ये᳓ त्रिंश᳓ति त्र᳓यस् परो᳓
देवा᳓सो बर्हि᳓र् आ᳓सदन् ।
+++(अस्मान्)+++ विद᳓न्न्+++(=विदन्तु)+++, अ᳓ह+++(!)+++ द्विता᳓ +++(धनम्)+++ ऽसनन्+++(=अददन्)+++ ॥
मनुराह -
त्रिंशति त्रिंशत्सङ्ख्यायाः परः परस्तान् त्रयः त्रयस्त्रिंशद् देवताइत्यर्थः
ये देवासो देवाः बर्हिः अस्मदीय-यज्ञ-सम्बन्धिनि बर्हिषि हविः-स्वीकरणार्थम् आसदन् आसीदन्तु । अह अथानन्तरं विदन् ते देवा अस्मान् हविषां प्रदातॄन् इति जानन्तु । ततः द्विता द्विधा द्विप्रकारम् असनन् अस्मभ्यं धनं पश्वादिकच्च प्रयच्छन्तु । यद्वा द्विता द्वैधं अनेन पौनःपुन्यं लक्ष्यते पुनःपुनरस्मभ्यं धनादिकं ददत्वित्यर्थः ॥ १ ॥
THE Thirty Gods and Three besides, whose seat hath been the sacred grass,
From time of old have found and gained.
The gods, three beyond thirty, who sat down on the ritual grass,
they found and once again they gained.
Die dreiunddreissig Götter, die sich niedersetzten auf die Streu, Sie fanden und erlangten stets.
Die drei und noch dreißig Götter, die sich auf das Barhis gesetzt haben, die sollen wirklich etwas vorfinden; sie haben doppelt soviel verdient.
Боги, которых тридцать и три сверх того,
Уселись на жертвенную солому.
Они, конечно, нашли( там, что надо) и в самом деле они (все) получили.
+++(वरणीयत्वाद्)+++ व᳓रुणो मित्रो᳓ अर्यमा᳓
स्म᳓द्+++(=सुमद्)+++-+++(हवी)+++राति+++(यज्ञ)+++-षाचो+++(=गन्तारो)+++ अग्न᳓यः ।
प᳓त्नीवन्तो व᳓षट्-कृताः ॥
वरुणः वरणीयः संभजनीयः मित्रः स्तोतॄणां यष्टॄणां च धनादिदानेन मित्रभूतः अर्यमा स्तोत्रकारिणे धनं प्रापयन् यद्वा सततं गच्छन् एतन्नामकास्त्रयो देवाः स्मद्रातिषाचः । स्मत् सुमच्छोभना रातिः हविष्प्रदानं येषामस्तीति स्मद्रातयो यजमानाः । तान् सचन्ते धनादिप्रदानेन सेवन्त इति तथोक्ताः । यद्वा । कल्याणं यथा भवति तथा हविषां दातॄन् सचन्त इति । ते तादृशाः पत्नीवन्तः देवपत्नीसहिताः अग्नयः अङ्गनशीला नानाविधा अग्नयः वषट्कृताः । मया ‘ सोमस्याग्ने वीहि वौषट् ' (आश्व. श्रौ. ५. ५) इत्यादिना स्वाहाकृताः । सुहुता इत्यर्थः ॥
Varuna, Mitra, Aryaman, Agnis, with Consorts, sending boons,
To whom our Vasat! is addressed:
Varuṇa, Mitra, Aryaman, the Agnis with the Gift Escorts,
along with the Wives (of the Gods), are those to whom the
vaṣaṭ-cry is made.
Varuna, Mitra, Arjaman, die Feuer mit der Spenderschar Nebst ihren Frauen sind begrüsst.
Varuna, Mitra, Aryaman, die Agni´s samt den Ratisac mit den Götterfrauen, denen das Vasat gesprochen wird,
Варуна, Митра, Арьяман,
(Многие) Агни вместе с (богинями,) сопровождающими дары,
С женами (богов), которым провозглашается: Вашат!,
ते᳓ नो गोपा᳓ अपाच्या᳓स्+++(=प्रतीचीनाः)+++
त᳓ उ᳓दक् त᳓ इत्था᳓ न्यक् ।
पुर᳓स्तात् स᳓र्वया +++(स्व)+++विशा᳓ ॥
ते वरुणादयो देवाः सर्वया सर्वेण विशा अनुचरवर्गेण सह अपाच्याः । अपाची प्रतीची। ततः नः अस्माकं गोपाः गोपायितारो भवन्तु । ते एव उदक् उदीच्याः । ‘ अञ्चेर्लुक् ' इति पञ्चम्यर्थे विहितस्यास्तातेर्लुक् । ततोऽपि अस्माकं रक्षका भवन्तु । इत्था इति शब्देनोर्ध्वा दिशं दक्षिणां च निर्दिशति । इत्थमनेन पूर्वोक्तेन प्रकारेणोर्ध्वाया दक्षिणस्याश्च दिशः ते देवा अस्माकं पालयितारो भवन्तु । तथा न्यक् नीच्या दिशः । अत्रापि पूर्ववदस्तातेर्लुक्। अधस्तादेवाप्यस्माकं त्रातारो भवन्तु । किंच पुरस्तात् प्राच्या दिशश्च ते देवा अस्माकं गोपायितारो भवन्तु ॥
These are our guardians in the west, and northward here, and in the south,
And on the cast, with all the tribe.
