कनि᳓या वा᳓र् अवायती᳓
सो᳓मम् अ᳓पि स्रुता᳓विदत्
अ᳓स्तम् भ᳓रन्ति अब्रवीद्
इ᳓न्द्राय सुनवै तुवा
शक्रा᳓य सुनवै तुवा
वाः उदकं प्रति अवायती स्नानार्थमभ्यवगच्छन्ती कन्या अपाला नाम स्त्री स्रुता स्रुतौ मार्गे सोममपि अविदत् अलभत । ‘ विद्लृ लाभे' । लतारूपं तं सोमम् अस्तं गृहं प्रति भरन्ती आहरन्ती सा सोमम् अब्रवीत् । हे सोम त्वा त्वाम् इन्द्राय सुनवै मम दन्तैरेवाभिषुणवै । पुनर्हे सोम त्वा त्वां शक्राय समर्थायेन्द्राय सुनवै इदानीमेवाभिषवं करवै । सोमभक्षणकाले दन्तध्वनिं ग्रावध्वनिमिति मत्वेन्द्रस्तामगमत् । एषोऽर्थः शाट्यायनब्राह्मणे स्पष्टमभिहितः ‘ सा तीर्थमभ्यवयन्ती सोमांशुमविन्दत्तं समखादत्तस्यै ह ग्रावाण इव दन्ता ऊदुः। स इन्द्र आद्रवत् ग्रावाणो वै वदन्तीति । सा तमभिव्याजहार कन्या वारवायती सोममपि स्रुताविददित्यस्यै त इदं ग्रावाण इव दन्ता वदन्तीति विदित्वेन्द्रः पराङावर्तत । तमब्रवीदसौ य एषि वीरक इत्यादिना' इति ॥
DOWN to the stream a maiden came, and found the Soma by the way.
Bearing it to her home she said, For Indra will I press thee out, for Sakra will I press thee out.
A maiden going down to the water found soma along the way.
Bringing it home she said, “I will press you for Indra; I will press you for the able one.
Ein Mädchen, das zum Flusse ging, fand auf dem Wege Somakraut, Sie trug es heim und sprach das Wort: dem Indra will ich pressen dich.
Ein Mädchen, das hinab zum Wasser ging, hat am Wege Soma gefunden. Während sie ihn nach Hause trug, sprach sie: "Ich will dich für Indra auspressen, für den Mächtigen dich auspressen.
असउ᳓ य᳓ ए᳓षि वीरको᳓
गृहं᳓-गृहं विचा᳓कशद्
इमं᳓ ज᳓म्भसुतम् पिब
धाना᳓वन्तं करम्भि᳓णम्
अपूप᳓वन्तम् उक्थि᳓नम्
सा शक्रमब्रवीत् । हे इन्द्र वीरकः वीरः समर्थस्त्वं यः असौ त्वं विचाकशत् । ‘काशृ दीप्तौ' । यङ्लुकि शतरि रूपम् । धातोर्ह्रस्वश्छान्दसः । अत्यर्थं दीप्यमानः सन् गृहंगृहं यजमानगृहं प्रति सोमपानाय त्वम् एषि गच्छसि । अतस्त्वमत्रापि जम्भसुतं मम दन्तैरभिषुतम् इमं सोमं पिब । कीदृशम् । धानावन्तम् । धाना भृष्टयवाः । तद्वन्तं करम्भिणं सक्तुमन्तम् अपूपवन्तं पुरोडाशादिसहितम् उक्थिनं स्तोत्रादियुक्तमेतादृशं सोममत्रैव पिबेति । सा सोमेन सह धानादीनावेदयत् स्तोत्रं चाकार्षीदित्यर्थः ॥
Thou roaming yonder, little man, beholding every house in turn,
Drink thou this Soma pressed with teeth, accompanied with grain and curds, with cake of meal and song of praise.
“You over there, the dear little hero who goes earnestly looking from house to house,
drink this (soma), pressed by the jaws—(soma) accompanied by grain, by gruel, by cakes, by hymns.
Du, der du gehst ein Männchen noch, indem du Haus für Haus beschaust, Den durchs Gebiss gepressten trink sammt Gerstenkörnern und dem Brei.
Du Männlein, das da Haus für Haus beobachtend geht, trink diesen mit den Zähnen Ausgepreßten, zu dem es Körner, Brei, Kuchen und ein Loblied gibt!
