(सु᳓क᳓क्षः᳓, इ᳓न्द्रः᳓, गा᳓य᳓त्री᳓।)
उ᳓द्घ᳓+++(=हि)+++ +इ᳓द् अभि᳓ श्रुता᳓मघं᳓+++(=श्रुतधनम्)++ वृषभं+++(=वर्षितारं याचमानेभ्यो)+++ न᳓र्यापसम् +++(=नरहितकर्माणम्)+++ ।
अ᳓स्तारम्+++(=दानशौण्डम्)++एषि सूर्य+++(=सारक / सूर्यात्मक [इन्द्र]!)+++ ॥
सुकक्ष इन्द्रगुणानाह । हे सूर्य । द्वादशसु भानुष्विन्द्रोऽपि सूर्यात्मना पठितः । तस्मात्सूर्यात्मक सुवीर्य हे इन्द्र श्रुतमघं सर्वदा देयत्वेन विख्यातधनमत एव वृषभं याचमानानां धनस्य वर्षितारं नर्यापसम् । नरहितं नर्यम् । नरहितकर्माणम् अस्तारं दानशौण्डमौदार्यवन्तमेतादृशानुभावमभितः उत् एषि । इत् अवधारणे । त्वमेव तस्य यज्ञे सूर्यात्मना उद्गतोऽसि। घ इति प्रसिद्धौ ॥
SURYA, thou mountest up to meet the Hero famous for his wealth,
Who hurls the bolt and works for man
Up toward the bull whose bounty is famous, who performs manly work, toward the archer do you go, o Sun.
Zum schatzberühmten Helden gehst du auf, der Manneswerke wirkt, O Sonne, zu dem Schleuderer.
Surya, du gehst für den Bullen auf, dessen Gaben berühmt, dessen Werke mannhaft sind, für den Schützen Indra.
न᳓व यो᳓ नवति᳓म् पु᳓रो
बिभे᳓द बाहु᳓ओजसा
अ᳓हिं च वृत्रहा᳓वधीत्
यः इन्द्रः नव नवतिं नवनवतिसंख्याका एकोनशतसंख्याकाः शम्बरस्य पुरः पुरीः बाह्वोजसा स्वबाहुबलेनैव बिभेद दिवोदासाय भिनत्ति स्म । तथा च मन्त्रः - ‘ दिवोदासाय नवतिं च नवेन्द्रः पुरो व्यैरच्छम्बरस्य' ( ऋ. सं. २. १९. ६) इति । सः वृत्रहा वृत्रासुरस्य हन्ता स इन्द्रः अहिं च केनाप्यहन्तव्यं मेघमपामावरकं वृत्रं वा अवधीत् । स इन्द्रोऽस्माकं धनं ददात्वित्युत्तरेण संबन्धः ॥
Him who with might of both his arms brake nine-and-ninety castles down,
Slew Vrtra and smote Ahi dead.
He who split the nine and ninety strongholds with his arm-strong (mace), and as Vr̥tra-smiter smote the serpent,
Er, der mit seiner Armeskraft die neunundneunzig Burgen brach, Als Vritrafeind die Schlang' erschlug,
Der die neunundneunzig Burgen gebrochen hat mit Armes Stärke, und der Vritratöter erschlug den Drachen.
स᳓ न इ᳓न्द्रः शिवः᳓ स᳓खा
अ᳓श्वावद् गो᳓मद् य᳓वमत्
उरु᳓धारेव दोहते
सः पूर्वोक्तलक्षणः शिवः कल्याणतमः सखा यष्टृयष्टव्यस्तोतृस्तुत्यलक्षणेन संबन्धेनास्माकं मित्रभूतः एतादृशः इन्द्रः अश्ववत् अश्वयुक्तं गोमत् पश्वादिसहितं यवमत् । ‘ अयवादिभ्यः' (पा. सू. ८. २. ९) इति प्रतिषेधान्मतुपो वत्वाभावः । यव इति धान्यविशेषः । धान्ययुक्तं धनं नः अस्मभ्यं दोहते दोग्धु ददातु। तत्र दृष्टान्तः । उरुधारेव । दोहनकाले प्रभूतपयोधारा यद्वा बहूनां पोषयित्री गौर्यथा वत्सस्य पयो दोग्धि तथा प्रभूतं धनमस्माकं दोग्धु ददातु । दुहेर्लेट्यडागमः ॥
This Indra is our gracious Friend. He sends us in a full broad stream
Riches in horses, kine, and corn.
That Indra, propitious companion, will milk out for us (wealth) in horses, in cows, in grain,
like (a cow) yielding a broad stream.1194 VIII.93
Indra, ergiesst als holder Freund, wie eine Kuh, die reichlich strömt, Uns Gut an Gerste, Ross und Rind.
Dieser liebe Freund Indra möge uns eine Menge Rosse, Rinder, Korn milchen wie eine breitstrahlige Kuh die Milch.
य᳓दद्य᳓ क᳓च्च+++(=किञ्चित्)+++ वृत्र+++(=जलावरक-मेघ)+++हन्नुद᳓गा अभि᳓ सूर्य ।
स᳓र्वं त᳓दिन्द्र ते व᳓शे ॥
हे वृत्रहन् वृत्रस्यापामावरकस्य मेघस्य हन्तः हे सूर्य सूर्यात्मक इन्द्र अद्य अस्मिन् दिने यत् कच्च यत्किंचित्पदार्थजातम् अभि अभिमुखीकृत्य उदगाः । ‘ इण् गतौ । उत्पूर्वः । तस्य लुङि गादेशः। स्वतेजसोद्गतः प्रादुर्भूतोऽसि तदा तत् सर्वं स्थावरजङ्गमात्मकं जगत् ते तव वशे भवति । त्वदधीनं भवति । उदिते सूर्ये त्वदर्थं प्राक्कर्म कुर्वन्ति जुह्वति च ॥
Whatever, Vrtra-slayer! thou, Surya, hast risen upon to-day,
Tbat, Indra, all is in thy power.
O Vr̥tra-smiter—whatever today you have risen over, o Sun, all that is under your will, Indra.
