दूरा᳓द् इहे᳓व य᳓त् सती᳓
अरुण᳓प्सुर् अ᳓शिश्वितत्
वि᳓ भानुं᳓ विश्व᳓धातनत्
दूरात् दूरत एव विप्रकृष्ट एव नभसः प्राक्प्रदेशे वर्तमाना इहेव सती इह समीपे विद्यमानेव। अस्तेः शतरि श्नसोरल्लोपे ‘उगितश्च' इति ङीप् । ‘शतुरनुमः । इति नद्या उदात्तत्वम् । अरुणप्सुः आरोचमानरूपा ईदृशी उषाः यत् यदा अशिश्वितत् अश्वेतयत्। ' श्विता वर्णे'। अस्माण्ण्यन्तात् लुङि चङि रूपम् । यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः । तदा भानुं दीप्तिं विश्वधा' बहुविधं वि अतनत् विस्तारितवती । तनोतेर्व्यत्ययेन शप् । ईदृशीमुषसं हे अश्विनौ सचेथे इत्युत्तरयैकवाक्यता । यद्वा । प्रातरनुवाक्य उषस्येन काण्डेन उषाः स्तुता सती प्रादुर्बभूव । हे अश्विनौ शंसिष्यमाणमाश्विनं क्रतुं श्रोतुं युवामपि प्रादुर्भवतमित्यध्याहारेण वाक्यं पूरणीयम् ॥
WHEN, even as she were present here, red Dawn hath shone from far away,
She spreadeth light on every side.
When, though being at a distance, she of ruddy breath has brightened as if right here,
she has stretched out her radiance in all directions.
Da sie von ferne hier erschien und hell die rothe leuchtete, so strahlte weithin sie das Licht.
Sobald die rötlichscheinende Usas von fern her, als ob sie hier wäre, aufschimmert, so hat sie allenthalben ihren Glanz ausgebreitet.
Как только издалека засветила (Ушас), выглядящая алой,
Как будто она находится здесь,
Повсюду она распространила (свой) блеск.
नृव᳓द् दस्रा मनोयु᳓जा
र᳓थेन पृथुपा᳓जसा
स᳓चेथे अश्विनोष᳓सम्
हे दस्रा दस्रौ दर्शनीयौ शत्रूणामुपक्षपयितारौ वा । ‘सुपां सुलुक्' इत्याकारः । ईदृशौ हे अश्विना अश्विनौ नृवत् नृभिः नेतृभिस्तुल्यं वर्तमानौ युवाम् । तेन तुल्यम्' इति प्रथमार्थे वतिः । यद्वा । नृवतीम् । नृशब्दान्मतुपश्छान्दसत्वम् । रश्रुतिसामान्याद्वा” ‘छन्दसीरः' इति वत्वम् । ङीपश्छान्दसो लुक् । 'हस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम्। ईदृशीम् उषसं रथेन आत्मीयेन वाहनेन सचेथे सम्यगागच्छथः । ‘षच समवाये । यद्वा । सचतिः सेवनार्थः । सचेथे सेवेथे । तदाह यास्कः-- सचस्वा नः स्वस्तये सेवस्व नः स्वस्तये' (निरु. ३. २१) इति । कीदृशेन रथेन । मनोयुजा मनसैव व्यापारान्तरनिरपेक्षेण स्मरणमात्रेणाश्वैर्युज्यमानेन पृथुपाजसा विस्तीर्णबलेन बह्वन्नेन वा । उषसोऽनन्तरमश्विनोः स्तूयमानत्वात्तामश्विनौ गच्छत इत्युच्यते ॥
Like Heroes on your will-yoked car farshining, Wonder-Workers! ye
Attend, O Asvins, on the Dawn.
Manfully, o wondrous ones, with your mind-yoked chariot of broad dimensions
you accompany Dawn, o Aśvins.
Wie Helden, prächt'ges Ritterpaar, auf geistgeschirrtem strahlenden Gefährt begleitet Uschas ihr.
Auf dem männerfahrenden, gedankengeschirrten, breitgestaltigen Wagen folget ihr Meister Asvin der Usas.
На мужественной запрягаемой мыслью колеснице
С широким основанием, о удивительные,
Вы следуете, Ашвины, за Ушас.
युवा᳓भ्यां वाजिनीवसू
प्र᳓ति स्तो᳓मा अदृक्षत
वा᳓चं दूतो᳓ य᳓थोहिषे
हे वाजिनीवसू । वाजो हविर्लक्षणमन्नम् । तद्युक्ता यागक्रिया वाजिनी । तस्यां वसु धनं ययोरस्ति तौ तथोक्तौ । यद्वा । अन्नयुक्तं स्तोतृभ्यो देयं वसु धनं ययोरस्ति तादृशौ । हे अश्विनौ युवाभ्यां स्तोमाः अस्माभिः कृतानि स्तोत्राणि प्रति अदृक्षत प्रतिदृश्यन्ताम् । दृशेश्छान्दसः कर्मणि लुङ् । लिङ्सिचावात्मनेपदेषु' इति कित्त्वात् ' सृजिदृशोः' इत्यमभावः । षत्वकत्वषत्वानि । अहं च यथा येन प्रकारेण दूतः प्रेष्यः वाचं स्वामिनो वाक्यं याचते तथा युवयोः प्रीतिपूर्विकां वाचम् ओहिषे । पुरुषव्यत्ययः । याचे । ‘उहिरर्दने'। याचन इत्यर्थः । व्यत्ययेनात्मनेपदम् । यद्वा । दूतो यथा स्वामिनोक्तां वाचं विदेशस्थमन्यं प्रापयति एवमहमपि स्तुतिरूपां वाचमोहिषे वहे युवां प्रापयामि ॥ वहेर्व्यत्ययेन मध्यमः। छान्दसं संप्रसारणम् । 'छन्दस्युभयथा' इत्यार्धधातुकत्वात् इडागमः । शबभावो लघूपगुणश्च । 'एङि पररूपम्' इति पररूपत्वम् ॥
By you, O Lords of ample wealth our songs of praise have been observed:
As envoy have I brought the prayer.
O you rich in prizewinning mares, praise songs have appeared facing you two.
Like a messenger I shall solemnly proclaim my speech.
Ihr beide, reich begüterte, vernehmet unsrer Lieder Klang; Wie einen Boten send' ich ihn.
Euch, ihr Gewinnreichen, haben sich die Loblieder vorgestellt. Wie ein Abgesandter empfehle ich meine Rede.
Для вас, о богатые наградами,
Появились восхваления.
Как посланник, я хочу продумать (свою) речь.
पुरुप्रिया᳓ ण ऊत᳓ये
पुरुमन्द्रा᳓ पुरूव᳓सू
स्तुषे᳓ क᳓ण्वासो अश्वि᳓ना
पुरुप्रिया बहूनां प्रियौ पुरुमन्द्रा बहुमदौ बहूनां मादयितारौ वा । यद्वा । पुरु बहुलं माद्यन्तौ । पुरुवसू बहुधनौ ईदृशौ अश्विना अश्विनौ नः अस्माकम् ऊतये रक्षणाय कण्वासः कण्वगोत्रा वयं स्तुषे स्तुमहे । पुरुषवचनयोर्व्यत्ययः । यद्वा । कण्वास इति पूजार्थं बहुवचनम् । ऋषिरात्मानं संबोध्य ब्रूते । हे अन्तरात्मन् कण्वासः कण्वगोत्रस्त्वं स्तुषे अश्विनौ स्तुहि ॥
Kanvas must praise the Asvins dear to many, making many glad,
Most rich, that they may succour us.
*O Kaṇvas, for us shall I praise the two dear to many, delightful to many, who bring many good things,
the Aśvins—for their help—
Die vielgeliebten preise ich, die Ritter reich an Freud' und Gut, O Kanva's, zur Erquickung uns.
