पा᳐᳓न्तम् आ᳓ वो अ᳓न्धस
इ᳓न्द्रम् अभि᳓ प्र᳓ गायत
विश्वासा᳓हं शत᳓क्रतुम्
मं᳓हिष्ठं चर्षणीना᳐᳓म्
हे ऋत्विजः वः युष्मदीयम् अन्धसः सोमलक्षणमन्नम् आ पान्तम् आभिमुख्येन पिबन्तम्। पा पाने '। छान्दसः शपो लुक् । 'सर्वे विधयश्छन्दसि विकल्पन्ते । इति न लोकाव्यय ' इति षष्ठीप्रतिषेधाभावः । ततोऽन्धसः इत्यस्य कर्तृकर्मणोः' इति षष्ठी'। सोममाभिमुख्येन पिबन्तमेतादृशम् इन्द्रं प्र गायत प्रकर्षेणाभिष्टुत । कीदृशम् । विश्वसहं सर्वेषां शत्रूणामभिभवितारं सर्वेषां भूतजातानां वा अत एव शतक्रतुं बहुविधप्रज्ञानं बहुविधकर्माणं वा चर्षणीनां मनुष्याणां मंहिष्ठं धनस्य दातृतमम् । यद्वा । यजमानानां यष्टव्यत्वेन पूजनीयमिन्द्रं गायतेति समन्वयः ॥
INVITE ye Indra with a song to drink your draught of Soma juice,
All-conquering Satakratu, most munificent of all who live.
Sing (him) here to the drinking of your stalk; sing forth to Indra, the all-conquering one, of a hundred resolves, most liberal to the settled domains,
Auf, singt dem Indra Lobgesang, ihm, der von eurem Soma trinkt, Der thatenreich dass All bezwingt, der aller Geber bester ist.
Zu eurem Tranke des Soma ladet den Indra mit Gesang ein, den Allüberwinder, den Ratreichen, der den Völkern am meisten schenkt!
पुरुहूत᳓म् पुरुष्टुतं᳓
गाथानि᳓यं स᳓नश्रुतम्
इ᳓न्द्र इ᳓ति ब्रवीतन
हे ऋत्विग्यजमानाः पुरुहूतं यज्ञेषु बहुभिराहूतं पुरुष्टुतं बहुभिः स्तोत्रशस्त्रादिभिः स्तुतम् अत एव गाथान्यं गानयोग्यं गातव्यं सनश्रुतं सनातनतया प्रसिद्धमेवंविधं देवम् इन्द्र इति यूयं ब्रवीतन ब्रूयात । ‘ब्रूञ् व्यक्तायां वाचि' इत्यस्य लोटि व्यत्ययेन ध्वमस्तनबादेशः । अत एव गुणः ॥
Lauded by many, much-invoked, leader of song, renowned of old:
His name is Indra, tell it forth.
Much-invoked, much-praised leader of song, famed of old—
call him, “Indra!”
᳓
Der vielgerufen, vielgelobt, Gesänge leitet weitberühmt, »Das, das ist Indra« also sprecht.
Den Vielgerufenen, Vielgepriesenen, Tonangebenden, den seit alters Berühmten nennet bei seinem Namen Indra!
इ᳓न्द्र इ᳓न् नो महा᳓नां᳐
दाता᳓ वा᳓जानां᳐ नृतुः᳓
महाँ᳓ अभिज्ञु᳓ आ᳓ यमत्
इन्द्र इत् पूर्वोक्तलक्षण इन्द्र एव नः अस्मभ्यं महानां महतां वाजानाम् अन्नानाम् । यद्वा । महानाम् । वर्णव्यत्ययः । मघानां धनानां वाजानामन्नानां च दाता भवतु । कीदृशः । नृतुः। ‘नृतिशृध्योः कूः' (उ. सू. १. ९१) इति कूप्रत्ययः । ह्रस्वछान्दसः । सर्वस्य नर्तयिता । यद्वा। ‘नॄ नये । औणादिकस्तुप्रत्ययः। धातोर्हस्वश्छान्दसः । स्तोतृभ्यो गवादिनेता। अत एव महान् स इन्द्रः अभिजु अभिगतजानुकमस्मभ्यम् आ यमत् आयच्छतु ददातु । यद्वा स इन्द्रोऽभिज्ञ्वस्मदभिमुखमागच्छद्धनं स्वहस्तयोः परिगृह्यास्मान्नयतु । धनं यत्वास्मभ्यं ददात्वित्यर्थः ॥
Indra the Dancer be to us the giver of abundant strength:
May he, the mighty, bring it near.
It’s Indra who is the giver to us of great prizes, the dancer.
The great one, in a crouch [=driving posture], will guide (the
prizes) here.
Ja Indra, er, der grosse Fürst, sei grosser Schätze Spender uns Und thürm bis an das Knie sie auf.
Indra, der Vortänzer, ist uns ein Geber großer Belohnungen; der Große möge sie reichen, indem er sich in die Kniee läßt.
अ᳓पाद् उ शिप्री᳓ अ᳓न्धसः
सुद᳓क्षस्य प्रहोषि᳓णः
इ᳓न्दोर् इ᳓न्द्रो य᳓वाशिरः
शिप्री । शिप्रे हनू नासिके वा । शोभनहनुः । यद्वा । शिप्राः शीर्षण्याः । सुशिरस्त्राणः । सः इन्द्रः एव प्रहोषिणः प्रकर्षेण देवान् हविर्भिर्जुह्वतः सुदक्षस्य एतन्नामकस्य ऋषेः संबन्धि यवाशिरः। श्रीङ् पाके' । आङ्पूर्वस्य ‘ अपस्पृधेथामानृचुः' इत्यादिना धातोः शिरादेशः । यवैरामिश्रितं यवैः सह पक्वम् इन्दोः सर्वतः पात्रेषु क्षरत् अन्धसः सोमलक्षणमन्नम् अपात् अपिबत् । यद्वा । अस्य सोमस्य भागमिन्द्रार्थं परिकल्पितं सोमांशमपिबत् । उ इत्यवधारणे ॥
Indra whose jaws are strong hath drunk of worshipping Sudaksa's draught,
The Soma juice with barley mixt.