Wohin du feindetödtend heut, o Sonne, aufgegangen bist, Das, Indra, ist in deiner Macht.
Worüber auch immer du heute aufgegangen bist, du Vritratöter, du Surya, das alles ist in deiner Gewalt, Indra.
य᳓द् वा प्रवृद्ध सत्पते
न᳓ मरा इ᳓ति म᳓न्यसे
उतो᳓ त᳓त् सत्य᳓म् इ᳓त् त᳓व
वाशब्दः समुच्चये । अपि च हे प्रवृद्ध स्वबलेन प्रवर्धमान सत्पते सतां पते स्वप्रकाशाधिक्येन सतां नक्षत्राणां पते हे इन्द्र न मरै इति मनुष्यवद्वार्धक्येनाहं न म्रिय इति यत् यदि मन्ये युध्यसे। मृङ् प्राणत्यागे'। लेट्यडागमः।' वैतोऽन्यत्र' इत्यैकारः। उतो अपि च तव तत् न म्रिय इति मननं सत्यमित् यथार्थमेव । इन्द्रो न म्रियत इत्यर्थे मन्त्रान्तरं-- न ह्यस्या अपरं चन जरसा मरते पतिः' (ऋ. सं. १०. ८६. ११) इति ॥ ॥ २१ ॥
When, Mighty One, Lord of the brave, thou thinkest thus, I shall not die,
That thought of thine is true indeed.
Or if, o lord of settlements grown strong, you think, “I shall not die,” just that comes true for you.
᳓
Und wenn du hoch erhabner Fürst »nicht werd' ich sterben« also denkst, So ist auch dies dein Denken wahr.
Oder wenn du hochgewachsener, rechtmäßiger Gebieter denkst: " Ich werde nicht sterben", so wird auch das bei dir wahr.
ये᳓ सो᳓मासः पराव᳓ति
ये᳓ अर्वाव᳓ति सुन्विरे᳓
स᳓र्वांस् ताँ᳓ इन्द्र गछसि
हे इन्द्र ये सोमासः सोमाः परावति विप्रकृष्टेऽतिदूरदेशे ये सोमाः अर्वावति अन्तिकतमे देशे च सुन्विरे । छन्दसि द्विर्वचनस्य विकल्पितत्वादत्र द्विर्वचनाभावः। ये सोमा ऋत्विग्भिरभिषूयन्ते सर्वान् दूरे समीपे चाभिषूयमाणान् तान् सोमान् गच्छसि तत्पानार्थं युगपत्प्राप्नोषि । अनेनेन्द्रस्य सर्वगतत्वं सूचितम् ॥
Thou, Indra, goest unto all Soma libations shed for thee,
Both far away and near at hand.
The soma drinks which have been pressed in the distance, which nearby, to all those do you go, Indra.
᳓
O Indra, welche Tränke dir bereitet werden fern und nah, Zu denen allen gehst du hin.
Die Somatränke, die in der Ferne, die in der Nähe ausgepreßt werden, zu allen diesen kommst du, Indra.
त᳓म् इ᳓न्द्रं वाजयामसि
महे᳓ वृत्रा᳓य ह᳓न्तवे
स᳓ वृ᳓षा वृषभो᳓ भुवत्
यजमाना आहुः । तं पूर्वोक्तलक्षणम् इन्द्रं वाजयामसि वाजयामः । सोमेन स्तुतिभिर्वा वाजवन्तं बलवन्तं कुर्मः । किमर्थम् । महे महते वृत्राय अपामावरकं वृत्रासुरं हन्तवे हन्तुम् । सोमपानेन मत्तः स्तुतिभिर्वा स्तुतः सन् वृषा धनानां सेक्ता दाता सः इन्द्रः वृषभः अस्माकं स्तोतॄणां सोमस्य दातॄणां धनादिसेचको दाता भुवत् भवतु ॥
We make this Indra very strong to strike the mighty Vrtra dead:
A vigorous Hero shall he be.
We incite this Indra to smite great Vr̥tra.
He will become a bullish bull.
Ihm, diesem Indra, geben wir zum Mord des grossen Vritra Kraft; Der Held erweise sich als Stier.
Diesen Indra eifern wir an, den großen Vritra zu töten. Er sei der riesige Bulle.
इ᳓न्द्रः स᳓ दा᳓मने कृत᳓
ओ᳓जिष्ठः स᳓ म᳓दे हितः᳓
द्युम्नी᳓ श्लोकी᳓ स᳓ सोमियः᳓
सः इन्द्रः दामने स्तोतृभ्यो धनादिदानायैव कृतः प्रजापतिना सृष्टः । किंच ओजिष्ठः ओजस्वितमः सः एवेन्द्रः मदे। माद्यन्त्यनेनेति" मदः सोमः । तस्मिंश्च प्रजापतिना सृष्टिकाले हितः । सोमपानार्थं च निहित इत्यर्थः । द्युम्नी । 'द्युम्नं द्योततेर्यशो वान्नं वा' इति । यशस्व्यन्नवान् वा अत एव श्लोकी । श्लोकः स्तुतिः । तद्वान् सः इन्द्रः सोम्यः सोमार्हो भवति ।
Indra was made for giving, set, most mighty, o'er the joyous draught.
Bright, meet for Soma, famed in song.
Indra is the one made for giving. Strongest is he when ensconced in exhilaration;
brilliant is he who, deserving of soma, receives the (invitatory) call.
Zur Gab' ist Indra angethan, der stärkste ist in Rausch versetzt, Er, licht und laut, dem Soma hold.
Dieser Indra ist zum Schenken geschaffen, der Stärkste ist für den Rausch bestimmt; er ist der Glanzvolle, Berühmte, Somawürdige.
