य᳓द् इन्द्र प्रा᳓ग् अ᳓पाग् उ᳓दङ्
नि᳓अग् वा हूय᳓से नृ᳓भिः
सि᳓मा पुरू᳓ नृ᳓षूतो असि आ᳓नवे
अ᳓सि प्रशर्ध तुर्व᳓शे
हे इन्द्र यत् यदि प्राक् प्राच्यां दिशि वर्तमानैः । सप्तम्यन्ताद्दिक्छब्दाद्विहितस्यास्तातेः ‘ अञ्चेर्लुक्' (पा. सू. ५. ३. ३०) इति लुक् । अपाक् प्रतीच्यां दिशि वर्तमानैः । यदि वा उदक् उदीच्यां दिशि वर्तमानैः । यत् वा न्यक् नीच्यां दिशि अधस्ताद्वर्तमानैः। ‘न्यधी च' इति नेः प्रकृतिस्वरत्वम्। 'उदात्तस्वरितयोर्यणः' इति परस्यानुदात्तस्य स्वरितत्वम् । एवंभूतैः नृभिः स्तोतृभिस्त्वं हूयसे स्वस्वकार्याय आहूयसे हे सिम श्रेष्ठेन्द्र । ‘सिम इति वै श्रेष्ठमाचक्षते' इति वाजसनेयकम् । यद्यप्येवं बहुभिराहूयसे तथापि आनवे । अनुर्नाम राजा । तस्य पुत्रे राजर्षौ पुरु बहुलं नृषूतः नृभिस्तदीयैः स्तोतृभिः प्रेरितः असि भवसि । राज्ञो हितकरणे त्वां स्तोतारः प्रेरयन्तीत्यर्थः । ‘षू प्रेरणे' । अस्मात् कर्मणि निष्ठा ।' तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । अपि च हे प्रशर्ध प्रकर्षेण शर्धयितरभिभवितरिन्द्र तुर्वशे एतत्संज्ञे च राजनि नृषूतः असि नृभिः प्रेरितो भवसि ॥
THOUGH, Indra, thou art called by men eastward and westward, north and south,
Thou chiefly art with Anava and Turvasa, brave Champion I urged by men to Come.
When, Indra, you are being called forward or back, up or down, by men, you yourself, propelled by men, are many times in the company of the descendants of Anu, are in the company of Turvaśa, you vaunter.
Wenn, Indra, du in Ost und West, in Nord und Süd gerufen wirst; Denn alle Männer rufen oft dich; weilst du doch beim holden Turvaça, o Held,
Ob du, Indra, im Ost, im West, im Nord oder Süd von Männern gerufen wirst, so bist du selbst doch oftmals bei dem Anukönig, durch dessen Männer bewogen, bist du Gewaltiger bei Turvasa.
Когда, о Индра, на востоке, на западе, на севере
Или на юге тебя призывают мужи,
То сам ты часто бываешь у предводителя Ану, побуждаемый (его) мужами,
Ты бываешь, о смелый, у Турваши.
य᳓द् वा रु᳓मे रु᳓शमे श्या᳓वके कृ᳓प
इ᳓न्द्र माद᳓यसे स᳓चा
क᳓ण्वासस् त्वा ब्र᳓ह्मभि स्तो᳓मवाहस
इ᳓न्द्रा᳓ यछन्ति आ᳓ गहि
यद्वा यद्यपि रुमादिषु चतुर्ष राजसु हे इन्द्र त्वं सचा सह मादयसे माद्यसि तथापि स्तोमवाहसः स्तोमानां स्तोत्राणां वोढारः कण्वासः कण्वगोत्रा ऋषयः ब्रह्मभिः परिवृढैर्मन्त्रैर्हविर्भिर्वा हे इन्द्र त्वाम् आ यच्छन्ति आगमयन्ति । यद्वा । द्वितीयार्थे तृतीया । ब्रह्मभिर्ब्रह्माणि हवींष्याभिमुख्येन प्रयच्छन्ति ददति । ‘दाण् दाने '। 'पाघ्रा' इत्यादिना यच्छादेशः । अतस्त्वम् आ गहि शीघ्रमागच्छ । गमेर्लोटि छान्दसः शपो लुक् ॥
Or, Indra, when with Ruma, Rusama, Syavaka, and Krpa thou rejoicest thee,
Still do the Kanvas, bringing praises, with their prayers, O Indra, draw thee hither: come.
Or when, Indra, in the company of Ruma, Ruśama, Syāvaka, or Kr̥pa, you bring yourself to exhilaration,
the Kaṇvas, whose vehicle is praise, guide you here with their sacred
formulations, Indra. Come here!
Wenn du bei Ruma, Ruçama, bei Çjāvaka, bei Kripa, Indra dich erfreust; So lenken dich die Kanva's durch Gebete her, lobsingend; komm, o Indra, her.
Oder wenn du bei Ruma, bei Rusama, bei Syavaka, bei Kripa dich berauschest, Indra, so lenken die Kanva´s mit beschwörenden Reden durch ihr Loblied anziehend dich, Indra, her. Komm!
Или же когда ты, о Индра, опьяняешься
У Румы, Рушамы, Шьяваки, Крипы,
То Канвы, исполняющие воспевания, священными словами тебя,
О Индра, притягивают. Приходи!
य᳓था गौरो᳓ अपा᳓ कृतं᳓
तृ᳓ष्यन्न् ए᳓ति अ᳓वे᳓रिणम्
आपित्वे᳓ नः प्रपित्वे᳓ तू᳓यम् आ᳓ गहि
क᳓ण्वेषु सु᳓ स᳓चा पि᳓ब
गौरः गौरमृगः तृष्यन् पिपासन् अपा अद्भिरुदकैः । व्यत्ययेनैकवचनम्। 'ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम्। कृतं संपूर्णं कृतम् इरिणं निस्तृणं तटाकदेशं यथा येन प्रकारेण अव एति अवगच्छति । अवशब्दोऽभिशब्दस्यार्थे । अभिमुखः सन् शीघ्रं गच्छति तथा आपित्वे बन्धुत्वे प्रपित्वे प्राप्ते सति हे इन्द्र त्वं नः अस्मान् तूयम्। क्षिप्रनामैतत् । शीघ्रम् आ गहि आगच्छ । आगत्य च कण्वेषु कण्वपुत्रेष्वस्मासु सचा सहैकयत्नेनैव विद्यमानं सर्वं सोमं सु सुष्ठु पिब ॥
Even as the wild-bull, when he thirsts, goes to the desert's watery pool,
Come hither quickly both at morning and at eve, and with the Kanvas drink thy fill.