The belipped one has drunk of the stalk conferring good skill,
accompanied by oblations,
of the drop mixed with grain—has Indra.
Den Soma trank der schlürfende, den kräftereichen Opfertrank, Den gerstgemischten Indusaft.
Indra mit der Trinkerlippe hat von dem kräftigen Trank, dem opferbegleiteten, getrunken, von dem mit Gerste gemischten Saft.
त᳓म् उ अभि᳓ प्र᳓ अर्चत
इ᳓न्द्रं सो᳓मस्य पीत᳓ये
त᳓द् इ᳓द् धि᳓ अस्य व᳓र्धनम्
हे ऋत्विजः तमु तमेव इन्द्रम् अभि आभिमुख्येन प्रार्चत प्रकर्षेण स्तुत । किमर्थम् । सोमस्य पीतये अत्रागत्य सोमपानाय । किमर्थं सोमपानायेति विशेष्यते तदाह । तदित् तत्सोमपानमेव अस्य इन्द्रस्य वर्धनं वर्धकं भवति खलु । तस्मात्सोमपानजहर्षाय प्रार्चत ॥ ॥ १५ ॥
Call Indra loudly with your songs of praise to drink the Soma juice.
For this is what augments his stiength.
Chant forth to him, to Indra, to drink the soma,
for that is his strengthening.
Besinget diesen Indra nun, begleitend seinen Somatrunk Denn das ist seine Labung ja.
Auf ihn stimmet das Lied an, auf Indra, daß er den Soma trinke, denn das ist seine Stärkung!
अस्य᳓ पीत्वा᳓ म᳓दानां᳐
देवो᳓ देव᳓स्य ओ᳓जसा
वि᳓श्वाभि᳓ भु᳓वना भुवत्
देवः द्योतमान इन्द्रः अस्य अस्माभिर्दीयमानस्य सोमस्य मदानां मदकरान् रसान् पीत्वा पानं कृत्वा । यद्वा । अस्यैतं सोमं पीत्वा तथा मदानां मदसाधनादीनि भक्षयित्वा । देवस्य ग्रहेषु शोभमानस्य यद्वा देवनशीलस्य देवैः काम्यमानस्य सोमस्य पानजातेन ओजसा बलेन विश्वा भुवना सर्वाणि भुवनानि भूतजातानि अभि भुवत् अभिभवति । सोमस्य ता मद इन्द्रश्चकार (ऋ. सं. २. १५. २) इत्यादिषु सोमपानमदे सर्वाणि वृत्रहननादिकर्माणि चकारेत्येवमत्रापि सर्वाणि भूताभिभवनादीनि कर्माण्यकार्षीदिति ॥
When he hath drqnk its gladdening drops, the God with vigour of a God
Hath far surpassed all things that are.
Having drunk of this god here, of his exhilarating drinks, the god with his power
will surmount all beings.
Wenn er, der Gott, von diesem Gott der Tränke viel getrunken hat, Dann siegt er über alle Welt.
Nachdem der Gott von den Rauschsäften dieses Gottes kräftig getrunken hat, überragt er alle Welten.
तिय᳓म् उ वः सत्रासा᳓हं
वि᳓श्वासु गीर्षु᳓ आ᳓यतम्
आ᳓ च्यावयसि ऊत᳓ये
यजमानः स्तोतारं संबोध्याह । हे स्तोतः सत्रासाहम् । सत्राशब्दो बहुवाची । बहूनामभिभवितारम् । यद्वा । शत्रून् स्वबलेन संगत्य जेतारम् । वः युष्मदीयेषु विश्वासु गीर्षु सर्वेषु स्तोत्रेषु आयतं विस्तृतम् । सर्वत्रेन्द्र एव स्तूयते । तस्मात्तेषु विततं त्यम् । उ इत्यवधारणे । तमेवेन्द्रम् ऊतये अस्मद्रक्षणाय आ च्यावयसि । ‘ च्युङ प्लुङ गतौ । त्वदीयैः स्तोत्रैर्यज्ञं प्रत्याभिमुख्येनागमय ॥
Thou speedest down to succour us this ever-conquering God of yours,
Him who is drawn to all our songs
Him, entirely victorious, held in place amid all your hymns
you will rouse for help—
Ihn, euren allbezwingenden, den man zu allen Liedern lenkt, Ihn treibest du zur Hülfe her,
Diesen vollständig Besiegenden auf alle Lobreden Gespannten ziehst du für euch zur Gnade heran;
युध्मं᳓ स᳓न्तम् अनर्वा᳓णं
सोमपा᳓म् अ᳓नपच्युतम्
न᳓रम् अवारिय᳓क्रतुम्
एवंगुणोपेतमिन्द्रमागमयेत्याह । युध्मं शत्रूणां संप्रहारकं सन्तम् अत एव अनर्वाणम् अन्यैरप्रत्यृतमनभिगतं तस्मात् अनपच्युतं संग्रामेषु शत्रुभिरहिंसितं सोमपां सोमस्य पातारमस्य सोमस्य मदे सति अवार्यक्रतुं भटैरनिवारणीयकर्माणं नरं सर्वस्य नेतारम् । एतादृग्गुणोपेतमिन्द्रमागमयेति पूर्वेण सह संबन्धः ॥
The Warrior not to he restrained, the Soma-drinker ne'er o'erthrown,
The Chieftain of resistless might.
The soma-drinker who is an unassailable fighter who cannot be budged, a superior man of unobstructable resolve.
