мощно действующий (бог)
С дубиной грома в руке один издревле,
Невредимый, раздает награды.
ह᳓न्ता वृत्रं᳓ द᳓क्षिणेन
इ᳓न्द्रः पुरू᳓ पुरुहूतः᳓
महा᳓न् मही᳓भिः श᳓चीभिः
अयम् इन्द्रः दक्षिणेन हस्तेनैकेनैव वृत्रम् आवरकमसुरं हन्ता साधु हतवान्। हन्तेः साधुकारिणि तृन् । 'न लोकाव्यय ' इति षष्ठीप्रतिषेधः । पुरु पुरुषु । ‘सुपां सुलुक्' इति विभक्तेर्लुक् । बहुषु देशेषु पुरुहूतः महीभिः महतीभिः शचीभिः क्रियाभिः शक्तिभिर्वा महान् सर्वेभ्य उत्कृष्टः । एवंभूत इन्द्रोऽस्मान् रक्षत्वित्यर्थः ॥
Vrtra he slays with his right hand, even Indra, great with mighty power,
And much-invoked in many a place.
He is the smasher of Vr̥tra with his right (hand)—the many times much-called-upon Indra,
the great one with great powers,
Indra schlägt, der vielgerufne, oft den Feind mit seiner Rechten, Gross an grossen Heldenthaten.
Mit der Rechten tötet Indra den Vritra, der vielmals Vielgerufene, der groß ist an großen Kräften.
Правой (рукой) он убивает Вритру
(Этот) Индра, очень много призываемый,
Великий с великими силами.
य᳓स्मिन् वि᳓श्वाश् चर्षण᳓य
उत᳓ च्यौत्ना᳓ ज्र᳓यांसि च
अ᳓नु घे᳓न् मन्दी᳓ मघो᳓नः
विश्वाः सर्वाः चर्षणयः प्रजाः यस्मिन् इन्द्रे वर्तन्ते यदधीना भवन्ति । उत अपि च च्यौत्ना च्यौत्नानि । बलनामैतत् । प्रच्युतिसाधनानि बलानि च ज्रयांसि शत्रुविषयाण्यभिभवनानि यस्मिन्निन्द्रे वर्तन्ते । ‘ जि ज्रि अभिभवने ' इति धातुः । स इन्द्रः मघोनः । मघं हविर्लक्षणं धनम् । तद्वतो यजमानान् अनु मन्दी अनुमोदको भवति। घेत् इति पूरकौ। यद्वा । मन्दी स्तुत्यः स इन्द्रस्ताननु गृह्णातीति शेषः । अथवा । यस्य मघोनो धनवत इन्द्रस्य मन्दी स्तोतानुकूलो भवति एष एतानि इत्युत्तरत्रैकवाक्यता ॥
He upon whom all men depend, all regions, all achievements, he
Takes pleasure in our wealthy chiefs.
In whom are all the settled domains and both exploits and expanses. The (soma) invigorating for the bounteous (Indra) (follows) along.
Er, in welchem alle Wesen, alle Kräfte sind und Räume, Er ist's, der erfreut die Fürsten.
Auf dem alle Völker und die Umwälzungen und Anläufe beruhen. Wenn er berauscht ist, so tut er es den freigebigen Herren gleich.
С кем (связаны) все народы,
А также потрясающие деяния и набеги...
Когда же он в опьянении, (он радует) щедрых покровителей.
एष᳓ एता᳓नि चकार
इ᳓न्द्रो वि᳓श्वा यो᳓ ऽति शृण्वे᳓
वाजदा᳓वा मघो᳓ना᳐म्
एषः इन्द्रः विश्वा विश्वानि व्याप्तानि एतानि वृत्रवधादीनि वीर्याणि । यद्वा । पृथिव्यादीनि भूतजातानि । तानि चकार कृतवान् । यः इन्द्रः बलैरतिशयितः शृण्वे श्रूयते सर्वत्र स्तूयते । अपि च स इन्द्रः मघोनां हविष्मतां यजमानानां वाजदावा वाजस्यान्नस्य दाता भवति ॥
All this hath he accomplished, yea, Indra, most gloriously renowned,
Who gives our wealthy princes strength.
He has done these things—Indra, who is famed beyond all things as the giver of prizes to the bounteous (patrons).
Er vollbrachte diese Werke, Indra überall gepriesen, Schenkend Gut den Opferherren.