गिरा᳓ व᳓ज्रो न᳓ स᳓म्भृतः
स᳓-बलो अ᳓नपच्युतः ।
ववक्ष᳓ ऋष्वो᳓ अ᳓स्तृतः ॥
गिरा स्तुतिलक्षणया वाचा स्तोतृभिः संभृतः उत्पादितस्तीक्ष्णीकृतः । तत्र दृष्टान्तः । वज्रो न । वज्र आयुधम् । तत्कर्तृभिर्निशितधारो यथा भवति तीक्ष्णीक्रियते तद्वत् स्तोतृभिः स्तुत्या संभृतोऽत एव सबलः बलसहितस्तस्मात् अनपच्युतः परैरप्रच्युतः । अनभिगत इत्यर्थः । तादृशः ऋष्वः महान् दीप्यमानो वा अस्तृतः युद्धे शत्रुभिरहिंसित इन्द्रः ववक्षे स्तोतृभ्यो धनादिकं वोढुमिच्छति ॥
By song as 'twere, the powerful bolt which none may parry was prepared
Lofty, invincible he grew.
Like a mace equipped with a hymn, powerful, not to be budged, he has waxed high, not to be laid low.
Durch Sang bereitet wie der Blitz, voll Kraft und unerschütterlich, Erstand der hohe, unbesiegt.
Wie seine Keule durch die Lobrede instand gesetzt, ist er kräftig, unentwegt, übergroß, unüberwindlich herangewachsen.
दुर्गे᳓ चिन् नः सुगं᳓ कृधि
गृणान᳓ इन्द्र गिर्वणः
तुवं᳓ च मघवन् व᳓शः
हे गिर्वणः गीर्भिर्वननीय इन्द्र गृणानः स्तोतृभिः स्तूयमानस्त्वं नः अस्माकं दुर्गे चित् दुर्गमेऽपि मार्गे सुगं सुगमं पन्थानं कृधि तथा कुरु । हे मघवन् धनवन्निन्द्र त्वम् । चशब्दश्चेदर्थे । यदि वशः सोमपानार्थं तत्प्रदातॄनस्मान् कामयेथाः तदा पन्थानं शोभनगमनं कुरुष्व । वष्टेर्लेट्यडागमः । चशब्दयोगादनिघातः ॥ ॥ २२ ॥
Indra, Song-lover, lauded, make even in the wilds fair ways for us,
Whenever, Maghavan, thou wilt.
Even in difficult going, make easy passage for us when you are hymned, o Indra who yearn for hymns,
if you will so desire, bounteous one—
Im Unwegsamen schaff uns Bahn, liedholder Indra, hochgelobt, Sobald du mächtiger es willst,
Auch auf unwegsamer Strecke schaff uns gepriesen guten Weg, du lobbegehrender Indra, wenn du, Gabenreicher, es willst!
य᳓स्य ते नू᳓ चिद् आदि᳓शं
न᳓ मिन᳓न्ति स्वरा᳓जियम्
न᳓ देवो᳓ ना᳓ध्रिगुर् ज᳓नः
हे इन्द्र यस्य ते तव आदिशम् । आदिशति नयति सर्वत्रानयेत्यादिग्बलम् । औणादिकः करणे प्रत्ययः । यद्वा । आदेश एवादिगाज्ञा । भावे क्विप् । त्वदीयामाज्ञां नू चित् इदानीं पुरा च न मिनन्ति केचिदपि न हिंसन्ति । किंच। स्वराज्यं तव स्वभूतं राज्यं च । यद्वा । स्वशब्देन स्वर्गोऽभिधीयते । स्वर्गस्वामित्वं च न हिंसन्ति । हिंसकानाह। न देवः त्वदन्यो देवोऽपि च तथापि अध्रिगुः अधृतगमनः संग्रामे त्वरमाणो वीरोऽपि न च जनः प्रादुर्भूतो मनुष्योऽपि । एते न मिनन्तीत्यर्थः ॥
Thou whose commandment and behest of sovran sway none disregards,
Neither audacious man nor God.
You whose aim, whose sovereignty they never confound—
neither god, nor the exalted folk.
Du, dessen Plan und Willensmacht niemand zu hemmen je vermag, Nicht Gott, nicht Mensch, der vorwärts stürmt.
Dessen Mahnung und Selbstherrlichkeit sie niemals zuwiderhandeln, weder ein Gott noch ein mächtiger Mann.
अ᳓धा ते अ᳓प्रतिष्कुतं
देवी᳓ शु᳓ष्मं सपर्यतः
उभे᳓ सुशिप्र रो᳓दसी
हे सुशिप्र सुहनो शोभनशिरस्त्राणेन्द्र अध अपि च देवी देव्यौ स्वतेजसा दीप्यमाने उभे रोदसी द्यावापृथिव्यौ अप्रतिष्कुतम् । स्कु इति सौत्रो धातुः स्तम्भने वर्तते । शत्रुभिरप्रतिरोधनीयं ते त्वदीयं शुष्मं परबलशोषकं बलं सपर्यतः पूजयतः । त्वदधीने एव भवतः ॥
And both these Goddesses, Earth, Heaven, Lord of the beauteous helm! revere
Thy might which no one may resist.
And the two goddesses, both the World-Halves,
respect your unrepulsable forcefulness, o you of good lips.
Und deine ungehemmte Macht verehren beide Göttinnen, Die Welten, helmgeschmückter du.
Darum ehren die beiden Göttinnen Rodasi deinen unaufhaltsamen Ungestüm, du Schönlippiger.
तुव᳓म् एत᳓द् अधारयः
कृष्णा᳓सु रो᳓हिणीषु च
प᳓रुष्णीषु रु᳓शत् प᳓यः
अस्य सामर्थ्यमेवोपपादयति । हे इन्द्र कृष्णासु कृष्णवर्णासु गोषु तथा रोहिणीषु । ‘ वर्णादनुदात्तात्तोपधात्तो नः' (पा. सू. ४. १. ३९) इति ङीप् । रोहितवर्णासु च गोषु रुशत् । रोचतेर्दीप्तिकर्मणः । दीप्यमानं श्वेतम् एतत् परिदृश्यमानं पयः क्षीरं त्वम् अधारयः धारयसि । तस्मात्त्वद्बलं पूजयत इति समन्वयः ॥
Thou in the black cows and the red and in the cows with spotted skin
This white milk hast deposited.
You fixed this fast in the black (cows) and in the reddish ones, and in the gray ones—the gleaming white milk.
᳓
Du setztest diese helle Milch in schwarz und rothe Küh' hinein Und in die buntgefleckten auch.
