प्र᳓यिष्ठं+ वो अ᳓तिथिं
स्तुषे᳓ मित्र᳓म् इव प्रिय᳓म्
अग्निं᳓ र᳓थं न᳓ वे᳓दियम्
हे यजमानाः प्रेष्ठं युष्माकं धनदानेन प्रियतमम् अतिथिं युप्माभिरतिथिवत्पूज्यम् । यद्वा । ‘ अत सातत्यगमने '। 'ऋतन्यञ्जि°' इत्यादिना अतेरिथिन् । सततं देवानां हविः प्रदातुं गच्छन्तम् । मित्रमिव सखायमिव प्रियं स्तोतुः प्रीणनकरं रथं न रथमिव वेद्यम् । वेदो धनम् । धनहितं लाभहेतुम् । यथा रथी रथेन धनं लभते तद्वत्स्तोतारोऽनेन धनं लभन्ते । तादृशं धनलाभकारणम् अग्निं वः युष्मत्कर्मसिद्ध्यर्थं स्तुषे काव्य उशनाः स्तौमि ॥ ।
AGNI, your dearest Guest, I laud, him who is loving as a friend,
Who brings us riches like a car.
The dearest guest will I praise for you—dear like an ally—
Agni, worth acquiring like a chariot,
Ich rühme euren liebsten Gast, wie einen werthgeschätzten Freund, Den Agni, der als Held berühmt.
Euren lieben Gast preise ich, der beliebt wie ein Freund ist, den Agni, der wie ein Streitwagen denkwürdig ist,
Я хочу восхвалять самого приятного
Вашего гостя, приятного, как друг,
Агни, известного, как колесница,
कवि᳓म् इव प्र᳓चेतसं
यं᳓ देवा᳓सो अ᳓ध द्विता᳓
नि᳓ म᳓र्तियेषु आदधुः᳓
अध अपि च देवासः देवा इन्द्रादयः यम् अग्निं मर्त्येषु मनुष्येषु द्विता द्विधा नि आदधुः गार्हपत्याहवनीयात्मकत्वेन द्विधा निहितवन्तः । तत्र दृष्टान्तः। कविमिव प्रचेतसम् । प्रकृष्टज्ञानं कविं क्रान्तकर्माणं पुरुषं यथा द्विधा कार्यद्वयेऽन्यो नियोजयति तद्वत् । यद्वा । दिवि पृथिव्यां च निहितवन्तः । भूमौ तु हविराहरणार्थं दिवि तु हविष्प्रदानार्थमिति द्वैधं विधानं कृतवन्त इत्यर्थः ॥
Whom as a far-foreseeing Sage the Gods have, from the olden time,
Established among mortal men.
Him, discerning like a sage poet, whom the gods now once again
have set down among mortals.
Der weise wie ein Seher ist, und den die Götter lange schon Bei Menschen haben eingesetzt.
Vorausdenkend wie ein Seher, den die Götter da abermals bei den Menschen eingesetzt haben.
Прозорливого, как поэт,
(Того,) кого боги с самого начала
Устроили среди смертных.
तुवं᳓ यविष्ठ दाशु᳓षो
नॄँ᳓ः पाहि शृणुधी᳓ गि᳓रः
र᳓क्षा तोक᳓म् उत᳓ त्म᳓ना
हे यविष्ठ युवतम । यद्वा । यौतेस्तृजन्तस्येष्टनि रूपम् । देवानां हविषां मिश्रयितृतमाग्ने त्वं दाशुषः हविर्दत्तवतः नॄन् कर्मणां नेतॄन् यजमानान् पाहि धनादिदानेन रक्ष । नॄँः पाहीत्यत्र संहितायां नॄन्पे' (पा. सू. ८. ३. १० ) इति नकारस्य रुत्वम् । अत्रानुनासिकः' ( पा. सू. ८. ३. २ ) इति पूर्वस्यानुनासिकः । किंच गिरः त्वद्विषयाः स्तुतीः शृणुधि अवहितः सञ्छृणु । ‘श्रु श्रवणे'। ‘श्रुशृणुपॄ' इत्यादिना हेर्ध्यादेशः । उत अपि च त्मना आत्मनैव स्वयमेव तोकम् अस्मदीयं तनयं पुत्रं रक्ष पालय । त्मनेति सर्वत्र संबध्यते । आत्मना स्वयमेव रक्ष । त्वदन्यं पालयितारं न विन्दामः । त्वमेवास्मदीयं स्तोत्रं शृणु ॥
Do thou, Most Youthful God, protect the men who offer, hear their songs,
And of thyself preserve their seed.
You, youngest one—protect pious men; listen to their hymns.
Guard their lineage along with their life.
Die frommen Männer, jüngster du, beschütze und vernimm ihr Lied, Behüte ihre Kinder auch.
Du, Jüngster, schütze die opferspendenden Männer, höre auf die Lobreden, behüte unseren Samen und uns selbst!