Den Kämpfer, der unnahbar ist, ein Somatrinker nimmersatt, Ein Mann von unbezwungner Kraft.
Der der unerreichte Kämpfer ist, den unentwegten Somatrinker, den Herrn, der sich von seinem Willen nicht abbringen läßt.
शि᳓क्षा ण इन्द्र राय᳓ आ᳓
पुरु᳓ विद्वाँ᳓ ऋचीषम
अ᳓वा नः पा᳓रिये ध᳓ने
हे ऋचीषम स्तुत्या सम । यद्वा । 'ईष गतिहिंसादर्शनेषु' । अस्मादमप्रत्ययः । सर्वैर्गन्तव्य दर्शनीय वा । उक्तगुणोपेत हे इन्द्र विद्वान् सर्वविषयज्ञानवांस्त्वं शत्रुभ्य आहृत्य रायः धनानि नः अस्मभ्यं पुरु बहुवारं शिक्ष प्रयच्छ । यद्वा । पुर्विति रायो विशेषणम् । बहूनि धनानि प्रयच्छ । किंच पार्ये । पाराः शत्रवः । तत्र भवे धने आजिहीर्षिते शत्रुधने नः अस्मान् अव रक्ष । शत्रून् हत्वा तद्धनेनास्मान् पालयेत्यर्थः ॥
O Indra, send us riches, thou Omniscient, worthy of our praise:
Help us in the decisive fray.
Do your best for wealth for us, as one knowing many things, o Indra, you who are equal to song.
Help us in the decisive (contest for) spoils.
O Indra, schenke Güter uns, du kennst ja viele, glänzender, Und hilf uns im Entscheidungskampf.
Suche uns Reichtum zu verschaffen als der Vielkundige, o Indra, steh uns bei, wenn der Gewinn zur Entscheidung steht!
अ᳓तश् चिद् इन्द्र ण उ᳓प
आ᳓ याहि शत᳓वाजया
इषा᳓ सह᳓स्रवाजया
हे इन्द्र अतश्चित् अस्मात् द्युलोकादेव यद्वास्मात् शत्रुस्थानात् शतवाजया शतसंख्याकबलयुक्तेन तथा सहस्रवाजया । वाजोऽन्नम् । सहस्रसंख्यान्नवता बहुबलान्नेन इषा अन्नरसेन युक्तः सन् नः अस्मान् उपा याहि अधिकमाभिमुख्येनागच्छ ॥ ॥ १६ ॥
Even thence, O Indra, come to us with food that gives a hundred powers,
With food that gives a thousand powers.
Even from yonder, Indra, drive up close to us with hundred-prized, thousand-prized refreshment.
Von dort, o Indra, komme her mit Nahrung zu uns, die erlabt Uns hundertfach und tausendfach.
Auch von dort komm her zu uns, Indra, mit Speisesegen, der hundertfachen, tausendfachen Lohn enthält!
अ᳓याम धी᳓वतो धि᳓यो
अ᳓र्वद्भिः शक्र गोदरे
ज᳓येम पृत्सु᳓ वज्रिवः
हे शक्र समर्थेन्द्र धीवतः । ‘छन्दसीरः' इति मतुपो वत्वम् । कर्मकरणात्कर्मवन्तो वयं धियः युद्धजयार्थं कर्माणि अयाम गच्छाम । ततः गोदरे । 'दॄ विदारणे । अच इः' इति इप्रत्ययः । गवां पर्वतानां दारयितर्हे वज्रिवः वज्रवन् । यद्वा । वजनं गमनं वज्रः । तद्वान् कुलिशः । तद्वन्निन्द्र पृत्सु संग्रामेषु अर्वद्भिः सर्वतो गन्तृभिः त्वया दत्तैरश्वैः जयेम वयं तवादातॄञ्जेष्यामः ॥
We sought the wisdom of the wise. Sakra, Kine-giver, Thunder-armed!
May we with steeds o'ercome in fight.
Let’s go to the visionary thoughts of our visionary poet; with (the thoughts as) our steeds, o able one who breaks out the cows,
might we conquer in battles, o possessor of the mace.
Lass, starker Spender, Schleuderer, uns kommen zu des Frommen Werk Zu Ross, und siegen in der Schlacht.
Wohlan! Wir wollen die Dichtungen des Dichtenden wie mit Rennpferden in den Kämpfen besiegen, du mächtiger, Rinder herausschlagender Keulenträger.
वय᳓म् उ त्वा शतक्रतो
गा᳓वो न᳓ य᳓वसेषु आ᳓
उक्थे᳓षु रणयामसि
हे शतक्रतो बहुप्रज्ञान बहुकर्मन् वेन्द्र त्वा सर्वतः । उ इत्यवधारणे । त्वामेव उक्थेषु स्तोत्रशस्त्रादिकेषु वयं रणयामसि । 'इदन्तो मसिः' । आरणयामः शब्दयामः । रमयाम इत्यर्थः । तत्र दृष्टान्तः। गावो न । यथा गोपालः यवसेषु तृणविशेषेषु गावो गाः पशून् आ समन्ताद्रमयति तद्वत् । गाव इति सर्वविधीनां छन्दसि विकल्पितत्वात् ‘औतोऽम्' (पा. सू. ६. १. ९३) इत्यात्वाभावः ॥
We make thee, Satakratu, find enjoyment in the songs we sing.
Like cattle in the pasture lands.
We will make you take pleasure in our hymns, o you of a hundred resolves,
as cows do in their pastures.
Wir schaffen, dass an Sprüchen du, o thatenreicher dich erlabst, Wie Kühe an dem Wiesengras.
Wir machen dich, du Ratreicher, der Loblieder froh wie Kühe der Weide.
