यो᳓ य᳓जाति य᳓जात इ᳓त्
सुन᳓वच् च प᳓चाति च
ब्रह्मे᳓द् इ᳓न्द्रस्य चाकनत्
यः यजमानः सकृत् यजाति यागं करोति हविर्भिर्देवान् पूजयति स देवेभ्यो लब्धधनादिकः सन् यजात इत् पुनरभीष्टप्राप्तये देवेभ्यो हवींषि प्रयच्छत्येव । तथा स एव यजमानः सुनवच्च सोमाभिषवं करोति च । स एव पचाति च पशुपुरोडाशादिकं पचति च । सर्वत्र यजादिषु लेट्यडागमाः । स यजमानः इन्द्रस्य ब्रह्म ब्रह्माणि । इत् अवधारणे । इन्द्रसंबन्धीनि स्तोत्राण्येव चाकनत् पुनःपुनः कामयते । कनतेः कान्त्यर्थात् यङ्लुकि अभ्यासत्वं छान्दसम् । ततो लेट्यडागमः । अत्र यागे यजमानो धनादि लभत इति यज्ञप्रशंसा । स एव दृष्टफलः सन् सोमाभिषवादीन् करोतीति यजमानप्रशंसा ॥
THAT Brahman pleases Indra well, who worships, sacrifices, pours Libation, and prepares the meal.
Whoever will sacrifice for another and will also sacrifice for himself, who will press (soma) and will cook (the oblation),
just that formulator will find pleasure of Indra.
Wer opfert und wer recht verehrt, wer Soma braut, wer kocht und bäckt, Solch Beter ist dem Indra lieb.
Wer für andere und für sich selbst opfern und Soma auspressen und Opferspeisen kochen wird, der Brahmane wird des Indra froh werden.
Кто жертвует для других (и) жертвует для себя,
Выжимает (сому) и варит (жертву),
(Тот) брахман нравится Индре.
पुरोळा᳓शं यो᳓ अस्मै
सो᳓मं र᳓रत आशि᳓रम्
पा᳓द् इ᳓त् तं᳓ शक्रो᳓ अं᳓हसः
यः यजमानः अस्मै इन्द्राय पशुपुरोळाशं तथा आशिरं तृतीयसवने गोक्षीरेणामिश्रित सोमं ररते प्रयच्छति । रातेर्लटि शपः श्लुः। अडागमः। शक्रः समर्थः स इन्द्रः तं यष्टारम् अंहसः पापात् तद्रूपाद्रक्षसो वा पात् । इत् अवधारणे । अपादेव । रक्षत्येव । पातेर्लुङि रूपम् ॥
Sakra protects from woe the man who gives him sacrificial cake.
And offers Soma blent with milk.
Whoever will give the offering cake to him and the soma with its milk-mixture,
able (Indra) will protect just him from difficult straits.
Wer Opferkuchen ihm verehrt, und Soma und der Milch Gemisch, Den schützt der starke vor Gefahr.
Wer ihm Reiskuchen, Soma und Mischmilch spendet, den wird der Mächtige vor Not schützen.
Кто ему жертвенную лепешку,
Сому с добавлением молока предоставляет,
Того могучий всегда сохраняет от беды.
त᳓स्य द्युमाँ᳓ असद् र᳓थो
देव᳓जूतः स᳓ शूशुवत्
वि᳓श्वा वन्व᳓न्न् अमित्रि᳓या
तस्य देवान् पूजयतो यजमानस्य देवजूतः देवैरिन्द्रादिभिः प्रेरितः द्युमान् दीप्तिमान् रथः रंहणशीलः स्यन्दनो देवानां हविष्प्रदानरूपेण यज्ञेन असत् भवति आगच्छति । ततस्तेन रथेन अमित्रिया अमित्रियान् शत्रुभिः कृतान् विश्वा सर्वान् बाधान् वन्वन् । 'वनोतिर्हिंसाकर्मा ' इति यास्कः । हिंसन् सः एव शूशुवत् पुत्रादिभिर्धनैश्च वर्धते । अत्र येन मे रथो बाधाभावश्चाभूदिति यागप्रशंसा येन सम्यगिष्टदेवा रथं दत्तवन्त इति यजमानप्रशंसा ॥
His chariot shall be glorious, sped by Gods, and mighty shall he be,
Subduing all hostilities.