Du hast diese weiße Milch in den schwarzen und roten, in den gefleckten Kühen festgelegt.
वि᳓ य᳓द् अ᳓हेर् अ᳓ध त्विषो᳓
वि᳓श्वे देवा᳓सो अ᳓क्रमुः
विद᳓न् मृग᳓स्य ताँ᳓ अ᳓मः
अध अपि च अहेः अहन्तव्यस्य वृत्रासुरस्य त्विषः तेजोरूपादुच्छ्वासाद्भीताः यद्वा तस्य प्रभावेन परिगमिताः विश्वे सर्वे देवासः देवाः यत् यदा वि अक्रमुः विविधं पादविहरणमकुर्वन् । स्वस्थानं परित्यज्यान्यं देशमगच्छन्नित्यर्थः । तदानीं मृगस्य । एवं तान् भीषयितुं वृत्रो मृगरूपोऽभवत् । तद्रूपस्य संबन्धि अमः सर्वतो गमनशीलं बलं तज्जातं भयं वा तान् सर्वान् देवान् विदत् अविन्दत् । प्राप्नोदित्यर्थः । तस्यासुरस्येन्द्रो निवारको हन्ताभवदित्युत्तरेण संबन्धः ॥
When in their terror all the Gods shrank from the Dragon's furious might,
Fear of the monster fell on them.
Then as all the gods strode away from the turbulent power of the serpent, the onslaught of the wild beast found them.
Als vor des Drachens Ungestüm die Götter alle flüchteten, Und sie des Thieres Wuth ergriff,
Als da vor des Drachen Funkeln alle Götter davonliefen, da hatte sie die Panik vor dem wilden Tiere befallen.
आ᳓द् उ मे निवरो᳓ भुवद्
वृत्रहा᳓दिष्ट पउं᳓सियम्
अ᳓जातशत्रुर् अ᳓स्तृतः
आदु इत्यवधारणे । देवानां भीत्या सर्वतो गमनानन्तरमेव मे स्तोतृस्तुत्यलक्षणेन संबन्धेन मम संबन्ध्ययमिन्द्रः निवरः वृत्रासुरस्य निवारयिता हन्ता भुवत् अभवत् । ततः वृत्रहा वृत्रस्य हन्तेन्द्रः पौंस्यम् । पुंसः कर्म पौंस्यम् । यद्वा । स्त्रीपुंसाभ्याम् (पा. सू. ४. १. ८७ ) इति भवार्थे स्रञ् । नकारस्य यकारो वर्णव्यत्ययेन । पुंसीन्द्रे भवम् । यद्वा । बलनामैतत् । स्वबलम् ॥ अदिष्ट तस्य राज्ये दिशति निदधाति । तद्राज्यं स्ववशमकरोदित्यर्थः । ततः प्रभृतीन्द्रः अजातशत्रुः अनुत्पन्नशत्रुः अस्तृतः संग्रामे परैरहिंसितश्चाभवत् ॥ ॥ २३ ॥
Then he was my Defender, then, Invincible, whose foe is not,
The Vrtra-slayer showed his might.
And after that he became a covering for me: the Vr̥tra-smiter displayed his masculine nature—
he for whom no rival has been born, he who cannot be laid low.
Auch da war er Beschützer mir, und Kraft erwies der Vritrafeind, Unwiderstehlich, unbesiegt.
Davor sei mir Bewahrung! Der Vritratöter hat seine Manneskraft erwiesen, er dem kein Gegner erstanden ist, der Ungefällte.
श्रुतं᳓ वो वृत्रह᳓न्तमम्
प्र᳓ श᳓र्धं चर्षणीना᳐᳓म्
आ᳓ शुषे रा᳓धसे महे᳓
हे ऋत्विग्यष्टारः श्रुतं बलवत्तया प्रसिद्धमत एव वृत्रहन्तमम् अतिशयेन वृत्रहन्तारं शर्धं बलभूतं वेगवन्तं वा एतादृशमिन्द्रं चर्षणीनां मनुष्याणां वः युष्माकम् आशुषे । अश्नोतेर्लेट्युत्तम इटि सिप् । व्यत्ययेनोप्रत्ययः । ‘बहुलं छन्दसि' इत्यडागमः । तमिन्द्रं स्तुतिभिः प्रीणयित्वा युष्मभ्यं प्रकर्षेणाश्नवै । प्रयच्छामीत्यर्थः । किमर्थम्। महे महते राधसे धनाय धनं युष्मभ्यं दातुम् ॥
Him your best Vrtra-slayer, him the famous Champion of mankind
I urge to great munificence,
Him famed as the best smiter of Vr̥tra, the propelling force of the settled peoples,
do I inspire to great generosity to you (patrons).
Den hehren, feindetödtendsten, den Führer alles Menschenvolks Fach' ich zu grosser Gab' euch an,
Eurem berühmten Erzfeindetöter, die Stärke der Völker, eifere ich zu großer Freigebigkeit an.
अया᳓ धिया᳓ च गव्यया᳓
पु᳓रुणामन् पु᳓रुष्टुत
य᳓त् सो᳓मे-सोम आ᳓भवः
हे पुरुनामन् बहुविधशक्रवृत्रहादिनामोपेत । यद्वा । बहुस्तुतिमन् । नामयन्ति स्तुत्यं देवं वशं नयन्तीति नाम स्तोत्रम् । अत एव पुरुष्टुत बहुभिरभिष्टुतेन्द्र सोमेसोमे अस्मदीयेषु सोमेषु त्वं यदा आभवः तेषां पानार्थं समन्तादभवः तदा वयम् अया अनया । कीदृश्या । गव्यया गा आत्मन इच्छन्त्या धिया अनया बुद्ध्या युक्ता भवेम । सोमं पीतवति त्वयि वयं गवादियुक्ता भवेमेत्यर्थः ॥
To come, Much-lauded! Many-named with this same thought that longs for milk,
Whene'er the Soma juice is shed.
(I inspired you, Indra,) with this visionary thought and with desire for cattle—o you of many names, praised by many—
so that you appeared at every soma-pressing.