These are our herdsmen to the west, these to the north, these likewise to the south,
to the east—through their whole clan.
Im Westen sind sie Hüter uns, im Norden und im Süden hier, Im Osten mit der ganzen Schar.
Die sind uns Hüter im Rücken im Westen, im Norden, dort unten im Süden, und ostwärts mit ihrem vollständigen Clane.
Они наши хранители, обращенные на запад,
Они – вверх, они прямо вниз,
(А также) на восток со всем (божественным) племенем.
य᳓था व᳓शन्ति+++(=कामयन्ते)+++ देवा᳓स् त᳓थे᳓द् असत्
त᳓द् एषां न᳓किर्+++(=न कश्चिद्)+++ आ᳓ मिनत्+++(=हिनस्ति)+++ ।
अ᳓रावा+++(=अदाता)+++ चन᳓ म᳓र्त्यः ॥
देवा द्योतमानाः सर्वेदेवाः यथा वशन्ति यथा कामयन्ते - वश कान्तौ सम्प्रसारणाच् चेति पूर्वरूपस्य छन्दसि विकल्पितत्वाद् यणादेशः । तथेत् यथा उशन्ति तथैव असत् तद् भवत्येव ।
तदेवाह एषां देवानां तत्कामनं नकिर् न कश्चिदपि मिनत् हिनस्ति - मीङ् हिंसायां लेटिरूपम् मीनातेर् निगम इति ह्रस्वत्वम् । कथं देवानाम् अभिलषितं तथाभवतीतिचेत् तदाह- अरावा - यदि देवाः कस्यचिद् अप्य् अदातारं मनुष्यं कामयेरन् तदा अरावा अदाता चनेत्य् अप्य् अर्थे अदातापि मर्त्यो मनुष्यः उशड्यो देवेभ्यो हवींषि प्रयच्छति तस्मात् तेषां यत् कामनं तत् तथा भवत्येवेत्यर्थः ॥ ४ ॥
Even as the Gods desire so verily shall it be. None minisheth this power of theirs,
No demon, and no mortal
As the gods desire, just so will it be. No one will confound this (desire) of theirs,
not even a hostile mortal.
Wie es der Götter Wille fügt, geschieht es, niemand hindert es, Auch nicht der böse Sterbliche.
Wie die Götter es wollen, so soll es geschehen; das vereitelt ihnen keiner, auch nicht der mißgünstige Sterbliche.
Как хотят боги, так и будет!
Никто этому у них не помешает,
Даже скупой смертный.
सप्तानां᳓ सप्त᳓ ऋष्ट᳓यः+++(=आयुधविशेषाः)+++
सप्त᳓ द्युम्ना᳓न्य्+++(=द्योतमानानि)+++ एषाम् ।
सप्तो᳓+++(प्त)+++ अ᳓धि श्रि᳓यो धिरे ॥
+++(सप्तश्रियस् स्युः कृत्तिकाः।)+++
अत्र पुरातनी कथा । इन्द्रसमानं पुत्रमिच्छन्त्या अदितेः (?) गर्भस्य केनचित्कारणेनेन्द्रेण सप्तधा भिन्नत्वात् स गर्भः सप्तगणात्मकोऽभवत्। ततो मरुतः संपन्नाः । सप्तगणा वै मरुतः । (तै. सं. २. २. ११. १ ) इति श्रुतेः । एषा कथा ‘ इदं पित्रे मरुतामुच्यते वचः' ( ऋ. सं. १.११४.६ ) इत्यस्मिन् वर्गे सप्रपञ्चेनाभ्यधाथि । तथा चास्या ऋचोऽयमर्थः । सप्तानां मरुतां गणानां सप्त सप्तसंख्याकाः ऋष्टयः आयुधविशेषा विभिन्नाः सन्ति । तथा सप्त सप्तसंख्याकानि द्युम्नानि द्योतमानानि कुण्डलादीन्याभरणानि । द्युम्नान्यन्नानि वा । एषां गणानां विभिन्नानि सन्ति । ततः सप्त मरुतां गणाः सप्तो सप्तैव सप्तविधाः श्रियः सकला दीप्तीः अधि धिरे । परस्परमधिकं दधिरे ॥ ॥ ३५ ॥
The Seven carry seven spears; seven are the splendours they possess,
And seven the glories they assume.
Of the seven there are seven spears; seven brilliancies are theirs;
seven beauties did they put on.
Die sieben führen sieben Speer' und sieben Schätze haben sie, Die sieben legten Schmuck sich an.
Sieben Speere haben die Sieben, sieben sind ihre Herrlichkeiten und sieben Schmuckstücke haben sie angelegt.
У семерых семь копьев,
Семь у них знаков великолепия,
Семь красот они надели на себя.