Die viellieben, vielerfreuenden, schätzereichen Asvin wollen die Kanva´s zu unserem Beistand preisen;
Очень приятных, очень радующих,
Очень богатых добром Ашвинов
Я хочу восхвалить, – (мы) Канвы, – для нашей поддержки,
मं᳓हिष्ठा वाजसा᳓तमा
इष᳓यन्ता शुभ᳓स् प᳓ती
ग᳓न्तारा दाशु᳓षो गृह᳓म्
मंहिष्ठा मंहिष्ठौ मंहनीयौ पूजनीयौ यद्वा दातृतमौ वाजसातमा । वाजोऽन्नं बलं वा । तस्य अतिशयेन दातारौ । यद्वा वाजो हविर्लक्षणमन्नम्। तस्य संभक्तृतमौ । सनोतेः सनतेर्वा' जनसन” । इति विट् । विड्वनोरनुनासिकस्यात्वम् । इषयन्ता स्तोतृभ्य इषमन्नं कुर्वन्तौ । इट्शब्दात् ' तत्करोति' ' इति णिच् । णेरिष्ठवद्भावेन टिलोपे प्राप्ते ‘प्रकृत्यैकाच्' इति प्रकृतिभावः । यद्वा । इषयन्ता एषयन्तौ श्रेयांसि प्रापयन्तौ । 'इष गतौ । अस्माद्धेतुमण्णिच् । संज्ञापूर्वकस्य विधेरनित्यत्वाद्गुणाभावः । शुभः शोभनस्य धनस्योदकस्य वा पती स्वामिनौ । षष्ठ्याः पतिपुत्र' इति विसर्जनीयस्य सत्वम् । दाशुषः चरुपुरोडाशादीनि दत्तवतो यजमानस्य गृहं गन्तारा गमनशीलौ । गमेस्ताच्छीलिकस्तृन् । अतः ‘न लोकाव्यय°' इति कर्मणि षष्याः प्रतिषेधः । ईदृशावश्विनौ स्तुम इति शेषः । ॥ १ ॥
Most liberal, best at winning strength, inciters, Lords of splendour who
Visit the worshipper's abode.
The most munificent, the best prizewinners, the two lords of beauty bringing refreshments
who go to the house of the pious man.
Die gütigsten, erlabendsten, die nahrungsreichen Glanzesherrn Besuchen des Verehrers Haus.
Die freigebigsten, am meisten Lohn gewährenden, Labung bringenden Herren der Schönheit, die gern ins Haus des Spenders kommen.
Самых щедрых, лучше всех добывающих награду,
Дающих подкрепление повелителей красоты,
Приходящих в дом почитателя.
ता᳓ सुदेवा᳓य दाशु᳓षे
सुमेधा᳓म् अ᳓वितारिणीम्
घृतइ᳓र् ग᳓व्यूतिम् उक्षतम्
हे अश्विनौ ता तौ तादृशौ युवां सुदेवाय । शोभना देवा येन यष्टव्याः स तथोक्तः । बहुव्रीहौ ' नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । तस्मै दाशुषे हविर्दत्तवते यजमानाय । तादथ्यें चतुर्थी । ईदृग्यजमानार्थं सुमेधां शोभनयज्ञाम् अवितारिणीम् । वितरणं विगमनमपायः । अनपायिनीम् । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । ईदृशीं गव्यूतिम् । गावो यूयन्ते संयुज्यन्तेऽत्रेति गव्यूतिर्गोसंचारभूमिः । ‘गोर्यूतौ छन्दसि' (पा, सू. ६. १. ७९. २) इत्यवादेशः । तां घृतैः क्षरणशीलैरुदकैः उक्षतं सिञ्चतम्। 'उक्ष सेचने' ॥
So for devout Sudeva dew with fatness his unfailing mead,
And make it rich for sacrifice.
To the pious man who has the gods well on his side (give) good wisdom that doesn’t doublecross him;
sprinkle his pasture-land with ghee.
Benetzt dem frommen Beter denn den futterreichen Weideplatz, Den unerschöpflichen mit Fett.
Gebet dem gottbeglückten Spender gute Eingebung, die nicht auf sich warten läßt! Besprenget unsere Trift mit Schmalz!
Почитателю, к кому боги милостивы,
(Дайте) прекрасную силу прозрения, непреходящую!
Жиром окропите (нам) пастбище!
आ᳓ न स्तो᳓मम् उ᳓प द्रव᳓त्
तू᳓यं श्येने᳓भिर् आशु᳓भिः
यात᳓म् अ᳓श्वेभिर् अश्विना
हे अश्विना अश्विनौ नः अस्माकं स्तोमं स्तोत्रम् अश्वेभिः अश्वैः । 'द्रवत् तूयम्' इत्युभे क्षिप्रनामनी । एकः पूरकः । तूयं क्षिप्रम् उप आ यातम् उपागच्छतम् । यद्वा । द्रवदिति स्तोमविशेषणम् । द्रवत् शीघ्रं प्रवर्तमानं स्तोममित्यर्थः । कीदृशैरश्वैः । श्येनेभिः शंसनीयगतिभिः प्रशस्यगमनैः आशुभिः शीघ्रगैः ॥
Hitherward running speedily with horses, as with rapid hawks,
Come, Asvins, to our song of praise
Here to our praise song drive quickly at speed
with your swift falcons, your horses,
Kommt eilend her zu unserm Lied auf schnellen Adlersfittigen Mit raschen Rossen, Ritter ihr,
Kommet eilends rasch zu unserem Loblied her mit euren schnellen Falken, mit den Rossen, ihr Asvin!
Мчитесь стремглав на наше восхваление,
Быстро – на стремительных соколах,
На конях, о Ашвины,
ये᳓भिस् तिस्रः᳓ पराव᳓तो
दिवो᳓ वि᳓श्वानि रोचना᳓
त्रीँ᳓र् अक्तू᳓न् परिदी᳓यथः
हे अश्विनौ तिस्रः दिवः त्रीन् दिवसान त्रीन् 'अक्तून् तिस्रो रात्रीश्च । अत्यन्तसंयोगे द्वितीया । एतावन्तं कालं विश्वानि सर्वाणि व्याप्तानि वा रोचना रोचमानानि नक्षत्ररूपाणि देवगृहाणि परावतः दूरदेशात् येभिः यैरश्वैः परिदीयथः परिगच्छथः । दीयतिर्गतिकर्मा । तैरस्माकं स्तोत्रमुपयातमिति पूर्वत्रान्वयः ॥
Wherewith the three wide distances, and all the lights that are in heaven.
Ye traverse, and three times of night.
With which you fly around the three far distances, all the luminous realms of heaven,
and the three nights.
Mit denen die drei Fernen ihr und alles, was am Himmel glänzt, Drei dunkle Räume ihr durchfliegt.
Mit denen ihr die drei Entfernungen, alle Lichter des Himmels, die drei Nachtzeiten durchflieget.
На которых вы облетаете
Три дали, все светлые пространства
Неба, три ночи.
