पव॑स्व विश्वचर्षणे॒ऽभि विश्वा॑नि॒ काव्या॑ । सखा॒ सखि॑भ्य॒ ईड्य॑: ॥
पव॑स्व । वि॒श्व॒ऽच॒र्ष॒णे॒ । अ॒भि । विश्वा॑नि । काव्या॑ । सखा॑ । सखि॑ऽभ्यः । ईड्यः॑ ॥
हे विश्वचर्षणे सर्वव्यापित्वेन सर्वस्य द्रष्टर्हे सोम सखा स्तुत्यस्तोतृयष्टृयष्टव्यलक्षणेन संबन्धेन सखिभूतस्त्वम् ईड्यः स्तोतव्यः सन् सखिभ्यः हविष्प्रदानेनोपकारकत्वात् मित्रभूतेभ्योऽस्मभ्यं विश्वानि सर्वाणि काव्या । कवेः कर्माणि काव्यानि । ब्राह्मणादित्वात् ष्यञ्। सर्वाणि स्तोत्राणि अभि लक्षीकृत्य पवस्व आगच्छ॥
“All-seeing (Soma), who are the adorable friend (of the worshippers), flow for (us your) friends towards all (our) hymns of praise.”
FOR holy lore of every sort, flow onward thou whom all men love.
A Friend to be besought by friends.
Purify yourself, you who are common to all the separate peoples,
(surging) toward all products of poetic skill,
a comrade for your comrades, to be reverently invoked.
O riesle, aller Menschen Hort, uns alle Sehergaben her, Ein Freund den Freunden, preisenswerth.
Läutere dich, bei allen Völkern Bekannter, um alle Sehergaben zu gewinnen, als Freund für die Freunde anzurufen.
ताभ्यां॒ विश्व॑स्य राजसि॒ ये प॑वमान॒ धाम॑नी । प्र॒ती॒ची सो॑म त॒स्थतु॑: ॥
ताभ्य॑म् । विश्व॑स्य । रा॒ज॒सि॒ । ये । प॒व॒मा॒न॒ । धाम॑नी॒ इति॑ । प्र॒ती॒ची इति॑ । सो॒म॒ । त॒स्थतुः॑ ॥
हे पवमान दशापवित्रेण पूयमान पुनान वा हे सोम ये धामनी पूर्वपक्षापरपक्षयोर्लतारूपस्य सोमस्य तवैकैकपर्णवृद्धिहासाभ्यां तव स्वभूतौ पूर्वादिपक्षौ । यद्वा ये धामनी नामनी अंशुसोमात्मके अपि प्रतीची त्वदभिमुखं गच्छन्तौ गच्छती वा पक्षौ नामनी वा तस्थतुः उपजग्मतुः ताभ्यां त्वं विश्वस्य सर्वस्य लोकस्य राजसि स्वामी भवसि । पूर्वादिपक्षाभ्यां सर्वलोकस्योपनायकत्वात्तस्य स्वामी भवसि । पृथिव्यामंशुनाम्ना मनुष्याणां सर्वेषामभीप्सितदानेन तस्य लोकस्य द्युलोके देवेभ्यः स्वसुधामयकलादानेन तेषां प्रीणयिता भवसि । देवाः खलु सोमस्यैकैकवृद्धिहासाभ्यां कलाः पिबन्ति ॥
“You, purified Soma, rule the universe by those two halves (of the lunar month) which stand facing you.”
O'er all thou rulest with these Two which, Soma Pavamana, stand,
Turned, as thy stations, hitherward.
From those two you rule over all, self-purifying one—from the two domains [=Heaven and Earth]
that stand facing (each other), o Soma.
Du flammender beherrschst das All durch beide Weltenstätten, die, O Soma, sich einander schaun.
Mit diesen beiden herrschest du über das All, mit den beiden Formen, o Pavamana, die sich uns darbieten, o Soma.
परि॒ धामा॑नि॒ यानि॑ ते॒ त्वं सो॑मासि वि॒श्वत॑: । पव॑मान ऋ॒तुभि॑: कवे ॥
परि॑ । धामा॑नि । यानि॑ । ते॒ । त्वम् । सो॒म॒ । अ॒सि॒ । वि॒श्वतः॑ । पव॑मान । ऋ॒तुऽभिः॑ । क॒वे॒ ॥
हे सोम यस्मात् ते त्वदीयानि धामानि त्वदधीना अहोरात्ररूपाः कालविशेषाः परि भवन्ति सर्वत्र व्याप्तास्तिष्ठन्ति । यद्वा त्वदीयानि धामानि तेजांसि परि वर्तन्ते अत एव हे पवमान पूयमान हे कवे क्रान्तकर्मन हे सोम त्वम् ऋतुभिः वसन्तादिकालविशेषैः सह विश्वतः सर्वतः असि भवसि । अहोरात्रौ यत्र यत्र व्याप्तौ तत्र तत्र वसन्तादिकालोपाधिकः सोमस्तिष्ठति । तयोस्तधीनत्वादित्यर्थः ॥
“Since your splendour abounds, you purified sage, Soma, are everywhere (associated) with the seasons.”
Wise Soma Pavamana, thou encompassest on every side
Thy stations as the seasons come.
The domains that are yours, Soma, you surround entirely
according to the ritual sequences, o self-purifying poet.1294 IX.66
Um alle Stätten, die du hast, o Soma, bist du überall, O Seher, hell zur Opferzeit.
Die Formen, die dir eigen, die umschließest du vollständig zu den rechten Zeiten, o Pavamana, o Seher.
पव॑स्व ज॒नय॒न्निषो॒ऽभि विश्वा॑नि॒ वार्या॑ । सखा॒ सखि॑भ्य ऊ॒तये॑ ॥
पव॑स्व । ज॒नय॑न् । इषः॑ । अ॒भि । विश्वा॑नि । वार्या॑ । सखा॑ । सखि॑ऽभ्यः । ऊ॒तये॑ ॥
हे सोम सखा सखिभूतस्त्वं विश्वानि सर्वाणि वार्या वरणीयान्यस्मत्कृतानि स्तोत्राणि अभि लक्षीकृत्य सखिभ्यः अस्मभ्यम् ऊतये रक्षणाय जीवनाय इषः अन्नानि जनयन् प्रयच्छन् पवस्व आगच्छ । पवतिर्गतिकर्मा ॥
“Soma, who are a friend, do you for the sake of all our desirable (praises) approach genitive rating food for (us your) friends for our support.”
