+++(सोमः)+++
बभ्रु᳓र् ए᳓को वि᳓षुणः+++(=विष्वगञ्चनः)+++ सून᳓रो+++(←सुनरः?)+++ यु᳓वा
+अ᳓ञ्ज्य् +++(द्रववर्णं स्वस्मिन् निपीडनसमये)+++ अङ्क्ते हिरण्य᳓यम् ॥
बभ्रुर् एक इति दशर्चं नवमं सूक्तं मरीचि-पुत्रः कश्यपो, वैवस्वतो मनुर् वा ऋषिः । तथाचानुक्रम्यते- बभ्रुर् दश कश्यपो वा मारीचो द्वैपदम् इति । दशापि द्विपदा विंशत्य्-अक्षरा विराजः। पूर्ववद् विश्वे देवा देवता ।
तृतीये छन्दोमे वैश्वदेव-शस्त्रे वैश्वदेव-सूक्तात् पूर्वम् एव द्वैपदं सूक्तं शंसनीयम् । सूत्र्यते हि- बभ्रुर् एक इति द्विपदा-सूक्तानि पुरस्ताद् वैश्वदेव सूक्तानाम् इति ।
अत्र दशानाम् ऋचां किञ्चित् पदलिङ्गात् पृथक् देवताः।
अत्र प्रथमायां बभ्रुर् इत्यनेन सोमो ऽभिधीयते । सोम्यम् बभ्रुम् आलभेत (तै. सं. २. १. ३. ३) इत्यादिषु दृष्टत्वात् । बभ्रुर् बभ्रु-वर्णः - सर्वलतादिषु परिपक्वः । यद् वा डुभृञ् धारण-पोषणयोः कुर् भ्रश् चेति कुप्रत्ययः।
सर्वस्य सुधामयैः किरणैः तावद् उद्गते चन्द्रमसि दुःखोपशमनानि पुष्टानि खलु । तादृशः विषुणः विष्वगञ्चनः।
सूनरः सुष्ठु रात्रीणां नेता रात्रयश् चन्द्रनेतृकाः खलु ।
एतादृशो युवा प्रतिदिवसम् आविर् भूतत्वात् तरुणः,
एको देवः सोमः हिरण्ययं हिरण्मयं अञ्जि अभिव्यज्यते प्रकाश्यतेनेनेति अञ्जि आभरणं अभिव्यक्ति-साधनं कुण्डल-मुकुटादिकं स्वशरीरम् अङ्क्ते अभिव्यञ्जयति ॥ १ ॥
ONE is a youth brown, active, manifold he decks the golden one with ornament.
Brown, this one is changeable, a spirited youth; he smears golden unguent on himself. [=Soma]
Der eine röthlich, jung und lieblich, mannichfach verziert mit goldnem Schmucke sich.
Der eine, braun, veränderlich, ein edler Jüngling, legt sich goldene Farbe auf.
Бурый один, меняющийся, благородный
Юноша украшает себя золотым украшением.
यो᳓निम् ए᳓क आ᳓ ससाद द्यो᳓तनो +++(ऽग्निः)+++
ऽन्त᳓र् देवे᳓षु मे᳓धिरः+++(=मेधावी)+++ ॥
अत्र योनिमिति लिङ्गादग्निरुच्यते । अग्नये गृहपतये ' इत्यादिषु दृष्टत्वात् । देवेषु देवानाम् अन्तः मध्ये द्योतनः स्वतेजसा दीप्यमानः मेधिरः मेधावी । अथवा मेधाकाङ्क्षिणां स्तोतॄणां मेधादातृत्वेन मेधायुक्तः । एवंविधः एकः अग्निः योनिं स्थानभूतमाहवनीयादिकम् आ ससाद हविःस्वीकारणार्थमासीदति ॥
Another, luminous, occupies the place of sacrifice, Sage, among the Gods.
In the womb this one has sat down flashing, the wise one among the gods. [=Agni]
Der eine setzte strahlend sich aufs Lager hin, der weise in der Götter Schar.
