इषु॒र्न धन्व॒न्प्रति॑ धीयते म॒तिर्व॒त्सो न मा॒तुरुप॑ स॒र्ज्यूध॑नि । उ॒रुधा॑रेव दुहे॒ अग्र॑ आय॒त्यस्य॑ व्र॒तेष्वपि॒ सोम॑ इष्यते ॥
इषुः॑ । न । धन्व॑न् । प्रति॑ । धी॒य॒ते॒ । म॒तिः । व॒त्सः । न । मा॒तुः । उप॑ । स॒र्जि॒ । ऊर्ध॑नि । उ॒रुधा॑राऽइव । दु॒हे॒ । अग्रे॑ । आ॒ऽय॒ती । अस्य॑ । व्र॒तेषु॑ । अपि॑ । सोमः॑ । इ॒ष्य॒ते॒ ॥
अस्मिन् पवमानरूप इन्द्रे मतिः मननीयास्मदीया स्तुतिः प्रति धीयते अस्माभिर्निधीयते वा। दधाते रूपम्। तत्र दृष्टान्तः । इषुर्न यथेषुः शरः धन्वन् धनुषि प्रति धीयते तद्वत् । किंच ऊधनि सर्वस्य पोषयितृत्वेनोधःस्थानीय इन्द्रे सोमो मदार्थमस्माभिः उप सर्जि उपसृज्यते । कथमिव । मातुः गोः ऊधनि पयोधारके वत्सो न वत्सो यथा पयःपानार्थं सृज्यते तद्वत् । उरुधारेव बहुविधपयोधारा गौरिव अग्रे वत्सस्य पुरतः आयती गच्छन्ती सती पयः दुहे दुग्धे तथा सोऽयमिन्द्रो वत्सभूतेभ्यः स्तोतृभ्यः पुरतो गच्छन् बहुविधान् कामान् दुग्धे। किंच अस्य एतादृशस्य व्रतेष्वपि सोम इष्यते यष्टृभिः प्रेर्यते खलु ॥
“(Our) praise is attached (to Indra) as an arrow to the bow; (the Soma-juice) is let loose to (Indra) the fosterer as a calf to the udder to its mother; (Indra sheds blessings) as a cow having a copious stream of milk yields it when coming into the presence (of the calf); in Indra's sacrifices the Soma is stimulated.”
LAID like an arrow on the bow the hymn hath been loosed like a young calf to the udder of its dam.
As one who cometh first with full stream she is milked the Soma is impelled to this man's holy rites.
Like an arrow on a bow, my thought is aimed. It is released like a calf to the udder of its mother.
Like (a cow) with a broad stream, it gives milk as it comes here in the lead. Under the commandments of this one [=Soma the god], the
soma (juice) is dispatched.
Wie auf den Bogen wird Gebet als Pfeil gelegt, und schmiegt wie an der Mutter Euter sich das Kalb; Wie reichlich strömt die Kuh dem Kalbe, das sie führt, so strömt der Gott, und Soma folget seinem Dienst.
Wie ein Pfeil auf den Bogen wird das Gedicht aufgelegt. Er ward losgelassen wie das Kalb zum Euter der Mutter. Wie eine in breitem Strahle milchende Kuh, die zuerst kommt, wird er gemolken. Zu den Werken dieses ist der Soma erwünscht.
Как стрела в луке, нацеливается молитва.
(Сома) был выпущен, как теленок к вымени матери.
Он доится широким потоком, как (корова,) пришедшая первой.
Сома устремляется к своим обетам.