आ᳓ चन᳓ त्वा चिकित्सामो
अ᳓धि चन᳓ त्वा ने᳓मसि
श᳓नैर् ऽव° शनकइ᳓र् इव
इ᳓न्द्रायेन्दो प᳓रि स्रव
पुनरपि सा तमनादृत्याह । हे इन्द्र । चन इति निपातसमुदायोऽवधारणार्थे । त्वा त्वाम् आ चिकित्सामः ज्ञातुमिच्छाम एव । इह मार्ग एवागतं त्वा त्वां न अधि इमसि नाधिगच्छामः । अत्रापि चन इत्यवधारणे । मम गृहमागच्छन्तं त्वामिन्द्र इति न जानीम एवेत्यपाला तमिन्द्रमुक्त्वा स्वास्ये स्थितं सोमं प्रत्याह । हे इन्दो क्षरणशील सोम अस्मा आगताय इन्द्राय तदर्थं पूर्वं शनैः मन्दं मन्दं ततः शनकैरिव । कुत्सितार्थेऽकच् । कुत्सितं शनैः शनकैः । क्षिप्रमित्यर्थः । क्षिप्रमेव त्वं परि स्रव मदीयदंष्ट्राभिरभिषूयमाणः सन् परितः क्षरेति । तथा यज्ञेष्वपि ग्रावभिरभिषूयमाणः सोमः प्रथमं शनैः परिस्रवति ततः शनकैः क्षिप्रमिति तदभिप्रायेणोक्तम् । तत इन्द्र एतद्वाक्यं श्रुत्वा तदानीमेवमभिषुतं सोमं यज्ञस्थानीयादपालामुखादेवाधासीत् । उक्तार्थः शाट्यायनकब्राह्मणे स्पष्टमभ्यधायि- ‘ अनाद्रियमाणैव तमब्रवीदा चन त्वा चिकित्सामोऽधि चन त्वा नेमसीति । पुरा मां सर्वयर्चापाला स्तौतीत्युपपर्यावर्तत शनैरिव शनकैरिवेन्द्रायेन्दो परि स्रवेति ह वा अस्यै मुखात्सोमं निरधयत्सोमपीथ इह वा अस्य भवति य एवं विद्वान् स्त्रीमुपजिघ्रति ' इति ॥
Fain would we learn to know thee well, nor yet can we attain to thee.
Still slowly and in gradual drops, O Indu, unto Indra flow.
“We wish to comprehend you; we will not ‘recite’ you aloud.
Softly-like, ever so softly-like, o drop, flow around for Indra.
Wir möchten wol dich gerne schaun, doch ganz ergründen wir dich nicht; So tröpfle sacht und sächtechen dem Indra zu, o Indutrank.
Wir möchten dich zwar nicht verstehen und doch mißverstehen wir dich nicht. Etwas sachte, etwas mehr sachte fließe, du Saft, für Indra ab!
कुवि᳓च् छ᳓कत् कुवि᳓त् क᳓रत्
कुवि᳓न् नो व᳓स्यसस् क᳓रत्
कुवि᳓त् पतिद्वि᳓षो यती᳓र्
इ᳓न्द्रेण संग᳓मामहै
सोमं पीतवानिन्द्रोऽस्मानेवं करोत्वित्याह । स इन्द्रः कुवित् बहुवारमस्मान् शकत् शक्तान् समर्थान् करोतु । किंच कुवित् बहु चास्मभ्यं करत् करोतु । किंच स एवेन्द्रः नः अस्मान् कुवित् बहुकृत्वः वस्यसः वसीयसोऽतिशयेन वसुमतः करोतु । करोतेः शक्नोतेश्च लेट्यडागमः । इदानीमात्रेय्यहमेवं करिष्यामीति वदति । पूर्वं कुवित् बहु पतिद्विषः त्वग्दोषात्पतिभिर्भर्तृभिबहुवारं द्विष्टा अत एव यतीः पतिभ्यः सकाशादितो गच्छन्त्यो वयं कैश्चिदप्यनूह्यमानाः सत्यः संप्रति इन्द्रेण सह संगमामहै संगच्छामहै । सर्वत्र पूजार्थे बहुवचनम् । संगमशब्देनेन्द्रोऽपालामचकमतेति ॥
Will he not help and work for us? Will he not make us wealthier?
Shall we not, hostile to our lord, unite ourselves to Indra now?
“Will he be able? Will he do it? Will he make us better off?
Shall we, though coming as husband-haters, unite with Indra?
Ob er's vermag, und ob er's thut? ob er nicht bald uns reicher macht? Ob von dem Gatten ich verschmäht mich Indra werde beigesell'n?
Gewiß wird er es können, gewiß wird er es tun, gewiß wird er uns glücklicher machen. Gewiß dürfen wir, die wir vom Gatten gehaßt leben, uns mit Indra vereinen.
इमा᳓नि त्री᳓णि विष्ट᳓पा
ता᳓नि इन्द्र वि᳓ रोहय
शि᳓रस् तत᳓स्य उर्व᳓राम्
आ᳓द् इद᳓म् म उ᳓पोद᳓रे
इन्द्रेण किं कामयसे तद्दास्यामीत्युक्ता सा वरमनया प्रार्थयते । हे इन्द्र इमानि त्रीणि विष्टपानि स्थानानि सन्ति । तानि त्रीणि स्थानानि वि रोहय उत्पादय । कानि तानि । ततस्य मम पितुः रोमवर्जितं शिरः । खलतिमित्यर्थः। तच्चापगमय । रोमशं कुर्वित्यर्थः । उर्वरां तस्योषर क्षेत्रं सर्वसस्याढ्यं कुरु । आत् अनन्तरं मे मम उपोदरे उपोदरस्य समीपे यत् इदं स्थानम् । गुह्यमित्यर्थः। तच्च त्वग्दोषे सत्यसंजातरोमकम् । तदपि त्वग्दोषपरिहारेण रोमयुक्तं कुरु। एतानि त्रीणि स्थानानि । एषोऽर्थः शाट्यायनके प्रपञ्चेनोक्तः- ‘ तामब्रवीदपाले किं कामयसीति । साब्रवीदिमानि त्रीणि विष्टपेति खलतिर्हास्यै पिता स तं हाखलतिं चकारोर्वरा हास्य न जज्ञे सो ह जज्ञ उपस्थे हास्यै रोमाणि नासुस्तान्यु ह जज्ञिर इत्यस्योत्तरा भूयसे निर्वचनीयासौ च या नः' इति ॥
O Indra, cause to sprout again three places, these which I declare,-
My father's head, his cultured field, and this the part below my waist.
