जज्ञानो᳓ नु᳓ शत᳓-क्रतुर्
वि᳓ पृच्छद् इ᳓ति मात᳓रम् ।
"क᳓ उग्राः᳓? के᳓ ह शृण्विरे? ॥"+++(5)+++
अयमिन्द्रः जज्ञानो नु जायमान एव शतक्रतुः बहुकर्मा इति इत्थं मातरं स्वजननीं विपृच्छति । किमिति । क उग्राः उद्गूर्णबला लोके । के ह श्रृण्विरे श्रूयन्ते गुणैः । के विश्रुता इत्यर्थः ॥
SCARCELY was Satakratu, born when of his Mother he inquired,
Who are the mighty? Who are famed?
Just born, the one of a hundred resolves asked his mother,
“Which ones are powerful; which ones are famed?”
Als er geboren, fragte so die Mutter der vielwirkende: »Wer ist gewaltig, wer berühmt?«
Eben geboren fragte der Ratreiche also die Mutter aus: "Wer sind die Gewaltigen? Wie heißen sie?
Едва родившись, стоумный
Стал так расспрашивать мать:
Кто (эти) грозные? Кем слывут?
आ᳓द् ईं शवस्य् अ᳙ब्रवीद्
और्णवाभ᳓म् अही-शु᳓वम् ।
"ते᳓ पुत्र सन्तु निष्टु᳓रः +++(←तरणे)+++" ॥
इन्द्रेण पृष्टा शवसी माता अनन्तरमेव एनमिन्द्रम् अब्रवीत् । किमिति उच्यते । और्णवाभमहीशुवम् एतन्नामानावसुरौ तिष्ठतः । तावुक्तावन्ये च तादृशा हे पुत्र तव निष्टुरः निस्तारणीयाः सन्तु इति ॥
Then Savassi declared to him Aurnavabha, Ahisuva:
Son, these be they thou must o'erthrow
Then she, the strong one [/Śavasī], named to him Aurṇavābha [/the spider’s son] and Ahīśuva [/the one puffed up like a snake].
“Let them be (yours) to lay low, son.”
Da nannte ihm die kräftige die Spinnenbrut Ahiçuva: »Die mögest fällen du, o Sohn.«
Darauf nannte Savasi den Aurnavabha, den Ahisu: "Diese sollen, o Sohn, deine Niederstrecker sein.
Тогда (ему) Шаваси назвала
Аурнавабху, Ахишуву.
О сын, они должны быть сокрушителями.
स᳓म् इ᳓त् ता᳓न् वृत्र-हा᳓ ऽखिदत्+++(←नोदने)+++
खे᳓+++(=चक्र-नाभौ)+++ अराँ᳓ इव खे᳓दया+++(=मुद्गरेण)+++।
प्र᳓वृद्धो दस्यु-हा᳓ ऽभवत् ॥
तान् जनन्योक्तान् वृत्रहा इन्द्रः समित् सहैव अखिदत्। खेदनं नाम आकर्षणम् । खे रथचक्रस्य नाभौ अरान् चक्राङ्गभूताञ्छङ्कून् खेदया रज्ज्वा इव । तया तान् यथा संखिदन्ति तद्वत् । तथा कृत्वा दस्युहा शत्रुघातीन्द्रः प्रवृद्धः अभवत् ॥
The Vrtra-slayer smote them all as spokes are hammered into naves:
The Dasyu-killer waxed in might.
The Vr̥tra-smiter just hammered them together, like spokes in a nave with a hammer.
When grown up, he became smiter of Dasyus.
Sie schlug, wie Speichen in das Rad, der Vritratödter mit dem Keil, Da war der Dämontödter gross,
Der Vritratöter preßte sie mit einem Druck zusammen wie die Speichen in das Nabenloch. Als er groß geworden, wurde er der Dasyutöter.
Убийца Вритры вдавил их вместе
Молотом, словно спицы во втулку.
Выросши, он стал убийцей дасью.