His chariot will be brilliant; god-sped, he will swell up,
winning all (the things) of the enemy.
Dess Wagen ist mit Glanz begabt, er selbst gedeihet gotterregt, Besiegend aller Feinde Schar.
Dessen Wagen wird ruhmvoll sein, von den Göttern zur Eile getrieben wird er überlegen sein, alle Feindseligkeiten überwindend.
Его колесница будет блистательной,
Погоняемой богами, (сам) он будет победоносным,
Преодолевая все проявления враждебности.
अ᳓स्य प्रजा᳓वती गृहे᳓
अ᳓सश्चन्ती दिवे᳓-दिवे
इ᳓ळा धेनुम᳓ती दुहे
प्रजावती पुत्रादियुक्तम् असश्चन्ती । सश्चतिर्गतिकर्मा । अगमनशीलं तादृशं धेनुमती । पयसा सर्वान् धिनोति प्रणयतीति धेनुर्गौः । तत्सहितम् इळा अन्नम् अस्य यष्टुः गृहे दिवेदिवे अहरहः दुहे देवैः दुह्यते । यद्वा । इळेति गवां देवता । सा स्थिरा धेनुमती । गवां पतित्वात् धेनुभिर्धेनुमती । इळा गोदेवता । देवैः प्रेरिता सती अस्य यजमानस्य गृहे दोग्धा । पुत्रादिकमस्मै ददातीत्यर्थः । दुहेर्लटि ‘लोपस्त आत्मनेपदेषु ' इति तलोपः । अत्र इज्यास्तवः ॥
Each day that passes, in his house flows his libation, rich in milk,
Exhaustless, bringing progeny.
In his house inexhaustible Refreshment, possessed of offspring
and milk-cows, gives milk day after day.
In dessen Haus wird Tag für Tag der Trunk gemelkt, der nie versiegt, Der reichlich Milch und Kinder gibt.
In seinem Hause gibt die kinder- und kuhreiche Ila ohne zu versiegen Tag um Tag Milch.
У того в доме богатая потомством,
Богатая дойными коровами Ида,
Не иссякая доится каждый день.
या᳓ द᳓म्पती स᳓मनसा
सुनुत᳓ आ᳓ च धा᳓वतः
दे᳓वासो नि᳓त्ययाशि᳓रा
अत्र यजने दंपत्योः स्तुतिः । हे देवासः देवाः समनसा समनसौ कर्मणि समानमनस्कौ या यौ दंपती यज्ञकारिणौ जायापती सुनुतः सोमाभिषवं कुरुतः । यौ दंपती ततस्तमभिषुतं सोमम् आ धावतः च दशापवित्रेण शोधयतः । ‘ धावु गतिशुद्धयोः '। तथा नित्यया । यत्र तृतीयसवने सोमोऽस्ति तत्राश्रयणद्रव्यं गोक्षीरमस्त्येव । तस्मात् नित्यसंबन्धेन आशिरा आश्रयणेन गोक्षीरेण संयुतं सोमं यौ प्रयच्छतः तावन्नादीन् प्राप्नुत इत्युत्तरत्र संबन्धः ॥ ॥ ३८ ॥
O Gods, with constant draught of milk, husband and wife with one accord
Press out and wash the Soma juice.