Er hat diese Taten getan, Indra, der alle Taten an Ruhm übertrifft, der den Freigebigen die Siegesgewinne verleiht.
Он совершил эти (подвиги),
Индра, который превосходит все,
(Этот) даритель наград для щедрых покровителей.
प्र᳓भर्ता र᳓थं गव्य᳓न्तम्
अपाका᳓च् चिद् य᳓म् अ᳓वति
इनो᳓ व᳓सु स᳓ हि᳓ वो᳓ळ्हा
प्रभर्ता प्रहर्ता प्रहरणशील इन्द्रः रथं रंहणं गव्यन्तं गा इच्छन्तं यं स्तोतारम् अपाकात् अविपक्वप्रज्ञाच्छत्रोः । चिच्छब्दोऽनुक्तसमुच्चयार्थः । विपक्वप्रज्ञादपि अवति रक्षति स हि स खलु स्तोता इनः ईश्वरः सन् वसु धनं वोळ्हा साधुवाही भवति । वहेः साधुकारिणि तृन् । अतो ‘न लोकाव्यय ' इति कर्मणि षष्ठ्याः प्रतिषेधः ॥ ॥ २३ ॥
Who drives his chariot seeking spoil, from afar, to him he loves:
For swift is he to bring men wealth.
Even from behind he brings to the fore the cattle-seeking chariot that he helps,
for he is the powerful conveyor of goods.
Reichen Wagen treibt er vorwärts, den er auch von ferne herschafft; Denn der starke fähret Güter.
Er bringt den um Rinder kämpfenden Wagen selbst von hinten an die Spitze, wem er hilft, denn der Gewaltige fährt die Schätze.
Он продвигает вперед колесницу, стремящуюся к награде из быков
Даже когда он позади, (если) он кому помогает, –
Ведь этот деятельный привозит блага.
स᳓निता वि᳓प्रो अ᳓र्वद्भिर्
ह᳓न्ता वृत्रं᳓ नृ᳓भिः शू᳓रः
सत्यो᳓ अविता᳓ विध᳓न्तम्
विप्रः मेधावी स इन्द्रः अर्वद्भिः अश्वैर्वाहनभूतैः सनिता गन्तव्यं संभक्ता। तथा शूरः शौर्योपेतः सन् नृभिः नेतृभिर्मरुद्भिः सार्धं वृत्रम् आवरकमसुरं हन्ता साधुघाती । अपि च विधन्तं परिचरन्तं यजमानं सत्यः साधुरवितथस्वभावो वा स इन्द्रः अविता परिचरतो यजमानस्य रक्षिता भवति । सर्वविधीनां छन्दसि विकल्पितत्वादत्र कर्मणि षष्ठी न प्रवर्तते ॥
The Sage who, winning spoil with steeds, slays Vrtra, Hero with the men,
His servant's faithful succourer.
He is the winner as inspired poet and with his steeds, the smasher of Vr̥tra, the champion with his superior men,
the real helper of him who does honor.
Preis erlangt der Herr durch Renner, schlägt den Feind, der Held, durch Männer, Hilft in Wahrheit dem Verehrer.
Er gewinnt als Redner und mit den Streitrossen; der Held erschlägt den Vritra mit seinen Mannen, der zuverlässige Helfer seines Huldigers.
Он добывает (награду) как поэт (и) с помощью скаковых коней.
Вместе с мужами он убивает Вритру, (этот) герой.
Он истинный помощник почитающего (его).
य᳓जध्वैनम् प्रियमेधा
इ᳓न्द्रं सत्रा᳓चा म᳓नसा
यो᳓ भू᳓त् सो᳓मैः सत्य᳓मद्वा
हे प्रियमेधाः । प्रियोऽनुकूलो मेधो यज्ञो येषां ते तथोक्ताः । आत्मनि पूजार्थं बहुवचनम् । प्रियमेधाख्य ऋषिरात्मानं संबोध्य ब्रूते । हे प्रियमेधाः सत्राचा सहाञ्चता स्तोतव्येनेन्द्रेण सह वर्तमानेन मनसा चित्तेन एनम् इन्द्रं यजध्व यजध्वम् । बुद्धिपूर्वकं यजेत्यर्थः । यजध्वैनम्' (पा. सू. ७. १. ४३) इति निपातनाद्वर्णलोपः । यः इन्द्रः सोमैः करणभूतैः सत्यमद्वा भूत् सत्यमदोऽवितथमदो भवति ॥
O Priyamedhas, worship with collected mind this Indra whom
The Soma hath full well inspired.
