तं᳓ वो दस्म᳓म्+++(=दर्शनीयम्)+++ ऋती+++(=बाधक)+++-ष᳓हं
व᳓सोर्+++(=निवसतः)+++ मन्दान᳓म्+++(=मोदमानम्)+++ अ᳓न्धसः+++(=अन्नस्य)+++ ।
अभि᳓ वत्सं᳓ न᳓ स्व᳓सरेषु+++(=अहस्सु)+++ धेन᳓व
इ᳓न्द्रं गीर्भि᳓र् नवामहे+++(=स्तुमः)+++ ॥
नोधा इन्द्रं स्तौति । हे ऋविग्यजमानाः दस्मं दर्शनीयम् ऋतीषहम् । ऋतयो बाधकाः शत्रवः । तेषामभिभवितारम् । पुनः कीदृशम् । वसोः वासयितुर्दुःखस्य निवासयितुः । यद्वा । वसोः पात्रे निवसतः । तादृशस्य अन्धसः सोमलक्षणस्यान्नस्य पानेन मन्दानं मन्दमानं मोदमानं वः यष्टृयष्टव्यत्वेन युष्मत्संबन्धिनं तं तादृशम् इन्द्रं गीर्भिः स्तुतिलक्षणाभिर्वाग्भिः अभि नवामहे ।‘नू स्तवने' 'नु शब्दे'। अभिष्टुमः। कुत्रेति। स्वसरेषु । अत्र यास्कः- ‘ स्वसराण्यहानि स्वयंसारीण्यपि वा स्वरादित्यो भवति स एनानि सारयति' (निरु. ५. ४ ) इति । सूर्यनेतृकेषु दिवसेषु वयमभिष्टुमः । तत्र दृष्टान्तः । वत्सं न यथा धेनवः नवप्रसूतिका धेनवः स्वसरेषु । सुष्ठ्वस्यन्ते प्रेर्यन्ते गावोऽत्रेति स्वसराणि गोष्ठानि । तेषु वत्समभिलक्ष्य शब्दयन्ति तद्वत् ॥
As cows low to their calves in stalls, so with our songs we glorify
This Indra, even your Wondrous God who checks attack, who joys in the delicious juice.
To him, the wondrous, vanquishing with his attack, becoming exhilarated from the good stalk,
to Indra do we bellow with our hymns on your behalf, like milk-cows in good pastures to their calf.
Wir schreien euren Helden an, der sich des guten Tranks erfreut, Wie in den Ställen Kühe nach dem Kalbe schrein. den tapfern Indra mit Gesang.
Nach diesem Meister, der die Angriffe besteht, der sich an dem guten Trank ergötzt, nach Indra, schreien wir für euch mit Lobesworten wie die Kühe auf der Frühweide nach dem Kalbe.
Мы взываем для вас песнями
К этому удивительному, отражающему атаки,
Радующемуся хорошему соку Индре,
Как дойные коровы на пастбищах – к теленку.
द्युक्षं᳓ सुदा᳓नुं त᳓विषीभिर् आ᳓वृतं
गिरिं᳓ न᳓ पुरुभो᳓जसम्
क्षुम᳓न्तं वा᳓जं शति᳓नं सहस्रि᳓णम्
मक्षू᳓ गो᳓मन्तम् ईमहे
द्युक्षं दीप्तीनां निवासस्थानम् । अतिशयितदीप्तिमित्यर्थः । यद्वा । द्युक्षं दिवि द्युलोके क्षियन्तं निवसन्तम् । सुदानुं शोभनदानं तविषीभिः बलैः आवृतम् आच्छादितम् । आवरणे दृष्टान्तः । गिरिं न तविषीभिर्बलयुक्तैर्मेघैरावृतं शिलोच्चयमिव स्थितम् । पुनः कीदृशम् । पुरुभोजसं सोमादिहविष्प्रदानेन बहुभिर्यजमानैर्भोजयितव्यं यद्वा बहूनां पालयितारमिन्द्रं क्षुमन्तम् । टुक्षु शब्दे । शब्दवन्तम् । अनेन पुत्रादिकं लक्ष्यते । स्तोत्रादीनि कुर्वाणं शतिनं सहस्रिणं शतसहस्रसंख्याकधनयुक्तं गोमन्तं गवादियुक्तं वाजम् अन्नं मक्षु शीघ्रम् ईमहे याचामहे । यद्वा । पूर्वार्धो वाजविशेषणत्वेन वा योजनीयः । प्रदीप्तं शोभनदानयोग्यं बलादियुक्तं बहुभिः पुत्रमित्रादिभिर्भोक्तव्यं शब्दादियुक्तमन्नमिन्द्रं याचामह इति ॥
Celestial, bounteous Giver, girt about with might, rich, mountain-like, in precious things,
Him swift we seek. for foodful booty rich in kine, brought hundredfold and thousandfold.