As a thirsty buffalo goes down to a salt-pocket made by water,
come swiftly here to us in friendship [/in the morning], in the evening. In the company of the Kaṇvas, drink up!
Gleich wie der Büffel dürstend hin zur wasserreichen Quelle eilt, So komme Abends, Morgens eilend her zu uns, und trinke bei den Kanva's gern.
Wie der durstige Büffel zu einem vom Wasser gemachten Rinnsal hinabsteigt, so komme rasch zu uns früh und spät; trink fein bei den Kanva´s!
Как бык-гаура, мучимый жаждой,
Спускается к стоку, образованному водой,
(Так) быстро приходи к нам вечером (и) перед едой!
Напейся хорошенько у Канвов!
म᳓न्दन्तु त्वा मघवन्न् इन्द्र इ᳓न्दवो
राधोदे᳓याय सुन्वते᳓
आमु᳓ष्या सो᳓मम् अपिबश् चमू᳓ सुतं᳓
ज्ये᳓ष्ठं त᳓द् दधिषे स᳓हः
हे मघवन् धनवन् इन्द्र इन्दवः क्लेदनाः सोमास्त्वां मन्दन्तु मादयन्तु हर्षयन्तु । मदेर्व्यत्ययेन' परस्मैपदम् । किमर्थम् । सुन्वते सोमाभिषवं कुर्वते यजमानाय राधोदेयाय राधसो धनस्य दानार्थम् । ददातेः ‘अचो यत्' इति भावे यत् ।'ईद्यति' इतीकारः । यतोऽनावः' इत्याद्युदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । ‘शतुरनुमः' इति सुन्वच्छब्दात् परा विभक्तिरुदात्ता । अपि च त्वं सोमम् आमुष्य आमोषणं कृत्वा अदत्तमपि बलादपहृत्य अपिबः पीतवानसि । ‘स यज्ञवेशसं कृत्वा प्रासहा सोममपिबत्' (तै. सं. २. ४. १२. १) इति श्रुतेः । कीदृशं सोमम् । चमू चम्वोरधिषवणफलकयोः सुतम् अभिषुतम् । यद्वा चमूभ्यां चमसाभ्यां होतुर्मैत्रावरुणस्य च संबन्धिभ्यां संस्कृताभिर्वसतीवरीभिः सुतमभिषुतम् । यस्मादेवं तत् तस्मात् कारणात् ज्येष्ठं प्रशस्यतमं वृद्धतमं वा सहः बलं दधिषे हे इन्द्र त्वं धारयसि । अतो मदीया अपि सोमास्त्वां मादयन्त्विति प्रार्थ्यते ॥
May the drops gladden thee, rich Indra, and obtain bounty for him who pours the juice.
Soma pressed in the mortar didst thou take and drink, and hence hast won surpassing might.
Let the drops exhilarate you, bounteous Indra, to give largesse to the presser.
Having stolen the pressed soma, you drank it in a cup. (Then) you
assumed this most superior might.
Dich, reicher Indra, mög' erfreun der Somatrunk, zu schenken Gut dem Kelterer; Den Soma nehmend trankst du den gepressten Saft, gewannest diese grösste Kraft.
Es sollen dich, gabenreicher Indra, die Somasäfte berauschen, auf daß du dem Somapressenden schenkest. Nachdem du den Soma geraubt hattest, trankst du den in dem Camugefäß ausgequetschten. Da hast du dir die höchste Gewalt zugelegt.
Пусть опьянят тебя, о щедрый Индра, соки сомы,
(Настроив) на вручение дара для выжимающего (сому)!
Рванув себе сому, ты напился выжатого в сосуде.
Тут ты приобрел высшую силу.
प्र᳓ चक्रे स᳓हसा स᳓हो
बभ᳓ञ्ज मन्यु᳓म् ओ᳓जसा
वि᳓श्वे त इन्द्र पृतनाय᳓वो यहो
नि᳓ वृक्षा᳓ इव येमिरे
स इन्द्रः सहसा आत्मीयेनाभिभवेन वीर्यकर्मणा सहः शत्रूणामभिभवनं प्र चक्रे प्रकर्षेण कृतवान् । तथा ओजसा बलेन मन्युं परकीयं क्रोधं बभञ्ज भग्नवान् । उत्तरोऽर्धर्चः प्रत्यक्षकृतः । हे यहो । महन्नामैतत् । हे महन् इन्द्र विश्वे सर्वे पृतनायवः युद्धकामाः शत्रवः ते त्वया वृक्षाइव महीरुहा इव नि येमिरे नियता आसन् । यथा वृक्षा निश्चलास्तिष्ठन्ति तद्वन्निर्व्यापारा अभूवन्नित्यर्थः ॥ ॥ ३० ॥
With mightier strength he conquered strength, with energy he crushed their wrath.
O Indra, Strong in youth, all those who sought the fray bent and bowed down to thee like trees.
He put forward his might with might; he shattered battle fury with his power.
All who seek battle, vigorous Indra, hold themselves down, like trees, before you.
Durch Kraft verschaffte er sich Kraft und brach der Feinde Wuth mit Macht; Vor dir, o Indra, sinken alle Feinde hin, o Held, wie Bäume hingestreckt.
Er hat die Gewalt mit Gewalt behandelt, den Grimm hat er mit Kraft gebrochen. Alle Kampflustigen duckten sich vor dir, o jüngster Indra, wie die Bäume.
Он покорил силу силой,
Мощью сломил ярость.
Все желающие сразиться, о юный Индра,
Оцепенели перед тобой, как деревья.