The household couple who with one mind press and rinse (the soma) with its own proper milk-mixture, o gods,
Das Ehepaar, was gleichen Sinn's den Soma presst und knetend spült, O Götter, stets mit Milch ihn mischt,
Wenn die beiden Ehegatten einträchtig Soma auspressen und umschütteln und mit der notwendigen Milch mischen, o Götter,
Когда супруги-домохозяева единодушно
Выжимают и прополаскивают (сому),
О боги, (смешивая его) с необходимым добавлением молока,
प्र᳓ति प्राशवि᳓याँ इतः
सम्य᳓ञ्चा बर्हि᳓र् आशते°
न᳓ ता᳓ वा᳓जेषु वायतः
तौ देवेभ्यो हविषां दातारौ दंपती प्राशव्यान् । ' अश भोजने '। प्रपूर्वस्यास्यौणादिको भाव उण्प्रत्ययः । प्राशुर्भक्षणम् । तस्मै साधून् हितान् वा अन्नादीन् प्रति इतः प्रतिगच्छतः । यद्वा । प्राशितव्यान् । अत्र वर्णलोपः । तावेव सम्यञ्चा सम्यञ्चौ समीचीनौ संगतौ बर्हिः यज्ञम् आशाते आनशाते । तत्र द्रव्यैर्व्याप्नुतः । तस्मात् तौ यष्टारौ भार्यापती वाजेषु देवैर्दत्तेष्वन्नेषु न वायतः । वयतिर्गत्यर्थः । न गच्छतः । सर्वदान्नसहितौ तिष्ठेतामित्यर्थः ॥
They gain sufficient food: they come united to the sacred grass,
And never do they fail in strength.
Those two go up against the puffed-up (rival pressers?); united they attain to the ritual grass.
They do not fade out when prizes (are at stake).
Das dringt zu reicher Nahrung hin, vereint bereiten sie die Streu, Bei Opfern werden sie nicht matt.
Dann empfangen sie die für die Pünktlichen bestimmten Belohnungen; gemeinsam haben sie an dem Barhis teil; nicht kommen sie bei den Belohnungen zu kurz.
Оба они получают (за это) питание,
Оба вместе достигают жертвенной соломы –
Они не устают, когда речь идет о наградах.
न᳓ देवा᳓नाम् अ᳓पि ह्नुतः
सुमतिं᳓ न᳓ जुगुक्षतः
श्र᳓वो बृह᳓द् विवासतः
एतौ दंपती देवानाम् इन्द्रादीनां न अपि ह्नुतः अपलापं न कुरुतः । अपिह्नवोऽपलापः । देवेभ्यो हविः प्रदास्याम इति प्रतिज्ञाय पुनरदानमपलापः । ‘ ह्नुङ् अपनये '। कथं नापलपन्तीत्यवसीयते । तदाह । सुमतिं युष्मदीयां शोभनां मतिं न जुगुक्षतः जुघुक्षतः न संवरीतुमिच्छतः । संवारणमाच्छादनम् । न छादयत इत्यर्थः । किंतु स्तुतिं कुरुतः । ‘ गुहू संवरणे '। सनिग्रहगुहोश्च । (पा. सू. ७. २. १२ ) इति इट्प्रतिषेधः । ढत्वषत्वभावौ । संहिताकाले भष्भावो नास्ति छान्दसत्वात् । किंच बृहत् देवेभ्यो दीयमानत्वात् महत् श्रवः । श्रव इत्यन्ननाम । महदन्नं विवासतः युष्मभ्यं प्रयच्छतः । विवासतिः परिचरणकर्मा । दानमपि च परिचरणमेव । देवैर्दत्तमन्नं घृतादिभिर्मिश्रीकृत्य पुनःपुनर्यजत इत्यर्थः॥
Never do they deny or seek to hide the favour of the Gods:
They win high glory for themselves.
Those two do not spurn the favor of the gods, nor seek to conceal it; they seek to win lofty fame.
Sie weisen nimmer von sich ab, verschmähen nie der Götter Gunst Und grosses Gut gewinnen sie.
Nicht verleugnen sie der Götter Gunst, noch suchen sie sie zu verheimlichen; hohen Ruhm suchen sie zu gewinnen.
Они не пренебрегают милостью
Богов, не стремятся скрыть (её) –
Они хотят добиться высокой славы.