वि᳓श्वा हि᳓ मर्तियत्वना᳓
अनुकामा᳓ शतक्रतो
अ᳓गन्म वज्रिन्न् आश᳓सः
हे शतक्रतो बहुप्रज्ञेन्द्र मर्यत्वना मर्त्यत्वानि । सुपां सुलुक्' इति विभक्तेराजादेशः । संज्ञापूर्वकस्य विधेरनित्यत्वाद्दीर्घाभावः । विश्वा हि विश्वान्येव मर्त्यत्वानि अनुकामा कामानभिलाषाननुगतानि । कामोपेतानीत्यर्थः । मनुष्याश्चैतानि कामयन्त इत्यर्थः । तथा सति हे वज्रिन् वज्रवन्निन्द्र वयमपि आशसः आशंसनानि धनादिकामान् अगन्म अवगच्छाम । गमेर्लेटि ‘ बहुलं छन्दसि ' इति शपो लुक् । ‘म्वोश्च' इति मकारस्य नकारः ॥
For, Satakratu, Thunder-armed, all that we craved, as men are wont,
All that we hoped, have we attained.
Because all things in the mortal way are in accord with your desire, o you of a hundred resolves,
we have arrived at our hopes, possessor of the mace.
Es ist ja aller Menschen Art begehrlich, o vielwirkender, Uns kam das Wünschen an, o Held.
Denn alles ging nach Menschenart unseren Wünschen entsprechend, o Ratreicher; wir haben unsere Hoffnungen erreicht, o Keulenträger.
त्वे᳓ सु᳓ पुत्त्र +++(आमन्त्रिताङ्गत्वाद् अनुदात्तः←)+++शवसो᳓
ऽवृत्रन् +++(=अवर्तन्त)+++ का᳓म-कातयः +++(=काम-कामनाः [सुतयः])+++ ।
न᳓ त्वा᳓म् इन्द्रा᳓ति रिच्यते ।।
हे शवसः। पुत्र बलनिमित्तमुत्पन्नत्वाद्वलस्य पुत्रेन्द्र कामकातयः । ‘कै गै रै शब्दे'। कामपराः कातयः शब्दाः येषां भवन्ति ते तथोक्ताः । तादृशा मनुष्याः त्वे त्वयि सु अवृत्रन् स्वस्वकामाभिपूरणार्थं सुष्ठु वर्तन्ते । तस्मान्मर्त्यत्वानि कामोपेतानि इत्युत्पन्नम्। ‘वृतु वर्तने'। लङि छान्दसो विकरणस्य लुक् । ‘बहुलं छन्दसि' इति रुडागमः । यत एवं ततो हे इन्द्र त्वां कश्चिदपि देवः न अति रिच्यते । बलेन धनेन वातिरिक्तः समर्थो नास्ति ।
Those, Son of Strength, are come to thee who cherish wishes in their hearts
O Indra, none excelleth thee.
To thee, O son of strength, they turn
Who have desires to be fulfilled;
None excelleth thee, O Indra.
To you, o son of strength, the desirers of desires have turned. Nothing surpasses you, Indra.
Es wandten sich, o Herr der Kraft, zu dir sogleich die wünschenden; Nichts überragt, o Indra, dich.
An dich haben sich baß die Wunschwünscher gewandt, o Sohn der Stärke. Über dich, Indra geht nichts.
स᳓ नो वृषन् स᳓निष्ठया
सं᳓ घोर᳓या द्रवित्नुवा᳓
धिया᳓विड्ढि पु᳓रंधिया
हे वृषन् कामानां वर्षितरिन्द्र सः पूर्वोक्तलक्षणस्त्वं सनिष्ठया। ‘षणु दाने'। धनादेर्दातृतमया घोरया सपत्नानां भयकारिण्या अत एव द्रवित्न्वा द्रावयित्र्या शत्रूणां पलायित्र्या। द्रवतेरित्नुच्प्रत्ययः । पुरंध्या बहूनां धारयित्र्या पोषयित्र्या धिया तादृशेन कर्मणा नः अस्मान् सम् अविड्ढि समन्तात्पालय। अवतेर्लोटि ‘बहुलं छन्दसि' इति शपो लुक् । बहुलवचनात्सिप इडागमः । अस्मान् धनदानादिना रक्षेत्यर्थः ॥ ॥ १७ ॥
So, Hero, guard us with thy care, with thy most liberal providence,
Speedy, and terrible to foes.
O bull, give aid to us with the awesome, dashing
visionary thought that gains the most, and with plenitude.
Drum hilf mit reichlichst spendender, mit herrlicher, mit eilender Beachtung und Versorgung uns.
Steh uns bei, du Bulle, im Verein mit der gewinnbringendsten, furchtgebietenden, schnellen Dhi, mit der Purandhi, der Wunscherfüllung!
य᳓स् ते नूनं᳓ शतक्रतव्
इ᳓न्द्र द्युम्नि᳓तमो म᳓दः
ते᳓न नून᳓म् म᳓दे मदेः
अत्र सोमः स्तूयते । हे शतक्रतो शतविधप्रज्ञान हे इन्द्र द्युम्नितमः यशस्वितमः यः मदः । माद्यन्त्यनेनेति मदः सोमः । यः सोमः नूनं पुरा ते त्वदर्थमस्माभिरभिषुतोऽस्ति तेन अस्माभिः प्रदीयमानेन सोमेन नूनम् इदानीं मदे तत्पानेन मदे तव संजाते सत्यस्मानपि मदेः धनादिदानेन त्वं मादय । ‘मदी हर्षे' । अत्रान्तर्णीतण्यर्थः । ‘बहुलम्' इति शप् ॥
O Satakratu Indra, now rejoice with that carouse of thine
Which is most splendid of them all
O Indra of a hundred resolves, that which now is the most brilliant exhilaration for you,
with that you should now become exhilarated on the
exhilarating drink—
Welch wirkungsreichster Rausch dir je o thatenreichster Indra ist, Mit dem berausch dich nun beim Trunk,
Was, o Ratreicher, dein erleuchtetster Rausch jetzt ist, Indra, mit dem berausche dich jetzt an dem Rauschtrank,
य᳓स् ते चित्र᳓श्रवस्तमो
य᳓ इन्द्र वृत्रह᳓न्तमः
य᳓ ओजोदा᳓तमो म᳓दः
हे इन्द्र चित्रश्रवस्तमः अतिशयेन नानाविधकीर्तिः यः मदः सोमः ते त्वदर्थमस्माभिरभिषुतः । यः सोमः वृत्रहन्तमः अतिशयेन पापानां हन्ता । किंच यः सोमः ओजोदातमः अतिशयेन बलस्य दाता । तेनास्माभिर्दीयमानेन सोमेन त्वं माद्येरिति पूर्वेण संबन्धः ॥
Even, Indra, that carouse which slays the Vrtras best, most widely famed,
Best giver of thy power and might.