सह᳓स्रेणेव सचते यवीयु᳓धा
य᳓स् त आ᳓नळ् उ᳓पस्तुतिम्
पुत्र᳓म् प्रावर्गं᳓ कृणुते सुवी᳓रिये
दाश्नो᳓ति न᳓मउक्तिभिः
हे इन्द्र ते तव उपस्तुतिं स्तोत्रं यः पुरुषः आनट् प्राप्नोति त्वां प्रापयति । अश्रोतेर्लङि व्यत्ययेन परस्मैपदम् । --- सचते समवैति । ‘षच समवाये । सहस्रेणेव यथा सहस्रसंख्येन बलेन तथेत्यर्थः। यश्च यजमानः नमउक्तिभिः नमस्कारवचनैः स्तोत्रैः सार्धं दाश्नोति हवींषि तुभ्यं ददाति । ‘दाशृ दाने'। स यजमानः सुवीर्ये शोभनवीर्ययुक्ते संग्रामे प्रावर्गं प्रकर्षेण शत्रूणां वर्जयितारं पुत्रं कृणुते करोति उत्पादयति । त्वत्प्रसादाल्लभत इत्यर्थः । प्रपूर्वाद्वृजेः ‘कृत्यल्युटो बहुलम्' इति कर्तरि घञ्। 'उपसर्गस्य घञ्यमनुष्ये' (पा. सू. ६. ३. १२२) इति दीर्घः । थाथादिनोत्तरपदान्तोदात्तत्वम् । यद्वा । सुवीर्यं इत्येतत् पुत्रस्य विशेषणम् । द्वितीयार्थे सप्तमी । शोभनवीर्यं पुत्रम् । बहुव्रीहौ ‘ वीरवीर्यौ च' इत्युत्तरपदाद्युदात्तत्वम् ॥
He who wins promise of thine aid goes girt as with a thousand mighty men of war.
He makes his son preeminent in hero might - he serves with reverential prayer.
He is accompanied by an ever-battling warrior as if by a thousand— whoever has achieved a praise-invocation for you.
He puts his own son forward with a good twist amid an abundance of good heroes—(whoever) ritually serves with words of reverence.
Umgeben wie von tausendfacher Streiterschar, ist der, der deinen Beifall fand; Den eignen Sohn macht tüchtig er zur Heldenthat, mit frommen Sprüchen huldigend.
Der ist mit einem starken Kämpfer, der Tausenden gleicht, verbündet, wer deinen Lobpreis zuwege gebracht hat; er macht, daß sein Sohn in Meisterschaft vorangeht, wer dir mit Huldigungsreden aufwartet.
(Только) тот связан с могучим борцом, равным тысячам,
Кто справился с твоим восхвалением.
Сына (своего) тот приводит к успеху в высшем мужестве,
(Кто) почитает (тебя) выражениями поклонения.
मा᳓ भेम मा᳓ श्रमिष्म
उग्र᳓स्य सखिये᳓ त᳓व
मह᳓त् ते वृ᳓ष्णो अभिच᳓क्षियं कृत᳓म्
प᳓श्येम तुर्व᳓शं य᳓दुम्
हे इन्द्र उग्रस्य उद्गूर्णबलस्य तव सख्ये सखित्वे सति वयं मा भेम मा भैष्म । कुतश्चिदपि शत्रोर्भीता मा भूम। मा श्रमिष्म श्रान्ताः पीडिताश्च मा भूम। वृष्णः कामानां वर्षितुः ते तव संबन्धि महत् प्रभूतं कृतं वृत्रवधादिलक्षणं कर्म अभिचक्ष्यम् अभितः ख्यापनीयं स्तोतव्यम् । अतो महानुभावस्य तव सख्यं प्राप्तानां भीतिश्रमौ न जायेते इत्यर्थः। तत् कथमवगम्यत इति चेदुच्यते । तुर्वशम् एतत्संज्ञं राजर्षिं यदुम् एतत्संज्ञं च त्वत्प्रसादात् सुखेन जीवन्तौ पश्येम दृष्टवन्तः खलु वयम् । अतः कारणात् त्वत्सख्यं प्राप्तस्य भयादिकं न जायत इत्येतदुपपन्नमित्यर्थः ॥
With thee, the Mighty, for our Friend, we will riot fear or feel fatigue.
May we see Turvasa and Yadu: thy great deed, O Hero, must be glorified.
Might we not fear, might we not grow weary in comradeship with you, the powerful one.
A great deed of you the bull should be witnessed. Might we see Turvaśa and Yadu.
Nicht zagen, nicht ermatten wir, sind dir, dem starken, wir vereint, Bewundernswerth, o Held, ist dein erhab'nes Werk; lass sehn uns Turvaça-Jadu.
Nicht wollen wir zagen, noch ermüden in deiner, des Gewaltigen, Freundschaft. Sehenswert ist die große Tat von dir, dem Bullen. Wir möchten Turvasa und Yadu wiederschauen.
Пусть не робеем мы, пусть не мучаемся
В дружбе с тобою, грозным!
Примечательно (это) великое деяние у тебя, быка.
Мы хотели бы (снова) увидеть Турвашу и Яду!
सव्या᳓म् अ᳓नु स्फिगि᳓यं वावसे वृ᳓षा
न᳓ दानो᳓ अस्य रोषति
म᳓ध्वा स᳓म्पृक्ताः सारघे᳓ण धेन᳓वस्
तू᳓यम् ए᳓हि द्र᳓वा पि᳓ब
वृषा कामानां वर्षितेन्द्रः सव्यां दक्षिणेतरां स्फिग्यं कटिप्रदेशम् अनु । तृतीयार्थेऽनोः कर्मप्रवचनीयत्वम्। सव्यया स्फिग्या शरीरैकदेशेनैव ववसे वस्ते । सर्वभूतजातमाच्छादयति । स्वयं कृत्स्नं जगदतीत्य वर्तत इत्यर्थः । निगमान्तरं च भवति – 'यदन्यया स्फिग्या क्षामवस्थाः ' (ऋ. सं. ३. ३२. ११) इति । अपि च दानः अवखण्डयिता। 'दान अवखण्डने '। पचाद्यच् । स च अस्य इममिन्द्रं न रोषति न हिनस्ति । ‘रिष रुष हिंसायाम् । इन्द्रं हिंसितुं शक्तः कश्चिदपि नास्तीत्यर्थः । यद्वा । दानो हविषां दाता यजमानश्चास्येन्द्रस्य न रोषति रोषं न जनयति । सर्वदा हविर्भिः परिचरतीत्यर्थः । उत्तरोऽर्धर्चः प्रत्यक्षकृतः । सारघेण । सरघा मधुमक्षिका । तत्संबन्धिना मध्वा मधुना । लुप्तोपममेतत् । मधुनेव रसवता क्षीरादिना श्रयणद्रव्येण संपृक्ताः संसृष्टाः संस्कृताः धेनवः धेनुवत् प्रीतिजनका अस्मदीयाः सोमाः । यद्वा । धिवेः प्रीणनार्थाद्धेनवः । प्रीणयितार इत्यर्थः । अथवा । 'धेट् पाने'। 'धेट इच्च ' इत्यौणादिको नुप्रत्ययः । तसंनियोगेन इकारान्तादेशश्च । पातव्याः सोमा इत्यर्थः । यत एवमतः कारणात् हे इन्द्र तूयं क्षिप्रम् एहि अस्मत्समीपमागच्छ। आगत्य च द्रव । सोमा यस्मिन्नुत्तरवेदिलक्षणे स्थाने हूयन्ते तं देशं शीघ्रं गच्छ। द्रु गतौ ' इति धातुः । ‘ द्व्यचोऽतस्तिङः' इति सांहितिको दीर्घः। तदनन्तरमध्वर्युणा दत्तं सोमं पिब । तेन सोमेन सम्यक् स्वोदरं पूरयेत्यर्थः ॥
On his left hip the Hero hath reclined himself: the proffered feast offends him not.