उत᳓ नो गो᳓मतीर् इ᳓ष
उत᳓ साती᳓र् अहर्विदा
वि᳓ पथः᳓ सात᳓ये सितम्
उत अपि च हे अहर्विदा अह्नो लम्भयितारौ । यद्वा । अह्नि प्रभातसमये वेदितव्यौ स्तोतव्यौ । नः अस्मभ्यं गोमतीः बहुभिर्गोंभिर्युक्ताः इषः अन्नानि दत्तमिति शेषः। उत अपि च सातीः संभजनीया दातव्या वा रायश्चास्मभ्यं दत्तम् । सनतेः सनोतेर्वा कर्मणि क्तिन् । ‘जनसनखनाम्' इत्यात्वम् ।' उतियूति' इत्यादिना क्तिन उदात्तत्वं निपात्यते । अपि चास्माकं सातये उक्तानां गवादीनां लाभाय संभजनाय वा पथः तदुपायरूपान् मार्गान् वि सितं विशेषेण बध्नीतम् । यथान्ये न प्रविशन्ति तथा कुरुतमित्यर्थः। 'षिञ् बन्धने । छान्दसो विकरणस्य लुक् । यद्वा । उपसर्गवशादयं धातुः स्वार्थविपरीते बन्धनाभावे वर्तते । प्रस्मरणं प्रस्थानमिति यथा। पथो मार्गान् वि सितं विमुञ्चतम् । प्रदर्शयतमित्यर्थः । पथिञ्छब्दोऽन्तोदात्तः । तस्य शसि टिलोप उदात्तनिवृत्तिस्वरेण शस उदात्तत्वम्
O Finders of the Day, that we may win us food of kine and wealth,
Open the paths for us to tread.
And refreshments along with cattle and winnings, too, o finders of the days—
unfasten the paths for us to win (them).
O Tagerheller, öffnet uns die Pfade, dass Geschenke wir Und rinderreiches Gut empfahn.
Und bringet uns gute Speisen nebst Kühen, Gewinne, ihr Zeitkenner! Machet die Wege frei zum Gewinn!
А также (даруйте) нам подкрепления, приносящие коров,
А также добычу, о знающие (урочный) час!
Откройте пути для захвата добычи!
आ᳓ नो गो᳓मन्तम् अश्विना
सुवी᳓रं सुर᳓थं रयि᳓म्
वोळ्ह᳓म् अ᳓श्वावतीर् इ᳓षः
हे अश्विना अश्विनौ नः अस्मभ्यं रयिं धनम् आ वोळ्हम् आवहतम् आहरतम् । वहेर्लोटि छान्दसः शपो लुक् । ढत्वधत्वष्टुत्वढलोपेषु कृतेषु • सहिवहोरोदवर्णस्य' इत्योत्वम् । कीदृशं रयिम् । गोमन्तं बह्वीभिर्गोभिर्युक्तं सुवीरम् । वीर्याज्जायन्त इति वीराः पुत्राः । शोभनैस्तैरुपेतम् । विविधमीरयन्ति शत्रूनिति वा वीराः शूराः। तैरुपेतम् । सुरथं शोभनरथेन युक्तम् । अपि च अश्वावतीः अश्वयुक्ताः । मन्त्रे सोमाश्व ' इति मतौ दीर्घः। इषः इष्यमाणान्यन्नानि चास्मभ्यमावहतम् ॥ ॥ २ ॥
O Asvins, bring us wealth in kine, in noble heroes, and in cars:
Bring us the strength that horses give.
Convey here to us, o Aśvins, wealth in cattle, in good heroes and good chariots,
and refreshments along with horses.
O Ritter, fahrt uns Reichthum her an Rindern, Männern, Wagen auch Und rossereiche Labungen.
Bringet uns, Asvin, Besitz von Rindern, guten Mannen, guten Wagen, guten Speisen nebst Rossen!
Привезите нам, о Ашвины, богатство
Из коров, из прекрасных мужей,
Прекрасных колесниц, подкрепления из коней!
वावृधाना᳓ शुभस् पती
दस्रा हि᳓रण्यवर्तनी
पि᳓बतं सोमिय᳓म् म᳓धु
हे शुभस्पती शुभः शोभनस्थालंकारस्योदकस्य वा पती स्वामिनौ हे अश्विनौ ॥ ‘सुबामन्त्रिते ' इति षष्ठ्यन्तस्य पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्याष्टमिकं सर्वानुदात्तत्वम् ॥ दस्रा दर्शनीयौ शत्रूणामुपक्षपयितारौ वा हिरण्यवर्तनी हिरण्मयमार्गौ । यद्वा। वर्ततेऽस्मिन्निति वर्तनी रथः । हिरण्मयो रथो ययोस्तौ। यद्वा। वर्तनि वर्तनमाचरणम्। हितरमणीयाचरणौ। ववृधाना प्रवृद्धौ। वृधेर्लिटः कानच् । ईदृशौ युवां सोम्यं सोममयं मधु माधुर्योपेतं मदकरं वा रसं पिबतम् ॥
Ye Lords of splendour, glorified, ye Wonder-Workers borne on paths
Of gold, drink sweets with Somajuice.
Having grown strong, o lords of beauty, you wondrous ones whose tracks are golden,
drink the somian honey.
Euch labend, schöne Glanzesherrn, auf goldnen Pfaden fahrende, Geniesst des Soma Süssigkeit.
Erbauet euch, Ihr Herren der Schönheit, ihr Meister mit goldnen Rädern, und trinkt den somischen Süßtrank!
Усиливаясь, о повелители красоты,
О чудесные (боги), едущие по золотой колее,
Пейте сладость сомы!
अस्म᳓भ्यं वाजिनीवसू
मघ᳓वद्भ्यश् च सप्र᳓थः
छर्दि᳓र् यन्तम् अ᳓दाभियम्
हे वाजिनीवसू । वाजिनी हविर्युक्ता यागक्रिया । तस्यां वसु धनं हविर्भागलक्षणं ययोस्तथाविधौ है अश्विनौ अस्मभ्यं स्तोतृभ्यः मघवद्भ्यः । मघं धनं हविर्लक्षणम्। तद्वद्भ्यो यजमानेभ्यः च सप्रथः सर्वतः पृथु विस्तीर्णम् अदाभ्यं केनाप्यहिंस्यं छर्दिः । गृहनामैतत् । गृहं यन्तं नियच्छतं दत्तमिति यावत् ॥ यमेश्छान्दसः शपो लुक् । छन्दस्युभयथा' इत्यार्धधातुकत्वेन ङित्त्वाभावादनुनासिकलोपाभावः ॥
To us, ye Lords of ample wealth, and to our wealth chiefs extend
Wide shelter, ne'er to be assailed.
O you rich in prizewinning mares, to us and to our bounteous (patrons) hold out extensive
shelter that cannot be cheated.
Uns und den Opferherrn verleiht, o güterreiche, euren Schutz, Den weiten, unverletzlichen.
Gewähret uns, ihr Gewinnreichen, und unseren Gönnern in ganzer Breite euren untrüglichen Schirm!
Нам, о богатые наградами,
И (нашим) щедрым покровителям,
Даруйте широкую защиту, безобманную!
नि᳓ षु᳓ ब्र᳓ह्म ज᳓नानां᳐
या᳓विष्टं तू᳓यम् आ᳓ गतम्
मो᳓ षु᳓ अन्याँ᳓ उ᳓पारतम्
हे अश्विनौ या यौ युवां जनानां प्राणिनां मध्ये ब्रह्म ब्राह्मणजातिं सु सुष्ठु नि नितराम्। अविष्टम् अरक्षिष्टम् । यद्वा । जनानां यजमानानां ब्रह्म परिवृढं स्तोत्रं हविर्लक्षणमन्नं वा यौ युवां न्यविष्टं न्यगच्छतम् । अवतिर्गत्यर्थः । तौ युवां तूयं क्षिप्रम् आ गतम् अस्मानप्यागच्छतम् । अन्यान् अस्मद्व्यतिरिक्तान यजमानान् मो मैव सु उपारतम् उपगमतम् । कदाचिदपि मैव प्राप्नुतमित्यर्थः ॥ अर्तेर्माङि लुङि' सर्तिशास्त्यर्तिभ्यश्च' इति च्लेरङादेशः ॥
Come quickly downward to the prayer of people whom ye favour most:
Approach not unto other folk.
Team up the formulations of the people and come quickly here.