That of yours which possesses the brightest fame, which is the best smiter of Vr̥tra, Indra,
that exhilaration which best gives strength.
Welch Rausch den höchsten Ruhm verdient und, Indra, bestens Feinde schlägt, Der dir am meisten Kraft verleiht.
Der dein ruhmglänzendster, der dein feindetötendster, der dein kraftverleihendster Rausch ist, Indra!
विद्मा᳓ हि᳓ य᳓स् ते अद्रिवस्
त्वा᳓दत्तः सत्य सोमपाः
वि᳓श्वासु दस्म कृष्टि᳓षु
हे अद्रिवः । अद्रिर्वज्रः । तद्वन् हे सत्य यथार्थकर्मन् सोमपाः सोमस्य पातः दस्म दर्शनीय यद्वा शत्रूणामुपक्षपयितरिन्द्र विश्वासु कृष्टिषु सर्वेषु सोमस्य दातृषु यजमानेषु त्वादत्तः त्वया दत्तः ते त्वदीयः यः रयिरस्ति तं विद्म हि । यष्टारो वयमपि जानीम एव । यद्वा । हे इन्द्र सर्वेषु यष्टृषु मध्ये वयं ते त्वदीयमेव नान्यदीयमिति तं सोमं जानीम एव यः सोमस्त्वादत्तोऽस्माभिस्त्वदर्थं दीयते । अत्र त्वादेशश्छान्दसः ॥
For that which is thy gift we know, true Soma-drinker, Thunder-armed,
Mighty One, amid all the folk.
For we know what of yours was given by you—possessor of the stone, real drinker of soma—
to all communities, wondrous one.
Denn, Schleuderer, wir wissen ja, welch Gut du allen Menschen schenkst, O wahrer, schöner Trinker du.
Denn wir wissen, was dein von dir geschenkter Reichtum bei allen Völkern ist, o Herr des Preßsteins, du wahrhafter Somatrinker, du Meister.
इ᳓न्द्राय म᳓द्वने सुत᳓म्
प᳓रि ष्टोभन्तु नो गि᳓रः
अर्क᳓म् अर्चन्तु कार᳓वः
मद्वने । माद्यतेः क्वनिप् । मदनशीलाय इन्द्राय तदर्थं सुतम् अभिषुतं सोमं नः अस्मदीयाः गिरः स्तुतिलक्षणा वाचः परि ष्टोभन्त । स्तोभतिः स्तुतिकर्मा। परितः सोमं स्तुवन्तु । ततः कारवः स्तुतिकारिणः स्तोतारश्च अर्कं सर्वैरर्चनीयं सोमम् अर्चन्तु पूजयन्तु ॥
For Indra, Lover of Carouse, loud be our songs about the juice:
Let poets sing the song of praise.
Let our hymns encircle with rhythm the soma pressed for Indra for exhilaration.
Let the bards chant their chant.
Rings um des lust'gen Indra Trank ertöne unsrer Lieder Schall; Die Sänger singen Lobgesang.
Dem sich gern berauschenden Indra sollen unsere Loblieder rings um den ausgepreßten Saft erschallen; die Dichter sollen das Preislied singen.
य᳓स्मिन् वि᳓श्वा अ᳓धि श्रि᳓यो
र᳓णन्ति सप्त᳓ संस᳓दः
इ᳓न्द्रं सुते᳓ हवामहे
यस्मिन् इन्द्रे विश्वाः सर्वाः श्रियः कान्तयः अधि अधिकं भवन्ति । अतिशयेन तेजस्वीत्यर्थः । किंच सप्त सप्तसंख्याकाः संसदः । सम्यक् यज्ञेषु कर्मकरणार्थं सीदन्तीति संसदः होत्रकाः । यस्मिन् रणन्ति सोमप्रदानार्थं रमन्ते । यद्वा । यं शब्दयन्ति स्तुवन्ति । तं पूर्वोक्तलक्षणम् इन्द्रं सुते सोमेऽभिषुते सति हवामहे वयं सोमपानायाह्वयामः ॥ ॥ १८ ॥
We summon Indra to the draught, irl whom all glories rest, in whom
The seven communities rejoice.
He in whom are all splendors, in whom the seven who sit together [=priests] take pleasure,
Indra do we invoke when the soma is pressed.
In welchem alle Wonne ruht, die sieb'n Gemeinden sich erfreun, Den Indra rufen wir beim Saft.
Bei dem alle Herrlichkeiten sind, über den die sieben Opferversammlungen sich freuen, den Indra laden wir zum Soma ein.