The milk is blended with the honey of the bee: quickly come hither, baste, and drink.
The bull wears (it [=the earth]) on his left hip. His giving is not
resentful.
The milk-cows are infused with the honey of the bees. Come here
swiftly! Run! Drink!
An seiner linken Hüfte ist der Held bewehrt, und nicht verschmähet er den Schmaus; Mit süssem Honig sind die Molken wohl vermischt, komm eilend, laufe her und trink.
Der Bulle deckte seine linke Seite. Die Schenkung verdrießt ihn nicht. Mit Bienensüß ist die Kuhmilch durchtränkt: Komm schnell her, lauf, trink!
Бык прикрыл себе левое бедро.
Дарение его не раздражает.
Коровье (молоко) пропитано пчелиным медом.
Быстро приходи ! Беги! Пей!
अश्वी᳓ रथी᳓ सुरूप᳓ इ᳓द्
गो᳓माँ इ᳓द् इन्द्र ते स᳓खा
श्वात्रभा᳓जा व᳓यसा सचते स᳓दा
चन्द्रो᳓ याति सभा᳓म् उ᳓प
हे इन्द्र ते तव सखा मित्रभूतः पुरुषोऽश्व्यादिगुणविशिष्ट एव भवति । इच्छब्दः प्रत्येकमभिसंबध्यते । अश्वी इत् बहुभिरश्वैरुपेत एव भवति । न कदाचिदश्वैर्वियुज्यते । रथी रथवानेव स भवति । सुरूप इत् शोभनरूपः शोभनावयव एव स भवति । गोमाँ इत् बह्वीभिर्गोभिर्युक्त एव स भवति । न कदाचिदेतैर्वियुज्यत इत्यर्थः । अपि च श्वात्रभाजा । ‘ श्वात्रम्' इति धननाम । आशु अतनीयं शीघ्रं प्राप्तव्यं शोभनं धनं संभजता ईदृग्धनसंयुक्तेन वयसा । अन्ननामैतत् । अन्नेन स सर्वदा सचते समवैति । संगच्छते । ‘षच समवाये। अत एव चन्द्रः सर्वेषामाह्लादकः सन् सभां जनसंसदम् उप याति उपगच्छति ॥
Indra, thy friend is fair of form and rich in horses, cars, and kine.
He evermore hath food accompanied by wealth, and radiant joins the company.
Your comrade, o Indra, certainly has a horse and chariot, is lovely in form and rich in cows.
He is always accompanied by the vigor of a swelling portion.
Glittering, he drives to the assembly.
An Wagen, Rossen, Rindern reich, ist, Indra, schön dein Freund geschmückt, Mit kraftverleihnder Speise ist er stets versorgt, geht glänzend in der Freunde Kreis.
Dein Freund, Indra, fährt mit Roß und Wagen, ist schön von Gestalt und reich an Kühen. Er steht jederzeit in dem Alter, in dem man die Vollkraft besitzt; glanzvoll schreitet er in die Versammlung.
Твой друг, о Индра, богат конями,
Колесницами, и на вид он прекрасен, и богат коровами
Всегда есть у него еда, поддерживающая силы.
Блистательный приходит он в собрание.
ऋ᳓श्यो न᳓ तृ᳓ष्यन्न् अवपा᳓नम् आ᳓ गहि
पि᳓बा सो᳓मं व᳓शाँ अ᳓नु
निमे᳓घमानो मघवन् दिवे᳓-दिव
ओ᳓जिष्ठं दधिषे स᳓हः
हे इन्द्र ऋश्यो न ऋश्याख्यो मृग इव तृष्यन् पिपासंस्त्वम् अवपानम् अवनीतं ग्रहचमसादिषु पात्रेष्वानीतं पातव्यं सोमम् आ गहि अभिगच्छ । गत्वा च तमस्मदीयं सोमं वशाँ अनु अनुकामं यथाकामं पिब। यावता पीतेन पर्याप्तिर्जायते तावता सोमेन स्वोदरं पूरयेत्यर्थः। अत एव सोमपानात् प्राप्तबलस्त्वं दिवेदिवे प्रतिदिवसं निमेघमानः न्यञ्च्यवाङ्मुखानि वृष्ट्युदकानि सिञ्चन् हे मघवन् इन्द्र ओजिष्ठम् ओजस्वितममुद्गूर्णतमं सहः बलं दधिषे धारयसि । ओजस्वि शब्दादिष्ठनि ‘विन्मतो लुक्' इति विनो लुक् । 'टेः' इति टिलोपः ॥ ॥ ३१ ॥
Come like a thirsty antelope to the drinking-place: drink Soma to thy heart's desire.
Raining it down, O Maghavan, day after day, thou gainest thy surpassing might.
Like a thirsting antelope, come to the drinking hole. Drink the soma as you will.
Pissing down day after day, o bounteous one, you have assumed the
most powerful might.
Gleichwie ein Hirsch, der dürstet, komm zur Tränke her, den Soma trink nach deiner Lust, Von ihm beströmet Tag für Tag, o mächtiger erlangst du stärkste Siegerkraft.
Wie ein dürstender Antilopenbock zur Tränke so komme her! Trinke nach Wunsch den Soma; ihn Tag für Tag herabharnend hast du dir die stärkste Kraft zugelegt, o Gabenreicher.
Приходи, как самец антилопы на водопой!