ए᳓कया प्रतिधा᳓पिबत्
साकं᳓ स᳓रांसि त्रिंश᳓तम्
इ᳓न्द्रः सो᳓मस्य काणुका᳓
अयम् इन्द्रः एकया एकेन प्रतिधा प्रतिधानेन साकम् एकधैव त्रिंशतम् अपि । उक्थपात्राणीत्यर्थः । कीदृशानि । सरांसि सोमस्य पूर्णानि सोमरसेन पूर्णानि काणुका कान्तानि क्रान्तानि वा सोमेन कृतानि वा सोमपूर्णानि अपिबत् पीतवान् माध्यंदिनसवने । याज्ञिकप्रसिद्ध्यैवम् । नैरुक्तप्रसिद्ध्या तु कालाभिमानीन्द्रः । त्रिंशदपरपक्षस्याहोरात्रास्त्रिंशत् पूर्वपक्षस्य च सन्ति । तानेकरूपमनुभवतीति । एतत्सर्वम् ‘एकेन प्रतिधानेनापिबत्' (निरु. ५. ११) इत्यादिनिरुक्ते तद्व्याख्याने च स्पष्टमुक्तम् । तदत्र द्रष्टव्यम् ॥
Then Indra at a single draught drank the contents of thirty pails,
Pails that were filled with Soma juice.
At one shot he drank thirty ponds at once,
hogsheads [?] of soma—(did) Indra.
In einem Zuge trank er dann wol dreissig Seen auf einmal, Die Somaschalen Indra aus.
Mit einem einzigen Ansatz trank auf einmal dreißig Seen aus, voll des Soma.
В один глоток Индра
Выпил сразу триста
Озер сомы:
अभि᳓ गन्धर्व᳓म् अतृणद्
अबुध्ने᳓षु र᳓जस्सु आ᳓
इ᳓न्द्रो ब्रह्म᳓भ्य इ᳓द् वृधे᳓
अयम् इन्द्रः गन्धर्वम् । गामुदकं धारयतीति गन्धर्वो मेघः । तम् अभि आ अतृणत् सर्वतो हिंसितवान् । कुत्र । अबुध्नेषु पदनिधानयोग्यस्थानरहितेषु रजःसु लोकेषु । अन्तरिक्षप्रदेशेष्वित्यर्थः । किमर्थम् । ब्रह्मभ्य इत् ब्राह्मणेभ्य एव वृधे वर्धनाय ॥ ॥ २९ ॥
Indra in groundless realms of space pierced the Gandharva through, that he
Might make Brahmans' strength increase.
He bored through to the Gandharva in the bottomless dusky realms, to strengthen the composers of sacred formulations—(did) Indra.
Im bodenlosen Raum der Luft durchbohrte den Gandharven er, Den Betern Indra zum Gewinn.
Indra stieß zum Gandharva in den bodenlosen Räumen durch, den Hohenpriestern zum Gedeihen.
Он пробуравил (путь) к Гандхарве
В бездонных пространствах,
Индра – для укрепления брахманов.
नि᳓र् आविध्यद् गिरि᳓भ्य आ᳓
धार᳓यत् पक्व᳓म् ओदन᳓म्
इ᳓न्द्रो बुन्दं᳓ सु᳓आततम्
अयम् इन्द्रः गिरिभ्यः मेघेभ्यः सकाशादुदकं निर्गमयितुं निराविध्यत् संप्राहरत् तानेव मेघान् । किं कुर्वन् । पक्वं परिपक्वम् ओदनं कुर्वन् मनुष्याणामर्थाय । केन साधनेनेति तदुच्यते । बुन्दम् इषुं स्वाततं सुष्ठु सर्वतो विस्तृतमादायेति शेषः ॥
Down from the mountains Indra shot hither his well-directed shaft:
He gained the ready brew of rice.
He pierced (the boar Emuṣa), pierced the cooked rice porridge forth from the mountains, and held it fast.
Indra (took) the well-stretched Bunda-bow.
᳓
Die gare Speise rettend schoss nun Indra aus der Wolkenkluft Den wohlgezielten Pfeil hervor.
Von den Bergen aus - während er den gekochten Reisbrei festhielt - schoß Indra den gutgespannten Bundabogen ab.
Сберегая вареную похлебку,
Индра выстрелил из гор
Хорошо натянутой стрелой.