Flow onward, generating food, for precious boons of every kind,
A Friend for friends, to be our help.
Purify yourself, begetting refreshments, (surging) toward all valuables, as a comrade to aid your comrades.
O riesle, zeugend Labetrunk, uns alle Herrlichkeiten her, Ein Freund den Freunden, zum Genuss.
Läutere dich, indem du Labsale schaffst, um alle begehrenswerten Dinge zu gewinnen, als Freund den Freunden zur Hilfe!
तव॑ शु॒क्रासो॑ अ॒र्चयो॑ दि॒वस्पृ॒ष्ठे वि त॑न्वते । प॒वित्रं॑ सोम॒ धाम॑भिः ॥
तव॑ । शु॒क्रासः॑ । अ॒र्चयः॑ । दि॒वः । पृ॒ष्ठे । वि । त॒न्व॒ते॒ । प॒वित्र॑म् । सो॒म॒ । धाम॑ऽभिः ॥
हे सोम शुक्रासः सर्वत्र ज्वलनशीलाः धामभिः तेजोभिः सहितस्य तव स्वभूताः अर्चयः अर्चनीया रश्मयः दिवः द्योतमानस्यादित्यस्य द्युलोकस्य वा पृष्ठे अधरभागे। पृथिव्यामित्यर्थः। पवित्रं पवनसाधनमुदकं वि तन्वते विशेषेण तन्वन्ति विस्तारयन्ति । सर्वत्र कुर्वन्तीत्यर्थः ॥ ॥ ७ ॥
“Soma, the shining rays of you who are accompanied by brilliance, spread the purifying (water) over the surface of heaven.”
Upon the lofty ridge of heaven thy bright rays with their essences,
Soma, spread purifying power.
Yours are the gleaming rays that spread widely on the back of heaven across the filter, Soma, through your domains.
Am Himmelsrücken breiten sich rings deine hellen Strahlen aus Zur Seihe, Soma, nach dem Brauch.
Deine klaren Strahlen breiten am Rücken des Himmels eine Seihe aus durch ihre Eigenschaften, o Soma.
तवे॒मे स॒प्त सिन्ध॑वः प्र॒शिषं॑ सोम सिस्रते । तुभ्यं॑ धावन्ति धे॒नव॑: ॥
तव॑ । इ॒मे । स॒प्त । सिन्ध॑वः । प्र॒ऽशिष॑म् । सो॒म॒ । सि॒स्र॒ते॒ । तुभ्य॑म् । धा॒व॒न्ति॒ । धे॒नवः॑ ॥
सृष्टिकर्तृत्वप्रसङ्गादाह । हे सोम इमे इमाः त्वया सृष्टाः सप्त सप्तसंख्याकाः सिन्धवः स्यन्दमाना गङ्गाद्या नद्यः । यद्वा सप्त सर्पणशीला नद्यः तव प्रशिषं प्रशासनमाज्ञामभि सिस्रते अनुसरन्ति । त्वदाज्ञामनुसृत्य समुद्रं गच्छन्तीत्यर्थः । किंच धेनवः नवप्रसूतिका देवानां हविष्प्रदानेन प्रीणयित्र्यो गावः तुभ्यं त्वदर्थमेवाशिरं प्रयच्छाम इति धावन्ति आगच्छन्ति ।
“These your seven rivers flow, Soma, at your command; the kine hasten to you.”
O Soma, these Seven Rivers flow, as being thine, to give command:
The Streams of milk run forth to thee.
Yours are these seven streams that flow forth to your command, Soma. For you do the milk-cows run.
᳓
Die sieben Ströme rinnen hier auf dein Geheiss, o Soma, hin, Dir strömen milchversehen sie.
Deinem Befehl gehorchend fließen diese sieben Ströme, o Soma; für dich laufen die Milchkühe.
प्र सो॑म याहि॒ धार॑या सु॒त इन्द्रा॑य मत्स॒रः । दधा॑नो॒ अक्षि॑ति॒ श्रव॑: ॥
प्र । स॒म॒ । या॒हि॒ । धार॑या । सु॒तः । इन्द्रा॑य । म॒त्स॒रः । दधा॑नः । अक्षि॑ति । श्रवः॑ ॥
हे सोम अभिषूयमाण देव मत्सरः इन्द्रस्य मदकरस्वं सुतः अस्माभिरभिषुतः सन् इन्द्राय इन्द्रार्थं दशापवित्रान्निर्गतया संततया त्वदीयया धारया द्रोणकलशं प्र याहि प्रकर्षेण प्राप्नुहि । यद्वा । हे सोम सुतोऽभिषुतस्त्वमिन्द्राय मत्सरो मादयितृतमः सन् धारयाग्नौ स्वाहाकारेण पात्रात् पतन्त्या धारया सह त्वमिन्द्रमुपयाहि । कीदृशः । अक्षिति अक्षीणं श्रवः। श्रव इत्यन्ननाम । दधानः अस्मभ्यं प्रयच्छन् प्र याहीति ॥
“Proceed, Soma, in a stream when effused, giving exhilaration to Indra, bestowing (upon us) inexhaustible food.”
Flow onward, Soma in a stream, effused to gladden Indra's heart,
Bringing imperishable fame.
Drive forth, Soma, in a stream, pressed as exhilarating for Indra, establishing for yourself imperishable fame.
O Soma, schreite vor im Strom, zum Rausch für Indra ausgepresst, Erlangend Ruhm, der nie vergeht.
Komm hervor mit deinem Strome, o Soma, für Indra ausgepreßt, berauschend, unvergänglichen Ruhm erwerbend!
समु॑ त्वा धी॒भिर॑स्वरन्हिन्व॒तीः स॒प्त जा॒मय॑: । विप्र॑मा॒जा वि॒वस्व॑तः ॥
सम् । ऊँ॒ इति॑ । त्वा॒ । धी॒भिः । अ॒स्व॒र॒न् । हि॒न्व॒तीः । स॒प्त । जा॒मयः॑ । विप्र॑म् । आ॒जा । वि॒वस्व॑तः ॥
हे सोम हिन्वतीः । लिङ्गव्यत्ययः । हिन्वन्तः स्तुतीः प्रेरयन्तः सप्त सप्तसंख्याकाः जामयः एकस्मिन् यज्ञे कर्मकरणेन परस्परं बन्धुभूता होतृप्रभृतयः सप्त होत्रकाः विवस्वतः देवानां हविष्प्रदानेन परिचरणवतो यजमानस्य आजा आजौ । अजन्ति गच्छन्ति ऋत्विजोऽत्रेत्याजिर्यज्ञः । तस्मिन् विप्रं मेधाविनं पवमानं त्वा त्वामेव धीभिः धीतिभिः स्तुतिभिः सम् अस्वरन् अशब्दयन् अस्तुवन् । यद्वा । हिन्वतीर्गच्छन्त्यः सप्त जामयो गङ्गाद्याः सप्त नद्यो धीभिः । वर्णलोपश्छान्दसः । धीतिभिः अङ्गुलीभिर्विप्रं त्वां समस्वरन् प्रेरयन्ति । वसतीवरीभिरेकधनाभिश्च परिशोधनार्थं प्रेरयन्तीति ॥
“The seven kindred (priests) uttering (praises) and worshipping (the gods with oblations) invoked you the sage at the sacrifice with hymns.”