त्रि᳓कद्रुकेषु चे᳓तनं
देवा᳓सो यज्ञ᳓म् अत्नत
त᳓म् इ᳓द् वर्धन्तु नो गि᳓रः
हे देवासः देवा इन्द्रादयः त्रिकद्रुकेषु आभिप्लविकेष्वहःसु । ज्योतिर्गौरायुरिति त्रिकद्रुकाः । तेषु चेतनम् । 'चिती संज्ञाने'। चेतन्ति जानन्त्यनेन स्वर्गादिकमिति चेतनः । ज्ञानसाधनं यज्ञम् अत्नत अतन्वत स्वैः स्वैः कर्मभिः पालनैश्च विस्तारितवन्तः । ‘ तनु विस्तारे'। लङि ‘बहुलं छन्दसि' इति विकरणस्य लुक्। तनिपत्योश्छन्दसि' इत्युपधालोपः। तमित् तमेवास्मदीयं यज्ञं नः अस्माकं गिरः स्तुतिलक्षणा वाचः वर्धन्तु वर्धयन्तु ॥
At the Trikadrukas the Gods span sacrifice that stirs the mind:
Let our songs aid and prosper it.
The gods have stretched for themselves a noteworthy sacrifice among the Trikadrukas.
Just him [=Indra] let our hymns increase.
Bei den drei Bechern führten hier die Götter schöne Feier aus, Die sei durch unsern Sang erhöht.
Bei den Trikadruka´s haben die Götter das denkwürdige Opfer ausgeführt. Dasselbe sollen unsere Lobreden noch mehr gedeihen lassen, das immer Gedeihliche.
आ᳓ त्वा विशन्तु इ᳓न्दवः
समुद्र᳓म् इव सि᳓न्धवः
न᳓ त्वा᳓म् इन्द्रा᳓ति रिच्यते
हे इन्द्र इन्दवः स्रवन्तोऽस्माभिर्दीयमानाः सोमाः त्वा त्वाम् आ विशन्तु । सर्वतः प्रविशन्तु । तत्र दृष्टान्तः । समुद्रमिव सिन्धवः । स्यन्दमाना नद्यः यथा समुद्रं जलाशयं सर्वतः प्रविशन्ति तद्वत् । यत एवं तस्मात् हे इन्द्र त्वां कश्चिदपि देवो बलेन धनेन वा न अति रिच्यते नातिरिक्तोऽस्ति । सामर्थ्यवांस्त्वत्तोऽधिको नास्तीत्यर्थः ॥
Let the drops pass within thee as the rivers flow into the sea:
O fndra, naught excelleth thee.
Let the drops enter you, like rivers the sea.
Nothing surpasses you, Indra.
Es mögen in dich dringen ein die Indu's, wie die Ström' ins Meer, Nichts überraget, Indra, dich.
In dich sollen die Säfte eingehen wie die Flüsse in das Meer! Über dich, Indra, geht nichts.
विव्य᳓क्थ महिना᳓ वृषन्
भक्षं᳓ सो᳓मस्य जागृवे
य᳓ इन्द्र जठ᳓रेषु ते
हे वृषन् कामानां वर्षितर्हे जागृवे जागरणशीलेन्द्र त्वं तस्य सोमस्य भक्षं पानं प्रति महिना स्वमहिम्ना विव्यक्थ सर्वतो व्याप्तवानसि । व्यचेर्लिटि थलि ‘ °अभ्यासस्योभयेषाम् । (पा. सू. ६. १. १७) इति संप्रसारणम् । हे इन्द्र यः सोमः ते जठरेषु उदरेषु प्रविशति तस्य पानं व्याप्तवानसीति शेषः ॥
Thou, wakeful Hero, by thy might hast taken food of Soma juice,
Which, Indra, is within thee now.
O wakeful bull, with your greatness you encompass the portion of soma that is in your belly, Indra.
Mit deiner Gröss' umfängst, o Stier, den Trank des Soma's, munter, du, Der, Indra, drang in deinen Bauch.
Du Bulle fassest in deiner Größe den Trank des Soma, du Wachsamer, der in deinem Leib ist, Indra.
अ᳓रं त इन्द्र कुक्ष᳓ये
सो᳓मो भवतु वृत्रहन्
अ᳓रं धा᳓मभ्य इ᳓न्दवः
हे वृत्रहन् वृत्रस्यापामावरकस्यासुरस्य पापस्य वा हन्तर्हे इन्द्र सोमः अस्माभिर्दीयमानः ते तव कुक्षये अरम् अलं पर्याप्तः भवतु। किंच इन्दवः सर्वतः क्षरणशीलाः सोमास्तव धामभ्यः नानाविधेभ्यः शरीरेभ्यस्तव तेजोभ्यो वा अरम् अलं पर्याप्ता भवन्तु । अनेन तेजसां हविर्भाक्त्वमस्तीति सूचितम् । अस्मदीयाः सोमा एव तव कुक्षये देहेभ्योऽपि पर्याप्ता भवन्तु नान्यदीया इति भावः ॥
O Indra, Vrtra-slayer, let Soma be ready for thy maw,
The drops be ready for thy forms.
Let the soma be fit for your cheek, o Indra, Vr̥tra-smiter,
fit for your “fundament” the drops.
᳓
Der Soma sei, o Vritraheld, o Indra, passend deinem Leib, Die Indu's passend deiner Schar.
Der Soma soll deinem Leib genügend sein, o Vritratöter Indra, genügend die Säfte deinen Eigenschaften.
अ᳓रम् अ᳓श्वाय गायति
श्रुत᳓कक्षो अ᳓रं ग᳓वे
अ᳓रम् इ᳓न्द्रस्य धा᳓मने
श्रुतकक्षो नामर्षिः गवाश्वादिन्द्रं स्तौति । अयं श्रुतकक्षः एतन्नामक ऋषिः अश्वाय इन्द्रेण दीयमानायाश्वायैतदर्थम् अरम् अलं गायति इन्द्रविषयं स्तोत्रं करोति । तथा गवे अरम् अलं गायति । इन्द्रस्य इन्द्रकर्तृकाय धाम्ने गृहाय तदर्थं च अरं पर्याप्तं स्तौति । यदश्वादिकमिन्द्रः प्रयच्छति तस्मै गायतीति । यद्वा । इन्द्रस्येति कर्मणि षष्ठी । गवादिलाभार्थमिन्द्रं स्तौति ॥
Now Srutakaksa sings his song that cattle and the steed may come,
That Indra's very self may come.