The heaven-ruling one of good drops, swathed in powers, much
nourishing like a mountain
do we beseech for a prize rich in livestock, hundredfold, thousandfold, consisting of cattle—right away.
Den lichten Geber, der mit Kraft umgürtet ist, wie ein Gebirg' das viele nährt, Ihn bitten wir um hundert-, tausendfaches Gut, das reich an Rind und Nahrung sei.
Den himmlischen, gabenreichen, von den Stärken umgebenen, der wie ein Berg viel labt, bitten wir recht bald um hundertfältige, tausendfältige Belohnung in Kleinvieh und Kühen bestehend.
К живущему на небе, богатому дарами, окруженному силами,
Полезному для многих, как гора,
Мы обращаемся немедленно за сотенной, тысячной
Наградой, состоящей из мелкого (и) крупного скота.
न᳓ त्वा बृह᳓न्तो अ᳓द्रयो
व᳓रन्त इन्द्र वीळ᳓वः
य᳓द् दि᳓त्ससि स्तुवते᳓ मा᳓वते व᳓सु
न᳓किष् ट᳓द् आ᳓ मिनाति ते
हे इन्द्र बृहन्तः बलेन महान्तः अत एव वीळवः सर्वतो दृढा अपि अद्रयः पर्वताः त्वा त्वां न वरन्ते बलेन न निवारयन्ति । अनिवारणमेवोत्तरार्धेन विवृणोति । स्तुवते त्वद्विषयं स्तोत्रं कुर्वते मावते मत्सदृशाय मादृशाय स्तोत्रे यत् वसु यद्धनं दित्ससि त्वं दातुमिच्छसि तव देयं तत् धनं नकिः न कश्चित् आ मिनाति आभिमुख्येन हिनस्ति ॥ ' मीञ् हिंसायाम् । ' मीनातेर्निगमे' इति ह्रस्वः । मावते । युष्मदस्मद्भ्यां सादृश्य उपसंख्यानम्' इति वतुप् ॥
Indra, the strong and lofty hills are powerless to bar thy way.
None stay that act of thine when thou wouldst fain give wealth to one like me who sings thy praise.
The high, hard rocks do not obstruct you, Indra.
When you wish to give goods to a praiser like me, no one confounds this (intention) of yours.
Nicht hemmen hohe Felsen dich, noch feste Burgen, Indra, dich, Wenn einem Sänger, so wie wir, du Güter reichst, so hindert niemand dich daran.
Nicht halten sich, Indra, die hohen, festen Berge auf, wenn du einem Sänger wie mir Gut schenken willst; keiner hindert dich daran.
Не удержат тебя, о Индра,
Высокие крепкие скалы,
Когда ты хочешь подарить добро восхвалителю, такому как я.
Никто не мешает тебе в этом.
यो᳓द्धासि क्र᳓त्वा श᳓वसोत᳓ दंस᳓ना
वि᳓श्वा जाता᳓भि᳓ मज्म᳓ना
आ᳓ त्वाय᳓म् अर्क᳓ ऊत᳓ये ववर्तति
यं᳓ गो᳓तमा अ᳓जीजनन्
हे इन्द्र क्रत्वा वृत्रहननादिकर्मणा अपि वा प्रज्ञानेन शवसा आत्मीयेन बलेन योद्धा शत्रूणां संप्रहारकः असि । उत अपि च त्वं दंसना स्वकीयेन कर्मणा मज्मना । मज मुजि शब्दार्थाः' । मजमुजी चेति मजतिः शब्दार्थः । शत्रूणामाक्रोशनसमर्थेन बलेन विश्वा जाता सर्वाणि भूतजातान्यभिभवसि । उक्तार्थस्य विश्वा जातान्यभ्यस्मि मह्ना' (ऋ. सं. ८. १००, ४ ) इत्यादिष्विन्द्रेणैवोक्तत्वात् । एतादृशं त्वा त्वाम् अर्कः । ‘अर्च पूजायाम् । अर्चनीयः अयं मन्त्रः यद्वार्को देवानामर्चकः पूजकोऽयं स्तोता ऊतये स्वरक्षणाय आ ववर्तति आवर्तयति । आत्माभिमुख्ये करोतीत्यर्थः । वर्ततेर्लेटि बहुलं श्लुरडागमश्च । यं त्वां गोतमाः गोतमपुत्रा नोधःप्रभृतयः अजीजनन् स्वयज्ञे प्रादुरबीभवन् । तं त्वामयं मन्त्रः स्तोता वावर्तयति ॥
A Warrior thou by strength, wisdom, and wondrous deed, in might excellest all that is.
Hither may this our hymn attract thee to our help, the hymn which Gotamas have made.
As a battler with resolve, vast power, and wondrous skill, you surmount all created things with your might.
This chant here will turn you hither for help, the chant which the
Gotamas have generated.