Пей сому, сколько хочешь!
Мочась им день за днем, о щедрый,
Ты приобретаешь самую крепкую силу.
अ᳓ध्वर्यो द्राव᳓या तुवं᳓
सो᳓मम् इ᳓न्द्रः पिपासति
उ᳓प नूनं᳓ युयुजे वृ᳓षणा ह᳓री
आ᳓ च जगाम वृत्रहा᳓
हे अध्वर्यो अध्वरस्य नेतः त्वं सोमं द्रावय । उत्तरवेदिलक्षणं स्थानं प्रापय । यद्वा। रसात्मना द्रवणशीलं कुरु । अभिषुण्वित्यर्थः । किं कारणमिति चेत् । इन्द्रः पिपासति इमं सोमं पातुमिच्छति । त्वयैतत् कथमवगतमिति चेत् तत्राह। वृषणा वर्षितारौ युवानौ वा हरी अश्वौ नूनम् अद्य युयुजे । उपगम्य सारथिर्योजितवान् रथे। वृत्रहा वृत्रस्य हन्तेन्द्रः च आ जगाम आगतवान् ।
Priest, let the Soma juice flow forth, for Indra longs to drink thereof.
He even now hath yoked his vigorous Bay Steeds: the Vrtra-slayer hath come near.
Adhvaryu, make the soma run: Indra wants to drink.
Now he has yoked his two bullish fallow bays and has come here, the Vr̥tra-smasher.
Dein Werk beeile, Opferer, denn Indra heischt den Somatrunk, Schon hat er seine goldnen Hengste angeschirrt, schon ist er hier, der Vritrafeind.
Adhvaryu! Laß du den Soma strömen; Indra hat Durst. Jetzt hat er sein Falbenpaar, das bullengleiche, angeschirrt und ist hergekommen, der Vritratöter.
Адхварью! Выпусти ты струиться
Сому! Индра хочет пить.
Вот сейчас он запряг пару бычьих буланых коней
И приехал, убийца Вритры.
स्वयं᳓ चित् स᳓ मन्यते दा᳓शुरिर् ज᳓नो
य᳓त्रा सो᳓मस्य तृम्प᳓सि
इदं᳓ ते अ᳓न्नं यु᳓जियं स᳓मुक्षितं
त᳓स्ये᳓हि प्र᳓ द्रवा पि᳓ब
दाशुरिः दाश्वान् । दाशतेरौणादिक उरिन् । हविषां दाता सः यजमानलक्षणो जनः स्वयं चित् स्वयमेव आत्मनैव मन्यते सर्वं जानाति । परायत्तप्रज्ञो न भवतीत्यर्थः । अत्र यस्मिन् जने सोमस्य पानेन हे इन्द्र त्वं तृम्पसि तृप्यसि । तृप तृम्प तृप्तौ । तौदादिकः । ‘ शे तृम्पादीनाम् ' (पा. सू. ७. १. ५९.१ ) इति नुम् । ते त्वदीयं युज्यं योग्यम् इदम् अस्मदीयं सोमलक्षणम् अन्नं समुक्षितं सम्यक् पात्रेष्वासिक्तम् । उक्ष सेचने '। कर्मणि निष्ठा। ‘ गतिरनन्तरः ' इति गर्तेः प्रकृतिस्वरत्वम् । अतस्तं तादृशं सोमम् एहि अभिगच्छ । प्र द्रव शीघ्रं प्राप्नुहि । तदनन्तरं पिब पानं कुरु ॥
The man with whom thou fillcst thee with Soma deems himself a pious worshipper.
This thine appropriate food is here poured out for thee: come, hasten forward. drink of it,
Even he himself considers himself a pious man at whose place you become sated on soma.
Here is your food, ready for yoking, fully sprinkled: of it—come!
run!—drink.
Der Mann erscheint sich selber auch als frommgesinnt, bei dem, am Soma, du dich labst; Hier ist die Speise, die du liebst, ergossen dir, o komme, laufe, trink davon.
Auch selbst hält sich der Mann für einen Spendierer, bei dem du dich am Soma labest. Dies ist die dir zukommende Speise, die mit Wasser begossene: von dieser trink, komm her, beeile dich!
И сам тот человек считает себя почитателем,
У которого ты насыщаешься сомой.
Вот подходящая для тебя еда, политая (водой).
Приходи! Беги вперед! Испей ее!
रथेष्ठा᳓य अध्वर्यवः
सो᳓मम् इ᳓न्द्राय सोतन
अ᳓धि ब्रध्न᳓स्य अ᳓द्रयो वि᳓ चक्षते
सुन्व᳓न्तो दाशु᳓अध्वरम्
रथेष्ठाय । रथे तिष्ठतीति रथेष्ठः । ‘सुपि स्थः' इति कप्रत्ययः । तत्पुरुषे कृति बहुलम् इति सप्तम्या अलुक् । एवंलक्षणाय इन्द्राय हे अध्वर्यवः सोमं सोतन अभिषुणुत । 'षुञ् अभिषवे '।' तप्तनप्तनथनाश्च ' इति तनबादेशः । ब्रध्नस्य बुध्नस्य मूलस्याभिषवार्थं चर्मणि स्थापितस्योपराख्यस्य विस्तृतस्याश्मनः अधि उपरि अद्रयः अन्ये ग्रावाणश्चतसृषु दिक्षु वर्तमानाः दाश्वध्वरं दाशोर्दातुर्यजमानस्य अध्वरो यागो येन निष्पद्यते तादृशं सोमं सुन्वन्तः ऋत्विङ्निरपेक्षं स्वयमेवाभिषुण्वन्तः वि चक्षते विशेषेण प्रकाशन्ते। सोमाभिषवेऽतिशयेनानुकूला वर्तन्त इत्यर्थः । अथवाद्रयस्तैरद्रिभिर्हे अध्वर्यवः सोममभिषुणुतेति योज्यम् ॥
Press out the Soma juice, ye priests, for Indra borne upon his car.
The pressing-stones speak loud of Indra, while they shed the juice which, offered, honours him.
Adhvaryus, press the soma for Indra who stands on the chariot.
The stones gaze out upon (the upper surface) of the coppery (soma) as they press the one belonging to pious ceremonies.
Den Soma presst, Gehülfen ihr, dem Wagenkämpfer Indra aus; Und selbst die Steine, pressend röthliches Gebräu, sehn auf die Opferdiener hin.