Der eine hat sich leuchtend in seinen Mutterschoß gesetzt, der Weise unter den Göttern.
Один уселся на (материнское) лоно,
Сверкающий. (Он) мудрый среди богов.
+++(त्वष्टा?)+++
वा᳓शीम्+++(←वाशृ शब्दे, कुठारम्)+++ ए᳓को बिभर्ति ह᳓स्त आयसी᳓म्
अन्त᳓र् देवे᳓षु नि᳓-ध्रुविः ॥
देवेषु अन्तः देवानां मध्ये द्योतमानः निध्रुविः निश्चले स्थाने वर्तमानः । यद्वा । नितरां गमनमस्यास्तीति निध्रुविः सर्वदा गच्छन् । अथवा संग्रामेषु शत्रूणां पुरतोऽतिशयेन स्थैर्यवान् । एतादृशः एकः त्वष्टृनामको देवः आयसीम् अयोमयधारां वाशीम् । ‘ वाशृ शब्दे '। शब्दयत्याक्रन्दयति शत्रूननयेति वाशी तक्षणसाधनं कुठारः । तं स्वकीये हस्ते बिभर्ति धारयति ॥
One brandishes in his hand an iron knife, firm, in his seat amid the Deities.
An axe this one bears in his hand—a metal one—he firmly founded among the gods. [=Tvaṣṭar]
Der eine trägt ein ehern Beil in seiner Hand, der Stand hält in der Götter Schar.
Der eine trägt das eherne Messer in der Hand, der unter den Göttern der Seßhafte ist.
Один несет в руке топор
Железный. Среди богов он постоянен.
+++(इन्द्रः!!)+++
व᳓ज्रम् ए᳓को बिभर्ति ह᳓स्त आ᳓हितं
ते᳓न वृत्रा᳓णि जिघ्नते ॥
अत्र वज्रलिङ्गादिन्द्रो देवता । एकः इन्द्रः आहितं स्वकीयहस्ते निहितं वज्रम् एतन्नामकमायुधं बिभर्ति धत्ते । स एवेन्द्रः तेन निहितेन वज्रेण वृत्राणि आवरकाणि रक्षांसि पापानि वा जिघ्नते भृशं हन्ति ॥
Another holds the thunderbolt, wherewith he slays the Vrtras, resting in his hand.
A mace this one bears in his hand, set there; with it he keeps smashing obstacles. [=Indra]
Der eine hält den Blitz mit seiner Hand umfasst, mit dem er seine Feinde schlägt.
Der eine trägt die in die Hand gelegte Keule; mit der erschlägt er die Vritra´s.
Один несет вложенную в руку
Ваджру. Ею он убивает врагов.
+++(रुद्रः)+++
तिग्म᳓म् ए᳓को बिभर्ति ह᳓स्त आ᳓युधं
शु᳓चिर् उग्रो᳓ ज᳓लाष+++(=सुखकृत्?)+++-भेषजः ॥
अत्र जलाषभेषज इत्यनेन रुद्रोऽभिधीयते । शुचिः । ‘शुच दीप्तौ । सर्वतः स्वतेजसा दीप्यमानः । यद्वा ।' शुच शोके ' । शत्रूणां शोचयिता दुःखयिता । अत एव उग्रः उद्गूर्णबलः जलाषभेषजः रोगापनयनेन सुखकरभैषज्यवान् । यद्वा । स्तोतॄणां दुःखरूपसंसारोच्छेदेन सुखकारिभिषग्रूपः । ‘ प्रथमो दैव्यो भिषक् ' इत्यादिश्रुतिभिरस्य भिषक्त्वं श्रूयते । तादृशः एकः रुद्रः तिग्मं तीक्ष्णधारम् आयुधम् । आयुध्यति संप्रहरति शत्रूननेनेत्यायुधं पिनाकः । तं स्वकीये हस्ते बिभर्ति ॥
Another bears a pointed weapon: bright is he, and strong, with healing medicines.