Do not go to the others.
Gewähret gnädig das Gebet der Männer, kommet eilig her; Nicht wendet euch zu andern hin.
Kommet fein rasch herab zu der Menschen erbaulichen Reden, die ihr bevorzuget! Geratet ja nicht zu den anderen!
Примите милостиво молитву людей!
Быстро приезжайте!
Не попадите к другим!
अस्य᳓ पिबतम् अश्विना
युव᳓म् म᳓दस्य चा᳓रुणः
म᳓ध्वो रात᳓स्य धिष्णिया
हे अश्विना अश्विनौ हे धिष्ण्या । धिषणा स्तुतिः । तदर्हौ युवं युवां मदस्य मदरस्य चारुणः शोभनस्य रातस्य अस्माभिर्दत्तस्य अस्य मध्वः मधुरस्य सोमस्य स्वांशलक्षणं भागं पिबतम् । यद्वा । द्वितीयार्थे षष्ठी । इमं सोमं पिबतम् ॥
Ye Asvins whom our minds perceive, drink of this lovely gladdening draught,
The mcath which we present to you.
You, o Aśvins—drink of this dear exhilarating drink,
of the honey bestowed, o holy ones.
O trinkt von diesem süssen Trank, dem dargereichten lieblichen, O gabenreiche Ritter ihr.
Trinket, Asvin, von diesem angenehmen Rauschtrank, von dem gespendeten Süßtrank, ihr Asvin.
Испейте, вы, о Ашвины, этого
Милого пьянящего напитка,
Пожертвованной (вам) сладости, о возбуждающие вдохновение!
अस्मे᳓ आ᳓ वहतं रयिं᳓
शत᳓वन्तं सहस्रि᳓णम्
पुरुक्षुं᳓ विश्व᳓धायसम्
हे अश्विनौ अस्मे अस्मभ्यं रयिं धनं आ वहतम् आनयतम् । कथंभूतम् । शतवन्तं शतसंख्योपेतं सहस्रिणं सहस्रसंख्योपेतं च पुरुक्षुं बहुनिवासं यद्वा पुरुभिर्बहुभिः स्तुत्यं विश्वधायसं विश्वेषां सर्वेषामस्मदीयानां धारकम् ।' वहिहाधाम्भ्यश्छन्दसि' इति दधातेरसुन्। णित्' इत्यनुवृत्तेर्णिद्वद्भावेन युगागमः ॥ ॥ ३ ॥
Bring riches hither unto us in hundreds and in thousands, source
Of plenteous food, sustaining all.
Bring here to us wealth in hundreds and thousands,
consisting of much livestock, nourishing all.
Uns fahret reiches Gut herbei, das hundertfach und tausendfach, Viel Speise hegt und alles nährt.
Bringet uns hundertzählenden, tausendfachen Reichtum an vielem Vieh, der alle sättigt, mit!
Нам привезите богатство
Сотенное, тысячное,
Обильное скотом, всех насыщающее!
पुरुत्रा᳓ चिद् धि᳓ वां नरा
विह्व᳓यन्ते मनीषि᳓णः
वाघ᳓द्भिर् अश्विना᳓ गतम्
हे नरा नरौ स्तोतॄणां धनस्य नेतारावश्विनौ मनीषिणः मनस ईशितारः स्तोतारः वां युवां पुरुत्रा चिद्धि बहुषु हि देशेषु विह्वयन्ते विविधमाह्वयन्ति । तथा सति हे अश्विनौ वाघद्भिः वाहकैरश्वैः आ गतम् अस्मानेवागच्छतम् ॥
Verily sages call on you, ye Heroes, in full many a place.
Moved by the priests, O Asvins, conic.
Even though in many places men of inspired thought vie with (other) cantors in invoking you two—
o men, o Aśvins, come here.
An vielen Orten rufen euch, o Helden, zwar die Weisen an, Von uns verehrt, o Ritter, kommt.
Obgleich sich vielerorts um euch, ihr Herren, die Liedersinnenden mit anderen Sängern streiten, o Asvin, so kommet zu uns!
Хотя во многих местах вас, о два мужа,
Призывают мудрые, состязаясь
С (другими) устроителями обряда, (к нам) приезжайте!
ज᳓नासो वृक्त᳓बर्हिषो
हवि᳓ष्मन्तो अरंकृ᳓तः
युवां᳓ हवन्ते अश्विना
वृक्तबर्हिषः । वृक्तं छिन्नं बर्हिर्यैस्ते तथोक्ताः । हविष्मन्तः हविर्भिर्युक्ताः अरंकृतः पर्याप्तकारिणः यद्वा हविरादीनामलंकर्तारः जनासः ऋत्विग्लक्षणा जना हे अश्विना अश्विनौ युवां हवन्ते आह्वयन्ति । अत आगच्छतमिति शेषः ॥
Men who have trimmed the sacred grass, bringing oblations and prepared,
O Asvins, are invoking you.
The people, provided with twisted ritual grass and oblations, making fit preparations,
call upon you two, o Aśvins.
Die Männer, die die Streu geschmückt, den Opferguss bereit gemacht, Sie laden euch, o Ritter, ein.
Die Leute haben das Barhis herumgelegt und rufen euch, Asvin, Spenden bringend, das Opfer rüstend.
Люди, разложившие жертвенную солому,
Совершающие возлияния, приготовившие (жертву),
Зовут вас, о Ашвины.
अस्मा᳓कम् अद्य᳓ वाम् अयं᳓
स्तो᳓मो वा᳓हिष्ठो अ᳓न्तमः
युवा᳓भ्याम् भूतु अश्विना
अद्य इदानीम् अस्माकम् अयं स्तोमः अस्मदीयं स्तोत्रं हे अश्विनौ वां युवयोः वाहिष्ठः वाहयितृतमः प्रापयितृतमः सन् युवाभ्याम् अन्तमः अन्तिकतमः अतिशयेन समीपवर्ती भूतु भवतु । ' तमे तादेश्च' (पा. सू. ६. ४. १४९. ९) इत्यन्तिकशब्दस्य तादिर्लुप्यते । भवतेश्छान्दसः शपो लुक् ॥
May this our hymn of praise to-day, most powerful to bring you, be,
O Asvins, nearest to your hearts.
Today let this praise song of ours, which best conveys you nearest, be for you two, o Aśvins.
Dies unser Loblied möge euch, o Ritter, das willkommenste Und liebste sein am heut'gen Tag.
Dieses unser Loblied soll euch heut am meisten anziehen, soll euch am meisten nahe gehen, Asvin!
Это наше восхваление сегодня
Пусть притягивает вас больше всех,
Пусть будет самым близким для вас, о Ашвины!
यो᳓ ह वाम् म᳓धुनो दृ᳓तिर्
आ᳓हितो रथच᳓र्षणे
त᳓तः पिबतम् अश्विना
हे अश्विना अश्विनौ रथचर्षणे रथस्य चर्षणे द्रष्टव्ये मध्ये देशे यः द्दतिः मधुनः मधुरस्यास्माभिर्दत्तस्य सोमस्य संबन्धी तेन मधुना पूर्णः आहितः स्थापितो वर्तते ततः दृतेः सकाशात् सोमं पिबतम् ॥
The skin filled full of savoury meath, laid in the pathway of your car-
O Asvins, drink ye both therefrom.
The skin-bag of honey that was set here in your chariot-rut, drink from it, o Aśvins.
Aus eurem Schlauch des süssen Tranks, der in den Wagenkasten euch, Gelegt ist, Ritter, trinkt aus dem.
Den Schlauch mit Süßigkeit, den ihr aufgeladen habt, gießt ihn aus auf die Wagenfurche; trinket davon, o Asvin!
Тот (кожаный) мешок с медом, который вы
Погрузили, (вылейте его) в колею колесницы!
