आ᳓ प्र᳓ द्रव पराव᳓तो
अर्वाव᳓तश् च वृत्रहन्
म᳓ध्वः प्र᳓ति प्र᳓भर्मणि
हे वृत्रहन् अपामावरकस्य वृत्रासुरस्य हन्तर्हे इन्द्र प्रभर्मणि । प्रकृष्टानि भर्माणि भरणानि पशुग्रहादिसंपादनानि यस्मिन् स प्रभर्मा यज्ञः । यद्वा । प्रकृष्टाः कर्मणि कुशला भर्माणो देवानां हविष्प्रदानेन पोषका ऋत्विजो यस्मिन्निति स तथोक्तः । एतादृशे यज्ञे मध्वः मदकरान् सोमान् प्रति परावतः विप्रकृष्टात् दूरस्थाद्देशादपि अर्वावतश्च समीपस्थाद्देशादपि आभिमुख्येन प्र द्रव त्वं त्वरयागच्छ । मध्व इति ‘वा छन्दसि' इति पूर्वसवर्णदीर्घाभावः ॥
HASTE forward to us from afar, or, Vrtra-slayer, from anear,
To meet the offering to the meath.
Run here from afar and from nearby, Vr̥tra-smiter,
in response to the proffering of the honey.
Auf, eile aus der Ferne her und aus der Nähe, Vritrafeind, Wenn süssen Trank wir bringen dar.
Eile aus der Ferne und aus der Nähe herbei, du Vritratöter, zu der Darbringung des Süßtranks!
तीव्राः᳓ सो᳓मास आ᳓ गहि
सुता᳓सो मादयिष्ण᳓वः
पि᳓बा दधृ᳓ग् य᳓थोचिषे᳓
हे इन्द्र तीव्राः तीव्रमदाः । क्षिप्रं मदकारिण इत्यर्थः । मादयिष्णवः मादनशीला मादनकारिणो वेमे सोमासः सोमाः सुतासः त्वदर्थमभिषुताः । तस्मात् आ गहि अस्मदीयं यज्ञं प्रत्यागच्छ । आगत्य च तान् पिब । सोमपाने कारणमाह । त्वं यथा दधृक् धृष्टस्तत्प्रीतौ प्रगल्भः संस्तान् ऊचिषे समवैषि सेवसे । ततस्तान यथाकामं पिबेत्यर्थः । दृधृगिति ‘ञिधृषा प्रागल्भ्ये' इत्यस्मात् ‘ ऋत्विग्दधृक् ' इत्यादिना क्विन्प्रत्ययान्तो निपात्यते । ऊचिषे ।' उच समवाये । छान्दसे लिटि रूपम् ॥
Strong are the Soma-draughts; come nigh: the juices fill thee with delight:
Drink boldly even as thou art wont'.
Sharp are the soma-drinks. Come here! The pressed drinks are ready to exhilarate.
Drink heartily as you are accustomed.
Scharf sind die Soma's, komme her, berauschende sind ausgepresst, So trinke herzhaft, wie du magst.
Scharf sind die Soma´s, komm her! Berauschend sind die ausgepreßten; trink herzhaft, wie du gewohnt bist!
इषा᳓ मन्दस्व आ᳓द् उ ते
अ᳓रं व᳓राय मन्य᳓वे
भु᳓वत् त इन्द्र शं᳓ हृदे᳓
हे इन्द्र इषा सोमलक्षणेनान्नेन मन्दस्व मोदस्व हृष्टो भव । उ इत्यवधारणे । आत् अनन्तरमेव ते तव वराय शत्रुनिवारकाय मन्यवे क्रोधाय स सोमः अरम् अलं पर्याप्तो भवतु । क्रोधशमने समर्थो भवतु । यदा सोमं पिबति तदा मन्युं त्यजतीत्यर्थः । किंच ते तव हृदे हृदये स सोमः शं शंकरः सुखकरः भुवत् भवतु ॥
Joy, Indra, in the strengthening food et it content thy wish and thought,
And be delightful to thine heart.
Become exhilarated on the refreshment, and then in accord with your desire and your fervor
it will become weal for your heart, Indra.
Am Trank erfreu dich, und er sei recht deinem Wunsch und Sinn gemäss, O Indra, deinem Herzen hold.
Berausche dich am Labetrank, und er sei dir recht nach Wunsch und Absicht und sage deinem Herzen zu, Indra.
