देवा᳓नाम् इ᳓द् अ᳓वो मह᳓त्
त᳓द् आ᳓ वृणीमहे वय᳓म्
वृ᳓ष्णाम् अस्म᳓भ्यम् ऊत᳓ये
हे देवाः देवानां स्वतेजसा सर्वतो दीप्यमानानाम् । इत् एवार्थे । युष्माकमेव महत् व्याप्तं महनीयं वा अवः पालनं यद्विद्यते तत् वृष्णां कामानां वर्षितॄणां युष्माकं स्वभूतं तत् रक्षणं यजमानाः वयम् आ वृणीमहे समन्तात्संभजामहे । किमर्थम् । अस्मभ्यमूतये । पूर्वमस्मभ्यमस्मदर्थमिति साधारण्येनोक्त्वा तद्विशिनष्टि ऊतय इति । अस्माकं पालनायेति ॥
WE choose unto ourselves that high protection of the Mighty Gods
That it may help and succour us.
We would choose the great help of the gods,
of the bulls, to aid us.
Der Götter grosse Förderung, die wünschen wir uns recht herbei, Der kräftigen zum Segen uns.
Die große Gunst der Götter, der Bullen, die erbitten wir uns zum Beistand.
ते᳓ नः सन्तु यु᳓जः स᳓दा
व᳓रुणो मित्रो᳓ अर्यमा᳓
वृधा᳓सश् च प्र᳓चेतसः
ते देवाः वरुणः शत्रूणां निवारकः मित्रः सर्वेषां मित्रभूतः अर्यमा[१] सततं गच्छन् एतन्नामकास्ते त्रयो देवाः सदा सर्वदा सर्वेषु कालेषु नः अस्माकं युजः सहायाः सन्तु भवन्तु । अग्निहोत्रादिकर्मणि इन्द्रादिदेवाः सहागमनादियज्ञपरिसमापनान्तेषु साहाय्यं कुर्वन्त्वित्यर्थः । ततः प्रचेतसः प्रकृष्टज्ञानाः । यद्वा । चेतः स्तोत्रम् । शोभनस्तुतयः। ते देवाः वृधासः वर्धकाः च अस्माकं धनादिदानेन वर्धयितारश्च सन्तु ॥
May they be ever our allies, Varuna, Mitra, Aryaman,
Far-seeing Gods who prosper us.
Let them be our yokemates always—Varuṇa, Mitra, Aryaman—
and forethoughtful strengtheners.
Sie seien stets Genossen uns, Varuna, Mitra, Arjaman Und Förderer die weisen uns.
Die sollen immerdar unsere Bundesgenossen sein, Varuna, Mitra, Aryaman und unsere vorsorgenden Förderer.
अ᳓ति नो विष्पिता᳓ पुरु᳓
नौभि᳓र् अपो᳓ न᳓ पर्षथ
यूय᳓म् ऋत᳓स्य रथियः
ऋतस्य सत्यस्य यज्ञस्य वा हे रथ्यः नेतारो देवाः। यद्वा । ऋतस्येति संबन्धि--- त्वात्कर्ताक्षिप्यते । यज्ञस्य साधका हे रथ्यो रथवन्तो देवाः विष्पिता विष्पितानि विप्राप्तानि विततानि पुरु । सुपो लुक् । पुरूणि बहूनि शत्रुबलानि कर्माणि वा नः अस्मान् अति पर्षथ पारं समाप्तिं रक्षणैर्गमयत । तत्र दृष्टान्तः। नौभिरपो न । यथा नाविकोऽप उदकानि नौभिर्जनास्तीरं प्रति प्रापयति तद्वत् ॥
Ye furtherers of holy Law, transport us safe o'er many woes,
As over water-floods in ships.
You carry us across many perils [?], as if across the waters with boats— you charioteers of truth.
Durch viel Gefahren führet uns gleich wie auf Schiffen durch das Meer, Des Rechtes Wagenlenker ihr.