“Indra, make these three surfaces grow forth—
the head of my Papa, the field, and this on my belly.
᳓
Drei kahle Flächen siehst du hier, lass Keime treiben alle drei: Den Kopf des Väterchens, das Feld, und, Indra, meinen siechen Leib.
Diese drei Flächen, die laß sprossen, Indra: Das Haupt und das Saatfeld meines Väterchens und dieses hier auf meinem Leibe!
असउ᳓ च या᳓ न उर्व᳓रा
आ᳓द् इमां᳓ तनु᳓वम् म᳓म
अ᳓थो तत᳓स्य य᳓च् छि᳓रः
स᳓र्वा ता᳓ रोमशा᳓ कृधि
उक्तमेवार्थमनया विवृणोति । नः अस्माकं पितुः या असौ उर्वरा यदिदमूषरं क्षेत्रमस्ति ॥ आत् अनन्तरं मम इमां तन्वम् इदं त्वग्दोषदुष्टं गुह्यस्थानम् । अथो अथापि च ततस्य तातस्य यच्छिरः रोमवर्जितमस्ति एतानि सर्वा सर्वाणि तानीमानि त्रीणि स्थानानि रोमशा रोमशानि कृधि कुरु ॥
Make all of these grow crops of hair, you cultivated field of ours,
My body, and my father's head.
“That field of ours, this body of mine,
and my Papa’s head—make all these hairy.”
᳓
Hier dieses unser Ackerland, dazu auch meinen eignen Leib, Und dann den Kopf des Väterchens lass Haare treiben alle drei.
Dort unser Saatfeld und diesen meinen Leib und das Haupt meines Väterchens, all diese mache behaart!
खे᳓ र᳓थस्य खे᳓ अ᳓नसः
खे᳓ युग᳓स्य शतक्रतो
अपाला᳓म् इन्द्र त्रि᳓ष् पूत्वी᳓
अ᳓कृणोः सू᳓रियत्वचम्
अनयापालां सूर्यसदृशप्रभामकरोदित्याह । हे शतक्रतो हे शतसंख्याकयज्ञ बहुविधप्रज्ञ वा हे इन्द्र रथस्य स्वकीयस्य खे पृथुतरे छिद्रे तथा अनसः शकटस्य खे तदपेक्षयाल्पे छिद्रे युगस्य खे चाल्पतरे सूक्ष्मे छिद्रे रथशकटयुगानां छिद्रेषु त्वग्दोषपरिहाराय त्रिः त्रिवारं निष्कर्षणेन पूत्वी शोधयित्वा ततः अपालाम् एतन्नामिकामत्रिसुतां ब्रह्मवादिनीं सूर्यत्वचं सूर्यसमानत्वचम् अकृणोः अकरोः । कल्याणतमरूपभाजमकरोरित्यर्थः शाट्यायनकब्राह्मणे स्पष्टमभिहितः- ‘ तां खे रथस्यात्यबृहत्सा गोधाभवत्तां खेऽनसोऽत्यबृहत्सा संश्लिष्टकाभवत्तदेषाभ्यनूच्यते खे रथस्य खेऽनस इति । तस्यै ह यत्कल्याणतमं रूपाणां तद्रूपमास' इति । त्वग्दोषापनयनाथ अक्षादिद्वारेष्वतिकर्षणमिति। यस्त्वग्दोषदूषितः सन्नेतत्सूक्तं पठति तस्य त्वग्दोषमपगमय्य सूर्यसदृशकान्तिमिन्द्रः करोतीति सूक्तं प्रशस्यते ॥ ॥ १४ ॥
Cleansing Apala, Indra! thrice, thou gavest sunlike skin to her,
Drawn, Satakratu! through the hole of car, of wagon, and of yoke.
In the nave of a chariot, in the nave of a wagon, in the nave of a yoke, o Indra of a hundred resolves,
having purified Apālā three times, you made (her) sun-skinned.
The next three hymns, 92–94, should be grouped together, according to Oldenberg (1888: 218).
᳓
Du, Indra, zogest Viçpala, o starker durch drei Höhlungen Des Rades, Karrens und Gespanns, und sonnenrein ward ihre Haut.
In dem Nabenloch des Streitwagens, in dem Nabenloch des Karrens, in des Joches Loche hast du ratreicher Indra die Apala dreimal gereinigt und ihr eine sonnengleiche Haut gegeben.