Sacrifice to him, o Priyamedhas, with fully focused mind—to Indra, whose exhilaration becomes real through the soma juices.
O verehrt ihn, Prijamedha's, Indra mit gespanntem Geiste, Der vom Soma recht berauscht ist.
Verehret ihn, den Indra, ihr Priyamedha´s, gesammelten Geistes, der durch Soma wahrhaft berauscht wird;
Приносите ему жертвы, о Приямедхи,
Индре – с духом, устремленным к одной цели,
(Тому,) кто будет истинно опьянен!
गाथ᳓श्रवसं स᳓त्पतिं
श्र᳓वस्कामम् पुरुत्मा᳓नम्
क᳓ण्वासो गात᳓ वाजि᳓नम्
हे कण्वासः कण्वपुत्रा मेधातिथयः । पूर्ववद्बहुवचनमात्मनः संबोधनं च । हे कण्वस्य पुत्रा मेधातिथयः यूयं गाथश्रवसं गातव्ययशसं सत्पतिं सतां पालयितारं श्रवस्कामम् । श्रवःस्वन्नेषु हविःषु कामोऽभिलाषो यस्य तादृशम् । पुरुत्मानं बह्वात्मानं यद्वा पुरुषु बहुषु प्रदेशेष्वतन्तं सततं गच्छन्तं वाजिनं वेगवन्तमेवंगुणकमिन्द्रं गात गायत स्तुध्वम् ॥
Ye Kanvas, sing the Mighty One, Lord of the Brave, who loves renown,
All-present, glorified by song.
To the lord of the settlement whose fame is from song, whose desire is fame, who has much in himself,
to the prize-winner—sing, Kaṇvas!
Kanva's, singt dem sangberühmten, preisbegier'gen Herrn der Guten, Lebensreichen Herrn der Labung.
Den sangesberühmten rechtmäßigen Herrn, den ruhmliebenden, langlebigen, den sieghaften besinget, ihr Kanva´s!
Прославленного пением, настоящего повелителя,
Любящего славу, долгожителя,
О Канвы, воспойте приносящего награду!
य᳓ ऋते᳓ चिद् गा᳓स् पदे᳓भ्यो
दा᳓त् स᳓खा नृ᳓भ्यः श᳓चीवान्
ये᳓ अस्मिन् का᳓मम् अ᳓श्रियन्
पणिभिर्देवगवीष्वपहृतासु पदेभ्यः गतानां गवां मार्गे संलग्नेभ्योऽन्वेषणसाधनभूतेभ्यः ऋते चित् ऋतेऽपि विनापि सखा मित्रभूतः शचीवान् कर्मवान् प्रशस्तकर्मा यः इन्द्रः नृभ्यः नेतृभ्यः देवेभ्यः गाः पणिभिरपहृता दात् पुनर्दत्तवान्। ये देवाः अस्मिन् इन्द्रे कामम् अभिलाषम् अश्रियन् असेवन्त प्राप्नुवन् । तेभ्यो नृभ्य इत्यन्वयः । तमिन्द्रं गातेति पूर्वेण सहैकवाक्यता ॥
Strong Friend, who, with no trace of feet, restores the cattle to the men,
Who rest their wish and hope on him.
Who as able comrade gave the cows, even though (they were) without tracks, to the superior men
who fixed their desire in him.
Der auch ohne Schritte schreitet, schenkt als mächt'ger Freund den Männern Die auf ihn die Hoffnung setzten.
Der Mächtige, der auch ohne Fußspuren die Rinder fand und sie als Freund den Männern gab, die an ihn ihren Wunsch gerichtet haben.
Могущественный, который даже без следов (нашел) коров,
Дал их как друг мужам,
Которые возлагали на него надежду...