आ᳓ तु᳓ अशत्रव् आ᳓ गहि
नि᳓ उक्था᳓नि च हूयसे
उपमे᳓ रोचने᳓ दिवः᳓
हे अशत्रो सपत्नरहित । अस्य बहुविधबलत्वाद्रणाभिमुखं गन्तारः शत्रवो न सन्तीत्यर्थः । तादृशेन्द्र तु क्षिप्रम् आ गहि आयाहि अस्मद्यज्ञं प्रत्यागच्छ । यतः दिवः स्वतेजसा दीप्यमानात् द्युलोकात् । तत्रस्थैर्देवैरित्यर्थः । रोचने अग्निभिर्दीप्यमाने लोके च उपमे समीपे । स्तोतारः स्तोत्रशस्त्रात्मकं शब्दं कुर्वन्त्यत्रेत्युपमो यज्ञः । तस्मिन्नस्मदीये यज्ञे च उक्थानि त्रिवृत्पञ्चदशादिलक्षणानि स्तोत्राणि प्रति नि हूयसे त्वं स्तोतव्यतया नितरामाहूयसे । यस्मादेवं तस्मादागच्छेति समन्वयः ॥
Come to us thou who hast no foe: we call thee down to hymns of praise,
In heaven's sublimest realm of light.
You without rival—here, come here! You are being called down to the hymns (while you are) in the highest luminous realm of heaven.
O unbesiegter, komm herbei, zu Sprüchen rufen wir dich her, Auch von dem höchsten Himmelsraum.
Komm doch, der du ohne Gegner bist; und du wirst zu den Lobliedern gerufen im höchsten Lichtraum des Himmels!
तु᳓भ्याय᳓म् अ᳓द्रिभिः सुतो᳓
गो᳓भिः श्रीतो᳓ म᳓दाय क᳓म्
प्र᳓ सो᳓म इन्द्र हूयते
हे इन्द्र अद्रिभिः अभिषवसाधनैर्ग्रावभिः अयं सोमः तुभ्यं त्वदर्थं सुतः अभिषुतः । ततो दशापवित्रेण पूत्वा गोभिः गोविकारैः क्षीरादिभिः श्रीतः सोऽस्माभिः परावत एव संस्कृतः सोमस्तव मदाय मदार्थं कं सुखेन प्र हूयते अग्नौ स्वाहा क्रियते । तस्मादागत्य सोमं पिब ॥ ॥१॥
This Soma here expressed with stones and dressed with milk for thy carouse,
Indra, is offered up to thee.
For you this one here has been pressed by stones, prepared with cows [=milk], for exhilaration.
The soma is being poured forth, Indra.
᳓
Er ist von Steinen, Indra, dir gepresst, mit Milch zum Rausch vermischt Der Soma wird ergossen dir.
Für dich ist dieser Soma mit den Steinen ausgepreßt, mit Milch gemischt zum Rausche; dir, Indra, wird der Soma geopfert.
इ᳓न्द्र श्रुधि᳓ सु᳓ मे ह᳓वम्
अस्मे᳓ सुत᳓स्य गो᳓मतः
वि᳓ पीतिं᳓ तृप्ति᳓म् अश्नुहि
हे इन्द्र मे मदीयं हवं त्वद्विषयमाह्वानं सु सुष्ठु श्रुधि शृणु । तथा अस्मे अस्माभिः सुतस्य अभिषुतस्य गोमतः गव्यक्षीरवतः । क्षीरेण मिश्रितस्येत्यर्थः । तादृशस्य सोमस्य पीतिं पानं वि अश्नुहि विविधं प्राप्नुहि । तत्पानेन विविधां तृप्तिं च गच्छ । 'अशू व्याप्तौ' । व्यत्ययेन परस्मैपदम् ॥
Graciously, Indra, hear my call. Come and obtain the draught, and sate
Thyself with juices blent with milk.
Indra, hear my call. Reach the drinking and satiety
of the soma that has been pressed among us and provided with cows.
O höre, Indra, meinen Ruf, erlange Trunk und Sättigung An diesem milchgemischten Saft.
Indra, höre fein auf meine Einladung; von dem bei uns ausgepreßten milchgemischten Soma empfange Trank und Labung!