Ты, о самый юный, храни
Поклоняющихся (тебе) мужей, слушай песни,
Защищай (наше) потомство, а также нас самих!
क᳓या ते अग्ने अङ्गिर
ऊ᳓र्जो नपाद् उ᳓पस्तुतिम्
व᳓राय देव मन्य᳓वे
हे अङ्गिरः अङ्गिरसां वरिष्ठ । यद्वा । अङ्गति सर्वत्र गच्छतीत्यङ्गिराः । तादृश हे ऊर्जो नपात् । नपादित्यपत्यनाम । अन्नस्य पुत्र । हविर्भिर्वर्धमानत्वात् । यद्वा । नपादिति नप्ता । हविर्लक्षणस्यान्नस्य नप्तः । ‘अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिः' इति । वृष्टेरोषधय ओषधीभ्योऽग्निरित्यन्नस्य नप्ता । हे देव द्योतमान अग्ने वराय सर्वैर्वरणीयाय मन्यवे शत्रूनतिमन्यमानाय ते तुभ्यं कया कीदृश्या वाचा उपस्तुतिम् उपस्तोत्रमहं भरेयम् । त्वं महान् खल्वहमल्पः । तदर्थं स्तुतिं कुर्यामित्यृषिरग्निं प्रति वदति ॥ ।
What is the praise wherewith, O God, Afigiras, Agni, Son of Strength,
We, after thine own wish and thought,
In what fashion (shall we present) a praise invocation to you, o Agni, Aṅgiras, child of nourishment,
(fit) for your desire, your fervor?
Wie sollen Agni Angiras, o Sohn der Kraft, wir Lob, o Gott, Dir bringen recht nach Wunsch und Sinn?
Durch welche Rede, o Agni Angiras, Kind der Kraft, können wir den Lobpreis dir nach Wunsch und Absicht machen, o Gott?
Каким (образом), о Агни Ангирас,
О отпрыск питательной силы (сложить) восхваление
По твоему вкусу (и) буйному праву, о бог?
दा᳓शेम क᳓स्य म᳓नसा
यज्ञ᳓स्य सहसो यहो
क᳓द् उ वोच इदं᳓ न᳓मः
ऋषिरग्निं प्रति ब्रूते । हे सहसो यहो । यहुरित्यपत्यनाम । बलेन निष्पाद्यमानत्वाद्बलस्य पुत्र हे अग्ने कस्य कीदृशस्य यज्ञस्य यज्ञवतो यजनीयदेववतो यजमानस्य मनसा युक्ताः सन्तो हवींषि तुभ्यं वयं दाशेम प्रयच्छेम । पूजायां बहुवचनम् । किंच तुभ्यम् इदं नमः हविर्नमस्कारं वा कत् कदा वोचे अहं वदामि । उ इति प्रश्ने । ऋषिः कदा यक्ष्यामि कदा स्तोष्यामीत्यग्निं पृच्छति । वोचे । वच्यादेशस्य लुङ्यात्मनेपद उत्तमैकवचने रूपम् ॥ ॥ ५ ॥
May serve thee, O thou Child of Power, and with what sacrifice's plan?
What prayer shall I now speak to thee?
With our mind on what sacrifice might we do pious service, o youthful (son) of strength?
And what shall I speak as homage here?
Mit welchem frommen Geiste dir, o Sohn der Stärke, huldigen? Wie soll ich sprechen dies Gebet?
Mit welchem Gedanken an das Opfer sollen wir dir aufwarten, jüngster Sohn der Kraft? Was soll ich jetzt als Anbetung sprechen?
С мыслью о какой жертве
Мы хотим почтить (тебя), о юный сын силы?
Что за поклонение мне выразить?
अ᳓धा तुवं᳓ हि᳓ नस् क᳓रो
वि᳓श्वा अस्म᳓भ्यं सुक्षितीः᳓
वा᳓जद्रविणसो गि᳓रः
हे अग्ने अध अनन्तरं त्वम् । हिरवधारणे । त्वमेव अस्मभ्यं करः कुरु । देहीत्यर्थः । करोतेः । लेट्यडागमः । किमित्यपेक्षायामाह । नः अस्मदीयाः गिरः त्वद्विषयाः विश्वाः सर्वाः स्तुतीरेवं कुरु यथा सुक्षितीः । क्षियन्ति निवसन्त्यत्रेति क्षितयो गृहाः। शोभननिवासाः । यद्वा । क्षितयो मनुष्याः । कल्याणपुत्रपौत्रादियुक्ताः । तथा वाजद्रविणसः अन्नयुक्तधनवतीः । अथवा वाजो दीप्तिः। सर्वतो दीप्तधनाश्च कुरु । त्वमस्माभिः स्तुतः सन् गृहपुत्रान्नधनादीनि देहीत्यर्थः ॥
Our God, make all of us to dwell in happy habitations, and
Reward our songs with spoil and wealth.