Durch diese Bitte voll Begier, vielnam'ger, vielgepriesener, So oft beim Soma du erschienst.
Durch diese Dichtung und in dem Wunsch nach Rindern geschah es, du Vielarmiger, Vielgepriesener, daß du bei jedem Soma erschienen bist.
बोधि᳓न्मना इ᳓द् अस्तु नो
वृत्रहा᳓ भू᳓रिआसुतिः
शृणो᳓तु शक्र᳓ आशि᳓षम्
अयं परोक्षकृतः । वृत्रहा वृत्रहन्ता भूर्यासुतिः । बहुषु देशेष्विन्द्रार्थं सोम आसूयतेऽभिषूयत इति तादृशः । यद्वा । बहूनि सोमादिहवींषीन्द्रार्थमासूयन्ते हूयन्त इति तादृशः । बोधिन्मनाः । ‘ बुध अवगमने' । औणादिक इतिप्रत्ययः । यस्य मनः स्तोतॄणामभिमतं बुध्यते जानातीति तथोक्तः । इत् अवधारणे। नः अस्माकं बोधिन्मना एव अस्तु । सर्वदास्मदभीप्सितानि जानात्वेवेत्यर्थः । यद्वा । एतादृश इन्द्रो नोऽस्माकं यज्ञे भवत्विति । ततः शक्रः संग्रामे शत्रुहननसमर्थ इन्द्रः आशिषम् अस्मदीयां स्तुतिमाशासनं वा शृणोतु ॥
Much-honoured by libations, may the Vrtra-slayer wake for us:
May Sakra listen to our prayers.
Let him be of attentive mind just toward us—the Vr̥tra-smiter possessing many pressed drinks.
Let the able one listen to our prayer.
Achtsamen Sinnes sei er uns, der Vritra schlägt und viele labt, Der starke höre unser Flehn.
Der Vritratöter sei uns aufmerksamen Sinnes, der viele Tränklein bekommt. Der Mächtige erhöre unsere Bitte.
क᳓या तुवं᳓ न ऊतिया᳓
अभि᳓ प्र᳓ मन्दसे वृषन्
क᳓या स्तोतृ᳓भ्य आ᳓ भर
हे वृषन् कामानां वर्षितरिन्द्र कया केन ऊत्या । अव रक्षणादिषु गत्यर्थे । ऊतियूति' इत्यादिना निपातितः । केनाभिगमनेन नः अस्मान् अभि अभितः प्र मन्दसे प्रकर्षेण मादयसि । अस्मदीयं यज्ञं प्रति सोमपानार्थमागमनेन वा त्वदीयस्तुतिश्रवणार्थमागमनेन वा कदास्मान् प्रमादयसीति । किंच कया केनाभिगमनेन स्तोतृभ्यः अस्मभ्यं धनम् आ भर आबिभर्षीतीन्द्रं स्तोता पृच्छति ॥
O Hero, with that aid dost thou delight us, with what succour bring
Riches to those who worship thee?
(Coming) with what help for us do you reach exhilaration, bull? With what (help) for the pressers? Bring it here!
Mit welcher Hülfe willst du uns erfreuen, o du starker Held? Mit welcher? bring den Sängern sie.
Mit welcher Gunst ziehst du her zu uns, du Bulle, mit welcher willst du den Sängern etwas bringen?
क᳓स्य वृ᳓षा सुते᳓ स᳓चा
नियु᳓त्वान् वृषभो᳓ रणत्
वृत्रहा᳓ सो᳓मपीतये
वृषा इन्द्रः कस्य यजमानस्य सचा सुते ऋग्भिः सहाभिषुते सोमे । अनेन तद्वान् यज्ञो लक्ष्यते । कस्य यज्ञे सोमपीतये सोमपानाय तदर्थं रणत् रमते । कीदृशः । नियुत्वान् । नितरां युवन्ति मिश्रयन्ति स्वबलेन शत्रूनिति नियुतो मरुतः । तद्वान् । यद्वा । नियुत इति वायोर्वाहनाश्वाः । स वायुः कदाचित् संग्राम इन्द्राय स्वाश्वानदात् । तद्वान् । वृषभः धनानामपां वा वर्षकः वृत्रहा वृत्रस्य हन्तेन्द्रः कस्य यज्ञे रमते । इदानीं नोऽस्मदीयं यागं प्रत्यागच्छतु । यद्वा । कस्याध्वरे रमते । न कुत्रापि । किंत्वस्मद्यज्ञ एव सोमपानार्थं संक्रीडते ॥ ॥ २४ ॥
With whose libation joys the Strong, the Hero with his team who quells
The foe, to drink the Soma juice?
In whose pressed soma does the bullish bull with his teams take pleasure, the Vr̥tra-smiter, for soma-drinking?
An wessen Trank mag sich erfreun der Stier mit seinem Vielgespann, Der Vritrafeind zum Somatrunk?
Auf wessen Preßsaft freut sich der riesige Bulle mit dem Niyutgespann, der Vritratöter, um Soma zu trinken?
अभी᳓ षु᳓ णस् तुवं᳓ रयि᳓म्
मन्दसानः᳓ सहस्रि᳓णम्
प्रयन्ता᳓ बोधि दाशु᳓षे
हे इन्र्ो त्वं मन्दसानः अस्माभिर्दत्तेन सोमेन मोदमानः सन् सहस्रिणं सहस्रसंख्याकं धनं नः अस्मभ्यं सु सुष्ठु अभि आभर । तदेवाह । त्वं दाशुषे हविर्दत्तवते यजमानाय प्रयन्ता धनादेः प्रदाता कर्मणो नियन्ता वा भवानीति बोधि बुध्यस्व । ‘बुध अवगमने'। भौवादिकः । लोटि छान्दसो विकरणस्य लुक् । हेर्धिः। धित्वे धकारलोपश्छान्दसः ॥
Rejoicing in thy spirit bring thousandfold opulence to us:
Enrich thy votary with gifts.
On reaching exhilaration, (bring) wealth in thousands to us.
Become a provider to the pious man.
Erfreuten Sinnes reiche bald uns tausendfachen Reichthum dar, Sei Spender dem Verehrenden.