पुत्रि᳓णा ता᳓ कुमारि᳓णा
वि᳓श्वम् आ᳓युर् वि᳓ अश्नुतः
उभा᳓ हि᳓रण्यपेशसा
पुत्रिणा पुत्रवन्तौ तत्रापि कुमारिणा षोडशवर्षदेशीयपुत्रवन्तौ हिरण्यपेशसा हिरण्मयैराभरणैरलंकृतरूपौ उभा उभौ ता तौ दंपती विश्वं सर्वम् आयुः आयुष्यं व्यश्नुतः व्याप्नुतः । यज्ञेन तयोः पुत्रादिकं धनमायुश्च संभवतीत्यर्थः ॥
With sons and daughters by their side they reach their full extent of life,
Both decked with ornaments of gold.
Possessing sons, possessing children they attain a complete lifespan, both decorated with gold.
An Söhnen und an Töchtern reich erreichen sie des Lebens Ziel, Sie beide reich mit Gold geschmückt.
Im Besitz von Söhnen und Kindern erreichen sie das volle Lebensalter, alle beide goldgeschmückt.
С сыновьями и детьми
Они достигают полного срока жизни,
Оба украшенные золотом.
वीति᳓होत्रा कृत᳓द्वसू
दशस्य᳓न्तामृ᳓ताय क᳓म्
स᳓म् ऊ᳓धो रोमशं᳓ हतो
देवे᳓षु कृणुतो दु᳓वः
वीतिहोत्रा वीतिहोत्रौ । वीतिः प्रियकरो होत्रा यज्ञो ययोस्तौ । अनेन यज्ञेन तयोः सुखादिकं संभवति । तादृशौ । यद्वा । वीतिः कान्त्यर्थः । होत्रेति वाङ्नाम । अस्मद्विषयां स्तुतिं कुरुतमिति पृथक्पृथग्देवैः काम्यमानस्तुती । अत एव कं सुखप्रदं हवीरूपमन्नं दशस्यन्ता देवेभ्यः प्रयच्छन्तौ कृतद्वसू । तकारोपजनश्छान्दसः । याचमानकृतधनौ । पात्रेषूपयुक्तधनावित्यर्थः । एवंविधौ दंपती अमृताय अमरणाय संतानाभिवृद्धये रोमशं रोमवन्तं वृषणम् ऊधः योनिं च सं हतः संयोजयत इति मैथुनमनूद्यते । ततः सपुत्रादिकौ तौ देवेषु दुवः स्तुत्यन्नदानरूपां परिचर्यां कृणुतः कुरुतः । पञ्चभिर्दंपती अस्तूयेताम् ॥
Serving the Immortal One with gifts of sacrificial meal and wealth,
They satisfy the claims of love and pay due honour to the Gods.
The two whose oblations are worth pursuing, divvying up goods, doing honor, for the sake of immortality,
they slam together the hairy udder; they perform friendly service to
the gods.
Durch Opfermahl mit reichem Gut verehrend die Unsterblichen, Verleihn den Göttern Gaben sie.
Opfereifrig, Schätze sammelnd, dem Unsterblichen willfahrend drücken sie das behaarte Euter fest zusammen. Sie tuen ihre Schuldigkeit gegen die Götter.
Приглашающие (богов) на жертвы, создающие себе блага,
Почитающие (богов) для бессмертия,
(Эти) двое соединяют вымя (и) член,
Они выказывают уважение к богам.
आ᳓ श᳓र्म प᳓र्वतानां᳐
वृणीम᳓हे नदी᳓ना᳐म्
आ᳓ वि᳓ष्णोः सचाभु᳓वः
एतदादिषु दंपत्योराशिषः । यष्टारो वयं पर्वतानां फलपुष्पसहितलताभिर्युक्तानां यत् शर्म सुखं तत्तेषां स्थैर्यलक्षणं सुखं वा नदीनां चोभयकूलवासिभिर्मुनिभिर्मनुष्यैर्वा जपाद्यनुष्ठाने कृते यत्सुखं तासां भवति तत्सुखमेकत्र स्थित्वा सकलपदार्थभोक्तृत्वलक्षणमनुष्ठानलक्षणं सुखम् आ वृणीमहे संभजामहे । सचाभुवः देवैः सह भवतो देवसहितस्य विष्णोः अपि शत्रुहननलक्षणं यत्सुखं तदपि वयम् आ वृणीमहे । बाधाभावाद्धविष्प्रदानेन देवैः सह वर्तामह इत्यर्थः ॥ ॥ ३९ ॥
We claim protection from the Hills, we claim protection of the Floods,
Of him who stands by Visnu's side.