Driving thee in Vivasvan's course, the Seven Sisters with their hymns
Made melody round thee the Sage.
Together the seven siblings cried out to you, inciting with insightful thoughts
the inspired poet at the contest of Vivasvant.
Die sieben Schwestern rauschten dir entsandt mit den Gebeten zu, Dir Weisem auf Vivasvats Bahn.
Es haben die sieben Schwestern dich mit Kunst anspornend im Chore besungen, dich, den Beredten, im Wettkampf des Vivasvat.
मृ॒जन्ति॑ त्वा॒ सम॒ग्रुवोऽव्ये॑ जी॒रावधि॒ ष्वणि॑ । रे॒भो यद॒ज्यसे॒ वने॑ ॥
मृ॒जन्ति॑ । त्वा॒ । सम् । अ॒ग्रुवः॑ । अव्ये॑ । जी॒रौ । अधि॑ । स्वनि॑ । रे॒भः । यत् । अ॒ज्यसे॑ । वने॑ ॥
हे सोम अग्रुवः । अङ्गुलिनामैतत् । अजन्ति प्रक्षिपन्ति हवींष्यग्नाविति । यद्वा अगेर्गत्यर्थस्य । कर्मकरणार्थमितस्ततो गच्छन्तीति । अग्रुवोऽङ्गुलयोऽस्मदीयाः जीरौ पापानामभिभावुके क्षिप्रं कृते वा स्वनि अधि अधिकं शब्दायमाने अव्ये अविवालेन कृते पवित्रे त्वा त्वां तदा सं मृजन्ति सम्यक् शोधयन्ति । यत् यदा रेभः । ‘ रेभृ शब्दे । उदकमध्ये प्रक्षेपेण शब्दायमानस्त्वं वने वननीये वसतीवर्याख्य उदके अज्यसे अक्तः सिक्तो भवसि । तदा मृजन्तीत्यन्वयः ॥
“The fingers cleanse you in the quickly made loud-sounding (woollen) filter, when with a noise you are sprinkled with the water.”
The virgins deck thee o'er fresh streams to drive thee to the sieve when thou,
A singer, bathest in the wood.
They groom you together, the unwed ones, on the sheep’s *back, in the lively (water),
when, hoarse-voiced [/creaking], you are anointed [/greased] in the wood(en cup).
Es reinigt dich der Jungfraun Schar im Strom, der durch die Wolle rauscht, Wenn man ins Holz dich Sänger führt.
Es putzen dich gemeinsam die Jungfrauen in der Wollseihe im fließenden Wasser unter Gebrause, wenn du, der Barde, in der Holzkufe gesalbt wirst.
पव॑मानस्य ते कवे॒ वाजि॒न्त्सर्गा॑ असृक्षत । अर्व॑न्तो॒ न श्र॑व॒स्यव॑: ॥
पव॑मानस्य । ते॒ । क॒वे॒ । वाजि॑न् । सर्गाः॑ । अ॒सृ॒क्ष॒त॒ । अर्व॑न्तः । न । श्र॒व॒स्यवः॑ ॥
मार्जनप्रसङ्गमाह । हे कवे क्रान्तप्रज्ञ हे वाजिन् अन्नवन् सोम पवमानस्य दशापवित्रेण पूयमानस्य ते तव सर्गाः । सृज्यन्त इति सर्गा धाराः । कीदृशाः । श्रवस्यवः । छन्दसि परेच्छायां क्यच् । यष्टॄणामन्नं कामयमानास्त्वदीया धाराः असृक्षत सृजन्ति । निर्गच्छन्तीत्यर्थः । तत्र दृष्टान्तः । अर्वन्तो न । यथाश्वा मन्दुरातो निर्गच्छन्ति तद्वत् पवित्रान्निःसरन्तीत्यर्थः । प्रयोगापेक्षं चात्र धाराबाहुल्यम् ॥ ॥ ८ ॥
“Sage Soma, possessor of food, your food-desiring streams when you are filtered are let loose like horses.”
The streams of Pavamana, thine, Sage, Mighty One, have pouredthem forth.
Like coursers eager for renown.
Of you purifying yourself, o poet and prizewinner, the surges have surged, like chargers seeking fame.
O Weiser, deine Ströme sind ergossen, rascher, flammender! Wie Renner strebend nach dem Preis,
Du siegreicher Seher, deine Ströme wurden losgelassen wie ehrgeizige Rennpferde, während du dich läuterst.
अच्छा॒ कोशं॑ मधु॒श्चुत॒मसृ॑ग्रं॒ वारे॑ अ॒व्यये॑ । अवा॑वशन्त धी॒तय॑: ॥
अच्छ॑ । कोश॑म् । म॒धु॒ऽश्चुत॑म् । असृ॑ग्रम् । वारे॑ । अ॒व्यये॑ । अवा॑वशन्त । धी॒तयः॑ ॥
धारानिर्गमनप्रसङ्गादभिधीयते । मधुश्चुतं मधुररसस्य च्यावयितारं क्षारयितारं कोशं द्रोणकलशम् अच्छ अभिलक्ष्य अव्यये अविमये अविस्वभूते वा वारे वाले दशापवित्रे असृग्रं सोमा ऋत्विग्भिः सृज्यन्ते । सृजेः कर्मणि तिङां तिङो भवन्ति' इति झो रमादेशः। किंच धीतयः । अङ्गुलिनामैतत् । धयन्ति पिबन्त्याभिरिति । अस्मदीया अङ्गुलयः अवावशन्त तान् सोमान् पुनःपुनर्मार्जनार्थं कामयन्ते ॥
“They are let loose in the woollen filter (to go) towards the honey-dropping vessel; our fingers have desired them.”