Пейте оттуда, о Ашвины!
ते᳓न नो वाजिनीवसू
प᳓श्वे तोका᳓य शं᳓ ग᳓वे
व᳓हतम् पी᳓वरीर् इ᳓षः
हे वाजिनीवसू । वाजोऽन्नं बलं वा । तद्युक्तधनौ नः अस्माकं पश्वे पशवे अश्वादिलक्षणाय । ‘जसादिषु छन्दसि वावचनम्' इति धेर्ङिति' इति गुणस्य विकल्पितत्वाद्यण् ॥ तोकाय पुत्राय गवे च । जात्यभिप्रायं सर्वत्रैकवचनम्। पशुप्रभृतिभ्यः शं सुखं यथा भवति तथा पीवरीः प्रवृद्धान् इषः अन्नानि तेन भवदीयेन रथेन वहतम् आवहतं प्रापयतम् । दत्तमित्यर्थः ॥ ॥ ४ ॥
For this, ye Lords of ample wealth, bring blessing for our herd, our kine,
Our progeny, and plenteous food.
O you rich in prizewinning mares, with it bring weal for our livestock, our offspring, and our cow,
and refreshments rich in fat.
In dem, o güterreiche, bringt, zum Heil für Kinder, Vieh und Rind Uns fette Labetränke her.
Mit dem bringet, o Gewinnreiche, unserem Vieh und Nachwuchs und dem Rind Wohlsein und fette Labung!
В нем, о богатые наградами, привезите нам
Благополучие для скота, потомства, быка
(И) жирные подкрепления!
उत᳓ नो दिविया᳓ इ᳓ष
उत᳓ सि᳓न्धूँर् अहर्विदा
अ᳓प द्वा᳓रेव वर्षथः
उत अपि च हे अहर्विदा अह्नो लम्भयितारौ । यद्वा । अह्नि प्रभातसमये वेदितव्यौ स्तोतव्यावश्विनौ । दिव्याः दिविभवाः इषः इष्यमाणा अपः नः अस्मदर्थं द्वारेव द्वारेणेव छिद्रेणेव अप वर्षथः मेघादपकृष्य युवां सिञ्चथः । उत अपि च सिन्धून् स्यन्दनशीला नदीः वृष्टैस्तैरुदकैः अस्माकं स्नानपानादिकार्थाय कृतवन्तावित्यर्थः ॥
Ye too unclose to us like doors the strengthening waters of the sky,
And rivers, ye who find the day.
And heavenly refreshments and rivers, o finders of the days— like two doors, you will open (these) up for us.
Und schliesset nun wie Thore uns des Himmels Labetränke auf Und seine Ströme, Tagesherrn.
Und schließet uns die himmlischen Labungen und die Ströme auf wie die Tore, ihr Zeitenkenner!
И также откройте нам,
Словно врата, небесные подкрепления
И реки, о знающие (урочный) час!
कदा᳓ वां तौग्रियो᳓ विधत्
समुद्रे᳓ जहितो᳓ नरा
य᳓द् वां र᳓थो वि᳓भिष् प᳓तात्
हे नरा नरौ नेतारावश्विनौ तौग्र्यः तुग्रपुत्रो भुज्युः समुद्रे जलधौ जहितः असुरैः प्रक्षिप्तः सन् कदा कस्मिन् काले वां युवां विधत् अविधत् स्तुतिभिः पर्यंचरत् । यत् यदा वां युवयोः विभिः गन्तृभिरश्वैरुपेतः रथः पतात् तं भुज्युमानेतुं पतेत् गच्छेत् तदानीं भुज्युरस्तौदिति पूर्वेणार्धेन पृष्टस्य प्रतिवचनम् ॥
When did the son of' Tugra serve you, Men? Abandoned in the sea,
That with winged steeds your car might fly.
When did the son of Tugra, abandoned in the sea, do reverence to you, o men,
so that your chariot would fly with its birds?
Wann rief des Tugra Sohn euch an, ins Meer gestürzt, o Männer, dass Eur Wagen flöge rossbespannt.
Wann hatte euch der Tugrasohn verehrt, der im Meere verlassene, ihr Herren, daß euer Wagen mit den Vogelrossen geflogen kam?
Когда сын Тугры почтил вас,
Брошенный в море, о два мужа,
Чтобы ваша колесница прилетела на птицах?
युवं᳓ क᳓ण्वाय नासत्या
अ᳓पिरिप्ताय हर्मिये᳓
श᳓श्वद् ऊती᳓र् दशस्यथः
हे नासत्या । सत्सु साधू सत्यौ। न सत्यावसत्यौ । न असत्यौ नासत्यौ। ‘नभ्राण्नपात्” । इति नञः प्रकृतिभावः । यद्वा । सत्यस्य नेतारौ नासिकाप्रभवौ वा । उक्तं च भगवता यास्केन -- ‘सत्यावेव नासत्यावित्यौर्णवाभः । सत्यस्य प्रणेतारावित्याग्रायणः । नासिकाप्रभवौ बभूवतुरिति वा' (निरु. ६.१३ ) इति । तौ युवां कण्वाय एतत्संज्ञायर्षये हर्म्ये हर्म्यतले अपिरिप्ताय असुरैर्बाधिताय शश्वत् शश्वतीः बह्वीः ऊतीः रक्षाः दशस्यथः दत्तवन्तौ । 'युवं कण्वायापिरिप्ताय चक्षुः प्रत्यधत्तम्' (ऋ. सं. १. ११८.७) इत्यत्रेतिहास उक्तः । सोऽत्र द्रष्टव्यः ॥
Ye, O Nasatyas, ministered to Kanva with repeated aid,
When cast into the heated pit.
O Nāsatyas, to Kaṇva, (his eyes) pasted shut and in a locked house, over and over you offer your help.
Dem Kanva, als erblindet er im Hause lag, gewährtet ihr, O Treue, Hülfe fort und fort.
Ihr Nasatya´s gewähret dem Kanva, der im festen Hause geblendet war, allezeit eure Hilfen.
Вы, Насатьи, Канве,
Ослепленному в застенке,
Постоянно оказываете услуги.
ता᳓भिर् आ᳓ यातम् ऊति᳓भिर्
न᳓व्यसीभिः सुशस्ति᳓भिः
य᳓द् वां वृषण्वसू हुवे᳓
हे वृषण्वसू वर्षणधनौ। ‘वृषण्वस्वश्वयोरुपसंख्यानम्' (पा.सू. १. ४. १८. ४) इति वृषभावो निपात्यते । तदानीं ताभिः पूर्वोक्ताभिः नव्यसीभिः नवतराभिः सुशस्तिभिः सुप्रशस्याभिः ऊतिभिः रक्षाभिः सार्धम् आ यातम् आगच्छतम् । यत् यदा वां हुवे स्तुतिभिराह्वयामि ॥
Come near with those most recent aids of yours which merit eulogy,
When I invoke you, Wealthy Gods.
Drive here with this help, when with our newer good lauds
I call upon you, o you with bullish goods.
Mit solchen Hülfen kommt herbei, wenn ich euch rufe, kräftige, Mit neuen, hoch zu rühmenden.
Mit diesen löblichen Hilfen kommt aufs neue, wenn ich euch rufe, ihr Schatzreiche!
Приезжайте с этими услугами,
Новыми, достойными прекрасной хвалы,
Когда я зову вас, о хозяева огромного богатства!