We would choose the shelter of the mountains, of the rivers,
of Viṣṇu, who stays by.
Der Berge Schutz begehren wir, den Schutz der Ströme wünschen wir, Und Vischnu's, der uns hülfreich sei.
Wir erbitten den Schutz der Berge, der Flüsse, des Vishnu, des Beistehers.
Мы просим о защите
Гор и рек,
(О защите) Вишну, (с ними) связанного.
अइ᳓तु पूषा᳓ रयि᳓र् भ᳓गः
सुअस्ति᳓ सर्वधा᳓तमः
उरु᳓र् अ᳓ध्वा सुअस्त᳓ये
रयिः धनानां दाता भगः भजनीयः सर्वैः सर्वधातमः सर्वेषां धारयितृतमः सर्वेषां धनादिभिः पोषयितृतमः पूषा एतन्नामको देवः स्वस्ति क्षेमेण आ एतु अस्मान् प्रत्यागच्छतु । ततो मार्गरक्षके पूषण्यागते सति उरुः विस्तीर्णः अध्वा मार्गः स्वस्तये अस्माकमविनाशाय भवतु ॥
May Pusan come, and Bhaga, Lord of wealth, All-bounteous, for our weal
Broad be the path that leads to bliss:
Let Pūṣan come here, let Wealth, let Fortune, best establishing
well-being and whole(ness),
a broad road toward well-being.
Komm Puschan, Raji, Bhaga her, zum Heil der Segen spendende, Zum Glücke sei der Weg gebahnt;
Pusan soll kommen, der Reichtum, Bhaga, der am ehesten Glück und alles gewährt, der breite Weg zum Heil,
Пусть придет Пушан, Богатство, Бхага,
Лучше всех наделяющий счастьем и полнотой (здоровья),
Широкий путь к счастью,
अर᳓मतिर् अनर्व᳓णो
वि᳓श्वो देव᳓स्य म᳓नसा
आदित्या᳓नाम् अनेह᳓ इ᳓त्
देवानां मध्ये पूषणमाह । अनर्वणः । अर्वा गन्तव्यः । शत्रुभिरगन्तव्यस्य अप्रत्यृतस्य देवस्य द्योतमानस्य पूष्णः विश्वः सर्वः स्तोतृजनः मनसा श्रद्धया भक्त्यैव अरमतिः अलंमतिः पर्याप्तस्तुतिर्भवति । तथा हि आदित्यानाम् अदितेः पुत्राणां देवानां दानम् अनेह इत् अपापमेव खलु । तस्मादन्नादिप्राप्तये स्तोतृजनः पूषणं स्तौतीत्यर्थः ॥
Aramati, and, free from foes, Visva with spirit of a God,
And the Adityas' peerless might.
(Let) Aramati [/Devotion] (come), (let) every unassailing one with the mind of a god,
the faultless (gift?) of the Ādityas.
Aramati, Anarvana und jeder unvergleichliche Aditja mit der Götter Sinn.
Aramati, die Unerreichbaren, ein jeder mit des Gottes Sinn, der unfehlbare Schirm der Aditya´s.
Арамати, (эти) неодолимые,
Каждый с божественным промыслом,
Непробиваемый (щит) Адитьев.