They have been poured upon the fleece towards the meath-distilling vat:
The holy songs have sounded forth.
Toward the cask dripping with honey they have surged onto the sheep’s fleece.
The insightful thoughts have bellowed.
᳓
Ergossen durch des Widders Haar zur honigreichen Kufe hin, Und die Gebete schollen laut.
Nach der von Süßigkeit überfließenden Kufe sind sie auf das Schafhaar losgelassen. Laut haben die Gebete geschrieen.
अच्छा॑ समु॒द्रमिन्द॒वोऽस्तं॒ गावो॒ न धे॒नव॑: । अग्म॑न्नृ॒तस्य॒ योनि॒मा ॥
अच्छ॑ । स॒मु॒द्रम् । इन्द॑वः । अस्त॑म् । गावः॑ । न । धे॒नवः॑ । अग्म॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥
इन्दवः क्षरन्तः सोमाः समुद्रं सोमानामेकत्रैव संगमनस्थानं द्रोणकलशम् अच्छ अभि गच्छन्ति । तत्र दृष्टान्तः । धेनवः पयःप्रदानेन जनानां प्रीणयित्र्यो नवप्रसूतिकाः गावः अस्तं गृहं यथाभिगच्छन्ति तद्वत् । किंच ते सोमाः ऋतस्य सत्यभूतस्य यज्ञस्य योनिं स्थानम् आ अग्मन् आभिमुख्येन गच्छन्ति । गमेर्लुङि सिचो लुक्युपधालोपः ॥
“The Soma-juices go to the ocean, as kine to their stall; they go the plural ce of sacrifice.”
Like milch-kine coming home, the drops of Soma juice have reached the lake,
Have reached the place of sacrifice.
Toward the sea have the drops gone, like milk-cows toward home, to the womb of truth.
᳓
Die Indu's sind zum Meere hin wie Kühe heimwärts in den Stall, Gelaufen in des Opfers Schooss.
Zum Meere sind die Säfte gekommen wie die Milchkühe nach Hause, zu ihrem ordnungsgemäßen Platz.
प्र ण॑ इन्दो म॒हे रण॒ आपो॑ अर्षन्ति॒ सिन्ध॑वः । यद्गोभि॑र्वासयि॒ष्यसे॑ ॥
प्र । नः॒ । इ॒न्दो॒ इति॑ । म॒हे । रणे॑ । आपः॑ । अ॒र्ष॒न्ति॒ । सिन्ध॑वः । यत् । गोभिः॑ । वा॒स॒यि॒ष्यसे॑ ॥
हे इन्दो क्षरन् सोम नः अस्माकं स्वभूताय रणे रणाय । रणन्ति स्तुवन्ति देवानत्रेति रणो यज्ञः । अधिकरणे अप् । ङेर्यः' (पा. सू. ७.१.१३) इति न भवति सर्वविधीनां छन्दसि विकल्पितत्वात् । महे महते रणाय यज्ञाय तदर्थं सिन्धवः स्यन्दमानाः आपः वसतीवर्याख्याः सोमसेकार्थं तदा अर्षन्ति प्रगच्छन्ति । यत् यदा त्वं गोभिः गव्यैर्दधिक्षीरादिभिः वासयिष्यसे आच्छाद्यसे मिश्रितो भवसि तदापो गच्छन्तीति ॥
“Indu, the flowing waters hasten to our great sacrifices when you are mixed with the curds and milk.”
O Indu, to our great delight the running waters flow to us,
When thou wilt robe thyself in milk.
For our great joy the waters, the rivers rush forth, o drop,
when you will clothe yourself with cows.
Es eilt voran der Ströme Flut, o Indu, uns zu hoher Lust, Wenn du mit Milch dich kleiden willst.
O Saft, uns zu großer Freude fließen die Flußwasser hervor, wenn du in Kuhmilch gehüllt werden sollst.
अस्य॑ ते स॒ख्ये व॒यमिय॑क्षन्त॒स्त्वोत॑यः । इन्दो॑ सखि॒त्वमु॑श्मसि ॥
अस्य॑ । ते॒ । स॒ख्ये । व॒यम् । इय॑क्षन्तः । त्वाऽऊ॑तयः । इन्दो॒ इति॑ । स॒खि॒ऽत्वम् । उ॒श्म॒सि॒ ॥
हे इन्दो पवमान इयक्षन्तः यष्टुमिच्छन्तः पूजयितुमिच्छन्तो वा अस्य प्रसिद्धस्य ते तव सख्ये सखिकर्मणि स्थिताः वयं त्वोतयः त्वदायत्तरक्षणाः सन्तः सखित्वं सखिभावमेव उश्मसि उश्मः कामयामहे ॥
“Indu, we abiding in your friendship, desiring to sacrifice, depending on your protection, desire your friendship.”
In this thy friendship, and with thee to help us, fain to sacrifice,
Indu, we crave thy friendly love.
Since we are likely to gain in comradeship with you, with you as our help,
we long for comradeship, o drop.
Drum wünschen deine Freundschaft wir verlangend, Indu, unterstützt Von dir in deiner Brüderschaft.
Da wir in deiner Freundschaft mit deiner Hilfe etwas erreichen möchten, so wünschen wir deine Freundschaft, o Saft.
आ प॑वस्व॒ गवि॑ष्टये म॒हे सो॑म नृ॒चक्ष॑से । एन्द्र॑स्य ज॒ठरे॑ विश ॥
आ । पा॒व॒स्व॒ । गोऽइ॑ष्टये । म॒हे । सो॒म॒ । नृ॒ऽचक्ष॑से । आ । इन्द्र॑स्य । ज॒ठरे॑ । वि॒श॒ ॥
हे सोम पवमान गविष्टये अङ्गिरसां गवामन्वेष्ट्रे महे महते नृचक्षसे नॄणां मनुष्याणां द्रष्रेमा कर्मनेतॄणां फलं पश्यते वा इन्द्राय आ पवस्व पात्रेषु दशापवित्रेण पूतो भव । ततः इन्द्रस्य जठरे उदर उदरभूते द्रोणकलशे वा आ विश प्रविश ॥ ॥ ९ ॥
“Flow, Soma, for the mighty cattle-seeker, the beholder of men, enter Indra's belly.”
Flow on, O Soma, for the great Viewer of men, for gain of Idne
Enter thou into Indra's throat.
Purify yourself for the quest for cattle, for the great one of manly eye, o Soma.
Enter here into the belly of Indra.
Ström', Soma, dem begierigen, dem grossen, Männer schauenden, Und dringe ein in Indra's Bauch.