A sharp thing this one bears in his hand, a weapon—he blazing, strong, with healing [?] remedies. [=Rudra]
Der eine trägt den scharfen Speer in seiner Hand, der lichte, freundlich heilende.
Der eine trägt in der Hand die spitze Waffe, rein, gewaltig, mit kühlendem Heilmittel.
Один несет в руке острое
Оружие. (Он) чистый, грозный, с целительными лекарствами.
+++(पूषा)+++
पथ᳓ ए᳓कः पीपाय+++(←प्या वृद्धौ)+++ त᳓स्करो यथाँ
एष᳓ वेद निधीना᳓म् ॥
पथ इति लिङ्गेन पूषा निगद्यते । ‘सं पूषन्नध्वनस्तिर' (ऋ. सं. १. ४२. १) इत्यादिषु दृष्टत्वात् । एकः पूषनामको देवः पथः मार्गान् पीपाय । प्यायतिर्वर्धनकर्माप्यत्र रक्षणार्थः । ये अग्निहोत्रादि कर्म कुर्वन्ति तेषां स्वर्गमार्गं ये दुष्कृतं कर्म कुर्वन्ति तेषां यातनामार्गं च रक्षति । उभयेषां मार्गविपर्ययो यथा न भवति तथा पालयतीत्यर्थः । एषः सोऽयं पूषा निधीनां पृथिव्यां निहितानि धनानि वेद वेत्ति । ज्ञात्वा स्तोतॄणां तानि ददातीत्यर्थः। तत्र दृष्टान्तः । तस्करो यथा । यथा चोरः पथि गच्छतां पुरुषाणां धनहरणार्थंमार्गं रक्षति तथा च स चोरो गृहे निहितानि ज्ञात्वा तदाहृत्य स्वसहायेभ्यो यथा तानि ददाति तद्वत् ॥
Another, thief-like, watches well the ways, and knows the places where the treasures lie.
The paths this one swells; like a thief he knows of hidden treasures. [=Pūṣan]
Der eine sucht die Wege wie ein Räuber auf, ihm ist bekannt der Schätze Ort.
Der eine bewacht die Wege wie ein Räuber; er kennt die verborgenen Schätze.
Один сделал набухшими дороги, как грабитель.
Он знает (спрятанные) сокровища.
+++(विष्णुः)+++
त्री᳓ण्य् ए᳓क उरु-गायो᳓+++(=गन्ता)+++ वि᳓ चक्रमे
य᳓त्र देवा᳓सो म᳓दन्ति ॥
उरुगायो वि चक्रमे इति पदलिङ्गाद्विष्णुरुच्यते । उरुगायः उरुभिर्बहुभिर्गातव्यः । यद्वा । बहुषु देशेषु गन्ता बहुकीर्तिर्वा । सर्वान् शत्रून् स्वसामर्थ्येन शब्दयत्याक्रन्दयतीति वा उरुगायः । एतादृशः एकः असहायो विष्णुः त्रीणि पदानि भुवनानि वि चक्रमे साधु पादेन विक्रान्तवान् । ‘वेः पादविहरणे' (पा. सू. १. ३. ४१) इति क्रमतेरात्मनेपदम् । यत्र येषु लोकेषु देवासः इन्द्रादयो देवाः मदन्ति यजमानदत्तैर्हविर्भिर्माद्यन्ति तानि वि चक्रम इत्यन्वयः ॥
Another with his mighty stride hath made his three steps thither where the Gods rejoice.
Three (strides) this one, wide-going, has stridden, to where the gods become exhilarated. [=Viṣṇu]
Der eine, weithinschreitend, that der Schritte drei, dorthin wo Götter sich erfreun.
Der eine, weitschreitend, hat die drei Schritte gemacht, da wo die Götter schwelgen.
Три (шага) один, далеко движущийся,
Прошагал (туда,) где блаженствуют боги.