इत्था᳓ धी᳓वन्तम् अद्रिवः
काणुव᳓म् मे᳓धियातिथिम्
मेषो᳓ भूतो᳓ ऽभि᳓ य᳓न्न् अ᳓यः
इत्था इत्थमनेनोक्तेन प्रकारेण धीवन्तं स्तुतिमन्तं काण्वं कण्वपुत्रं मेध्यातिथिं यज्ञार्हातिथिमेतत्संज्ञमृषिं हे अद्रिवः वज्रवन्निन्द्र मेषो भूतः मेषरूपतां प्राप्तः अभि यन् अभिगच्छन् । य इत्यनुवर्तते । तद्योगाच्च तिङो निघाताभावः । यस्त्वम् अयः अगमयः तं त्वां स्तुम इत्यर्थः।‘मेधातिथेर्मेष' (तै. आ. १. १२.३) इति सुब्रह्मण्यामन्त्रैकदेशस्य व्याख्यानरूपं ब्राह्मणं छन्दोगैरेवमाम्नायते-- ‘ मेधातिथिं हि काण्वायनिं मेषो भूत्वाजहार' (ष. ब्रा. १. १) इति । तदभिप्रायेणेयं स्तुतिः कृता ।
Shaped as a Ram, Stone-hurler I once thou camest hither to the son
Of Kanva, wise Medhyatithi.
O possessor of the stone—him whose insights are to the point, Medhyātithi Kāṇva,
since you, having become a ram, led (him) to (goods)—
Zu dem wahrhaft frommen Mediatithi, dem Nachkommen des Kanva, komme, o Schleuderer, in Gestalt eines Widders heranschreitend.
Den Kanviden Medhyatithi, dessen Sinn darnach stand, hast du, Herr des Preßsteins, erhört, als du in einen Widder verwandelt ihn in den Himmel entführtest.
И правда, о повелитель давильных камней, наделенного видением
Потомка Канвы – Медхьятитхи (ты услышал),
Когда, превратившись в барана, отвел (его на небо).
शि᳓क्षा विभिन्दो अस्मै
चत्वा᳓रि अयु᳓ता द᳓दत्
अष्टा᳓ परः᳓ सह᳓स्रा
विभिन्दुनाम्नो राज्ञः सकाशाद्बहु धनं लब्ध्वा तदीयं दानमिदमादिकेन द्वृचेन प्रशंसति । हे विभिन्दो राजन् ददत् दाता त्वम् अस्मै मह्यमृषये चत्वारि अयुता अयुतानि दशसहस्राणि चत्वारिंशत्सहस्राणि शिक्ष अशिक्षः दत्तवानसि। परः परस्तात् ऊर्ध्वमपि अष्टसंख्याकानि सहस्रा सहस्राणि च दत्तवानसि ॥
Vibhindu, thou hast helped this man, giving him thousands four times ten,
And afterward eight thousand more.
Do your best for him, o Vibhindu, giving him four ten thousands and eight thousands beyond.
O Vibhindu, gib diesem [Dichter] viermal zehntausend Gaben und noch achttausend dazu zum Geschenke.
Streng dich für diesen an, Vibhindu, indem du vier Myriaden schenkst und darüber noch acht Tausend!
Старайся для него, о Вибхинду,
Давая сорок тысяч
(И) восемь тысяч сверх того!
उत᳓ सु᳓ त्ये᳓ पयोवृ᳓धा
माकी᳓ र᳓णस्य नप्ति᳓या
जनित्वना᳓य मामहे
उत अपि च सु सुष्ठु त्ये ते सर्वत्र प्रसिद्धे पयोवृधा पयस उदकस्य वर्धयित्र्यौ माकी निर्मात्र्यौ भूतजातस्य रणस्य । स्तोतृनामैतत् । स्तोतुः नप्त्या नप्त्यौ न पातयित्र्यौ सर्वदानुग्रहशीले द्यावापृथिव्यौ जनित्वनाय पूर्वोक्तधनस्य जननाय प्रादुर्भवाय लाभाय ममहे स्तुतवानस्मि । द्यावापृथिव्योः प्रसन्नयोरेवेदं दानं लभ्यते नान्यदेति दानमाहात्म्यप्रशंसाधिगन्तव्या ॥ ॥ २४ ॥
And these twain pouring streams of milk, creative, daughters of delight,
For wedlock sake I glorify.
And these two dear little ones of mine, the milk-strong daughters of joy, has he bounteously given to become my wives.
Und diese beiden milchreichen ausgedehnten [Welten?], die aus der Freude entsprossenen, verherrliche ich um der Nachkommenschaft willen (?)
Und diese beiden milchreichen ........., die Töchter der Lust, hat er zur Ehe geschenkt.
А также этих двух очень богатых молоком
Моих (?) дочерей наслаждения
Он щедро даровал (мне) в жены.