य᳓था नो मित्रो᳓ अर्यमा᳓
व᳓रुणः स᳓न्ति गोपाः᳐᳓
सुगा᳓ ऋत᳓स्य प᳓न्थाः᳐
मित्रोऽर्यमा वरुणः एते त्रयो देवाः नः अस्माकं गोपाः गोपायितारः यथा सन्ति भवन्ति यैर्मार्गैर्वयमेतैः पालयितव्या भवाम ते ऋतस्य सत्यभूतस्य यज्ञस्य पन्थाः पन्थानः सुगाः एषां सुगमना भवन्तु । तैरागत्य अस्मान् यज्ञमार्गे स्थापयन्त्वित्यर्थः ॥
Seeing that Mitra, Aryaman, and Varuna are guarding us,
The paths of Law are fair to tread.
Just as Mitra, Aryaman, and Varuṇa are our protectors, (so) are the paths of truth, which are easy to travel.
So oft uns Mitra, Arjaman und Varuna Beschützer sind, Ist uns des Rechtes Pfad gebahnt.
So wie Mitra, Aryaman, Varuna unsere Behüter sind, sind die Wege des Gesetzes leicht zu wandeln.
Подобно тому как нам Митра, Арьяман,
Варуна являются хранителями,
(Так) пути закона легко проходимы (для нас).
+++(ऋत्विग्यजमानाः!)+++
अग्निं᳓ वः पूर्व्यं᳓ गिरा᳓
देव᳓म् ईळे व᳓सूनाम् ।
+++(हे)+++ सपर्य᳓न्तः! पुरु-प्रियं᳓
मित्रं᳓ न᳓ क्षेत्र-सा᳓धसम् ॥
हे देवाः वः युष्माकं पूर्व्यं मुख्यं पुरतो गन्तारं वा देवं स्वभासा दीप्यमानम् अग्निं वसूनां प्राप्तये गिरा स्तुतिलक्षणया वाचा ईळे अहं स्तौमि । किंच सपर्यन्तः युष्मान् परिचरन्तो मनुष्याः पुरुप्रियं बहविधप्रियं बहूनामभिमतदानेन प्रीणयितारं वा क्षेत्रसाधसम् । क्षियन्ति निवसन्ति कर्मकरणार्थमत्रेति क्षेत्रो यज्ञः । तस्य साधकम् । साधने दृष्टान्तः । मित्रं न । यथा मित्रं सुहृदन्यस्य क्षेत्रं केदारादिकं साधयति तद्वद्यज्ञसाधकमग्निं वसुप्राप्तये स्तुवन्ति ॥
I glorify with song, for wealth, Agni the God, the first of you.
We honour as a well-loved Friend the God who prospereth our fields.
Agni, the foremost god of the good ones do I invoke for you all with a hymn—
(I and you all) serving him, dear to many, like an ally who brings
success to the cultivated lands.
Den Agni preise ich zuerst mit Lied, den Gott der Schätze gibt, den Hort des Feldes ehren wir, wie einen vielgeliebten Freund.
Agni berufe ich euch, den Gott als Ersten der Vasu´s mit meiner Lobrede, den Viellieben in Ehren haltend wie einen Freund und Mittler, der den Streit um die Felder schlichtet.
Агни для вас я первым призываю
Как бога богатств (своей) хвалебной песнью,
Почитая многолюбимого,
Как Митру, приводящего в порядок поля.
मक्षू᳓+++(=शीघ्रम्)+++ देव᳓वतो +++(यज्वनो)+++ र᳓थः
शू᳓रो वा पृत्सु᳓ का᳓सु चित् ।
देवा᳓नां य᳓ इ᳓न् म᳓नो
य᳓जमान इ᳓यक्षत्य्,
अभी᳓द् अ᳓यज्वनो भुवत् ॥+++(4)+++
देववतः । देवा यष्टव्यतया यस्य सन्ति स देववान् । तस्य रथः देवैर्दत्त: मक्षु शीघ्रं दुर्गमं मार्गमपि प्रविशति । सर्वत्राप्रतिहतगतिरित्यर्थः । तत्र दृष्टान्तः । वा इतिशब्दोऽत्र उपमानवाची । यथा शूरः योद्धा कासु चित् पृत्सु पृतनासु तद्वत् । यः देवानाम् । इत् अवधारणे । मनः एव इयक्षति स्तुतिभिः पूजयितुमिच्छति । यद्वा । देवानां मन इयक्षति हविर्भिर्यष्टुमिच्छति । सः यजमानः अयज्वनः यागमकुर्वतो जनान् अभि भुवत् स्वसामर्थ्येनाभिभवत्येव ॥ इयक्षति । ‘ यक्ष पूजायाम् '। यज देवपूजादिषु । उभयोरभ्यासस्य संप्रसारणं छान्दसम् । पूर्वस्य ‘ स्कोः संयोगाद्योः ' इति ककारलोपः ॥
As in all frays the hero, so swift moves his car whom Gods attend.