उपो॑ म॒तिः पृ॒च्यते॑ सि॒च्यते॒ मधु॑ म॒न्द्राज॑नी चोदते अ॒न्तरा॒सनि॑ । पव॑मानः संत॒निः प्र॑घ्न॒तामि॑व॒ मधु॑मान्द्र॒प्सः परि॒ वार॑मर्षति ॥
उपो॒ इति॑ । म॒तिः पृ॒च्यते॑ । सि॒अयते॑ । मधु॑ । म॒न्द्र॒ऽअज॑नी । चो॒द॒ते॒ । अ॒न्तः । आ॒सनि॑ । पव॑मानः । स॒म्ऽत॒निः । प्र॑घ्न॒ताम्ऽइ॑व । मधु॑ऽमान् । द्र॒प्सः । परि॑ । वार॑म् । अ॒र्ष॒ति॒ ॥
अस्मिन् पवमानरूप इन्द्रे मतिः स्तुतिः उपो पृच्यते उपपृच्यते स्तोतृभिः संयोज्यते । ‘ पृची संपर्के'। तथा मधु मदकरः सोमः इन्द्रार्थं सिच्यते अद्भिः यवसक्तुभिश्च सिक्तो भवति । ततश्च मन्द्राजनी। अज गतिक्षेपणयोः' इत्यस्य ल्युटि ङीपि रूपम्। मदकरस्य रसस्य प्रेरयित्री सोमधारा तस्येन्द्रस्य आसनि आस्ये अन्तः मध्ये चोदते यष्टृभिः प्रेर्यते । आस्यशब्दस्य ‘ पद्दन्नोमास्°' इत्यादिना आसन्नित्यादेशः । किंच संतनिः ग्रहादिषु सम्यग्विस्तृतः मधुमान् मदकररसवान् पवमानः पूयमानः सोमः द्रप्सः द्रुतगमनशीलो यद्वा क्षिप्रंहननशीलः सन् वारम् अविवालमयं पवित्रं परितः अर्षति आगच्छति । तत्र दृष्टान्तः । प्रघ्नतामिव । प्रकर्षेण हन्तॄणां योद्धॄणां संतनिः सम्यग्विसृष्टः शरो यथा शीघ्रं प्राप्यमभितो गच्छति तद्वत् ॥
“The praise is united (to Indra); the excellent (Soma) is sprinkled; (the Soma stream) emitting plural asant juice is driven into (Indra's) mouth; the filtered diffused exhilarating swift-flowing (Soma) hastens to the fleece like the arrow of the combatants.”
The thought is deeply fixed; the savoury juice is shed; the tongue with joyous sound is stirring in the mouth;
And Pavamana, like the shout of combatants, the drop rising in sweet juice, is flowing through the fleece.
And while my thought is being engorged, the honey is poured. The gladdening goad [=tongue] bestirs itself within the mouth.
The self-purifying one is a thundering, like (the thundering) of beaters. The honeyed drop rushes round the fleece.
Der Meth ergiesst sich, das Gebet wird zugemischt und regt sich lieblich tönend in des Sängers Mund, Und wie der Lärm der Kämpfenden, so rauscht der Trank, der honigsüsse, flammende zur Wolle hin.
Während die Dichtung befruchtet wird, wird der Süßtrank eingegossen. Die wohlklingende Peitsche wird im Munde scharf gemacht. Der sich läuternde Soma gleicht dem taktmäßigen Tone der Trommelschläger. Der süße Tropfen umkreist die Haarseihe.
(Пока) молитва оплодотворяется, льется мед (сомы).
Радостно звучащий бич возбуждается в устах.
Павамана – словно музыка бьющих (в барабаны).
Сладкая капля течет через сито.
अव्ये॑ वधू॒युः प॑वते॒ परि॑ त्व॒चि श्र॑थ्नी॒ते न॒प्तीरदि॑तेॠ॒तं य॒ते । हरि॑रक्रान्यज॒तः सं॑य॒तो मदो॑ नृ॒म्णा शिशा॑नो महि॒षो न शो॑भते ॥
अव्ये॑ । व॒धू॒ऽयुः । प॒व॒ते॒ । परि॑ । त्व॒चि । श्र॒थ्नी॒ते । न॒प्तीः । अदि॑तेः । ऋ॒तम् । य॒ते । हरिः॑ । अ॒क्रा॒न् । य॒ज॒तः । स॒म्ऽय॒तः । मदः॑ । नृ॒म्ना । शिशा॑नः । म॒हि॒षः । न । शो॒भ॒ते॒ ॥
वधूयुः । वधूभूता वसतीवर्य एकधनासहिता आपः । तद्वान् सोमः अव्ये अवेः स्वभूते त्वचि चर्मणि परि पवते परितो वर्तते पूतो भवति वा । किंच नप्तीः नप्त्रीः । नप्तृशब्दश्चतुर्थापत्यवाची । सोमस्य नप्त्रीः । सोमो ह्योषधीनामग्रे रेतो निषिञ्चति । ‘प्रजापते रेतो देवा देवानां रेतो वर्षं वर्षस्य रेत ओषधयः' (ऐ. आ. २.१.३ ) इति श्रुतेः । यद्वा । नप्तृशब्दोऽपत्यवाची । तस्यापत्यानि । सोमः सुधामयैः स्वकिरणैरोषधीर्वर्धयति । तस्मादपत्यभूताः। अदितेः। पृथिवीनामैतत् । अदीनायाः पृथिव्या उत्पन्ना ओषधीः ऋतं सत्यरूपं यज्ञं यते गच्छते यजमानाय श्रथ्नीते अग्रभागे फलिनीः कर्तुं विश्लेषयति । किंच हरिः हरितवर्णः यजतः सर्वैर्यष्टव्यः अत एव संयतः ग्रहादिषु संगृहीतः मदः। माद्यत्यनेनेति मदः सोमः । तादृशः अक्रान् क्रामति । पात्रेष्ववतिष्ठते । यद्वा । शत्रूनतिक्रामति । क्रमेर्लुङि तिपि ‘बहुलं छन्दसि' इति इडागमाभावाद्वृद्धौ कृतायां सिज्लोपे सति हल्ङ्यादिना तिपो लोपे ‘मो नो धातोः' इति नत्वे कृते रूपम् । अत एव सोमः नृम्णा स्वबलानि शिशानः तीक्ष्णीकुर्वन् । अथवा शत्रुबलानि तनूकुर्वन् । महिषो न । महन्नामैतत् । महानिव सर्वत्र व्याप्त इव शोभते स्वतेजसा सर्वत्र दीप्यते । यद्वा । नः संप्रत्यर्थे । इदानीमेवंगुणयुक्तो महान् सोमः शोभत इति ॥