Läutere dich zur Rindererbeutung für den Großen mit dem Herrscherauge, o Soma! Geh ein in Indra´s Bauch!
म॒हाँ अ॑सि सोम॒ ज्येष्ठ॑ उ॒ग्राणा॑मिन्द॒ ओजि॑ष्ठः । युध्वा॒ सञ्छश्व॑ज्जिगेथ ॥
म॒हान् । अ॒सि॒ । सो॒म॒ । ज्येष्ठः॑ । उ॒ग्राणा॑म् । इ॒न्दो॒ इति॑ । ओजि॑ष्ठः । युध्वा॑ । सन् । शश्व॑त् । जि॒गे॒थ॒ ॥
हे सोम त्वं महान् असि यतस्त्वं देवानां प्रीणयितासि खलु। त्वं ज्येष्ठः प्रशस्यतमो भवसि । किंच हे इन्दो पवमान त्वम् उग्राणाम् उद्गूर्णबलानामपि ओजिष्ठः ओजस्वितमो भवसि । त्वं युध्वा सन् शत्रुभिः सह युद्धं कुर्वन्नेव शश्वत् सर्वदा जिगेथ तांस्तेषां धनानि च जितवानसि ।' जि जये'। थलि ‘ सन्लिटोर्जेः' इत्यभ्यासादुत्तरस्य कवर्गादेशः ॥
“Soma, you are great, most worthy to be praised; Indu, (you are) the most vigorous of the mighty; engaged in battle you ever triumph.”
Best art thou, Soma, of the great, Strongest of strong ones, Indu: thou
As Warrior ever hast prevailed.
Great are you, Soma, preeminent, strongest of the strong, o drop. Being a battler, you win every time.
Gross bist, Soma, du, der beste, Indu, und der starken stärkster, Stets bist Sieger du im Kampfe.
Groß bist du, Soma, der Oberste, o Saft, der Gewaltigen Gewaltigster. Als Streiter hast du jedesmal gesiegt.
य उ॒ग्रेभ्य॑श्चि॒दोजी॑या॒ञ्छूरे॑भ्यश्चि॒च्छूर॑तरः । भू॒रि॒दाभ्य॑श्चि॒न्मंही॑यान् ॥
यः । उ॒ग्रेभ्यः॑ । चि॒त् । ओजी॑यान् । शूरे॑भ्यः । चि॒त् । शूर॑ऽतरः । भू॒रि॒ऽदाभ्यः॑ । चि॒त् । मंही॑यान् ॥
यः सोमः उग्रेभ्यश्चित् उद्गूर्णेभ्यो बलवद्भ्योऽपि ओजीयान् ओजस्वितमः । किंच यः शूरेभ्यश्चित् वीरेभ्योऽपि शूरतरः अत्यन्तसमर्थो भवति । तथा यः सोमः भूरिदाभ्यः। ‘डुदाञ् दाने' ।' आतो मनिन्” इति विच् । बहुधनानां दातृभ्योऽपि मंहीयान् दातृतमो भवति । तं त्वां वृणीमह इत्युत्तरेण संबन्धः ॥
“(You) who (are) mightier than the mighty, braver than the brave, more genitive rous than the genitive rous.”
Mightier even than the strong, more valiant even than the brave,
More libpral than the bountiful,
(You,) who are stronger even than the strong, more a champion even than champions,
more generous even than those who give much,
Der du stärker bist als starke, heldenmüth'ger auch als Helden, Mehr verleihst als gabenreiche,
Der gewaltiger noch als die Gewaltigen, tapferer noch als die Tapferen, freigebiger noch als die Vielschenker ist.
त्वं सो॑म॒ सूर॒ एष॑स्तो॒कस्य॑ सा॒ता त॒नूना॑म् । वृ॒णी॒महे॑ स॒ख्याय॑ वृणी॒महे॒ युज्या॑य ॥
त्वम् । सो॒म॒ । सूरः॑ । आ । इषः॑ । तो॒कस्य॑ । सा॒ता । त॒नूना॑म् । वृ॒णी॒महे॑ । स॒ख्याय॑ । वृ॒णी॒महे॑ । युज्या॑य ॥
हे सोम सूरः सुवीर्यः । यद्वा । सर्वस्य यागादिकर्मणि प्रेरकः त्वम् इषः अन्नानि अस्माकम् आ धेहि। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। किंच त्वं तोकस्य पुत्रस्य तनूनाम् । ‘ तन्वन्ति विस्तारयन्ति कुलमिति तन्वः पौत्राः। तेषां च साता दाता भव। ‘षणु दाने'। जनसन' इति विट्। 'जनसन °' इत्यात्वम् । वयं तं त्वां सख्याय सखिभावाय कर्मणे वा वृणीमहे संभजामहे । तथा युज्याय । युज् सहायः । तस्य भावे कर्मणि वा ष्यञ् । संज्ञापूर्वकस्य विधेत्यरनित्वादवृद्धिः । शत्रुवधादिलक्षणसाहाय्याय च वयं वृणीमहे ॥
“You, Soma, who are a hero (bestow) upon (us) food, (be) the giver of sons (to us); we choose you for your friendship, (we choose you) for your alliance.”
Soma, as Sura, bring us food, win offspring of our bodies: we
Elect thee for our friendship, we elect thee for companionship.
You, Soma, are the sun; (bring) refreshments here at the winning of the offspring of our own bodies.
We choose (you) for comradeship; we choose (you) for fellowship.
Soma, du bist Sonne, schenkest Labung uns und unsern Kindern, Dich begehren wir zum Bündniss.
Du Soma stehst uns bei der Gewinnung der Sonne, der Speisegenüsse, der Nachkommenschaft und der eigenen Leiber bei. Wir erküren dich zur Freundschaft, wir erküren dich zur Bundesgenossenschaft.
अग्न॒ आयूं॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुना॑म् ॥
अग्ने॑ । आयूं॑षि । प॒व॒से॒ । आ । सु॒व॒ । ऊर्ज॑म् । इष॑म् । च॒ । नः॒ । आ॒रे । बा॒ध॒स्व॒ । दु॒च्छुना॑म् ॥
हे अग्ने पवमानरूप त्वमस्माकम् आयूंषि जीवनानि पवसे रक्षसि । नः अस्माकम् 'ऊर्जम् अन्नरसम् इषम् अन्नं च आ सुव आभिमुख्येन प्रेरय । किंच दुच्छुनाम् । रक्षोनामैतत् । रक्षांसि आरे अस्मत्तो दूर एव बाधस्व संपीडय ॥
“Agni, you support our lives, send us nutriment and food, drive far off the rākṣasas.”