Bring du uns doch ja nach Tausenden zählenden Reichtum, wenn du dich ergötzest; sei dem Opferspender ein Geber!
प᳓त्नीवन्तः सुता᳓ इम᳓
उश᳓न्तो यन्ति वीत᳓ये
अपां᳓ ज᳓ग्मिर् निचुम्पुणः᳓
पत्नीवन्तः । सोमसेकार्थे पत्न्यः पालयित्र्य आपो वसतीवर्य एकधनाश्च । तद्वन्तः सुताः अस्माभिरभिषुताः इमे ग्रहस्थाश्चमसस्थाश्च सोमाः उशन्तः आत्मनः पानं कामयमानाः सन्तः यन्ति इन्द्रं गच्छन्ति । किमर्थम् । वीतये आत्मनः पानाय । किंच निचुम्पुणः । ‘ निचान्तपृणः । (निरु. ५. १७) इति यास्कः । ‘चमु अदने'। निचान्तो भक्षितः पृणः प्रीणयिता । यद्वा । ‘ निचमनेन प्रीणाति' इति भक्षणेन तर्पयतीति निचुम्पुणः । अभिषुतस्य सोमस्याप्सु प्रक्षेपासंभवात् सामर्थ्यादृजीषरूपः सोमो गृह्यते । तादृशः सोमः अपां जग्मिः । अपामिति 'न लोकाव्यय इति षष्ठीप्रतिषेधाभावश्छान्दसः । अप इत्यर्थः । यद्वा । अपां मध्यं वापः प्रति वा जग्मिर्गमनशीलः साधुगन्ता वा । सोमश्चेन्द्रं गच्छति । स ह्यवभृथकाल ऋजीषमप्सु प्रास्यन्तीति वचनादप्स्वृजीषरूपः प्रक्षिप्यते । तदाह अपां जग्मिरिति ।
These juices with their wedded wives flow to enjoyment lovingly:
To waters speeds the restless one.
These pressed drinks here, accompanied by their wives [=waters], go eagerly in pursuit.
Regularly coming, ever filling [?] is (the wave) of the waters.
Mit ihren Weibern gehn voll Lust die Somasäfte zum Genuss, Der Wasserfluten Buhle eilt.
Diese beweibten Somatränke kommen verlangend, dir zur Lust. Er ist der sprudelnde Besucher der Gewässer.
इष्टा᳓ हो᳓त्रा असृक्षत
इ᳓न्द्रं वृधा᳓सो अध्वरे᳓
अ᳓छावभृथ᳓म् ओ᳓जसा
अपां जग्मिरिति सामर्थ्यादवभृथदिन एव ---- र - वि- जः कुर्वन्तीत्युक्तम् । तत्प्रसङ्गादाह । अध्वरे अस्मदीये यज्ञे वृधासः हविर्भिरिन्द्रं वर्धयन्तः इष्टाः इष्टवन्तो यागं कृतवन्तः सप्तसंख्याकाः होत्राः होत्रकाः अवभृथम् अन्त्यदिवसम् अच्छ प्रति ओजसा स्वतेजसा सहिताः इन्द्रम् असृक्षत विसृजन्ति । यावदवभृथं सप्तहोत्रका यजन्तीति ॥
Presented strengthening gifts have sent Indra away at sacrifice,
With might, onto the cleansing bath.
The desirable [/offered] libations, strengthening Indra at the ceremony, have surged
to his down-stroke with their power.
Es strömten Opfergüsse hin, den Indra stärkend bei dem Fest, Ins Läuterungsgefäss mit Macht.
Die dargebrachten Opferspenden haben sich ergossen, den Indra während des Opfers stärkend, hin zu dem Reinigungsbad mit Kraft.
इह᳓ त्या᳓ सधमा᳓दिया
ह᳓री हि᳓रण्यकेशिया
वोळ्हा᳓म् अभि᳓ प्र᳓यो हित᳓म्
एषा व्याख्याता (ऋ. सं. ८. ३२. २९ ) । अत्रापि वाक्यार्थो विधीयते । सधमाद्या इन्द्रेण सह हविर्भिस्तर्पयितव्यौ यद्वा संग्रामे सह माद्यन्तौ हिरण्यकेश्या हिरण्मयस्कन्धगतकेशवन्तौ त्या तौ प्रसिद्धौ हरी हरितवर्णावेतन्नामकावश्वौ इह अस्मिन् यज्ञे हितं - - वादिषु निहितं हितकरं वा प्रयः हवीरूपमन्नमभिलक्ष्य वोळ्हाम् इन्द्रं वहताम् । प्रापयतामिति ॥
These two who share his feast, Bay Steeds with golden manes, shall bring him to
The banquet that is laid for him.
Hither let these two feasting companions, the pair of fallow bays with golden manes,
convey (you) to the pleasure set out (for you).
Es fahre her der Füchse Paar zum Mahl vereint, mit goldnem Haar, Zu dieser aufgetragnen Kost.
Hierher sollen die beiden Kumpane, die goldmähnigen Falben fahren zum vorgesetzten Opferschmaus.
तु᳓भ्यं सो᳓माः सुता᳓ इमे᳓
स्तीर्ण᳓म् बर्हि᳓र् विभावसो
स्तोतृ᳓भ्य इ᳓न्द्रम् आ᳓ वह
हे विभावसो विशेषेण भासमानवसुमन् । यद्वा । विशिष्टा भा विभाः प्रकृष्टदीप्तयः । ता निवसन्त्यत्रेति विभावसुरग्निः । हे तादृशाग्ने तुभ्यं त्वदर्थम् इमे सोमाः सुताः अभिषुताः । तथा बर्हिः स्तीर्णम् । तस्मात् स्तोतृभ्यः अस्मभ्यमस्मदर्थम् इन्द्रं सोमपानार्थम् आ वह आह्वय । यज्ञे प्रति प्रापयेत्यर्थः ॥ ॥ २५ ॥
For thee, O Lord of Light, are shed these Soma-drops, and grass is strewn
Bring Indra to his worshippers.
For you have these soma drinks here been pressed and the ritual grass strewn, o you of radiant goods [=Agni].