“(Soma) seeking his spouse is filtered in the sheep-skin; he separates his grand-daughter on the earth for the sacrificer; green-tinted, adorable, collected (in the ladles), exhilarating, he overcomes (his foes); sharpening his vigour he shines like one of might.”
He flows about the sheep-skin, longing for a bride: he looses Aditi's Daughters for the worshipper.
The sacred drink hath come, gold-tinted, well-restrained: like a strong Bull he shines, whetting his manly might.
Seeking his wives, he purifies himself all around in the fleece and upon the hide. The granddaughter of Aditi loosens (her garment [=shoots of the soma plant]) for him who goes to truth.
The tawny one [/fallow bay], held fast, has whinnied—the sacrificial exhilarating drink. Sharpening his own manly powers, like a buffalo, he beautifies himself.
Die Braut begehrend strömt er zu dem Widderfell, Aditi's Tochter folgt ihm, wenn zum Ziel er geht, Der hehre Goldhengst wiehert, der gelenkte Trank, die Kräfte wetzend wie ein Büffel leuchtet er.
Der Weiberlüsterne läutert sich in der Wollseihe auf dem Felle. Der Aditi Enkelin löste ihr Gewand für ihn, der den rechten Weg geht. Der Falbe wieherte, festgezügelt, der opferwürdige Rauschtrank. Seine Kräfte schärfend wie ein Büffel nimmt er sich stattlich aus.
Жаждущий женщин очищается (в сите) из овечьей шерсти вокруг шкуры.
Снимает с себя (одежду) внучка Адити для движущегося по закону.
Золотистый заржал, крепко взятый под узды, достойный жертв пьянящий напиток.
Оттачивая (свои) мужские силы, он прекрасен, как буйвол.
उ॒क्षा मि॑माति॒ प्रति॑ यन्ति धे॒नवो॑ दे॒वस्य॑ दे॒वीरुप॑ यन्ति निष्कृ॒तम् । अत्य॑क्रमी॒दर्जु॑नं॒ वार॑म॒व्यय॒मत्कं॒ न नि॒क्तं परि॒ सोमो॑ अव्यत ॥
उ॒क्षा । मि॒मा॒ति॒ । प्रति॑ । य॒न्ति॒ । धे॒नवः॑ । दे॒वस्य॑ । दे॒वीः । उप॑ । य॒न्ति॒ । निः॒ऽकृ॒तम् । अति॑ । अ॒क्र॒मी॒त् । अर्जु॑नम् । वार॑म् । अ॒व्यय॑म् । अत्क॑म् । न । नि॒क्तम् । परि॑ । सोमः॑ । अ॒व्य॒त॒ ॥
उक्षा रेतसः सेक्ता वृषभः पुरतः मिमाति शब्दायते । 'माङ् माने शब्दे च ' । तं वृषभं धेनवः गावः प्रति यन्ति अनुगच्छन्ति । तथा देवस्य द्योतमानस्य निष्कृतं संस्कृतं स्थानं देवीः देव्यः उप यन्ति उपगच्छन्ति । अनेनार्धेन सोमस्तुतिश्चाभिधीयते । सोमः सन् द्रोणकलशाभिगमनकाले शब्दं करोति। तमनु धेनवः प्रीणयित्र्यः स्तुतयः पारियन्ति देवस्य स्थानं स्तुतयोऽभिगच्छन्ति । तथा सोऽयं सोमः अर्जुनं श्वेतवर्णम् अव्ययम् अविमयमविस्वभूतं वारं वालं पवित्रम् अत्यक्रमीत् अतिक्रामति । अतिक्रम्य पात्राणि गच्छतीत्यर्थः । किंच सोमः अत्कं न आत्मीयं कवचमिव निक्तम् उज्ज्वलं श्रयणद्रव्यं परि अव्यत परितः संवृणोति ॥
“The bull lows, the cows flow around him; the divine (praises) gather round the station of the radiant (Soma); Soma passes through the white sheep-skin; he clothes himself with it as it were a burnished armouṛ ”
The Bull is bellowing; the Cows are coming nigh: the Goddesses approach the God's own resting-place.