Agni, thou pourest life; send down upon us food and vigorous strength;
Drive thou misfortune far away,
O Agni, thou purifiest life [7];
Do thou give food and strength to us;
Far away drive ill-fortune.
O Agni, you bring (longer) lifespans through your purification; impel hither nourishment and refreshment to us.
Into the distance thrust misfortune.
Du flammst, o Agni, Leben aus, erzeuge Trank und Speise uns, Das Unheil stosse weit hinweg.
O Agni, du läuterst uns Lebenskraft zu; weise uns Stärkung und Labung zu! Halte das Unheil weit ab!
अ॒ग्निॠषि॒: पव॑मान॒: पाञ्च॑जन्यः पु॒रोहि॑तः । तमी॑महे महाग॒यम् ॥
अ॒ग्निः । ऋषिः॑ । पव॑मानः । पाञ्च॑ऽजन्यः । पु॒रःऽहि॑तः । तम् । ई॒म॒हे॒ । म॒हा॒ऽग॒यम् ॥
पाञ्चजन्यः । निषादपञ्चमाश्चत्वारो वर्णाः पञ्चजनाः। यद्वा । गन्धर्वाः पितरो देवा असुरा रक्षांसीत्येते पञ्चजनाः । अथवा देवमनुष्या गन्धर्वाप्सरसः सर्पाः पितर इति ब्राह्मणेऽभिहिताः पञ्चजनाः। ‘ गम्भीराञ्यः् ' इत्यत्र ‘ बहिर्देवपञ्चजनेभ्य इति वक्तव्यम्' (का. ४. ३. ५८. १ ) इति वचनात् भवार्थे ञ्यप्रत्ययः । तेषां तत्तदभीष्टप्रदानेन स्वभूतः ऋषिः सर्वस्य द्रष्टा पवमानः तद्रूपोऽग्निः पुरोहितः कर्मार्थमृत्विग्भिः पुरो निहितः । तं पूर्वोक्तलक्षणं महागयं महद्भिर्देवादिभिरपि गीर्भिः गातव्यम् । महान्ति प्रभूतानि यज्ञगृहाणि वा यस्य स तथोक्तः । तं पवमानगुणविशिष्टमग्निम् ईमहे धनादीनि याचामहे ॥ ॥ १० ॥
“Agni, the all-beholding, who is in the form of the Pavamāna, the benefactor of the five orders, the preceder at sacrifice; him we solicit, who is hymned by the great.”
Agni is Pavamana, Sage, Chief Priest of all the Races Five:
To him whose wealth is great we pray.
Agni—a seer, self-purifying, belonging to the five peoples, installed in front—
him we beseech for a great household.
᳓
Den Sänger Agni flehn wir an, der flammt, der viele Güter hat, Der fünf Geschlechter Priester ist.
Der sich läuternde Soma ist Agni, der Rishi, der über die fünf Völker gesetzte Vormund. Ihn bitten wir um großen Hausstand.
अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्च॑: सु॒वीर्य॑म् । दध॑द्र॒यिं मयि॒ पोष॑म् ॥
अग्ने॑ । पव॑स्व । सु॒ऽअपाः॑ । अ॒स्मे इति॑ । वर्चः॑ । सु॒ऽवीर्य॑म् । दध॑त् । र॒यिम् । मयि॑ । पोष॑म् ॥
हे अग्ने स्वपाः । ‘सोर्मनसी' इत्युत्तरपदाद्युदात्तत्वम्। शोभनकर्मा त्वम्
अस्मे अस्मासु सुवीर्यं शोभनवीर्योपेतं वर्चः - वर्च दीप्तौ - तेजः पवस्व आगमय ।
तथा भवान् रयिं धनं पुत्रं वा पोषम् । भावे कर्मणि वा घञ् । गवां पुष्टिं यद्वा गवादिकं मयि भवान् दधत् दधातु । करोत्वित्यर्थः । दधातेर्लेट्यडागमः। ‘घोर्लोपो लेटि वा' (पा. सू. ७. ३. ७० ) इत्याकारलोपः ॥
“Agni, who are the doer of good, pour upon us brightness and fair-offspring; may he make me wealth and plural nty.”
Skilled in thy task, O Agni, pour splendour with hero strength on us,
Granting me wealth that nourishes.
O Agni, good worker, purify for us
Glory in good heroes;
Giving increase and wealth to me.
Agni, as a good worker, through your purification bring luster and an abundance of heroes for us,
establishing in me wealth and thriving.
O Agni, flamme uns herbei schönwirkend Glanz und Heldenkraft; Er schenke Gut und Nahrung mir.
O Agni, du der Guteswirker, läutere uns Ansehen und die Meisterschaft herbei, mir Reichtum und Zuwachs bringend!
पव॑मानो॒ अति॒ स्रिधो॒ऽभ्य॑र्षति सुष्टु॒तिम् । सूरो॒ न वि॒श्वद॑र्शतः ॥
पव॑मानः । अति॑ । स्रिधः॑ । अ॒भि । अ॒र्ष॒ति॒ । सु॒ऽस्तु॒तिम् । सूरः॑ । न । वि॒श्वऽद॑र्शतः ॥
पवमानः सोमः अस्रिधः हिंसकान् शत्रूनतिक्रम्य गच्छति । तथा सुष्टुतिं स्तोतॄणां शोभनां स्तुतिम् अभ्यर्षति आभिमुख्येन गच्छति । ‘ऋषी गतौ'। तौदादिकः । ‘बहुलं छन्दसि' इति शप् । गुणः । किंच सूरो न सूर्य इव विश्वदर्शतः सर्वस्य द्रष्टा सर्वैर्वा दर्शनीयो भवति ॥
“The purified (Soma) hastens past the adversaries towards the fair praise of the worshippers, visible to all like the sun.”
Beyond his enemies away to sweet praise Pavamana flows,
Like Surya visible to all.
The self-purifying one rushes across failures toward the lovely
praise hymn,
visible to all like the sun.
᳓
Hinflammend durch der Feinde Schar, ergiesst er sich zum Lobgesang, Der Sonne gleichend, rings zu schaun,
Sich läuternd fließt er über alle Fehler hinweg zu einem schönen Loblied, wie die Sonne allen sichtbar.