So that then you will make all dwellings lovely for us
and make our hymns have riches as their prize.
Darum so schaffe du denn auch uns sichern Wohnsitz überall, Und unsern Liedern reichen Lohn.
So mach uns denn lauter gute Wohnungen, mach unsere Lobreden durch Reichtümer belohnt!
Так вот, пусть ты сделаешь
Все наши жилища счастливыми для нас,
(А наши) песни приносящими награду из богатства!
क᳓स्य नून᳓म् प᳓रीणसो
धि᳓यो जिन्वसि दम्पते
गो᳓षाता य᳓स्य ते गि᳓रः
हे दंपते यदा गार्हपत्ये वर्तसे तदा जायापतिस्वरूपोऽसि । तस्माद्दंपतिशब्देनाग्निरभिधीयते । तथाविध हे अग्ने नूनम् इदानीं कस्य कीदृशस्य जनस्य परीणसः बहूनि धियः कर्माणि जिन्वसि प्रीणयसि । यस्य ते तव संबन्धिन्यः गिरः स्तुतयः गोसाता गोसातौ गवां लाभे भवन्ति खलु । तस्मात्त्वं कुत्र तिष्ठसि । अस्माकमिदानीं गवेच्छा प्रवर्तते । यद्वा । हे अग्ने त्वमिदानीं कस्य कर्माणि प्रीणयसि । न कस्यापीत्यर्थः । अस्माकमेव कर्माणि प्रीणयेति भावः ॥
Lord of the house, what plenty fills the songs which thou inspirest now,
Thou whose hymn helps to win the kine?
Whose thoughts in profusion do you now quicken, o houselord—
the man whose hymns are (presented) to you at the winning of
cattle?
O Hausherr, wessen Bitten nun erfüllst aus deinem reichen Schatz Du, dem im Kampfe Lied ertönt?
Aus wessen Überfluß belebst du jetzt, o Hausherr, die dichterischen Gedanken, da deine Lobesworte bei der Rindergewinnung etwas gelten?
Чьи поэтические мысли теперь
Ты оживляешь полнотой (даров), о хозяин дома?
(Ты тот,) чьи песни добывают коров.
त᳓म् मर्जयन्त सुक्र᳓तुम्
पुरोया᳓वानम् आजि᳓षु
स्वे᳓षु क्ष᳓येषु वाजि᳓नम्
सुक्रतुं शोभनप्रज्ञं सुकर्माणं वा आजिषु संग्रामेषु पुरोयावानं शत्रुहननार्थं पुरत एव गन्तारं वाजिनं बलवन्तं तादृशमग्निं यजमानाः स्वेषु आत्मीयेषु क्षयेषु गृहेषु मर्जयन्त निर्मथितमग्निमलंकुर्वन्ति । परिचरन्तीति यावत् ॥
Hirn Wise and Strong they glorify, the foremost Champion in the fray,
And mighty in his dwelling-place.
They groom him, the very resolute one who goes in front at the
contests,
the prizewinner, in their own dwelling places.
Ihn schmücken sie, den trefflichen, der in den Kämpfen Führer ist, Im eignen Sitz den kräftigen.
Ihn putzen sie, den Einsichtsvollen, den Anführer in den Kämpfen, der im eigenen Heim gewinneinbringend ist.
Они начищают (его,) исполненного прекрасной силой духа,
Мчащегося впереди в состязаниях,
Приносящего награду в свои края.
क्षे᳓ति क्षे᳓मेभिः साधु᳓भिर्
न᳓किर् यं᳓ घ्न᳓न्ति ह᳓न्ति यः᳓
अ᳓ग्ने सुवी᳓र एधते
हे अग्ने यो मनुष्यः साधुभिः साधयद्भिः क्षेमेभिः पालनैः सह क्षेति स्वगृहे निवसति । तथा यं जनं नकिः न केचन घ्रन्ति न हिंसन्ति । यः एव हन्ति शत्रून् स्वयमेव हन्ति । स मनुष्यस्तव स्तोता खलु । अन्यथा तस्यैतावन्न घटते । ततः स स्तोता सुवीरः शोभनपुत्रादियुक्तः सन् एधते आत्मीयगृहेषु धनादिभिर्वर्धते ॥ ॥ ६ ॥
Agni, he dwells in rest and peace who smites and no one smites again:
With hero sons he prospers well
He dwells peacefully in peaceful ways that bring success—whom no one smites, but who himself smites.
O Agni, whoever is rich in heroes thrives.
Der, Agni, wohnt in Sicherheit, wen niemand schlägt, wer selber schlägt, An Helden reich gedeihet der.
Der wohnt in guter Ruhe als einer, den man nicht erschlägt, der selbst erschlägt; er gedeiht, o Agni, im Besitz guter Söhne.
(Кого ты охраняешь, тот) живет в добром мире,
Никто его не убьет, он убивает сам.
О Агни, он процветает, имея прекрасных сыновей.