Adhvaryu´s! Presset Soma für den Wagenfahrer Indra! Noch über den rötlichen Soma tuen die pressenden Steine den Opferspender kund.
Адхварью, выжимайте сому
Для Индры, стоящего на колеснице!
Выжимающие камни над красно-желтым (соком)
Дают знать о совершающем обряде почитания.
उ᳓प ब्रध्नं᳓ वावा᳓ता वृ᳓षणा ह᳓री
इ᳓न्द्रम् अप᳓सु वक्षतः
अर्वा᳓ञ्चं त्वा स᳓प्तयो अध्वरश्रि᳓यो
व᳓हन्तु स᳓वने᳓द् उ᳓प
ब्रध्नम् अन्तरिक्षं वावाता' संभक्तवन्तौ । वनतेर्निष्ठायां छान्दसं द्विर्वचनमिडभाव आत्वं धातुस्वरश्च । अन्येषामपि दृश्यते ' इति सांहितिकोऽभ्यासदीर्घः । यद्वा । वावाता पुनः पुनर्गच्छन्तौ। ‘ वा गतिगन्धनयोः । अस्माद्यङ्लुगन्तात् कर्तरि निष्ठा । वृषणा वृषणौ सेक्तारौ हरी हरणशीलावश्वौ उक्तगुणौ सन्तौ अपसु अस्मदीयेषु कर्मसु । अपस्शब्दः सकारान्तः कर्मवचनः । ‘ पीवोपवसनानां छन्दसि लोपो वक्तव्यः' ( पा. म. ६. ३. १०९.६ ) इतीह सकारो लुप्यते । तत्रेमम् इन्द्रम् उप वक्षतः उपवहतामुपानयताम्। वहतेलेंट्यडागमः । ‘ सिब्बहुलम् ' इति सिप् । अपि च अध्वरश्रियः अध्वरं सेवमानाः सप्तयः सर्पणशीला अन्येऽपि त्वदीया अश्वाः सवना सवनानि प्रातःसवनादीन्यस्मद्यागसंबन्धीनि प्रति हे इन्द्र त्वाम् अर्वाञ्चम् अभिमुखम् उप वहन्तु उपगमयन्तु । इत् इति पूरकः ॥
To the brown juice may his dear vigorous Bay Steeds bring Indra, to our holy task.
Hither let thy Car-steeds who seek the sacrifice bring thee to our drink-offerings.
His two favorites, the bullish fallow bays, will convey Indra to the coppery (soma) among the industrious (priests).
Let your team, the glory of the ceremony, convey you, facing our way, right here to our pressings.
Die lieben Hengste fahren bei den emsigen den Indra hin zum rothen Trank, Dich mögen fahren zum Gelage nah herbei die Rosse, sie des Opfers Zier.
Den Indra soll das bullenhafte Falbenpaar, seine Lieblinge, zum rötlichen Soma, zu den werkkundigen Priestern fahren. Dich sollen die Gespanne, die das Opfer verschönern, zu den Trankspenden heranfahren!
Любимая бычья пара буланых коней пусть привезет
Индру к красно-желтому (соку), к деятельным (жрецам)!
В наши края пусть привезут тебя упряжки,
Украшающие (собой) обряд, прямо на выжимания!
प्र᳓ पूष᳓णं वृणीमहे
यु᳓जियाय पुरूव᳓सुम्
स᳓ शक्र शिक्ष पुरुहूत नो धिया᳓
तु᳓जे राये᳓ विमोचन
इदमाद्यासु चतसृषु पूष्ण इन्द्रस्य च लिङ्गसद्भावादेता उभयथा व्याख्यायन्ते । पुरूवसुं बहुधर्न पूषणं पोषकमिन्द्रं यद्वैतत्संज्ञं देवं प्र वृणीमहे प्रकर्षेण संभजामहे । किमर्थम् । युज्याय । युङ्क्त इति युङ् सखा । तस्य भावाय । सखित्वायेत्यर्थः । हे शक्र शक्त पुरुहूत बहुभिराहूत हे विमोचन पापाद्विमोचयितरिन्द्र पूषन् वा सः त्वं नः अस्मान् धिया आत्मीयया बुद्ध्या शिक्ष शक्तान् कर्तुमिच्छ । किमर्थम् । राये धनाय धनप्राप्त्यर्थं तुजे शत्रूंस्तोजयितुं हिंसितुम् । तुज हिंसायाम् । अस्मात् कृत्यार्थे केन्प्रत्ययः । यद्वा । राये इति ‘क्रियाग्रहणं कर्तव्यम् ' इति कर्मणः संप्रदानत्वाच्चतुर्थी । जातीवेकवचनम् । रायो धनानि धिया स्तुत्या प्रीतः सन्नोऽस्मभ्यं शिक्ष देहि। शिक्षतिर्दानकर्मा।' ऊडिदम्' इति रायो विभक्तिरुदात्ता ॥ ॥ ३२ ॥
Pusan, the Lord of ample wealth, for firm alliance we elect.
May he with wisdom, Sakra! Looser! Much-invoked! aid us to riches and to seed.
We choose Pūṣan of many goods for yoking.
You able one, invoked by many, you releaser—do your best because of our insight to thrust out wealth for us.
Den reichen Puschan wählen wir zuerst uns zum Genossen aus; Sei hold, o starker, vielgerufner, unserm Flehn, um Kind und Gut, Erretter du.
Wir erküren den schatzreichen Pusan zum Freundschaftsbunde. Du Vielvermögender, Vielgerufener, ermögliche es uns, durch die Dichtung Reichtum herauszuschlagen, du Ausspanner!
Мы выбираем себе Пушана,
Владеющего многим добром, для союза.
О могучий, многопризываемый, сделай нам возможным с помощью молитвы
Прорыв к богатству, о распрягающий (коней)!