य᳓ इन्द्र चमसे᳓षु आ᳓
सो᳓मश् चमू᳓षु ते सुतः᳓
पि᳓बे᳓द् अस्य त्व᳓म् ईशिषे
हे इन्द्र ते त्वदर्थं सुतः अभिषुतः यः सोमः चमसेषु एतन्नामकेषु पात्रेषु तथा चमूषु । चमन्ति यजन्त्यत्रेति चम्वो ग्रहाः । तेषु च आ सर्वतः अस्ति अस्य तमेतं सोमं पिबेत् । इदवधारणे । पिबैव । कथमस्य सोमपानयोग्यता तत्राह । हे इन्द्र त्वमीशिषे तस्य त्वमेवेश्वरो भवसि खलु । यत एवं ततः पिबेति समन्वयः । 'ईश ऐश्वर्ये '। लटि ‘ईशः से (पा. सू. ७. २. ७७ ) इतीडागमः ॥
The Soma, Indra, which is shed in chalices and vats for thee,
Drink thou, for thou art Lord thereof.
Indra, the soma in the beakers and in the cups that has been pressed for you—
drink of it. You are master of it.
Den Soma, der in Bechern steht, in Schalen, Indra, dir gepresst, Den trinke, dir gehört er an.
Der für dich in den Bechern ist, der in den Camugefäßen gepreßte Soma, von dem trinke doch, Indra; du hast das Anrecht darauf!
यो᳓ अप्सु᳓ चन्द्र᳓मा इव
सो᳓मश् चमू᳓षु द᳓दृशे
पि᳓बे᳓द् अस्य त्व᳓म् ईशिषे
हे इन्द्र यः गृहीतः सोमः चमूषु ग्रहेषु ददृशे अन्तर्दृश्यते । तत्र दृष्टान्तः । चन्द्रमाइव यथा चन्द्रमाः अप्सु अन्तरिक्षे निर्मलतया दृश्यते तद्वत् । यद्वा । अप्सूदकेषु चन्द्रमाः प्रतिबिम्बतया नानाविधो दृश्यते तथाष्टग्रहेष्वनेकरूपः सन् दृश्यते तमेतं सोमं पिबैव यतस्त्वमेवेशिषे खलु ॥
The Soma seen within themats, as in the flood the Moon is seen,
Drink thou, for thou art Lord thereof.
The soma that is seen in the cups, like the moon in the waters—
drink of it. You are master of it.
Den Soma, der in Schalen blinkt, wie in der Wasserflut der Mond, Den trinke, dir gehört er an.
Der Soma, der in den Camugefäßen wie der Mond im Wasser sichtbar wird, von dem trinke doch, Indra; du hast das Anrecht darauf!
यं᳓ ते श्येनः᳓ पदा᳓भरत्
तिरो᳓ र᳓जांसि अ᳓स्पृतम्
पि᳓बे᳓द् अस्य त्व᳓म् ईशिषे
हे इन्द्र श्येनः शंसनीयः पक्षी । पक्षिरूपधारिणी गायत्रीत्यर्थः । स पक्षी रजांसि अन्तरिक्षादिलोकस्थितान् सोमपालान् गन्धर्वान् तिरः तिरः कुर्वन् अस्पृतं शत्रुभिरस्पृष्टं सन्तं यं सोमं ते त्वदर्थं पदा पद्भ्याम् आभरत् । पदेति सवनद्वयाभिप्रायम् । सवनद्वय आहृतं सोमं त्वं पिब । गायत्री पक्षिरूपं धारयित्वा पद्यां सोममाहरदित्यत्रार्थे यजुर्ब्राह्मणं--' पद्यां अ द्वे सवने समगृह्णान्मुखेनैकं तस्माद्द्वे सवने शुक्रवती प्रातःसवनं च माध्यंदिनं च ' (तै. सं. ६. १. ६. ४ ) इति । तं पिबैव । त्वमेव तस्येश्वरो भवसि ॥ ॥ २ ॥
That which the Hawk brought in his claw, inviolate, through the air to thee,
Drink thou, for thou art Lord thereof.
That which the falcon brought to you with his foot across the airy realms—the one that could not be recaptured—
drink of it. You are master of it.
Den unbestrittnen, den der Aar dir trug am Fusse durch die Luft, Den trinke, dir gehört er an.
Den dir der Falke mit dem Fuße gebracht hat durch die Lüfte, ohne ihn loszulassen, von dem trinke doch, Indra; du hast das Anrecht darauf!