य᳓था चित् क᳓ण्वम् आ᳓वतम्
प्रिय᳓मेधम् उपस्तुत᳓म्
अ᳓त्रिं शिञ्जा᳓रम् अश्विना
हे अश्विना अश्विनौ यथा चित् येन खलु प्रकारेण कण्वम् एतत्संज्ञमृषिम् आवतम् अरक्षतं प्रियमेधं प्रिययज्ञमेतत्संज्ञं च उपस्तुतम् एतदाख्यं च शिञ्जारं शब्दयन्तं स्तुवन्तम् अत्रिम् एतानृषींश्च येन प्रकारेणारक्षतं तथास्मानपि रक्षतमिति शेषः । यद्वा । एतावद्वां वृषण्वसू' इत्यनयैकवाक्यता॥ ॥ ५ ॥
As ye protected Kanva erst, Priyamedha and Upastuta,
Atri, Sinjara, Asvins Twain
Just as you helped Kaṇva, Priyamedha, Upastuta,
Atri, and Śr̥ñjāra, o Aśvins,
Wie Kanva eure Hülfe fand, Prijamedha, Upastuta, O Ritter, Atri, Çindschara,
Gerade wie ihr dem Kanva beistandet, dem Priyamedha, dem Upastuta, dem Atri, dem Sinjara, ihr Asvin;
Именно так, как вы помогали Канве,
Приямедхе, Упастуте,
Атри, Шинджаре, о Ашвины,
य᳓थोत᳓ कृ᳓त्विये ध᳓ने
अंशुं᳓ गो᳓षु अग᳓स्तियम्
य᳓था वा᳓जेषु सो᳓भरिम्
उत अपि च यथा येन प्रकारेण धने कृत्व्ये कर्तव्ये प्राप्तव्ये सति अंशुम् एतत्संज्ञं स्तोतारमावतमरक्षतम् । गोषु च लब्धव्यासु यथा अगस्त्यम् ऋषिमरक्षतम् । वाजेषु अन्नेषु लब्धव्येषु यथा येन प्रकारेण सोभरिम् एतत्संज्ञमृषिं चारक्षतम् । अत्रापि पूर्ववद्वाक्यशेष उत्तरयैकवाक्यता वा ॥
And Amsu in decisive fight, Agastya in the fray for kine.
And, in his battles, Sobhari.
And just as you (helped) Aṃśu when the stake was to be decided and Agastya when (it was) cows,
and Sobhari when (it was) victory-prizes,
Und Ançu im Entscheidungskampf, Agastja, der um Rinder focht, Und in den Schlachten Sobhari,
Und wie um den zu gewinnenden Kampfpreis dem Amsu, um die Kühe dem Agastya, wie ihr um die Siegesgewinne dem Sobhari,
А также Аншу с решающей ставкой,
Агастье с коровами,
Как (вы помогли) Собхари с наградами,
एता᳓वद् वां वृषण्वसू
अ᳓तो वा भू᳓यो अश्विना
गृण᳓न्तः सुम्न᳓म् ईमहे
हे वृषण्वसू वर्षणधनौ अश्विना अश्विनौ गृणन्तः स्तुवन्तो वयम् एतावत् ‘यथा चित् कण्वम् ' इत्यादिना यावदनुक्रान्तमेतत्परिमाणं सुम्नं सुखम् अतो वा अस्माद्वा भूयः बहुतरमधिकं सुम्नं वां युवाम् ईमहे याचामहे ॥
For so much bliss, or even more, O Asvins, Wealthy Gods, than this,
We pray white singing hymns to you.
For so much favor, or more than that,
do we singers beg you, o Aśvins with bullish goods.
Um solche Huld und grössre noch, o güterreiche, gehn wir euch, O Ritter, an mit Lobgesang.
Dieselbe Gunst, ihr Schätzereichen, oder noch größeren erbitten wir Sänger von euch, Asvin.
Вот столько, о хозяева огромного богатства,
Или (даже) больше этого
Воспеватели просят у вас милости.
र᳓थं हि᳓रण्यवन्धुरं
हि᳓रण्याभीशुम् अश्विना
आ᳓ हि᳓ स्था᳓थो दिविस्पृ᳓शम्
हे अश्विना अश्विनौ हिरण्यवन्धुरम् । सारथिस्थानं वन्धुरम् । हिरण्मयसारथिस्थानं हिरण्याभीशुं हिरण्मयप्रग्रहं दिविस्पृशम् अत्युन्नतत्वाद्दिवं स्पृशन्तम् । स्पृशेः क्विन् । द्विशब्दादद्वितीयार्थे सप्तमी । हृद्द्युभ्यां ङेरुपसंख्यानम्' इत्यलुक् । ईदृशं रथम् आ हि स्थाथः युवामातिष्ठथ एव । हिरवधारणे । अस्मदीयां स्तुतिं श्रोतुं शीघ्रं रथमास्थायागतमिति भावः ॥ ‘ष्ठा गतिनिवृत्तौ' । लटि छान्दसः शपो लुक् ॥
Ascend your car with golden seat, O Asvins, and with reins of gold,
That reaches even to the sky.
O Aśvins, the chariot with golden chariot-box and golden reins that touches heaven—since you will mount it—
Besteigt den Wagen, Ritter, denn, dess Sitz und Zügel golden sind, Und der bis an den Himmel reicht.
Besteiget also den Wagen mit dem goldenen Sitz, mit goldenem Zügel, o Asvin, der bis zum Himmel reicht!
Взойдите же на колесницу
С золотым сиденьем,
С золотыми поводьями, о Ашвины!
हिरण्य᳓यी वां᳐ र᳓भिर्
ईषा᳓ अ᳓क्षो हिरण्य᳓यः
उभा᳓ चक्रा᳓ हिरण्य᳓या
हे अश्विनौ वां युवयोः रभिः आरम्भणीयालम्भनभूता रथस्य ईषा हिरण्ययी हिरण्मयी हिरण्यविकारा । अक्षः च हिरण्ययः हिरण्मयो हिरण्यनिर्मितः । ‘ईषा अक्षादिषु च्छन्दसि । (पा. सू. ६. १. १२७, २) इति प्रकृतिभावः । अपि च उभा उभे द्वे अपि चक्रा चक्रे रथचरणे हिरण्यया हिरण्मये सुवर्णनिर्मिते। ‘सुपां सुलुक्' इति द्विवचनस्याकारः । ‘ऋत्व्यवास्त्व्यवास्त्व इत्यादिना हिरण्यशब्दान्मयटो मलोपो निपात्यते ॥
Golden is its supporting shaft, the axle also is of gold,
And both the wheels are made of gold.
Golden your chariot-shaft, golden your chariot-pole and your axle; golden both your wheels—
Von Gold ist Achse, Deichsel euch, und euer Zugscheit ist von Gold, Und golden euer Räderpaar.
Golden ist eure Lehne, die Deichsel, golden die Achse; beide Räder sind golden.
Золотые у вас поручни,
Оглобли, ось золотая,
Оба колеса золотые.
ते᳓न नो वाजिनीवसू
पराव᳓तश् चिद् आ᳓ गतम्
उ᳓पेमां᳓ सुष्टुति᳓म् म᳓म
हे वाजिनीवसू अन्नवद्धनावश्विनौ य उक्तो हिरण्मयसर्वावयवो रथः तेन रथेन नः अस्मान् परावतश्चित् दूरदेशादपि आ गतम् आगच्छतम्। गमेश्छन्दसः शपो लुक् । 'अनुदात्तोपदेश इत्यनुनासिकलोपः । इदानीमृषिरेकवदाह । मम मदीयाम् इमाम् इदानीं क्रियमाणां सुष्टुतिं शोभनां स्तुतिं चोपगच्छतम् ॥ ॥ ६ ॥
Thereon, ye Lords of ample wealth, come to us even from afar,
Come ye to this mine eulogy.
With it [=chariot] come here to us even from afar, o you rich in prize mares,
to this good praise of mine.
Mit dem, o güterreiche, kommt herbei aus weiter Ferne auch Zu diesem meinen Lobgesang.