शत᳓ब्रध्न इ᳓षुस् त᳓व
सह᳓स्रपर्ण ए᳓क इ᳓त्
य᳓म् इन्द्र चकृषे᳓ यु᳓जम्
हे इन्द्र तव इषुः शतब्रध्नः शताग्रः सहस्रपर्णः सहस्रसंख्याकैः पत्रैः संवृतः शीघ्रगमनाय । अपरिमितगमनो वा । स च एक इत् एक एव । यं च इषुं युजं सहायं चकृषे करोषि युद्धाय ।
One only is that shaft of thine, with thousand feathers, hundred barbs,
Which, Indra, thou hast made thy friend.
Your arrow with a hundred ruddy glints and a thousand feathers was the single one
that you made into your yokemate, o Indra.
An hundert Spitzen hat dein Pfeil, und tausend Federn er allein, Den Indra du dir zugesellt.
Dein Pfeil mit hundert Spitzen, mit tausend Federn war der Einzige, den du, Indra, zu deinem Verbündeten gemacht hast.
Твоя стрела с сотней наконечников,
С тысячей перьев (была) единственной,
Кого, о Индра, ты сделал себе союзником.
ते᳓न स्तोतृ᳓भ्य आ᳓ भर
नृ᳓भ्यो ना᳓रिभ्यो अ᳓त्तवे
सद्यो᳓ जात᳓ ऋभुष्ठिर
तेन इषुणा स्तोतृभ्यः अस्मभ्यं नृभ्यः मनुष्येभ्यः । पुत्रेभ्य इत्यर्थः। तथा नारिभ्यः स्त्रीभ्यश्च अत्तवे अदनाय पर्याप्तं धनम् आ भर आहर। सद्यः तदानीमेव जातः अस्माभिर्दत्तेन सोमेन प्रवृद्धः सन् हे ऋभुष्ठिर । उरुः प्रभूतः स्थिरश्च संग्रामे स तथोक्तः । हे तादृशेन्द्र त्वमा भरेति समन्वयः ॥
Strong as the gbhus at thy birth, therewith to those who praise thee, men,
And women, bring thou food to eat.
[Indra’s mother:] “With it [=Bunda-bow] bring to the praisers, to the superior men and to their ladies, (the rice porridge?) to eat,
though you were just born right now, o steadfast one of the R̥bhus.”
Mit diesem bring den Sängern du den Männern Speise und den Fraun, Wenn Ribhustarker du erstehst.
Mit ihm bringe den Sängern - Männern und Weibern - zu essen her, eben geboren stark wie die Ribhu´s, du!
С ее помощью принеси восхвалителям:
Мужчинам (и) женщинам, поесть,
О (ты,) сразу рожденный крепким, как Рибху.
एता᳓ च्यौत्ना᳓नि ते कृता᳓
व᳓र्षिष्ठानि प᳓रीणसा
हृदा᳓ वीडु᳓ अधारयः
हे इन्द्र ते त्वया एता एतानि पुरतः सर्वैर्दृश्यमानानि वर्षिष्ठानि अतिशयेन प्रवृद्धानि परीणसा परितो नतानि अत एव च्यौत्नानि इति भावः । भूमेः कीलवद्धारणाय कृता कृतानि । पर्वतास्त्वया कृता इत्यर्थः । या यानि 'हृदा बुद्ध्या वीळु स्थिराणि अधारयः । बुद्ध्या कर्तव्यानीति यान्यधारयः तानीमानीति ॥
By thee these exploits were achieved, the mightiest deeds, abundantly:
Firm in thy heart thou settest them.
These highest exploits performed by you in profusion
you held fast with your whole heart.
All diese höchsten Thaten hast in reicher Fülle du vollbracht, Das Feste schützest du voll Lust.
Diese höchsten Großtaten, die vollzählig von dir angetan sind, hast du im Herzen fest beschlossen.
Эти высшие подвиги,
Целиком совершенные тобой,
Ты непреклонно вынашивал в сердце.