स म॑र्मृजा॒न आ॒युभि॒: प्रय॑स्वा॒न्प्रय॑से हि॒तः । इन्दु॒रत्यो॑ विचक्ष॒णः ॥
सः । म॒र्मृ॒जा॒नः । आ॒युऽभिः॑ । प्रय॑स्वान् । प्रय॑से । हि॒तः । इन्दुः॑ । अत्यः॑ । वि॒ऽच॒क्ष॒णः ॥
आयुभिः कर्मनेतृभिर्मनुष्यैः मर्मृजानः पुनःपुनर्मृज्यमानः शोध्यमानः सः इन्दुः स सोमः अत्यः देवान् संततं गन्ता भवति । कीदृशः । प्रयस्वान् प्रीणनशीलान्नवान् । यद्वा । स्तोतृभ्यो देयत्वेनान्नयुक्तः । अत एव प्रयसे हवीरूपायान्नाय हितः विचक्षणः सर्वस्य प्रदर्शनकारी सर्वस्य विद्रष्टा वा सोमो देवानभिगन्ता भवति । ‘चक्षिङ् व्यक्तायां वाचि'। ' अनुदात्तेतश्च हलादेः' इति युच् ॥
“Repeatedly purified by the priests, Indu, abounding with food, plural ced for food, the beholder of all continually goes (to the gods).”
Adorned by living men, set forth for entertainment, rich in food,
Far-sighted Indu is a Steed.
He, being constantly groomed by the Āyus, affording pleasure, is established for pleasure,
the drop, a steed visible afar.
Gereinigt von den eifrigen, zur Labung labungsreich entsandt, Der weise Indu als ein Ross.
Von den Ayu´s geputzt, einen Schmaus bietend, zum Schmause der Götter bestimmt ist der klarsehende Saft, der Renner.
पव॑मान ऋ॒तं बृ॒हच्छु॒क्रं ज्योति॑रजीजनत् । कृ॒ष्णा तमां॑सि॒ जङ्घ॑नत् ॥
पव॑मानः । ऋ॒तम् । बृ॒हत् । शु॒क्रम् । ज्योतिः॑ । अ॒जी॒ज॒न॒त् । कृ॒ष्णा । तमां॑सि । जङ्घ॑नत् ॥
पवमानः ऋतं सत्यं यथार्थभूतं बृहत् प्रभूतं सर्वदेशेषु व्यापकं शुक्रं दीप्यमानं श्वेतवर्णं ज्योतिः तेजः अजीजनत् द्युलोक उदपादयत् । किं कुर्वन् । कृष्णा कृष्णवर्णानि तमांसि जङ्घनत् भृशं विनाशयन् । हन्तेर्यङ्लुकि शतरि रूपम् । ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥
“The purified (Soma) genitive rated the veracious all-pervading bright-shining light, destroying the black darkness.”
He, Pavamana, hath produced the lofty Law, the brilliant light,
Destroying darkness black of hue.
The self-purifying one, as the lofty truth, has begotten the
gleaming light,
continually smashing (back) the black shades of darkness.
Erhabnes Werk hat er erzeugt und helles Licht der flammende, Verjagend schwarze Finsterniss.
Pavamana hat das hohe Gesetz, das helle Licht erschaffen, die schwarze Finsternis vertreibend.
पव॑मानस्य॒ जङ्घ्न॑तो॒ हरे॑श्च॒न्द्रा अ॑सृक्षत । जी॒रा अ॑जि॒रशो॑चिषः ॥
पव॑मानस्य । जङ्घ्न॑तः । हरेः॑ । च॒न्द्राः । अ॒सृ॒क्ष॒त॒ । जी॒राः । अ॒जि॒रऽशो॑चिषः ॥
जङ्घ्नतः पुनःपुनस्तमांसि विनाशयतः हरेः हरितवर्णस्य अजिरशोचिषः सर्वत्र गमनशीलतेजसः पवमानस्य सोमस्य चन्द्राः । ‘चदि आह्लादने । देवानामाह्लादयित्र्यः जीराः क्षिप्रंक्षरणशीला धाराः असृक्षत सृजन्ति । पवित्रान्निर्गच्छन्तीत्यर्थः ॥ ॥ ११ ॥
“The gladsome swift-moving streams of the purified, green-tinted, unfadingly radiant (Soma), the destroyer (of darkness), have been let forth.”
From tawny Pavamana, the Destroyer, radiant streams have sprung,
Quick streams from him whose gleams are swift.
Of the self-purifying one, continually smashing (back the darkness), of the tawny one, the glittering (drops) have surged,
lively ones with flickering radiance.
Ergossen sind des flammenden, des goldnen Kämpfers Ströme schon, Die lichten Flammenfunkelnden.
Des Pavamana, des die Finsternis vertreibenden goldgelben Falben, des Flammen-schießenden schimmernde, rasche Güsse sind losgelassen.
पव॑मानो र॒थीत॑मः शु॒भ्रेभि॑: शु॒भ्रश॑स्तमः । हरि॑श्चन्द्रो म॒रुद्ग॑णः ॥
पव॑मानः । र॒थिऽत॑मः । शु॒भ्रेभिः॑ । शु॒भ्रशः॑ऽतमः । हरि॑ऽचन्द्रः । म॒रुत्ऽग॑णः ॥
पवमानः देवः रथीतमः अतिशयेन रथवान्। 'ईद्रथिनः' ( पा. सू. ८. २. १७, १ ) इति ईकारः । तथा शुभ्रेभिः शोभायुक्तेभ्यस्तेजोभ्योऽपि शुभ्रशस्तमः अत्यन्तदीप्यमानश्च । यद्वा । निर्मलेभ्योऽपि निर्मलतमयशोयुक्तः हरिश्चन्द्रः । ‘ह्रस्वाच्चन्द्रोत्तरपदे ' इति सांहितिकः सुट् । हरितवर्णदीप्तिर्हरितधारावान् वा मरुद्गणः । मरुतो यस्य गणः सहायभूताः स तथोक्तः । तादृशः सर्वांल्लोकान्' स्वरश्मिभिः स्वदीप्तिभिः व्यश्नवत् व्याप्नोत्वित्युत्तरेणान्वयः ॥
“The purified (Soma) possessing many chariots, most radiant with beauteous splendours, having green-tinted streams, attended by the Maruts.”
Best rider of the chariot, praised with fairest praise mid beauteous ones,
Gold-gleaming with the Marut host,
The self-purifying one, the best charioteer, proclaimed as most
resplendent by the resplendent (Maruts),
gold-glittering, with the Maruts as his flock,
Der flammende, bestfahrende, sehr glänzend mit den glänzenden, Marut-umschart, von goldnem Licht,
Pavamana ist der beste Wagenfahrer, über die anderen Schönen als der Schönste gepriesen, der Goldschimmernde, dessen Gefolge die Marut sind.