Śrutakakṣa [“Famous Armpit”] sings fit for a horse, fit for a cow, fit for the “fundament” [/bestowal] of Indra.
᳓
Dem Rosse passend und dem Rind, stimmt Çrutakakscha Lieder an, Und passend, Starker, deiner Schar.
Srutakaksa singt genügend für ein Roß, genügend für ein Rind, genügend für Indra´s Eigenschaft.
अ᳓रं हि᳓ ष्म सुते᳓षु णः
सो᳓मेषु इन्द्र भू᳓षसि
अ᳓रं ते शक्र दाव᳓ने
हे इन्द्र सुतेषु अभिषुतेषु नः अस्मदीयेषु सोमेषु । हि ष्म इत्यवधारणे । त्वमेव तेषां पाने अलं पर्याप्तः भूषसि भवसि । यद्वा। सोमेष्वभिषुतेषु सत्सु नोऽस्माकं पर्याप्तं धनं भूषसि । ‘भू प्राप्तौ । त्वं प्रापय । तथा भवति हे शक्र समर्थेन्द्र दावने धनादिकस्य दात्रे ते तुभ्यमस्माभिर्दीयमानाः सोमाः अरम् अलं पर्याप्ता भवन्तु ॥ ॥ १९ ॥
Here, Indra, thou art ready by our Soma juices shed for thee,
Sakra, at hand that thou mayst give.
For fittingly you exert yourself when our soma drinks are
pressed, Indra,
fittingly for your giving, able one.
᳓
Denn passend, Indra, mühst du dich für uns bei dem gebrauten Trank, O Indra, deiner Gab' gemäss.
Denn du machst dich bereit für unseren ausgepreßten Soma, Indra; wir sind bereit für deine Schenkung, o Mächtiger.
पराका᳓त्ताच् चिद् अद्रिवस्
तुवां᳓ नक्षन्त नो गि᳓रः
अ᳓रं गमाम ते वय᳓म्
हे अद्रिवः वज्रवन्निन्द्र नः अस्मदीयाः गिरः इतो निर्गताः स्तुतयः पराकात्तात् । चित् अप्यर्थः । अतिदूरादपि त्वां नक्षन्त व्याप्नुवन्तु । किमुत समीपात्त्वामश्नुवतामिति । नक्षतेर्व्याप्तिकर्मणो नशतेर्वा' लेटि सिपि रूपम् । एवं सति स्तोतारः वयं ते त्वदीयं धनम् अरम् अलं पर्याप्तं गमाम त्वत्तो गच्छाम ॥
Even from far away our songs reach thee, O Caster of the Stone:
May we come very close to thee.
Even from a distance our hymns reach you, possessor of the stone. Let us go fittingly to you.
᳓
Auch aus der Fern' o Schleuderer erreich' dich unser Lieder Schall; Wir mögen kommen dir zu pass.
Auch von ferne sollen dich, du Herr des Preßsteins, unsere Lobreden erreichen; wir möchten dir recht kommen.
एवा᳓ हि᳓ अ᳓सि वीरयु᳓र्
एवा᳓ शू᳓र उत᳓ स्थिरः᳓
एवा᳓ ते रा᳓धियम् म᳓नः
हे इन्द्र त्वं वीरयुः वीरान् युद्धकर्मणि समर्थान् शत्रून् हन्तुं कामयमानएवासि भवसि खलु । हि प्रसिद्धौ । अतएव त्वं शूरः सामर्थ्यवानेवभवसि । उतापिच स्थिरः सङ्ग्रामे धैर्यवान् भवसि एकत्रस्थित्वैव शत्रून् सम्प्रहरसीत्यर्थः । एवंसति ते तव मनोराध्यं स्तुतिभिराराधनीयमेव यतोनेन मनसा त्वं शत्रुवधं सङ्ग्रामे धैर्यादिकञ्च करोषीति तवमनएव सर्वैः स्तुत्यमित्यर्थः ॥ २८ ॥
For so thou art the hero's Friend, a Hero, too, art thou, and strong:
So may thine heart be won to us.
For as surely as you are one who acts the hero and as surely as you are a steadfast champion,
just as surely is your thought to be realized—
Denn wahrlich du bist mannesstark und wahrlich du ein tapfrer Held, Dein Sinn fürwahr gewinnenswerth.
Denn sicherlich wünschest du Männer, sicherlich bist du selbst tapfer und standhaft, sicherlich ist dein Sinn leicht zu gewinnen.
एवा᳓ राति᳓स् तुवीमघ
वि᳓श्वेभिर् धायि धातृ᳓भिः
अ᳓धा चिद् इन्द्र मे स᳓चा
हे तुविमघ । तुविरिति बहुनाम । बहुधनवन्निन्द्र विश्वेभिः विश्वैः धातृभिः कर्माधारकैः । यद्वा । देवानां हविर्दानेन पोषयितृभिः । सर्वैर्यजमानैस्तव रातिः गवाश्वधनादिदानं धायि तैर्धार्यते एव । दधातेर्लुङि कर्मणि रूपम् । चिदेवार्थे । अध अत एव हे इन्द्र एवंविध त्वं मे यष्टुर्ममापि सचा धनादिदानेन कर्मसहायो भव ॥
So hath the offering, wealthiest Lord, been paid by all the worshippers:
So dwell thou, Indra, even with me.
Just as surely has your giving, powerfully liberal one, been ordained by all the Ordainers.
And so, Indra, (you are) in partnership with me.
᳓
Fürwahr, o reicher, Gabe ward von allen Gebern ausgetheilt, So sei denn Indra, du mit mir.