Du übertriffst an Kraft und Macht und Wunderthat, an Hoheit alles, was da lebt, Zur Hülfe möge dieses Lied dich wenden her, das von den Gotamern erdacht.
Du bist als Kämpfer an Umsicht und Kraft und Geschicklichkeit und Mächtigkeit allen Geschöpfen überlegen. Dich lenke dieser Lobgesang her zum Beistand, den die Gotama´s gedichtet haben.
Ты боец по духу (и) силе, а также по ловкости,
Пре(восходящий) величием все существа.
Этот хвалебный напев, который сочинили люди Готама,
Пусть обратит тебя на помощь (нам)!
प्र᳓ हि᳓ रिरिक्ष᳓ ओ᳓जसा
दिवो᳓ अ᳓न्तेभियस् प᳓रि
न᳓ त्वा विव्याच र᳓ज इन्द्र पा᳓र्थिवम्
अ᳓नु स्वधां᳓ ववक्षिथ
हे इन्द्र दिवः द्युलोकस्य पर्यन्तेभ्यः ओजसा । हिरवधारणे । स्वबलेनैव प्र रिरिक्षे प्रकर्षेणातिरिक्तो भवसि । रिचेर्लटि • बहुलं छन्दसि' इति श्लुः । प्रत्ययस्वरः । किंच हे इन्द्र पार्थिवं पृथिव्यां भवः रजः लोकः त्वा त्वां महता स्वशरीरेण न विव्याच न व्याप्नोति । द्यावापृथिवीभ्यामपि स्वतः स त्वं बलेन समर्थों भवसीत्यर्थः । एवंभूतः सन्नस्माकं स्वधाम् अन्नमुदकं वा अनु ववक्षिथ अनुवोढुमिच्छ । वहेः सनन्तस्य छान्दसे लिटि रूपम् । मन्त्रत्वादामभावः ॥
For in thy might thou stretchest out beyond the boundaries of heaven.
The earthly region, Indra, comprehends thee not. After thy Godhead hast thou waxed.
Because you project beyond the limits of heaven with your strength, the earthly realm does not contain you, Indra. You have waxed strong following your independent power.
᳓
Denn du ja überragst an Kraft des weiten Himmels Enden auch, Und dich umfasst, o Indra, nicht der Erde Raum; aus eigner Kraft erwuchsest du.
Du reichst ja mit deiner Stärke über des Himmels Grenzen hinaus; nicht faßt dich der irdische Raum, Indra; du bist nach eigenem Triebe gewachsen.
Ведь силой ты выходишь
За пределы неба,
Не вмещает тебя земной простор, о Индра.
Ты вырос по своему желанию.
न᳓किः प᳓रिष्टिर् मघवन् मघ᳓स्य ते
य᳓द् दाशु᳓षे दशस्य᳓सि
अस्मा᳓कम् बोधि उच᳓थस्य चोदिता᳓
मं᳓हिष्ठो वा᳓जसातये
हे मघवन् धनवन्निन्द्र ते तव मघस्य मंहनीयस्य धनस्य परिष्टिः परिबाधको निरोद्धा नकिः न कश्चिदस्ति । यत् यदा दाशुषे हविर्दत्तवते यजमानाय दशस्यसि धनं प्रयच्छसि तदा तस्य निरोधको नास्तीत्यर्थः । तथा सति चोदिता धनानां चोदयिता स्तोतृभ्यः प्रेरयिता अत एव मंहिष्ठः दातृतमो मंहनीयो वा स त्वम् अस्माकं संबन्धि उचथस्य स्तोत्रं वाजसातये अन्नलाभाय तदर्थं क्रियमाणमिति बोधि बुध्यस्व । स्तोत्रेण स्तुतः सन्नस्मभ्यमन्नादिकं प्रयच्छेति शेषः । बोधि । ‘ बुध अवबोधने । भौवादिकः । लोटि छान्दसः शपो लुक् । ध्यादेशः ॥ ॥ ११ ॥
When, Maghavan, thou honourest the worshipper, no one is there to stay thy wealth.
Most liberal Giver thou, do thou inspire our song of praise, that we may win the spoil.
There is no constriction of your bounty, bounteous one, when you show favor to the pious man.
Become the stimulator of our speech, most munificent, for the winning of prizes.
Für deine Gabe ist kein Hinderniss, o Held, wenn du dem Frommen spenden willst; Sei du es, welcher unsern Lobgesang verschärft, aufs beste schenkend zu dem Fest.
Für deine Gabe gibt es kein Hemmnis, o Gabenreicher, wenn du dem Opferspen-denden gefällig bist. Sei du unseres Lieds Ermutiger, recht freigebig, damit wir den Siegerpreis gewinnen!
Нет никакого препятствия, о щедрый, для твоего щедрого дара,
Когда ты почитаешь почитателя (своего).
Будь вдохновителем нашего хвалебного пения,
О самый щедрый, для завоевания награды!