Führet uns über die vielen Gefahren hinweg wie mit Schiffen über die Gewässer! Ihr seid die Lenker der wahrhaften Rede.
वामं᳓ नो अस्तु अर्यमन्
वामं᳓ वरुण शं᳓सियम्
वामं᳓ हि᳓ आवृणीम᳓हे
हे अर्यमन् देव वामं वननीयं संभजनीयं धनं नः अस्माकम् अस्तु भवतु । हे वरुण शंस्यं सर्वं शंसनीयं स्तुत्य वामं धनमस्माकमस्तु । कुतः । हिशब्दो हेतौ । यस्मात्कारणाद्वयं वामं धनं युष्मान् आवृणीमहे याचामह इत्यर्थः ।
Dear wealth be Aryaman to us, Varuna dear wealth meet for praise:
Dear wealth we choose unto ourselves.
Let there be a treasure for us, o Aryaman; a treasure worthy of praise, o Varuṇa,
for we would choose a treasure.
Uns werde Schatz, o Arjaman, gepries'ner Schatz, o Varuna; Denn schönen Schatz begehren wir.
Glück soll uns werden, Aryaman, preisliches Glück, Varuna, denn das Glück erbitten wir.
वाम᳓स्य हि᳓ प्रचेतस
ई᳓शानाशो रिशादसः
ने᳓म् आदित्या अघ᳓स्य य᳓त्
हे प्रचेतसः प्रकृष्टज्ञानाः शोभनस्तुतयो वा हे रिशादसः रिशतां हिंसतां शत्रूणामसितारः क्षेप्तारो देवा यूयं वामस्य वननीयस्य धनस्य ईशानासः ईशानाः। हिरवधारणे । ईशाना एव स्वामिन एव भवथ । तस्माद्युष्मान् याचामह इत्यर्थः । ईशानाः । ईश ऐश्वर्यं । अनुदात्तेत् । ‘ तास्यनुदात्तेत् ' इति स्वरेणाद्युदात्तता भवति । न संबुद्धिः । ततो हे आदित्याः अदितेः पुत्रा देवाः ईम् एनं याचमानं मां तद्धनं न प्राप्नोतु यत् धनम् अघस्य पापस्य संबन्धि विद्यते ॥ ॥३॥
For Sovrans of dear wealth are ye, Adityas, not of sinner's wealth,
Ye sapient Gods who slay the foe.
For you forethoughtful ones, who care for the stranger, are holding sway over a treasure.
What belongs to evil (shall) not (reach) it, o Ādityas.
Denn über Schatz gebietet ihr, o weise, Feindverzehrer ihr, Aditja's, den der Feind nicht raubt.
Denn ihr Vorsorgende, Herrenstolze verfüget über das Glück. Nicht soll uns das treffen, was dem Bösen gebührt, o Aditya´s.
वय᳓म् इ᳓द् वः सुदानवः
क्षिय᳓न्तो या᳓न्तो अ᳓ध्वन् आ᳓
दे᳓वा वृधा᳓य हूमहे
हे सुदानवः शोभनदाना हे देवाः क्षियन्तः गृहेष्वग्निहोत्रार्थं निवसन्तः अध्वन् । सुपो लुक्। अध्वनि समिदाहरणार्थं यान्तः गच्छन्तोऽपि वयं वः इत् युष्मानेव वृधाय हविर्भिर्वर्धनाय हूमहे आह्वयामः । यद्वा । वयं गृहेषु गृहान्निर्गमनकाले मार्गेषु च वृधायास्माकं धनादिभिर्वर्धनायाह्वयामः ॥
We in our homes, ye Baunteous Ones, and while we journey on the road,
Invoke you, Gods, to prosper us.
O you of good gifts, we, whether dwelling peacefully or traveling on our route, call upon you, gods, for strengthening.
Wir rufen, gabenreiche, euch, daheim und auf der Reise an, O Götter, uns zur Förderung.
Wir rufen euch, ihr gabenschönen Götter, zum Gedeihen, wenn wir rasten und unterwegs auf der Fahrt.