Onward hath Soma passed through the sheep's fair bright fleece, and hath, as 'twere, endued a garment newly washed.
The bull bellows, and the milk-cows go in response. The goddesses go to their rendezvous with the god.
He has stridden beyond the silvery sheep’s fleece. Soma has wrapped himself in (milk) as if in a freshly washed cloak.
Es brüllt der Stier, die Kühe gehn entgegen ihm, zum Stelldichein des Gottes gehn die Göttinnen; Er schreitet durch des Widders weisse Wolle hin, wie mit gewaschnem Kleide hüllt sich Soma ein.
Es brüllt der Stier, die Kühe kommen entgegen; die Göttlichen kommen zum Treffort des Gottes. Er hat das weißfarbige Schafhaar überschritten. Soma hat sich wie ein frischgewaschenes Gewand in die Milch gehüllt.
Бык ревет; дойные коровы идут навстречу;
Богини направляются на свидание с богом.
Он перешагнул через белое сито из овечьей шерсти.
Словно в свежевыстиранное одеяние, облачился сома (в молоко).
अमृ॑क्तेन॒ रुश॑ता॒ वास॑सा॒ हरि॒रम॑र्त्यो निर्णिजा॒नः परि॑ व्यत । दि॒वस्पृ॒ष्ठं ब॒र्हणा॑ नि॒र्णिजे॑ कृतोप॒स्तर॑णं च॒म्वो॑र्नभ॒स्मय॑म् ॥
अमृ॑क्तेन । रुश॑ता । वास॑सा । हरिः॑ । अम॑र्त्यः । निः॒ऽनि॒जा॒नः । परि॑ । व्य॒त॒ । दि॒वः । पृ॒ष्ठम् । ब॒र्हणा॑ । निः॒ऽनिजे॑ । कृ॒त॒ । उ॒प॒ऽस्तर॑णम् । च॒म्वोः॑ । न॒भ॒स्मय॑म् ॥
अमर्त्यः मनुष्यधर्मरहितः हरिः हरितवर्णः सोमः निर्णिजानः उदकेन शोध्यमानः सन् अमृक्तेन । ‘मृजी शौचालंकारयोः' । अनिर्णिक्तेनापि रुशता स्वतः शुक्लवर्णेन पयोरूपेण वाससा परि व्यत परित आच्छादयति । सोमे परिपूते गव्येन पयसा मिश्रीकुर्वन्ति खलु । तदुच्यते । ततः सोऽयं सोमः दिवः द्युलोकस्य पृष्ठं पृष्ठभागे तिष्ठन्तमादित्यं बर्हणा बर्हणाय पापानामुद्यमनकारिणे पापनाशिने निर्निजे निर्नेजनाय परिपवनाय कृत द्युलोकेऽकार्षीत् । स हि स्वदीप्त्या सर्वं निर्णेक्ति । कृत । कृणोतेर्लुङि ‘ह्रस्वात्' इति सिचो लोपः । तदेवाह । चम्वोः । द्यावापृथिवीनामैतत् । चमन्ति भक्षयन्त्यत्र देवा मनुष्या इति । तयोः उपस्तरणम् आच्छादनशीलं नभस्मयम् आदित्यमयमादित्यस्य स्वभूतं तेजश्च सर्वेषां निर्णेजनाय अकार्षीत् ॥ ॥ २१ ॥
“The immortal green-tinted Soma when purified is arranged in an uncleaned shining vestment; he ahs created (Āditya) who stands on the back of the sky for the destruction (of sin) and purification, (and has created) Āditya's brilliance, the cover of the two worlds.”