Convey Indra hither for the praisers—
Dir sind die Soma's hier gepresst, gestreut der Sitz, o Glänzender, Den Sängern fahr den Indra her.
Für dich sind diese Soma´s ausgepreßt, ist das Barhis ausgelegt, du Glanzvoller. Fahre den Indra zu den Sängern!
आ᳓ ते द᳓क्षं वि᳓ रोचना᳓
द᳓धद् र᳓त्ना वि᳓ दाशु᳓षे
स्तोतृ᳓भ्य इ᳓न्द्रम् अर्चत
ऋषिर्ऋत्विग्यजमानान् प्रत्याह । हे यष्टः दाशुषे इन्द्राय हविर्दत्तवते ते तुभ्यं रोचना रोचनं दीप्यमानं दक्षं बलम् आ आभिमुख्येन वि दधत् इन्द्रो विदधातु । यद्वा । रोचनमिति स्वर्गः । देवतेजसा दीप्तं रोचननामानं लोकं विदधातु । तथा रत्ना रत्नानि च तुभ्यं करोतु ।' डुधाञ् धारणपोषणयोः'। लेटि ‘घोर्लोपो लेटि वा' (पा. सू. ७. ३. ७० ) इत्याकारलोपः । अडागमः । हे स्तोतारः स्तोतृभ्यः इन्द्रविषयस्तोत्रकारिभ्यो युष्मभ्यं च बलरत्नादिकमिन्द्रः कुरुताम्। तस्मात् तम् इन्द्रं यूयम् अर्चत हविर्भिः स्तुतिभिश्च पूजयत ॥
May Indra give thee skill, and lights of heaven, wealth to his votary
And priests who praise him: laud ye him.
(Agni,) as you diffuse your skill through the luminous realms and distribute treasures to the pious man.
(All of you,) recite to Indra for the praisers.
Dir theil er Kraft und Himmelsglanz und Schätze dem Verehrer zu, Den Sängern stimmt den Indra hold.
Ich bringe dir Kraft, indem ich die Lichter, die Kleinode verteile für den Opfernden, für die Sänger. Preiset den Indra!
आ᳓ ते दधामि इन्द्रिय᳓म्
उक्था᳓ वि᳓श्वा शतक्रतो
स्तोतृ᳓भ्य इन्द्र मॄळय+
हे शतक्रतो इन्द्र ते तव इन्द्रियं वीर्यवन्तं सोमं विश्वा उक्था सर्वाणि स्तोत्राणि आ दधामि संपादयामि । हे इन्द्र त्वं स्तोतृभ्यः मृळय सुखय ॥
O Satakratu, wondrous strength and all our lauds I bring to thee:
Be gracious to thy worshippers.
I establish here your Indrian strength and set out all solemn words for you, o you of a hundred resolves.
Be merciful, Indra, to the praisers.
Dir, Indra, bring ich Indrakraft, dir alle meine Sprüche dar, Kraftreicher, sei den Sängern hold.
Ich bringe dir Indrakraft, alle Loblieder, du Ratreicher; sei den Sängern barmherzig, Indra!
भद्र᳓म्-भद्रं न आ᳓ भर
इ᳓षम् ऊ᳓र्जं शतक्रतो
य᳓द् इन्द्र मॄळ᳓यासि+ नः
हे शतक्रतो शतविधकर्मन् शतप्रज्ञ वा इन्द्र भद्रंभद्रं कल्याणतममथ सुखोत्पादकं वा धनं नः अस्मभ्यम् आ भर आसंपादय देहि । तथा इषम् अन्नम् ऊर्जम् अन्नरसं यद्वा बलवदन्नं च देहि । नः अस्मान् यत् यदि मृळयासि सुखयसि तर्हि तद्धनादिकं देहीति । ‘मृड सुखने'। ण्यन्तस्य लेट्याडागमः ॥
Bring to us all things excellent, O Satakratu, food and strength:
For, Indra, thou art kind to us.
2§ O Satakratu, bring to us all blessings, all felicity:
Fbr, Indra, thou art kind to us.
Bring us every good thing, every refreshment and nourishment, o you of a hundred resolves,
when you will show us mercy, Indra.
᳓
O führe Heil auf Heil uns zu, vielwirkender und Speis' und Trank, O sei du, Indra, gnädig uns.
Bring uns alles Gute, Speisegenuß, Stärkung, o Ratreicher, wenn du, Indra, uns barmherzig sein willst!
स᳓ नो वि᳓श्वानि आ᳓ भर
सुविता᳓नि शतक्रतो
य᳓द् इन्द्र मॄळ᳓यासि+ नः
हे शतक्रतो इन्द्र सः पूर्वोक्तलक्षणस्त्वं विश्वानि सर्वाणि सुवितानि । सुष्ठ्वीयते प्राप्यते येष्विति सुवितानि मङ्गलानि । सुपूर्वादेतेः क्ते प्रत्यये उवङादेशः । सर्वानभ्युदयान् नः अस्मभ्यमाहर । हे इन्द्र यदि नः अस्मान् सुखयसि तर्हि धनादिसहितानभ्युदयान् देहीति ॥
स नो॒ विश्वा॒न्या भ॑र सुवि॒तानि॑ शतक्रतो ।
यदि॑न्द्र मृ॒ळया॑सि नः ॥
Bring us all welfare, o you of a hundred resolves,
when you will show us mercy, Indra.
᳓
So bringe, thatenreicher du, uns alles Wohlergehn herbei, O sei du, Indra, gnädig uns.
Bring uns alle Wohlfahrt, o Ratreicher, wenn du, Indra, uns barmherzig sein willst!
तुवा᳓म् इ᳓द् वृत्रहन्तम
सुता᳓वन्तो हवामहे
य᳓द् इन्द्र मॄळ᳓यासि+ नः
हे वृत्रहन्तम अतिशयेन वृत्रस्यापामावरकस्य हन्तरिन्द्र सुतवन्तः अभिषुतसोमवन्तो वयम् । इदवधारणे' । त्वामित् त्वामेव हवामहे । अस्मद्यज्ञमागत्य सोमपानायाह्वयामः । हे इन्द्र नः अस्मान् यदि सुखयसि तर्ह्याह्वयाम इति ॥ ॥ २६ ॥
Bearing the Soma juice we call, best Vrtra-slayer, unto thee:
For, Indra, thou art kind to us.