पव॑मानो॒ व्य॑श्नवद्र॒श्मिभि॑र्वाज॒सात॑मः । दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥
पव॑मानः । वि । अ॒श्न॒व॒त् । र॒श्मिऽभिः॑ । वा॒ज॒ऽसात॑मः । दध॑त् । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥
पवमानः सोमः रश्मिभिः स्वदीप्तिभिः व्यश्नवत् सर्वं जगद्व्याप्नोतु । कीदृशः । वाजसातमः अतिशयेनान्नस्य दाता बलस्य संभक्ता वा । तथा स्तोत्रे पवमानस्तोत्रं कुर्वते मनवे सुवीर्यं सुवीर्योपेतं पुत्रं धनं वा दधत् विदधत् प्रयच्छन् व्याप्नोतु । अश्नोतेर्लेट्यडागमः ॥
“May the purified Soma, the most liberal dispenser of food, pervade (the world) with his rays, granting excellent male offspring to the worshipper.”
May Pavamana, best to win the booty, penetrate with rays,
Giving the singer hero strength.
The self-purifying one will pervade with his rays, the best winner of prizes, establishing for the praiser an abundance of heroes.
Mit seinen Strahlen dringe durch der flammende, der Kraft verleiht, Dem Sänger schenk' er Heldenkraft.
Pavamana möge mit seinen Strahlen durchdringen, der am meisten Siegespreise gewinnt, der dem Sänger die Meisterschaft verleiht.
प्र सु॑वा॒न इन्दु॑रक्षाः प॒वित्र॒मत्य॒व्यय॑म् । पु॒ना॒न इन्दु॒रिन्द्र॒मा ॥
प्र । सु॒वा॒नः । इन्दुः॑ । अ॒क्षा॒रिति॑ । प॒वित्र॑म् । अति॑ । अ॒व्यय॑म् । पु॒ना॒नः । इन्दुः॑ । इन्द्र॑म् । आ ॥
सुवानः अभिषूयमाणः इन्दुः सोमः अव्ययम् अविमयमूर्णास्तुकेन निर्मितं दशापवित्रमतीत्य प्र अक्षाः कलशं प्रति प्रकर्षेण क्षरति । क्षरतेर्लुङि तिपि सिचि छान्दस इडागमाभावः । ‘ अतो र्लान्तस्य' (पा. सू. ७. २. २) इति वृद्धिः। रात्सस्य' इति सिचो लोपः। रेफान्तं स्पष्टयितुमितिकारः । ‘ बहुलं छन्दसि' (पा. सू. ७.३.९७ ) इति ईडभावः । हल्ङ्यादिना तिलोपः । ततः पुनानः पवित्रेण शुद्धः इन्दुः सोमः इन्द्रमा विशति । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥
“Indu when effused drops through the fleecy filter (into the vessel); being filtered Indu (enters) into Indra.”
Over the fleecy sieve hath flowed the drop effused: to Indra comes
Indu while he is purified
Being pressed, the drop has flowed forth across the fleecy filter;
being purified, the drop (has flowed) to Indra.
Gepresst ist Indu vorgeströmt hin durch das wollne Läutrungsnetz, Geklärt zu Indra Indu hin.
Ausgepreßt ist der Saft hervorgeflossen über die Seihe aus Schafwolle; sich läuternd gelangt der Saft zu Indra.
ए॒ष सोमो॒ अधि॑ त्व॒चि गवां॑ क्रीळ॒त्यद्रि॑भिः । इन्द्रं॒ मदा॑य॒ जोहु॑वत् ॥
ए॒षः । सोमः॑ । अधि॑ । त्व॒चि । गवा॑म् । क्री॒ळ॒ति॒ । अद्रि॑ऽभिः । इन्द्र॑म् । मदा॑य । जोहु॑वत् ॥
एषः अंशुरूपः सोमः गवां त्वचि आनडुहचर्मणि । अधिशब्द उपर्यर्थद्योतकः । चर्मण्युपरि अद्रिभिः ग्रावभिः सह क्रीडति अभिषवाय संक्रीडते । किं कुर्वन् । मदाय सोमपानेन मादयितुम् इन्द्रं जोहुवत् भृशमाह्वयन् । एतेन तत्काल इन्द्रविषयां स्तुतिं कुर्वन्तीत्यवगम्यते ॥
“This Soma sports with the stones upon the cowhide, calling Indra for exhilaration.”
This Soma, through the pressing-stones, is sporting on the oxhide, and
Summoning Indra to the draught.
This Soma plays on the hide of cows with the stones,
repeatedly invoking Indra to exhilaration.
᳓
Der Soma hüpft durch Steine nun hernieder auf die Rinderhaut, Den Indra rufend zu dem Rausch.
Dieser Soma spielt mit den Steinen auf der Kuhhaut, den Indra zum Rausche laut ladend.
यस्य॑ ते द्यु॒म्नव॒त्पय॒: पव॑मा॒नाभृ॑तं दि॒वः । तेन॑ नो मृळ जी॒वसे॑ ॥
यस्य॑ । ते॒ । द्यु॒म्नऽव॑त् । पयः॑ । पव॑मान । आऽभृ॑तम् । दि॒वः । तेन॑ । नः॒ । मृ॒ळ॒ । जी॒वसे॑ ॥
हे पवमान पूयमान हे सोम दिवः द्युलोकात् आभृतं श्येनरूपया गायत्र्याहृतं द्युम्नवत् अन्नवत् यशोयुक्तं वा पयः सोमलक्षणमन्नं यस्य ते तव स्वभूतं विद्यते तस्मात्त्वं तेन अन्नेन नः अस्मान् जीवसे चिरजीवनाय मृळ मृळय सुखय ॥ ॥ १२ ॥
“Purified (Soma),bless us with long life by means of that your nutritious milk which has been brought from heaven.”
O Pavamana, bless us, so that we may live, with that bright milk
Of thine which hath been brought from heaven.
You, self-purifying one, whose heaven-bright milk was brought here from heaven,
with it be gracious to us, for us to live.
᳓
Mit deiner Milch, die leuchtend dir, o flammender, vom Himmel kam, Mit der sei hold zum Leben uns.
Du Pavamana, dessen glänzende Milch vom Himmel gebracht wurde, begnade uns damit zum Leben!