The golden-hued, Immortal, newly bathed, puts on a brightly shining vesture that is never harmed.
He made the ridge of heaven to be his radiant robe, by sprinkling of the bowls from moisture of the sky.
Being arrayed, the immortal tawny one has wrapped himself with an unworn, gleaming garment.
With his might he has made the back of heaven for his raiment and an underlayer made of cloud in the two cups.
Mit unversehrtem, glänzendem Gewand umhüllt sich schön geschmückt der goldene Unsterbliche; Macht prächtig sich des Himmels Höh zum Schmuckgewand, zur wasserreichen Decke in dem Schalenpaar.
Mit neuem weißen Kleide hat sich der unsterbliche Falbe umhüllt, wenn er reingewaschen wird. Des Himmels Rücken macht er sich im Überschwang zum Festgewand, in den beiden Camu´s eine aus Wolken bestehende Unterlage.
В новую сверкающую одежду золотистый
Бессмертный облачается, когда его украшают.
(Своею) мощью он приспособил себе спину неба для украшения.
Подстилку, состоящую из облаков, для обеих чаш.
सूर्य॑स्येव र॒श्मयो॑ द्रावयि॒त्नवो॑ मत्स॒रास॑: प्र॒सुप॑: सा॒कमी॑रते । तन्तुं॑ त॒तं परि॒ सर्गा॑स आ॒शवो॒ नेन्द्रा॑दृ॒ते प॑वते॒ धाम॒ किं च॒न ॥
सूर्य॑स्यऽइव । र॒श्मयः॑ । द्र॒व॒यि॒त्नवः॑ । म॒त्स॒रासः॑ । प्र॒ऽसुपः॑ । सा॒कम् । ई॒र॒ते॒ । तन्तु॑म् । त॒तम् । परि॑ । सर्गा॑सः । आ॒शवः॑ । न । इन्द्रा॑त् । ऋ॒ते । प॒व॒ते॒ । धाम॑ । किम् । च॒न ॥
सूर्यस्य रश्मयः सर्वस्य प्रेरकस्य सुवीर्यस्य वादित्यस्य रश्मयः सर्वतो व्यापकाः किरणाः इव द्रावयित्नवः सर्वत्रद्रवणशीलाः मत्सरासः मदकराः प्रसुपः शत्रूणां प्रस्वापका हन्तारः आशवः ग्रहेषु चमसेषु च व्याप्ताः सर्गासः सृज्यमानाः सोमाः ततं विस्तृतं तन्तुं तन्तुभिः कृतं वस्त्रं साकं सह युगपत् परि ईरते परितो गच्छन्ति । ते सोमाः इन्द्रादृते इन्द्रं वर्जयित्वा अन्यत् किं चन धाम देवशरीरं लक्षीकृत्य न पवते न गच्छति। एकवचनं छान्दसम् । न गच्छन्ति । किंत्विन्द्रस्यैव धाम प्रति गच्छन्ति । इन्द्रस्य धाम्नो यष्टव्यत्वं च ' अयाळिन्द्रस्य प्रिया धामानि ' (वा. सं. २१.४७ ) इति मन्त्रवर्णादवगम्यते ॥
“The rushing exhilarating foe-slaying Soma-juices when let loose flow together round the extended cloth like the sun's rays; they flow to no other person n except Indra.”
Even as the beams of Surya, urging men to speed, that cheer and send to sleep, together rush they forth,
These swift outpourings in long course of holy rites: no form save only Indra shows itself so pure.
Like the rays of the sun that set sleepers in motion, the exhilarating (soma juices) arise all at once from sleep.
The swift surges (surge) around the stretched string [=filter]. But
without Indra he [=Soma] does not purify any domain of his.
So wie in schnellem Lauf der Sonne Strahlen, gehn zusammen die berauschenden, befruchtenden, Die schnellen Ströme durch das ausgespannte Netz; zu keiner andern Stätte als zu Indra rieselt er.
Gleich den Sonnenstrahlen, die die Schläfer auf die Beine bringen, kommen die berauschenden Säfte auf einmal hervor. Die raschen Güsse umkreisen den ausge-spannten Faden. Ohne Indra läutert sich kein Ding.
Как лучи солнца заставляют убегать
Заснувших, (так) пьянящие соки сразу приходят в движение.