We who have pressed soma call upon just you, best smiter of Vr̥tra, when you will show us mercy, Indra.
᳓
Ja dich, o Feind vertilgender, dich rufen Soma bringend wir, O sei du, Indra, gnädig uns.
Nur dich, du Erzfeindetöter, rufen wir bei ausgepreßtem Soma, wenn du, Indra, uns barmherzig sein willst!
उ᳓प नो ह᳓रिभिः सुतं᳓
याहि᳓ मदाना᳐म् पते
उ᳓प नो ह᳓रिभिः सुत᳓म्
हे मदानां पते । माद्यन्तेऽनेनेति मदाः सोमाः। ‘मदोऽनुपसर्गे' इति करणेऽप्प्रत्ययः । सोमानां स्वामिन्निन्द्र हरिभिः ‘आ शतेन हरिभिः' (ऋ. सं. २.१८.६ ) इत्यादिषु बहूनामश्वानां श्रुतेरत्रापि शतसहस्रसंख्याकैरश्वैः सह नः अस्माकं यज्ञे सुतम् अभिषुतं सोमम् उप याहि । तत्पानार्थं शीघ्रमायाहि । पुनः उप नः इत्यादरार्थः ॥
Come, Lord of rapturous, joys, to our libation with thy Bay Steeds, come
To our libation with thy Steeds.
Right up to our pressed soma with your fallow bays—drive, o lord of exhilarating drinks—
right up to our pressed soma with your fallow bays.
᳓
O komme mit den Füchsen her, zum Soma, Herr der Tränke du, Mit Füchsen komm zu unserm Trank.
Komm mit den Falben zu unserem Soma, du Herr der Räusche, mit den Falben zu unserem Soma!
द्विता᳓ यो᳓ वृत्रह᳓न्तमो
विद᳓ इ᳓न्द्रः शत᳓क्रतुः
उ᳓प नो ह᳓रिभिः सुत᳓म्
वृत्रहन्तमः अतिशयेन वृत्रस्य हन्ता शतक्रतुः नानाविधकर्मा यः इन्द्रः द्विता द्विधा विदे वृत्रवधादावुग्रकर्मा जगद्रक्षणकाले शान्तकर्मेति द्विप्रकारेण सर्वैर्ज्ञायते । विद ज्ञाने'। कर्मणि विहितस्य तप्रत्ययस्य लोपस्त आत्मनेपदेषु' इति तलोपः । स त्वं हरिभिः सह सुतं सोममुपयाहि ॥
Known as best Vrtra-slayer erst, as Indra Satakratu, come
With Bay Steeds to the juice we shed.
He who is known, now as before, as Indra, best smiter of Vr̥tra, possessing a hundred resolves—
right up to our pressed soma with your fallow bays.
᳓
Der als der Feind vertilgende sich, Indra, reich an Thaten zeigt, Mit Füchsen komm zu unserm Trank.
Der doppelt, als der Erzfeindetöter und als der ratreiche Indra, bekannt ist, komm mit den Falben zu unserem Soma!
त्वं᳓ हि᳓ वृत्रहन्न् एषा᳐म्
पाता᳓ सो᳓माना᳐म् अ᳓सि
उ᳓प नो ह᳓रिभिः सुत᳓म्
हे वृत्रहन् वृत्रस्य पापस्य वा हन्तरिन्द्र । हिशब्दो हेत्वर्थे। यस्मात् त्वम् एषाम् अस्मदीयानां सोमानां पाता पानकर्ता असि भवसि । एषाम् इति इदमोऽन्वादेशे अशोदेशोऽनुदात्तश्च । अतस्त्वम् अश्वैः सह सोमं पातुमुपयाहि आगच्छ ॥
O Vrtra-slayer, thou art he who drinks these drops of Soma: come
With Bay Steeds to the juice we shed.
For you, Vr̥tra-smiter, are the drinker of these soma-drinks—
right up to our pressed soma with your fallow bays.
᳓
Denn du, o Vritratödter, bist's, der diese Somasäfte trinkt, Mit Füchsen komm zu unserm Trank.
Denn du, Vritratöter, bist der Trinker dieser Soma´s; komm mit den Falben zu unserem Soma!
इ᳓न्द्र इषे᳓ ददातु न
ऋभुक्ष᳓णम् ऋभुं᳓ रयि᳓म्
वाजी᳓ ददातु वाजि᳓नम्
इन्द्रः एवास्माभिः स्तुत इष्टः सन् ऋभुक्षणम् । ‘वा षपूर्वस्य' इति दीर्घाभावः । यागादिकर्मकरणेन महान्तं सर्वेषां भ्रातॄणां श्रेष्ठं वा । अथवा तृतीयसवने प्रजापतिसवित्रोर्मध्ये सोमपातृत्वात् महान्तम् । रयिं दातारम् ऋभुं सोमपानेनामर्त्यत्वं प्राप्तं तादृशमेतन्नामकं देवं नः अस्मभ्यम् इषे अन्नार्थं ददातु प्रयच्छतु । तथा वाजी बलवानिन्द्रः वाजिनं बलवन्तमन्नवन्तं वा वाजनामानं कनीयांसं भ्रातरं च अस्माकमन्नलाभाय ददातु ॥ ॥ २७ ॥ ॥ ९ ॥
May Indra give, to aid us, wealth handy that rules the Skilful Ones:
Yea, may the Strong give potent wealth.
Let Indra give us the wealth belonging to craft [/R̥bhu] as the
craftsmaster [/R̥bhukṣan] for our refreshment.
Let the prizewinner give a prizewinner.
Es gebe Indra uns zum Heil, Ribhukschan, Ribhu, Vadscha uns labungsreiches Gut.
Indra soll uns zur Erlabung einen Schatz schenken, der wie Ribhuksan der erste ist, einen Ribhugeschaffenen, der Sieghafte ein sieghaftes Streitroß.