The man who, sacrificing, strives to win the heart of Deities will conquer those who worship not.
Swiftly (goeth) the chariot of the worshipper [3]
Like a hero in every contest;
He who by sacrifice is fain to win the mind of the gods
Shall prevail over those who sacrifice not.
Quick is the chariot of the one with god on his side, or a champion in battles of every sort.
– Just he who, as sacrificer, seeks to attain the mind of the gods will
surpass non-sacrificers.
Des Frommen Wagen wie ein Held eilt schnell voran in jedem Kampf; Wer recht der Götter Sinn verehrt, und Opfer darzubringen strebt, der wird der Opferlosen Herr.
Schnell ist der Wagen des Göttergünstlings oder der Held in jedweden Kämpfen. Wer opfernd das Herz der Götter gewinnen will, der wird über die Opferlosen obsiegen.
У любимца богов колесница быстрая,
Как герой в любых сражениях.
Жертвователь, который жертвами
Хочет покорить сердце богов,
Одерживает верх над тем, кто не приносит жертв.
न᳓ यजमान रिष्यसि
न᳓ सुन्वान न᳓ देवयो
देवा᳓नां᳐ य᳓ इ᳓न् म᳓नो
य᳓जमान इ᳓यक्षति
अभी᳓द् अ᳓यज्वनो भुवत्
हे यजमान यः भवान् देवानां मनः इयक्षति स त्वं न रिष्यसि विनष्टो न भवसि । किंतु पुत्रपौत्रादिभिर्वर्धसे । हे सुन्वान सोमाभिषवं कुर्वन् यः सुन्वंस्तेषां मन इयक्षति स त्वमपि न रिष्यसि । हे देवयो देवान् कामयमान यो देवानियक्षति तादृशस्त्वमपि न रिष्यसि किंतु धनादिभिर्वर्धसे । देवानां मनो यो यजमानो यष्टुमिच्छति स यागमकुर्वतो जनानभिभवति ॥
Ne'er are ye injured, worshipper, presser of juice, or pious man.
The man who, sacrificing, strives to win the heart of Deities will conquer those who worship not.
Thou art not harmed, O sacrificer,
Nor thou, O pourer, nor thou, O pious one;
[He who by sacrifice is fain to win the mind of the gods
Shall prevail over those who sacrifice not.]
You suffer no harm, o sacrificer, nor do you, o presser, nor you, o seeker of the gods.
– Just he who, as sacrificer, seeks to attain the mind of the gods will
surpass non-sacrificers.
Nicht trifft dich Schaden, Opferer, nicht Somapresser, Frommer dich; Wer recht der Götter, Sinn verehrt, und Opfer darzubringen strebt, der wird der Opferlosen Herr.
Nicht nimmst du, Opfernder, Schaden, nicht du Somapresser, nicht du Gottergebener. Wer opfernd das Herz der Götter gewinnen will, der wird über die Opferlosen obsiegen.
Ты не потерпишь вреда, о жертвователь,
Ни (ты,) о выжимающий (сому), ни (ты,) о преданный богам!
Жертвователь, который жертвами
Хочет покорить сердце богов,
Одерживает верх над тем. кто не приносит жертв.