Быстрые потоки (мчатся) вокруг протянутой нити.
Без Индры не очищается никакая формы (сомы).
सिन्धो॑रिव प्रव॒णे नि॒म्न आ॒शवो॒ वृष॑च्युता॒ मदा॑सो गा॒तुमा॑शत । शं नो॑ निवे॒शे द्वि॒पदे॒ चतु॑ष्पदे॒ऽस्मे वाजा॑: सोम तिष्ठन्तु कृ॒ष्टय॑: ॥
सिन्धोः॑ऽइव । प्र॒व॒णे । नि॒म्ने । आ॒शवः॑ । वृष॑ऽच्युताः । मदा॑सः । गा॒तुम् । आ॒श॒त॒ । शम् । नः॒ । नि॒ऽवे॒शे । द्वि॒ऽपदे॑ । चतुः॑ऽपदे । अ॒स्मे इति॑ । वाजाः॑ । सो॒म॒ । ति॒ष्ठ॒न्तु॒ । कृ॒ष्टयः॑ ॥
वृषच्युताः । वृष हिंसासंक्लेशनदानेष्वपि । वृषभिः सोमस्य दातृभिर्ऋत्विग्भिश्युनदताः परिस्रुताः मदासः मदकारिणः सोमाः स्तुतिभिः प्राप्तव्य इन्द्रे गातुं गमनम् आशत प्राप्नुवन्ति । तत्र दृष्टान्तः । सिन्धोरिव प्रवणे । प्रगच्छन्त्युदकानि यत्रेति तत्प्रवणम् । तस्मिन् निम्ने स्थले सिन्धोर्नद्याः आशवः व्याप्ता आपो यथा गच्छन्ति तद्वत् । अथ प्रत्यक्षः। हे सोम नः अस्माकं निवेशे स्वगृहं प्रति प्रवेशने निर्गमने वा द्विपदे पुत्रादिकाय चतुष्पदे गवादिकाय पशवे शं सुखं कुरु । किंच हे सोम अस्मे अस्मासु वाजाः अन्नानि कृष्टयः पुत्रादिकाः प्रजाश्च तिष्ठन्तु । अन्नादिकं देहीत्यर्थः ॥
“The exhilarating (Soma-juices) poured forth by the sprinklers effect their way to Indra as in a waterfall of a river the percvading (waters find their way) to dry ground; bless on our return our two-footed and four-footed things; may food and offspring ever abide with us.”
As down the steep slope of a river to the vale, drawn from the Steer the swift strong draughts have found a way.
Well be it with the men and cattle in our home. May powers, O Soma, may the people stay with us.
As at the forward plunge of a river toward the deep, the swift
exhilarating drinks, roused by bulls, have achieved their course.
Weal (be) for our two-footed and our four-footed at their homecoming. Let prizes and peoples stand by us, Soma.
Die schnellen Tränke haben wie in Stromes Sturz, die stiergepressten, ihren Lauf ins Thal vollbracht, Zum Heil den Menschen und dem Vieh in unserm Haus; lass Leut' und Nahrung, Soma, uns zu Diensten stehn.
Wie im Gefäll des Stromes die Gewässer abwärts, so haben die raschen Rauschtränke, von den Bullen geschüttelt, ihren Weg genommen. Heil sei unseren Zwei- und Vierfüßlern bei ihrer Heimkehr! Auf unserer Seite sollen die Siegerpreise, die Völker stehen, o Soma!
Словно быстрые (воды) в отлогой низине реки,
Пьянящие соки, взбаламученные быками, нашли выход.
Благо нашим двуногим (и) четвероногим при возвращении (домой)!
На нашей стороне пусть будут, о сома, награды (и) народы.