वि᳓श्वे᳓त् ता᳓ वि᳓ष्णुर् आ᳓भरद्
उरुक्रम᳓स् तुवे᳓षितः
शत᳓म् महिषा᳓न् क्षीरपाक᳓म् ओदनं᳓
वराह᳓म् इ᳓न्द्र एमुष᳓म्
अस्या ऋचो नैरुक्तैतिहासिकमतभेदेन द्विधा योजना । नैरुक्तपक्षे तावत् । हे इन्द्र ता तानि यानि त्वया स्रष्टव्यान्युदकानि सन्ति तानि विष्णुः व्यापनशील आदित्यः आभरत् आभरति । लोकाय प्रयच्छतीत्यर्थः । कीदृशो विष्णुः । उरुक्रमः बहुगतिः । किं स्वविरोधेन नेत्याह । त्वेषितः त्वया प्रेरितः । न केवलमुदकान्येव अपि च शतं महिषान् शतसंख्याकान् पशून् । महिषशब्दो गवादेरप्युपलक्षकः । अथवा शतशब्दोऽपरिमितवचनो महिष इति महन्नाम । असंख्यातान् महतो यज्ञान् यजमानेभ्य आभरत् ददातीत्यर्थः । किंच क्षीरपाकं क्षीरपक्वम् ओदनं पायसम् । एतच्चरुपुरोडाशादेरुपलक्षकम् । तद्यजमानेभ्य आभरत् । अथवा सर्वार्थं वृष्टिप्रदानद्वारोदनं प्राहरत् । किंच इन्द्रः वराहं जलपूर्णं मेघं हन्तीति शेषः । कीदृशं तम् । एमुषम् । आ इत्यस्य स्थाने छान्दस एकारः । आमुषमुदकस्य मोषकमित्यर्थः । निरुक्तपक्ष एवम् । ऐतिहासिकपक्षे चरकब्राह्मण इतिहास आम्नायते । विष्णुर्यज्ञः । स देवेभ्य आत्मानमन्तरधात् । तमन्यदेवता नाविदन्निन्द्रस्त्ववेत् । स इन्द्रमब्रवीत्को भवानिति । तमिन्द्रः प्रत्यब्रवीदहं दुर्गाणामसुराणां च हन्ता भवांस्तु क इति । सोऽब्रवीदहं दुर्गादाहर्ता त्वं तु यदि दुर्गाणामसुराणां हन्ता ततोऽयं वराहो वाममुष एकविंशत्याः पुरां पारेऽश्ममयीनां वसति तस्मिन्नसुराणां वसु वाममस्ति तमिमं जहीति । तस्येन्द्रस्ताः पुरो भित्त्वा हृदयमविध्यत्। अधि तत्र यदासीत्तद्विष्णुराहरदिति । सोऽयमितिहासः अस्येदु मातुः सवनेषु ( ऋ. सं. १. ६१. ७ ) ‘ विश्वेत्ता विष्णुः' इत्याभ्यां प्रतिपादितः । तयोर्मध्ये ‘अस्येदु मातुः' इत्यत्र विष्णुना हे इन्द्र त्वं दुर्गाणां हन्तेत्यात्मानं कथयसि तर्हि वाममुषं वराहमसुरं जहीत्युक्तार्थो ‘ विध्यद्वराहम्' इति पादेन प्रतिपादितः । इन्द्रेण च विष्णो त्वं दुर्गादाहर्तेति ब्रूषे मया पुराणि जितान्यसुरश्च घातितस्तस्य वामं वस्वानयेत्युक्तो विष्णुमूर्तिस्तस्य वराहासुरस्य धनं मुमोष । सोऽर्थः ‘मुषायद्विष्णुः पचतम्' इति पादेन सूचितः । स किं पुनर्मुषितवानिति तदत्रोच्यते ' विश्वेत्ता' इति । हे इन्द्र त्वेषितस्त्वया प्रेरितो विष्णुर्यज्ञरूपी त्वेषितस्त्वं दुर्गादाहर्ता किल तर्हि त्वं तस्य धनान्याहरेति त्वया प्रेरितः सन्नुरुक्रमो भूत्वा विश्वेत्ता यानि त्वयाहर्तव्यानीत्युक्तानि यानि च तत्र स्थितानि तानि सर्वाण्याभरत् आभरतु । कानि तानीति । शतं महिषानपरिमितान् प्रशस्तान् पदार्थान् तेषां वाहनरूपान् महिषान् वा क्षीरपाकमोदनं च पक्वमात्रमेवौदनं चाभरत् ।' विध्यद्वराहम्' इत्यत्रोक्तोऽर्थश्च चरमपादेनोच्यते । इन्द्रस्तु वराहं वराहारं स्वीकृतासुरसर्वस्वं वराहरूपिणं वैमुषमेमुषनामानमथवैमुषं धनानामामोषकं वराहमसुरं हृदयेऽविध्यदिति शेषः ॥
All these things Visnu brought, the Lord of ample stride whom thou hadst sent-
A hundred buffaloes, a brew of rice and milk: and Indra, slew the ravening boar
All these things Viṣṇu brought here, the wide-striding one spurred on by you:
a hundred buffaloes, a rice porridge cooked in milk—(when) Indra
(pierced) the boar Emuṣa.