Auf dem kommet, ihr Gewinnreichen, selbst von Ferne zu uns, zu diesem Lobgesang von mir!
На ней, о богатые наградами,
Приезжайте даже издалека
На это прекрасное восхваление мое!
आ᳓ वहेथे पराका᳐᳓त्
पूर्वी᳓र् अश्न᳓न्ताव् अश्विना
इ᳓षो दा᳓सीर् अमर्तिया
हे अमर्त्या अमरणौ अश्विना अश्विनौ दासीः । दासा उपक्षपयितारोऽसुराः । तत्संबन्धिनीः पूर्वीः पुरीः अश्नन्तौ भक्षयन्तौ भञ्जन्तौ युवाम् इषः अन्नानि पराकात् परागताद्दूरदेशात् आ वहेथे अस्मान्प्रापयथः । यद्वा । अश्नन्तौ व्याप्नुवन्तौ । 'अशू व्याप्तौ । अस्माद्व्यत्ययेन श्ना परस्मैपदं च । पूर्वीः बह्वीः दासीः दासस्योपक्षपयितुः शत्रोः संबन्धिनीः इषः अन्नानि शत्रुभ्योऽपहृत्य अस्मान् प्रापयथः ॥
From far away ye come to us, Asvins, enjoying plenteous food
Of Dasas, O Immortal Ones.
From far away you convey here the many refreshments
of the Dāsa, while consuming them, o immortal Aśvins.
Ihr fahret aus der Ferne her, wo Ritter viele Tränke ihr Der Fremden trinkt, Unsterbliche.
Ihr bringet aus der Ferne die vielen dem Dasa gehörenden guten Speisen mit, sie verzehrend, ihr unsterblichen Asvin.
Привозите издалека
Многие принадлежащие дасам
Подкрепления, вкушая (их), о бессмертные!
आ᳓ नो द्युम्नइ᳓र् आ᳓ श्र᳓वोभिर्
आ᳓ राया᳓ यातम् अश्विना
पु᳓रुश्चन्द्रा ना᳓सतिया
हे पुरुश्चन्द्रा बहुहिरण्यौ यद्वा पुरूणां बहूनामाह्लादकौ ॥ ‘ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे' इति सुट् । पादादित्वात् षाष्ठिकमामन्त्रिताद्युदात्तत्वम् ॥ हे नासत्या सत्यस्वभावौ सत्यस्य नेतारौ नासिकाप्रभवौ वा ॥ ‘आमन्त्रितं पूर्वमविद्यमानवत्' इति पूर्वस्यामन्त्रितस्याविद्यमानवद्भावात् इदमपि आमन्त्रितमाद्युदात्तम्। न च ' नामन्त्रिते समानाधिकरणे' इत्यविद्यमानवत्त्वनिषेधः पुरुश्चन्द्रेत्यस्य विशेषवचनत्वात् ॥ ईदृशौ हे अश्विना अश्विनौ द्युम्नैः द्योतमानैरन्नैर्दातव्यैः सार्धं नः अस्मान् आ यातम् आगच्छतम् । तथा श्रवोभिः श्रवणीयैर्यशोभिश्च अस्मानागच्छतम् । तथा राया धनेन चास्मानागच्छतम् ॥
With splendour, riches, and renown, O Asvins, hither come to us,
Nasatyas, shining brilliantly.
Drive here to us with brilliance, here with fame, here with wealth, Aśvins,
you much-gleaming Nāsatyas.
Mit Glanz und schönen Gütern kommt, mit Reichthum, Ritter, zu uns her, O Treue, herrlich glänzende.
Kommet her zu uns mit Herrlichkeit, mit Ruhm, mit Reichtum, ihr Asvin, ihr vielschimmernden Nasatya´s!
Приезжайте к нам с великолепием,
Со славой, с богатством, о Ашвины,
О многосвершающие Насатьи!
ए᳓ह᳓ वाम् प्रुषित᳓प्सवो
व᳓यो वहन्तु पर्णि᳓नः
अ᳓छा सुअध्वरं᳓ ज᳓नम्
हे अश्विनौ इह अस्मिन् यागे वां युवां प्रुषितप्सवः । प्रुषिः स्नेहनकर्मा। स्निग्धरूपाः पर्णिनः पक्षोपेताः। यद्वा । लुप्तोपममेतत् । पक्षिण इव शीघ्रगामिनः वयः गन्तारोऽश्वाः स्वध्वरं शोभनयज्ञं यजमानलक्षणं जनम् अच्छ अभिमुखम् आ वहन्तु आनयन्तु ॥
May dappled horses, steeds who fly with pinions, bring you hitherward
To people skilled in sacrifice.
Let your feathered birds [=horses], frothing at the mouth, convey you here to the man who performs the ceremony well.
Euch mögen die gesprenkelten beschwingten Vögel zu dem Volk, Das trefflich opfert, fahren her.
Hierher sollen euch die fleckfarbigen, beschwingten Vögel fahren, zu dem rechtopfernden Volk!
Сюда пусть привезут вас
Пятнистые крылатые птицы,
К прекрасно жертвующему народу!
र᳓थं वाम् अ᳓नुगायसं
य᳓ इषा᳓ व᳓र्तते सह᳓
न᳓ चक्र᳓म् अभि᳓ बाधते
हे अश्विनौ यः रथोऽस्मभ्यं देयेनान्नेन सह वर्तते वां युवयोः स्वभूतम् अनुगायसं स्तोतृभिरनुगातव्यं तं रथं चक्रं परसैन्यं न अभि बाधते नाभिहन्ति । यद्वा । चक्रं वीर्यकर्मसाधनम्। 'घञर्थे कविधानम्” इति कः। ‘कृञादीनां के (का. ६. १. १२. १) इति द्विर्वचनम् । अस्मिन् पक्षे अन्यः शत्रुरिति कर्तृपदमध्याहर्तव्यम् ॥
The whcel delayeth not that car of yours accompanied by song,
That cometh with a store of food.
Your chariot pursuing our song—the (chariot) that rolls along, along with its refreshment—
its wheel does not ram against it.
Und euer Wagen, liedumtönt, der rollt, mit Nahrung angefüllt, Wird nicht gehemmt von seinem Rad.
Gesang schallt eurem Wagen nach, der mit guter Speise kommt; ihn stößt das Rad nicht.
Напев следует за вашей колесницей,
Которая едет с подкреплением.
Колесо (у нее) не движется рывками.
हिरण्य᳓येन र᳓थेन
द्रव᳓त्पाणिभिर् अ᳓श्वैः
धी᳓जवना ना᳓सतिया
हे धीजवना मनोवद्वेगवन्तौ । आमन्त्रिताद्युदात्तत्वम्। हे नासत्या सत्यस्वभावौ सत्यस्य नेतारौ वा । 'आमन्त्रितं पूर्वमविद्यमानवत्' इति पूर्वस्याविद्यमानत्वेन पदादपरत्वादाष्टमिक निघाताभावः । न च नामन्त्रितविद्यमानवत्त्वनिषेधो धीजवनेत्यस्य विशेषणत्वेन सामान्यवचनत्वाभावात् । व्यावर्तकं हि विशेषणम् । ईदृशौ युवां द्रवत्पाणिभिः शीघ्रगमनपदैः अश्वैः युक्तेन हिरण्ययेन हिरण्मयेन स्वर्णमयेन रथेन आगतमिति शेषः । यद्वा । धीजवना नासत्या इत्येतदद्वयमपि प्रथमान्तमेव नामन्त्रितम् । धियो जव इव जवो ययोस्तौ। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ईदृशेन रथेन शीघ्रगमनौ नासत्यावश्विनौ आगच्छतमिति शेषः ॥ ॥ ७ ॥
Borne on that chariot wrought of gold, with coursers very fleet of foot,
Come, O Nasatyas, swift as thought.