आ न॑: पवस्व॒ वसु॑म॒द्धिर॑ण्यव॒दश्वा॑व॒द्गोम॒द्यव॑मत्सु॒वीर्य॑म् । यू॒यं हि सो॑म पि॒तरो॒ मम॒ स्थन॑ दि॒वो मू॒र्धान॒: प्रस्थि॑ता वय॒स्कृत॑: ॥
आ । नः॒ । प॒व॒स्व॒ । वसु॑ऽमत् । हिर॑ण्यऽवत् । अश्व॑ऽवत् । गोऽम॑त् । यव॑ऽमत् । सु॒ऽवीर्य॑म् । यू॒यम् । हि । सो॒म॒ । पि॒तरः॑ । मम॑ । स्थन॑ । दि॒वः । मू॒र्धानः॑ । प्रऽस्थि॑ताः । व॒यः॒ऽकृतः॑ ॥
हे सोम त्वं वसुमत् वसुयुक्तं हिरण्यवत् कनकादिसहितम् अश्ववत् गोमत् गवाश्वसहितं यवमत् । यवो नाम धान्यविशेषः। धान्यविशिष्टं सुवीर्यं शोभनवीर्योपेतं धनं नः अस्मभ्यम् आ पवस्व आप्रापय । प्रयच्छेति यावत् । किंच हे सोम यतस्त्वं मम पितॄणामङ्गिरसामपि पितासि ततो यूयम् एव मम पितरः स्थन भवथ । पितृबहुत्वमत्र सोमस्याभिधीयते । कीदृशाः । दिवः द्युलोकस्य मूर्धानः मूर्धवदुच्छ्रिताः । कर्मभिः स्वर्गादिकमलभन्तेत्यर्थः । प्रस्थिताः सर्वदा कर्मकरणार्थं स्थिताः वयस्कृतः हवीरूपस्यान्नस्य कर्तारः । तादृशा मम पितरस्त्वं भवसि । ।
“Pour upon us (wealth) comprising treasure, gold, horses, cattle, barley, and excellent male offspring; you, Soma are my progenitors, the chiefs of heaven, plural ced (for sacrificial), the offerers of oblation.”
Pour out upon us wealth in goods, in gold, in steeds, in cattle and in corn, and great heroic strength.
Ye, Soma, are my Fathers, lifted up on high as heads of heaven and makers of the strength of life.
By purifying yourself bring (wealth) in goods and gold, in horses, cows, and barley, and an abundance of good heroes,
for you (soma-juices), o Soma, are my fathers, the heads of heaven, set forth as creators of vitality for me.
O ströme hell uns Reichthum zu an Gut und Gold, an Ross und Rind, Getreidevorrath, Heldenkraft, Denn ihr, o Soma's, seid als Väter mir gesetzt, und als des Himmels Häupter, schaffend Jugendkraft.
Läutere uns Besitz von Gut, Gold, Rossen, Rindern, von Korn und die Meisterschaft zu, denn ihr, o Soma, seid meine Väter, als die Häupter des Himmels erhoben, Kraft verleihend!
Очищаясь, принеси нам владение добром, золотом,
Конями, коровами, ячменем, обилие прекрасных мужей!
Ведь вы, о сома, – отцы мои,
Поднятые головы неба, создающие телесную силу!
ए॒ते सोमा॒: पव॑मानास॒ इन्द्रं॒ रथा॑ इव॒ प्र य॑युः सा॒तिमच्छ॑ । सु॒ताः प॒वित्र॒मति॑ य॒न्त्यव्यं॑ हि॒त्वी व॒व्रिं ह॒रितो॑ वृ॒ष्टिमच्छ॑ ॥
ए॒ते । सोमाः॑ । पव॑मानासः । इन्द्र॑म् । रथाः॑ऽइव । प्र । य॒युः॒ । सा॒तिम् । अच्छ॑ । सु॒ताः । प॒वित्र॑म् । अति॑ । य॒न्ति॒ । अव्य॑म् । हि॒त्वी । व॒व्रिम् । ह॒रितः॑ । वृ॒ष्टिम् । अच्छ॑ ॥
पवमानासः पवित्रेण पूयमानाः एते अस्मदीयाः सोमाः सातिम् । ‘षण संभक्तौ । कर्मणि क्तिन् । सर्वैः संभजनीयम् इन्द्रम् अच्छ प्र ययुः प्रकर्षेण गच्छन्ति । तत्र दृष्टान्तः । रथाइव । इन्द्रस्य रथा यथा सातिम् । ‘षो अन्तकर्मणि' । ऊतियूति' इत्यादिना निपातितः । सीयते म्रियतेऽस्मिन्निति सातिः संग्रामः । तमच्छ तं प्रति प्रगच्छन्ति तद्वत् । किंच सुताः ग्रावभिरभिषुताः सोमाः अव्यम् अविवालभवं पवित्रम् अति यन्ति अतीत्य गच्छन्ति । तेऽमी हरितः हरितवर्णा अश्वाः । यद्वा । हरितस्त आदित्यवाहनरूपा अश्वा भूत्वा । वव्रिम् । वृणोति शरीरमिति वव्रिर्जरा । ‘ आदृगमहन इति किप्रत्ययः । सर्वाङ्गव्यापिनीं जरां हित्वी हित्वा तरुणाः सन्तः वृष्टिमच्छ वृष्टिं गमयितुं गच्छन्ति । हित्वी। ‘जहातेश्च क्त्वि' (पा. सू. ७.४. ४३ ) इति ह्यादेशः । ‘ स्नात्व्यादयश्च' इति छन्दसि निपातितम् ॥
“These filtered Soma-juices advance to Indra worthy of honour, as (Indra's) chariots advance to battle; expressed (with the stones) they pass through the woollen filter, casting off infirmity the horses go towards the rain.”