Sicherlich ward von allen Opferveranstaltern die Gabe veranstaltet, du Vielschenkender; und doch bist du, Indra, bei mir.
मो᳓ षु᳓ ब्रह्मे᳓व तन्द्रयु᳓र्
भु᳓वो वाजाना᳐म् पते
म᳓त्स्वा सुत᳓स्य गो᳓मतः
हे वाजानां पते अन्नानां पते बलानां वा हे इन्द्र तन्द्रयुः निष्कारणं निवृत्तकर्मवत्त्वादालस्ययुक्तः ब्रह्मेव ब्राह्मण इव । ‘ अथापि तद्वदर्थे भाष्यते' (निरु. ६. ३१ ) इति यास्कोक्तमनुसृत्य तन्द्रयुक्त इत्युक्तम् । अथवा यागादिकर्मपरित्यागेनालस्यमिच्छन्नास्तिको ब्राह्मण इव त्वं मो षु भुवः सुष्ठु मा भवः । सर्वदास्मत्कर्मान्वितो भवेत्याशासनम् । तदेवाह । सुतस्य अभिषुतस्य ततः गोमतः गव्येन क्षीरेण दध्ना वा मिश्रणवतः सोमस्य पानेन मत्स्व माद्य हृष्टो भव ॥
Be not thou like a slothfid priest, O Lord of spoil and wealth: rejoice
In the pressed Soma blent with milk.
Do not become like an indolent formulator, o lord of prizes.
Exhilarate yourself on the pressed soma accompanied by cows [=milk].
Sei nicht dem trägen Beter gleich, o Herr der Schätze, labe dich Am milchgemischten Somatrank.
Sei doch ja nicht saumselig wie ein Opferpriester, du Herr der Siegespreise; berausche dich an dem milchgemischten Saft!
मा᳓ न इन्द्राभि᳓ आदि᳓शः
सू᳓रो अक्तु᳓षु आ᳓ यमन्
तुवा᳓ युजा᳓ वनेम त᳓त्
हे इन्द्र आदिशः आदेष्टारः समन्तादायुधान्यतिविसृजन्तः सूरः । ‘सृ गतौ'। सर्वत्र सरणशीला राक्षसाः अक्तुषु रात्रिषु दिवापि नः अस्माकं मा अभि आ यमन् आभिमुख्येन मा नियन्तारो भवन्तु । यद्यागताश्चेत्तदा तत् रक्षःकुलं त्वा त्वया युजा सहायेन वयं वनेम हिंसाम ।' श्नथ क्नथ क्रथ क्लथ हिंसार्था वन च' इत्यत्र पठितत्वाद्धिंसार्थः ॥
O Indra, let not ill designs surround us in the sunbeams' light:
This may we gain with thee for Friend.
Let not (ill) intentions toward us guide us away from the sun into the nights, Indra.
With you as yokemate, we would gain it.
Nicht ziele bei der Sonne Strahl auf uns, o Indra, böse List, Durch deine Huld gewähr uns das.
Nicht sollen, Indra, die Drohungen auf uns abzielen, wenn die Sonne im Dunkeln ist. Mit dir im Bunde wollen wir diese gewinnen.
त्व᳓ये᳓द् इन्द्र युजा᳓ वय᳓म्
प्र᳓ति ब्रुवीमहि स्पृ᳓धः
त्व᳓म् अस्मा᳓कं त᳓व स्मसि
हे इन्द्र त्वयेत् । इदवधारणे । त्वयैव युजा सहायेन स्पृधः स्पर्धमानाञ्छत्रून् वयं प्रति ब्रुवीमहि निराकुर्वीमहि । प्रतिवचनं निराकरणम् । उत्तरार्धेनेन्द्रसाहाय्यमेव प्रतिपादयति । हे इन्द्र त्वमस्माकं भवसि स्तुत्यस्तोतृयष्टृयष्टव्यतया त्वमस्माकं भवसि वयं तव स्मसि भवामः । तथारण्यकं- ‘ त्वमिदं सर्वं भवसि तव वयं स्मः त्वमस्माकमसि' इति । तस्मात्त्वया सहायेन शत्रून् हन्यामेति ॥
With thee to help us, Indra, let us answer all our enemies:
For thou art ours and we are thine.
With just you as yokemate, Indra, we would respond to the challengers. You are ours; we are yours.
Mit dir vereinigt werden wir begegnen, Indra, jedem Feind; Du bist der unsre, dein sind wir.
Mit dir, Indra, im Bunde wollen wir den Nebenbuhlern die richtige Antwort geben. Du bist uns, wir sind dein.
तु᳓वा᳓म् इ᳓द् धि᳓ तुवाय᳓वो
अनुनो᳓नुवतश् च᳓रान्
स᳓खाय इन्द्र कार᳓वः
हे इन्द्र कर्मोपद्रवपरिहारादनन्तरं त्वायवः त्वां धनादिदानार्थं कामयमानाः अत एव अनुनोनुवतः । नौतेर्यङ्लुगन्तस्य शतरि रूपम् । अनुक्रमेण पुनःपुनः स्तुतिं कुर्वन्तः तस्मात्तव सखायः सखिभूताः कारवः स्तोतारः त्वामित् । इदवधारणे । त्वामेव चरान् स्तुतिभिः परिचरन्तु खलु। हि इति प्रसिद्ध्यर्थः । चरतेर्लेट्याडागमः । हियोगादनिघातः ॥ ॥ २० ॥
Indra, the poets and thy friends, faithful to thee, shall loudly sing
Thy praises as they follow thee.
For those seeking you, ever bellowing after you, will proceed just to you—
your comrades, the bards, o Indra.
Denn die dich lieben, gehn zu dir, o Indra, die dir jauchzen zu, Der Sänger und der Freunde Schar.
Denn nur dir sollen deine Getreuen nachjubelnd folgen, deine Freunde, Indra, die Dichter!