अ᳓धि न इन्द्र एषां᳐
वि᳓ष्णो सजाति᳓याना᳐म्
इता᳓ म᳓रुतो अ᳓श्विना
हे इन्द्र विष्णो मरुतः हे अश्विना अश्विनौ हे इन्द्रादयो देवाः सजात्यानाम् । समानायां जातौ भवाः सजात्या भ्रातृमित्रादयः । तेषाम् एषां मध्ये नः अस्मान् अधि इत यूयं स्तुत्यतयाधिगच्छत ॥
Regard us, Indra, Visnu, here, ye Asvins and the Marut host,
Us who are kith and kin to you.
O Indra, Viṣṇu, Maruts, Aśvins—of these your common births with us take cognizance.
Gedenket Indra, Vischnu doch, o Maruts, Ritter, recht daran, Wie nah mit euch verwandt wir sind.
Gedenket dieser Landsmannschaft mit uns, Indra, Vishnu, Marut, Asvin!
प्र᳓ भ्रातृत्वं᳓ सुदानवो
अ᳓ध द्विता᳓ समानिया᳓
मातु᳓र् ग᳓र्भे भरामहे
हे सुदानवः शोभनदाना आदित्याः अध अथ अस्मत्प्रत्यागमनानन्तरं वयं समान्या सामान्येन । सुपो ड्यादेशः । पूर्वं सर्वेषां देवानां सांहत्येन ततः द्विता द्विधा द्विप्रकारेण च मातुः अदितेः गर्भे संजातं यद्युष्माकं भ्रातृत्वं विद्यते तदिदानीं वयं प्र भरामहे । प्रभरणमुच्चारणं प्रकाशनं वा । उच्चारयामः प्रकाशयामो वा । सर्वेषां देवानां द्वंद्वशो जननं तैत्तिरीयके स्पष्टमभिहितम् -- ‘ अदितिः पुत्रकामा साध्येभ्यो देवेभ्यो ब्रह्मौदनमपचत्' (तै. सं. ६. ५. ६) इत्युपक्रम्य ‘तस्यै पूषा चार्यमा चाजायेताम् ' इत्यादिना । ।
Ye Bounteous Ones, from time of old we here set forth our brotherhood,
Our kinship in. the Mother's womb.
You of good gifts, now once again in the same way we bring to the fore our brotherhood with you
in the womb of our mother.
Wir tragen eure Brüderschaft gemeinsam, o schöngebende, An uns schon in der Mutter Leib.
Darum bringen wir abermals die Bruderschaft gemeinsam im Leibe der Mutter vor, ihr Gabenschöne.
यूयं᳓ हि᳓ ष्ठा᳓ सुदानव
इ᳓न्द्रज्येष्ठा अभि᳓द्यवः
अ᳓धा चिद् व उत᳓ ब्रुवे
पूर्वोऽर्धर्चः सिद्धः । हे सुदानवः शोभनदाना देवाः इन्द्रज्येष्ठाः । इन्द्रो ज्येष्ठो मुख्यो येषां ते तथोक्ताः । सर्वे देवा इन्द्रनेतृका इत्यर्थः । तादृशाः अभिद्यवः अभिगतदीप्तयः यूयं हि स्थ अस्मद्यज्ञे भवथ खलु । हि प्रसिद्धौ । अध चित् अथानन्तरमेव वः युष्मान् अहं ब्रुवे स्तौमि । उत अपि च पुनःपुनः स्तौमीत्यर्थः ॥ ॥ ४ ॥
Then come with Indra for your chief, as early day, ye Bounteous Gods
Yea, 1 address you now for this.
For you of good gifts, with Indra preeminent—you are heaven-sent. And so I call just upon you.
Ja, ihr von Indra angeführt bewohnt den Himmel gabenreich, darum auch rufe ich euch an.
Denn ihr seid ja die Gabenschönen mit Indra an der Spitze, die Himmlischen. Und gerade darum spreche ich euch an.