न᳓किष् टं᳓ क᳓र्मणा नशन्
न᳓ प्र᳓ योषन्+++(←यु मिश्रणामिश्रणयोः)+++, न᳓ योषति ।
देवा᳓नां य᳓ इ᳓न् म᳓नो
य᳓जमान इ᳓यक्षत्य्
अभी᳓द् अ᳓यज्वनो भुवत् ॥
यः यजमानः देवानां मनः यष्टुमिच्छति तं नकिः न कश्चिदपि नशत् स्वकीयेन कर्मणा न व्याप्नोति । नशतिव्याप्तिकर्मा । किंच स यष्टा न प्र योषत् स्वस्मात् स्थानान्न विभक्तः पृथक्कृतो न भवति । किंच न योषति पुत्रादिभिर्धनादिभिश्च न विभक्तो भवति । ‘यु मिश्रणामिश्रणयोः' इत्यस्य उभयत्र लेट्यडागमः । शिष्टं व्याख्यातम् ॥
None in his action equals him, none holds him far or keeps him off.
The man who, sacrificing, strives to win the heart of Deities will conquer those who worship not.
No one shall in act approach him,
No one shall anticipate him nor stay him.
[He who by sacrifice is fain to win the mind of the gods
Shall prevail over those who sacrifice not.]
Because of his (ritual) work no one can catch up to him, nor send him away, nor keep him away.
– Just he who, as sacrificer, seeks to attain the mind of the gods will
surpass non-sacrificers.
Niemand verletzet durch sein Thun, noch scheucht er den, noch wehrt ihn ab; Wer recht der Götter Sinn verehrt, und Opfer darzubringen strebt, der wird der Opferlosen Herr.
Keiner holt den mit seinem Werk ein, noch wird er ihn davon ablenken oder abhalten, wer opfernd das Herz der Götter gewinnen will, der wird über die Opferlosen obsiegen.
Никто ни действием не настигнет его.
Ни в стороне он не останется и не отстранится.
Жертвователь, который жертвами
Хочет покорить сердце богов,
Одерживает верх над тем, кто не приносит жертв.
अ᳓सद् अ᳓त्र सुवी᳓र्यम्
उत᳓ त्य᳓द् आश्व्-अ᳓श्व्यम् ।
देवा᳓नां य᳓ इ᳓न्म᳓नो
य᳓जमान इ᳓यक्षत्य्
अभी᳓द् अ᳓यज्वनो भुवत् ॥
यः यजमानः देवानां मनः यष्टुमिच्छति अत्र अस्मिन् यजमाने सुवीर्यं शोभनवीर्योपेतं पुत्रादिकम् असत् भवत्येव । उत अपि च आश्वश्व्यम् आशुगमनाश्वसंघयुक्तं त्यत् तद्धनादिकं तस्मिन् यजमाने भवति । देवानां मनो यो जनो हविर्भिर्यष्टुमिच्छति यद्वा पूजयितुमिच्छति स जनः अयज्वनः सर्वानभिभवत्येव ॥ ॥ ४० ॥
Such strength of heroes shall be his, such mastery of fleet-foot steeds.
The man who, sacrificing, strives to win the heart of Deities will conquer those who worship not.
There shall be wealth of heroes,
And plenteousness of swift steeds;
[He who by sacrifice is fain to win the mind of the gods
Shall prevail over those who sacrifice not.]
There will be (a mass) of good heroes here and also (a mass) of swift horses.
– Just he who, as sacrificer, seeks to attain the mind of the gods will
surpass non-sacrificers.
Hymns 32–34 form a small collection, with all three hymns devoted to Indra, and frequently mentioning the Kaṇvas internally (and attributed by the Anukramaṇī to three different Kāṇva poets). See Oldenberg (1888: 215).
Bei ihm muss Heldenfülle sein und schneller Rosse Vollbesitz; Wer recht der Götter Sinn verehrt, und Opfer darzubringen strebt, der wird der Opferlosen Herr.
Bei ihm wird Besitz von guten Söhnen und der Besitz schneller Rosse sein, wer opfernd das Herz der Götter gewinnen will, der wird über die Opferlosen obsiegen.
У него будет владение прекрасными мужами,
А также владение быстрыми конями.
Жертвователь, который жертвами
Хочет покорить сердце богов,
Одерживает верх над тем, кто не приносит жертв.