सं᳓ नः शिशीहि भुरि᳓जोर् इव क्षुरं᳓
रा᳓स्व रायो᳓ विमोचन
तुवे᳓ त᳓न् नः सुवे᳓दम् उस्रि᳓यं व᳓सु
यं᳓ त्वं᳓ हिनो᳓षि म᳓र्तियम्
हे इन्द्र पूषन् वा नः अस्मान् सं शिशीहि सम्यक् निश्य(शिश्य, तिश्य - पा.भे.) तीक्ष्णबुद्धीन् कुरु। भुरिजोरिव । बाहुनामैतत् । नापितस्य बाह्वोरिव स्थितं क्षुरम् इव । अपि च हे विमोचन पापाद्विमोचन पापाद्विमोचयितः रायः धनानि रास्व अस्मभ्यं देहि । ‘रा दाने'। तत् कस्य हेतोः । त्वे त्वयि खलु उस्रियम् । उस्रा गावः । तत्संबद्धं तत् वसु निवासकं धनं नः अस्माकं सुवेदं सुलभं नान्येषु देवेषु । यं धनसमूहं मर्त्यं मनुष्यं स्तोतारं प्रति त्वं हिनोषि प्रेरयसि तद्वसु त्वयीत्यन्वयः। यत एवं तस्मात् रास्व इति योज्यम् ॥
Sharpen us like a razor in the barber's hands: send riches thou who settest free.
Easy to find with thee are treasures of the Dawn for mortal man whom thou dost speed.
Sharpen us like a razor in your hands. Bestow riches, you releaser. In you is that ruddy good [=cattle] easy to find for us (and for) the
mortal whom you urge on.
So wie die Schneiden einer Scheere schärfe uns, o schenke Gut, Erretter du; Von dir ist unser schönes rinderreiches Gut, und jedes Menschen, den du liebst.
Mach uns scharf wie das Messer in den Händen, schenk uns Reichtum, du Ausspanner! Bei dir ist dieser Rinderreichtum für uns leicht zu bekommen, wenn du einen Sterblichen aneiferst.
Заостри нас, как нож в тисках!
Одари богатством, о распрягающий (коней)!
У тебя есть для нас это легкодоступное богатство из коров
Для смертного, которого ты поощряешь.
वे᳓मि त्वा पूषन् ऋञ्ज᳓से
वे᳓मि स्तो᳓तव आघृणे
न᳓ त᳓स्य वेमि अ᳓रणं हि᳓ त᳓द् वसो
स्तुषे᳓ पज्रा᳓य सा᳓मने
हे पूषन् पोषकेन्द्र एतत्संज्ञ वा देव त्वा त्वाम् ऋञ्जसे प्रसाधयितुं वेमि कामये । आघृणे आगतदीप्ते स्तोतवे त्वां स्तोतुं वेमि कामये । यत्त्वद्व्यतिरिक्तं देवतान्तरं तस्य स्तोत्रं न वेमि न कामये । तत् कुत इति चेत् । हि यस्मात् अरणम् अरमणमसुखकरम् । अतस्त्वामेव स्तोतुं कामय इत्यर्थः । हे वसो वासक स्तुषे स्तुवते पज्राय प्रार्जकाय स्तोत्राणां साम्ने । साम स्तोत्रम् । सामर्थ्यादत्र तद्वाल्ँलक्ष्यते । तद्वते । यद्वा । पज्र इति कक्षीवत आख्या । आम्नातं हि -- ’ यद्वां पज्रासो अश्विना हवन्ते' (ऋ. सं. १. ११७. १०) इति । तस्मै कक्षीवत इव मह्यम् । सामर्थ्यादुपमार्थो लभ्यते । अपेक्षितं धनं देहीति शेषः ॥
Pusan, I long to win thy love, I long to praise thee, Radiant God.
Excellent Lord, 'tis strange tome, no wish have I to sing the psalm that Pajra sings.
I pursue you, Pūṣan, to aim (toward you). I pursue you to praise (you), glowing one.
I do not pursue (anything) of his—for that is alien, o good one, (and it is) for Pajra Sāman to praise.1034 VIII.5
Dich zu ergreifen eile ich, zu preisen, Puschan, strahlender; Nicht fremdes Gut begehre ich, o gütiger, um fetten Reichthum bitt' ich dich.
Ich wünsche dir, Pusan, den Vortritt zu lassen; ich wünsche dich zu preisen, du ...... Nicht wünsche ich dessen Besitz, denn das ist fremdes Gut, du Guter, das für Pajra Saman zu preisen ist.
Я хочу, о Пушан, устремиться к тебе,
Я хочу восхвалять (тебя), о пылающий.
Я не хочу его (богатства) – ведь оно чужое, о Васу,
(И не хочу) восхвалять для Паджры Самана!
प᳓रा गा᳓वो य᳓वसं क᳓च् चिद् आघृणे
नि᳓त्यं रे᳓क्णो अमर्तिय
अस्मा᳓कम् पूषन्न् अविता᳓ शिवो᳓ भव
मं᳓हिष्ठो वा᳓जसातये
हे आघृणे आगतदीप्ते पूषन्निन्द्र वा कच्चित् कस्मिंश्चित् काले अस्मदीयाः गावो यवसं तृणं भक्षितुं परा गच्छन्ति । हे अमर्त्य अमरण देव तदानीं रेक्णः तद्गोरूपं धनं नित्यम् अस्माकं ध्रुवमस्तु । चोरव्याघ्रादिभिर्हिंसितं मा भूत् । अपि च हे पूषन् पोषयितः अस्माकम् अविता रक्षिता भूत्वा शिवः सुखकरः भव। तथा वाजसातये वाजस्यान्नस्य बलस्य वा संभजनार्थं मंहिष्ठः दातृतमो भव ॥
My kine, O Radiant God, seek pasture where they will, my during wealth, Immortal One.
Be our protector, Pusan! be, most liberal Lord, propitious to our gathering strength.
Away (be) the cows toward some (other) pasture, o glowing, immortal one, (to be) our own legacy.
Become our kindly helper, Pūṣan, most munificent for the winning of prizes.
Zu jeder Wiese treib' die Kühe, strahlender, die unser sind, Unsterblicher, Sei du, o Puschan, segnender Beschützer uns, verhilf uns zu dem besten Gut.
Es mögen Rinder auf irgend einer Weide als unser eigener Besitz, hinausziehen, o ......, Unsterblicher. Sei unser freundlicher Helfer, Pusan, sei recht freigebig, daß wir Lohn gewinnen!
(Пусть) от(правятся) коровы на какое-нибудь пастбище, о пылающий,
Как (наше) собственное имущество, о бессмертный!
Нам, о Пушан, будь милостивым помощником,
Самым щедрым при захвате награды!