These Pavamanas here, these drops of Soma, to Indra have sped forth like cars to booty.
Effused, they pass the cleansing fleece, while, gold-hued, they cast their covering off to pour the rain down.
These self-purifying soma juices have gone forth to Indra, like chariots to a win.
Pressed, the tawny ones go beyond the ovine filter, having left behind their cover, to the rain.
Zu Indra eilten diese Somatränke, die flammenden, wie Wagen hin zur Beute, Durchs wollne Sieb hin gehen die gepressten aufs Regnen aus, die goldnen aus der Decke.
Diese sich läuternden Soma´s sind zu Indra wie die Wagen zum Siegesgewinn ausgezogen. Ausgepreßt gehen sie über die Seihe aus Schafwolle, indem sie ihre Hülle zurücklassen, zum Regen, die falben Stuten.
Эти сомы-Паваманы устремились
К Индре, словно колесницы для захвата.
Выжатые, они проходят через цедилку из овечьей шерсти,
Золотистые, оставив (свою) оболочку ради дождя.
इन्द॒विन्द्रा॑य बृह॒ते प॑वस्व सुमृळी॒को अ॑नव॒द्यो रि॒शादा॑: । भरा॑ च॒न्द्राणि॑ गृण॒ते वसू॑नि दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥
इन्दो॒ इति॑ । इन्द्रा॑य । बृ॒ह॒ते । प॒व॒स्व॒ । सु॒ऽमृ॒ळी॒कः । अ॒न॒व॒द्यः । रि॒शादाः॑ । भर॑ । च॒न्द्राणि॑ । गृ॒ण॒ते । वसू॑नि । दे॒वैः । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । प्र । अ॒व॒त॒म् । नः॒ ॥
हे इन्दो सोम त्वं बृहते महते इन्द्राय तदर्थं पवस्व पात्रेषु क्षर । इन्द्र प्रत्यागच्छ वा । कीदृशः । सुमृळीकः इन्द्रस्य सुष्ठु सुखयिता अत एव अनवद्यः गर्हारहितः रिशादाः रिशतां बाधकानामसिता । एतादृशस्त्वमिन्द्राय पवस्व । किंच गृणते स्तुवते मह्यं चन्द्राणि आह्लादकानि वसूनि धनानि भर प्रयच्छ। किंच हे द्यावापृथिवी युवां च पवमानेन परिप्लुते सत्यौ देवैः सुभगैर्धनैः सह नः अस्मान् प्रावतं प्ररक्षतम् ॥ ॥ २२ ॥
“Indu, who do make (men) very happy, the blameless one, the destroyer of foes, flow for mighty Indra; bring to (me) your worshipper gratifying riches; heaven and earth, protect us with auspicious (riches).”
O Indu, flow thou on for lofty Indra, flow blameless, very gracious, foe-destroyer.
Bring splendid treasures to the man who lauds thee. O Heaven and Earth, with all the Gods protect. us.
O drop, purify yourself for lofty Indra, since you are very merciful, beyond reproach, caring for the stranger.
Bring gleaming goods to the singer. O Heaven and Earth, together with the gods—further us.
Dem grossen Indra flamme zu, o Indu, untadlig, gnädig und den Feind verzehrend, Dem Sänger bringe glanzbegabte Güter, seid mit den Göttern hold uns, Erd' und Himmel.
O Saft! Läutere dich für den hohen Indra, mildtätig, untadelhaft, herrenstolz! Bringe blinkende Schätze dem Lobsänger! Himmel und Erde, mit den Göttern helfet uns weiter!
О капля, очищайся для могучего Индры,
Очень снисходительная, безупречная, заботящаяся о чужом!
Принеси воспевателю сверкающие блага!
О Небо-и-Земля, вместе с богами помогайте нам дальше!