(Drive here) with your golden chariot, with your horses with speedy forefeet,
o Nāsatyas, who spur on insights.
Mit eurem goldnen Wagen kommt, mit Hufe schwingendem Gespann, O Treue, wie Gedanken schnell.
Kommt auf goldenem Wagen mit den schnellhufigen Rossen, ihr Gedanken erweckenden Nasatya´s!
(Приезжайте) на золотой колеснице
С быстрокопытными конями,
О Насатьи, возбуждающие силу прозрения!
युव᳓म् मृगं᳓ जागृवां᳓सं
स्व᳓दथो वा वृषण्वसू
ता᳓ नः पृङ्क्तम् इषा᳓ रयि᳓म्
वाशब्दः समुच्चये । अपि च हे वृषण्वसू वर्षणधनावश्विनौ युवं युवां जागृवांसं जागरणशीलं स्वकार्ये मदजनने व्यग्रं मृगं मृग्यमन्वेषणीयं सोमं स्वदथः आस्वादयथः । यद्वा । जागृवांसं जाग्रतं मृगं मृगनामानमसुरं स्वदथः स्वादयथः हिंस्थ इत्यर्थः। ता तौ युवां नः अस्मदर्थम् इषा अन्नेन रयिं धनं पृङ्क्तं संपृङ्क्तं कुरुतम्। ईदृशं धनमस्मभ्यं प्रयच्छतमित्यर्थः ।
O Wealthy Gods, ye taste and find the brisk and watchful wild beast good.
Associate wealth with food for us.
You sweeten, as it were, the wakeful wild animal [=soma?], o you of bullish goods.
Infuse wealth with refreshment for us.
Ihr habet gern das muntre Wild, das ihr, o kräftige, erjagt; Erfüllt mit Labung unsern Schatz.
Ihr macht das frühwache Tier sozusagen schmackhaft, ihr Schätzereichen. Füllet unseren Besitz mit guter Speise auf!
Вы даже бодрствующего дикого зверя
Делаете приятным, о хозяева огромного богатства,
Наполните подкреплением наше богатство!
ता᳓ मे अश्विना सनीनां᳓
विदिया᳓तं न᳓वाना᳐म्
य᳓था चिच् चैदियः᳓ कशुः᳓
शत᳓म् उ᳓ष्ट्रानां᳐ द᳓दत्
सह᳓स्रा द᳓श गो᳓ना᳐म्
हे अश्विना अश्विनौ ता तादृशौ युवां नवानाम् अभिनवानां श्रेष्ठानां सनीनां संभजनीयानां धनानाम् । कर्मणि षष्ठी । ईदृशानि धनानि मे मह्यं दापयितुं विद्यातं जानीतम् । यथा चित् येन खलु प्रकारेण चैद्यः चेदिपुत्रः कशुः एतत्संज्ञो राजा उष्ट्रानां शतं तथा गोनां गवां दश सहस्रा दशसंख्यानि सहस्राणि ददत् दद्यात् तथा विद्यातमिति पूर्वत्रान्वयः ॥
As such, O Asvins, find for me my share of new-presented gifts,
As Kasu, Cedi's son, gave me a hundred head of buffaloes, and ten thousand kine.
O Aśvins, may you know of my new winnings—
how Kaśu, the lord of the Cedi, will give a hundred camels, ten
thousand cows.
Ihr Asvin sollet von mir von den neuen Belohnungen erfahren, wie Kasu, des Cedi Sohn, hundert Kamele schenkte und zehntausend Kühe;
Вы должны узнать от меня,
О Ашвины, о новых награждениях,
Как Кашу, сын Чеди, подарил сто верблюдов,
Десять тысяч коров.
यो᳓ मे हि᳓रण्यसंदृशो
द᳓श रा᳓ज्ञो अ᳓मंहत
अधस्पदा᳓ इ᳓च् चैदिय᳓स्य कृष्ट᳓यश्
चर्मम्ना᳓ अभि᳓तो ज᳓नाः
यः कशुसंज्ञो राजा मे मह्यं हिरण्यसंदृशः हिरण्यसंदर्शनान् हिरण्यसमानतेजस्कान् दश राज्ञः अमंहत परिचरणार्थं दत्तवान् । दशसंख्याकान् राज्ञो युद्धे पराजितान् गृहीत्वा दासत्वेनास्मै दत्तवानित्यर्थः । नन्वीदृशानां बहुविधानां राज्ञां दान एकः कथं शक्नुयादिति तत्राह । कृष्टयः सर्वाः प्रजास्तस्य चैद्यस्य चेदिपुत्रस्य कशोः अधस्पदा इत् पादयोरधस्तादेव वर्तन्ते। न कश्चिदपि तत्समानस्तदधिको वा विद्यते । अभितः सर्वतो वर्तमानाः जनाः चर्मम्नाः चर्ममयस्य कवचादेर्धारणे कृताभ्थासाः । यद्वा। चर्माणि चरणसाधनान्यश्वादीनि वाहनानि । तेषु मनन्त्यभ्यस्यन्तीति चर्मम्नाः । म्ना अभ्यासे । ‘आतो मनिन्” इति विच् । सर्वे मनुष्यास्तस्य भटा इत्यर्थः ॥
He who hath given me for mine own ten Kings like gold to look upon.
At Caidya's feet are all the people round about, all those who think upon the shield.
He who (previously) bestowed on me a king’s ten (horses?) of golden appearance—
beneath the feet of the lord of the Cedis are (all) the communities, the “hide-tanning” men all around.
Der mir zehn wie Gold aussehende Kleider des Königs schenkte. Die Völker reichen dem Cedisohn nicht an die Füße; Lohgerber sind die Leute ringsum.
Кто мне даровал десять
Выглядящих как золото (украшений) царя –
Под ногами у (этого) сына Чеди народы,
Люди вокруг (него) – дубильщики кожи!
मा᳓किर् एना᳓ पथा᳓ गा᳐द्
ये᳓नेमे᳓ य᳓न्ति चेद᳓यः
अन्यो᳓ ने᳓त् सूरि᳓र् ओ᳓हते
भूरिदा᳓वत्तरो ज᳓नः
येन मार्गेण इमे चेदयः अस्य राज्ञः पितृपितामहादयः यन्ति गच्छन्ति एना अनेन पथा मार्गेण माकिः गात् अन्यो न गन्तुं शक्नोति । अपि च अस्माद्राज्ञः अन्यः भूरिदावत्तरः। बहुदातृतमः सूरिः विद्वान् सन् जनः नेत् नैव ओहते वहति स्तोतृभ्यो धनं प्रापयति । यद्वा । बहुदातृतमो यो जनः कशुर्नाम अस्मादन्यः । व्यत्ययेन प्रथमा । अन्यं सूरिः स्तोता नेदोहते नैव याचते । ओहिर्याञ्चाकर्मा । यथान्यं न याचते तथा बहु धनं प्रयच्छतीत्यर्थः ॥ ॥ ८॥ ॥ १ ॥
No man, not any, goes upon the path on which the Cedis walk.
No other prince, no folk is held more liberal of gifts than they.
Let no one go by this path by which these Cedis go,
lest another man be lauded as a patron who’s a better giver of
abundance.
The following hymn initiates the second group of hymns in VIII, those in which the seer Vatsa is mentioned (VIII.6–11); see Oldenberg (1888: 211–14).
Keiner soll auf dem Pfade wandeln, auf dem diese Cedi´s wandeln, damit nicht ein anderer Lohnherr sich rühmen darf, ein noch freigebigerer Mann zu sein.
Никто не должен идти тем путем,
По которому идут эти (люди) Чеди.
Никакой другой покровитель не возомнит себя
Человеком, дающим больше.