स्थूरं᳓ रा᳓धः शता᳓शुवं
कुरुङ्ग᳓स्य दि᳓विष्टिषु
रा᳓ज्ञस् त्वेष᳓स्य सुभ᳓गस्य राति᳓षु
तुर्व᳓शेषु अमन्महि
इदमादिकेन तृचेन देवातिथिः कुरुङ्गनाम्नो राज्ञो दानं स्तौति । कुरुङ्गस्य । कुरूञ्जेतुं गच्छति कुलं गच्छतीति वा कुरुङ्गः । ‘ डोऽन्यत्रापि दृश्यते' इति गमेर्डः। पृषोदरादिः । एतत्संज्ञस्य त्वेषस्य दीप्तस्य सुभगस्य शोभनधनस्य एवंभूतस्य राज्ञः संबन्धिनीषु दिविष्टिषु दिवः स्वर्गस्यैषणेषु प्राप्तिहेतुभूतासु यागक्रियासु रातिषु दानेषु दक्षिणारूपेषु सत्सु तुर्वशेषु । मनुष्यनामैतत् । निर्धारणे सप्तमी । मनुष्येषु मध्ये वयं स्थूरं स्थूलं प्रभूतं शताश्वम् अश्वानां शतेन युक्तं राधः धनम् अमन्महि अज्ञासिष्म । अलभामहीत्यर्थः ॥
Rich was the gift Kurunga gave, a hundred steeds at morning rites.
Among the gifts of Turvasas we thought of him, the opulent, the splendid King.
Substantial is the bounty that brings a hundred horses at Kuruṅga’s rituals of day(break).
At the gifts of the vibrant king, bestowing good fortune, we thought ourselves to be among the Turvaśas.
Wir haben das grosse an Rossen reiche Geschenk des Kurunga bei den Opferfesten, bei den Spenden des mächtigen, reichen Königs gerühmt bei dem Geschlecht des Turvaça.
An die reichliche Ehrengabe von hundert Rossen des Kurunga bei den Morgenopfern, des furchtgebietenden beliebten Königs haben wir unter den Geschenken bei den Turvasa´s besonders gedacht.
Мы вспоминали мощный дар из ста коней
На жертвоприношениях, ищущих неба, у Курунги,
Счастливого неистового царя,
Среди подарков у людей из рода Турваши.
धीभिः᳓ साता᳓नि काणुव᳓स्य वाजि᳓नः
प्रिय᳓मेधैर् अभि᳓द्युभिः
षष्टिं᳓ सह᳓स्रा अ᳓नु नि᳓र्मजाम् अजे
नि᳓र् यूथा᳓नि ग᳓वाम् ऋ᳓षिः
काण्वस्य कण्वपुत्रस्य वाजिनः हविष्मतो मेधातिथेः संबन्धिभिः धीभिः ध्यातृभिः स्तोतृभिः सातानि संभक्तानि अभिद्युभिः अभिगतदीप्तिभिः प्रियमेधैः एतत्संज्ञैश्चर्षिभिः सेवितानि निर्मजां निःशेषेण शुद्धानां गवां षष्टिं सहस्रा पष्टिसंख्याकानि सहस्राणि यूथानि ऋषिः देवातिथिरहम् अनु पश्चात् निः अजे निःशेषेणागच्छम् । साकल्येन प्राप्तवानस्मि । “ अज गतिक्षेपणयोः' । यथा प्रियमेधानां काण्वानां च गवां यूथानि राज्ञा दत्तानि तैः प्रतिगृहीतानि एवं तेन दत्तानि मया प्रतिगृह्यन्त इत्यर्थः ॥
What by his morning songs Kanva, the powerful, hath, with the Priyamedhas, gained-
Won through the insights of the prizewinning descendant of Kaṇva, (won) by the heaven-bound Priyamedhas,
sixty thousand flawless [?] (cows) I drive along, (drive) forth herds of cows—I the seer.
Die durch die Gebete des opferreichen Kanvasprosses von den frommen Prijamedha's erlangten Heerden von sechzigtausend fleckenlosen Kühen treibe ich, der Dichter, mir nun heraus.
Die durch die Dichtungen des preisgekrönten Kanvasprosses, von den glorreichen Priyamedha´s verdienten Herden, von sechzigtausend sauberen Kühen treibe ich, der Rishi, hinterdrein fort.
Я, риши, угоняю стада.
Из 60 тысяч безукоризненных (?) коров
Награжденного потомка Канвы, полученных за молитвы
Приямедхами, стремящимися к небу.
वृक्षा᳓श् चिन् मे अभिपित्वे᳓ अरारणुः
गा᳐᳓म् भजन्त मेह᳓ना
अ᳓श्वम् भजन्त मेह᳓ना
मे मया अभिपित्वे पूर्वोक्ते धने अभिप्राप्ते सति वृक्षाश्चित् वृक्षा अपि अरारणुः अशब्दयन् । कथमिति तदाह । इमे ऋषयः मेहना मंहनीयां प्रशस्यां गां भजन्त असेवन्त अलभन्त । मेहना मंहनीयम् अश्वं च भजन्त अलभन्तेति । गामश्वमिति जात्यभिप्रायमेकवचनम् । यद्वा । मेहनेति म इह नेति पदत्रयात्मकमेकं पदम् । यदाह यास्कः-’ यदिन्द्र चित्रं चायनीयं मंहनीयं धनमस्ति । यन्म इह नास्तीति वा त्रीणि मध्यमानि पदानि' (निरु. ४. ४ )। तदैवं व्याख्येयम् । इम ऋषयो गामश्व चालभन्त । इहास्मिन् राजनि प्रशस्तस्य धनस्य तद्दानं मम नासीन्मम नासीदिति वृक्षप्रमुखाः सर्वेऽपि जनाः प्रोचुरित्यर्थः ॥ ॥ ३३ ॥
वृ॒क्षाश्चि॑न्मे अभिपि॒त्वे अ॑रारणुः ।
गां भ॑जन्त मे॒हनाश्वं॑ भजन्त मे॒हना॑ ॥
Even the trees have found pleasure at my supper-time.
They share in the cow in its profusion; they share in the horse in its
profusion.
Die Bäume selbst erfreuten sich bei meinem Nahn; Rinder schenkte man in Fülle, Rosse schenkte man in Fülle.
Selbst die Bäume waren bei meiner Heimkehr vergnügt: sie bekamen reichlich Rind, reichlich Roß geschenkt.
Даже деревья возрадовались при моем возвращении:
Их щедро одарили быком,
Щедро одарили конем.