Alles dies brachte der von dir gesandte weitschreitende Vischnu herbei, hundert Büffel und mit Milch gekochten Brei und einen wilden Eber, o Indra.
All das brachte der weitschreitende Vishnu her, von dir ausgesandt: Hundert Büffel, den in Milch gekochten Reisbrei, den Eber Emusa zu Indra.
И все это принес широкошагающий
Вишну, посланный тобой:
Сотню буйволов, похлебку, вареную на молоке,
Кабана Эмушу, о Индра.
तुविक्षं᳓ ते सु᳓कृतं सूम᳓यं ध᳓नुः
साधु᳓र् बुन्दो᳓ हिरण्य᳓यः
उभा᳓ ते बाहू᳓ र᳓णिया सु᳓संस्कृत
ऋदूपे᳓ चिद् ऋदूवृ᳓धा
एषा निरुक्ते एकमपि पदं विहाय यास्केन व्याख्याता तदेवलिख्यते-तुविक्षं बहुविक्षेपं महाविक्षेपं वा ते सुकृतं सूमयं सुसुखं धनुः साधयिता ते बुन्दोहिरण्मयः उभौ ते बाहू रण्यौ रमणीयौ सङ्ग्राम्यौ वर्दूपे अर्दनपातिनौ गमनपातिनौमर्मण्यर्दनवेधिनौ गमनवेधिनौ वेति ॥ ११ ॥पुरोळशन्नइति दशर्चमष्टमं सूक्तं काण्वस्य कुरुसुतेरार्षं आद्यानवगायत्र्योदशमी बृहती इन्द्रोदेवता । तथाचानुक्रान्तं-पुरोळाशं दशबृहत्यन्तमिति । सूक्तविनियोगोलैङ्ङ्गिकः । महाव्रते निष्केवल्ये गायत्रतृचाशीतौ आद्यास्तिस्रऋचः । तथाच सूत्रितं-पुरोळाशन्नोअन्धसइति तिस्रइति ।
Most deadly is thy bow, successful, fashioned well: good is thine arrow, decked with gold.
Warlike and well equipped thine arms are, which increase sweetness for him who drinks the sweet.
Powerfully ruling, well-made, made of boar is your bow, the golden Bunda, that aims straight.
Your two arms are fit for battle, well-equipped, increasing injury even for one who protects himself from injury.
Gut ist dein Bogen, viele tilgend, schönbereitet, gut treffend ist dein goldner Pfeil; erfreulich und schön gefüllt sind deine Arme, und Süssigkeit liebt dein Lippenpaar.
Viele verwundend, wohlgemacht, aus gutem Stoff ist dein Bogen, der treffliche, goldene Bunda. Deine beiden Arme sind kampflustig, wohlgeformt, die verwundbaren Stellen treffend auch bei dem, der sie schützt.
Прекрасно сделан из прекрасного материала твой мощно ранящий лук,
Достигает цели золотая стрела.
Обе руки твои доставляют радость, хорошо украшены,
Они увеличивают ранимые места даже у того, кто их защищает(?)