+++(अश्विनौ)+++
वि᳓भिर्+++(=पक्षिभिः)+++ द्वा᳓ चरत ए᳓कया +++(→सूर्यया)+++ सह᳓
प्र᳓ प्रवासे᳓व+++(→प्रवासवत्?)+++ वसतः ॥
एकया सह इति लिङ्गादश्विनावभिधीयेते । द्वा द्वौ द्वित्वसंख्योपेतावश्विनौ विभिः । वी गत्यादिषु । क्विप् । छान्दसो ह्रस्वः । गमनसाधनैरश्वैः चरतः संचरेते। किंच इमावश्विनौ एकया सूर्याख्यया ताभ्यां स्वयंवृतया स्त्रिया सह प्र वसतः प्रवासं सर्वत्र गमनं कुरुतः । प्रवासे दृष्टान्तः । प्रवासेव । यथा प्रवासिनौ द्वौ पुरुषौ एकया स्त्रिया सह प्रवसतस्तद्वत् ॥
Two with one Dame ride on with winged steeds, and journey forth like travellers on their way.
With the birds these two wander, along with the one (woman). They go abroad like exiles. [=Aśvins and Sūryā]
Mit Vögeln fahren zwei nebst einer Braut, in weite Ferne ziehen sie.
Zwei fahren mit Vogelrossen mit einer zusammen; wie zwei Reisende gehen sie auf Reisen.
На птицах странствуют двое. Вместе с одной
Они отправляются в путешествие, как два путешественника.
+++(मित्रावरुणौ)+++
स᳓दो द्वा᳓ चक्राते उपमा᳓ दिवि᳓
सम्रा᳓जा सर्पि᳓र्-आसुती+++(←सु सवने)+++ ॥
सम्राजाविति लिङ्गेन मित्रावरुणावभिधीयेते । उपमा उपमौ परस्परं स्वकान्त्योपमानभूतौ । यद्वा । उपमीयत आभ्यां सर्वमित्युपमौ सर्वस्य । एतावेव सम्राजा सम्राजौ सम्यग्दीप्यमानौ सर्पिरासुती । सर्पिर्घृतमाभ्यामासूयत इति सर्पिरासुती । घृतहविष्कौ द्वा द्वौ मित्रावरुणौ दिवि द्युलोके सदः । सीदन्त्यत्रेति सदः स्थानम् । तत् चक्राते अकार्ष्टाम् ॥
Two, highest, in the heavens have set their seat, worshipped with holy oil, imperial Kings.
A seat these two made for themselves, the two highest in heaven, sovereign kings, whose potion is melted butter. [=Mitra and Varuṇa]
Zwei nahmen als die höchsten in dem Himmel Platz, Weltherrscher, Trinker heissen Tranks.
Zwei haben als Allherrscher zu oberst im Himmel sich den Sitz bereitet; sie bekommen flüssiges Schmalz als Tränklein.
Сиденье двое приготовили себе высшее
На небе как два вседержителя, (те,) чье питье – расплавленный жир.
+++(विश्वे देवाः, ऋत्त्विजोऽपि वा!)+++
अ᳓र्चन्त ए᳓के म᳓हि सा᳓म +++(अ)+++मन्वत
ते᳓न सू᳓र्यम् अरोचयन् ॥
+++(अर्चन-रोचनयोः प्रासः। गतिभेदायादौ त्र्यक्षरपदम् इह। )+++
एके अत्रयः महि महत् साम त्रिवृत्पञ्चदशादि मन्वत अमन्वत । तदेव अर्चन्तः पूजयन्त एतादृशा अत्रयः तेन उक्तेन साम्ना सूर्यमरोचयन् अदीपयन् । त एवात्र देवता ॥ ॥३६॥
Some, singing lauds, conceived the Sama-hymn, great hymn whereby they caused the Sun to shine.
Chanting, these ones thought up a great melody. With it they caused the sun to shine. [=human poets]
Ein hohes Lied ersann dir eine Sängerschar, die Sonn' erhellten sie dadurch.
Die einen haben singend das große Saman erdacht; damit ließen sie die Sonne erstrahlen.
Несколько, распевая, придумали великую
Мелодию. Ею они сделали солнце сверкающим.