त्रिर॑स्मै स॒प्त धे॒नवो॑ दुदुह्रे स॒त्यामा॒शिरं॑ पू॒र्व्ये व्यो॑मनि । च॒त्वार्य॒न्या भुव॑नानि नि॒र्णिजे॒ चारू॑णि चक्रे॒ यदृ॒तैरव॑र्धत ॥
त्रिः । अ॒स्मै॒ । स॒प्त । धे॒नवः॑ । दु॒दु॒ह्रे॒ । स॒त्याम् । आ॒ऽशिर॑म् । पू॒र्व्ये । विऽओ॑मनि । च॒त्वारि॑ । अ॒न्या । भुव॑नानि । निः॒ऽनिजे॑ । चारू॑णि । च॒क्रे॒ । यत् । ऋ॒तैः । अव॑र्धत ॥
अस्मै पवमानाय पूर्व्ये पूर्वैः कृते व्योमनि । विविधमोमावनं गमनं देवानामत्रेति व्योम यज्ञः । तस्मिन् स्थिताय । यद्वा । प्रत्ने व्योमन्यन्तरिक्षे वर्तमानाय । त्रिः सप्त एकविंशतिसंख्याकाः धेनवः प्रीणयित्र्यो गावः सत्यां यथार्थभूताम् आशिरम् आश्रयणसाधनं क्षीरादि दुदुहे दुहन्ति । यद्वा । त्रिः सप्त द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः' (तै. सं.५.४.१२.२) इत्येतैः सर्वैः सह गोषु पय उत्पाद्यते तद्भावो दुहन्त इति । किंचायं सोमः अन्या अन्यानि चत्वारि भुवनानि उदकानि वसतीवरीस्तिस्रश्चैकधना इति तानि चतुःसंख्याकानि चारूणि कल्याणान्युदकानि निर्णिजे निर्णेजनाय परिशोधनाय परिपोषणाय वा चक्रे । कदा करोति । यत् यदा अयम् ऋतैः यज्ञैः अवर्धत वर्धितवान् तदा करोति ॥
“For him in the ancient sacrifice thrice seven kine milk forth the right mixture; he makes four other beautiful waters for purification when he is nourished with the sacrifices.”
THE three times seven Milch-kine in the eastern heaven have for this Soma poured the genuine milky draught.
Four other beauteous Creatures hath he made for his adornment, when he waxed in strength through holy rites.
Three times seven milk-cows have milked out for him the real
milk-mixture in the foremost distant heaven.
He made the four other dear worlds to be his raiment, when he grew strong through the truths [=hymns].
Es liessen sieben Kühe dreimal strömen ihm den wahren Milchtrank in dem höchsten Himmelsraum, Vier andre theure Wesen legte er sich an zum Schmuck, als er durch heil'ges Werk gekräftigt war.
Dreimal sieben Kühe gaben für ihn die echte Mischmilch im ersten Himmelsraum. Vier andere schöne Wesen machte er sich zum Festgewand, als er nach den Regeln groß wurde.
Трижды семь дойных коров доились для него
Истинным молоком для смешения на древнем небосводе.
Четыре другие милые сущности
Он сделал себе праздничным нарядом, когда возрастал от истин.
स भिक्ष॑माणो अ॒मृत॑स्य॒ चारु॑ण उ॒भे द्यावा॒ काव्ये॑ना॒ वि श॑श्रथे । तेजि॑ष्ठा अ॒पो मं॒हना॒ परि॑ व्यत॒ यदी॑ दे॒वस्य॒ श्रव॑सा॒ सदो॑ वि॒दुः ॥
सः । भिक्ष॑माणः । अ॒मृत॑स्य । चारु॑णः । उ॒भे इति॑ । द्यावा॑ । काव्ये॑न । वि । श॒श्र॒थ्चे । तेजि॑ष्ठाः । अ॒पः । मं॒हना॑ । परि॑ । व्य॒त॒ । यदि॑ । दे॒वस्य॑ । श्रव॑सा । सदः॑ । वि॒दुः ॥
सः पवमानः चारुणः कल्याणस्य अमृतस्य उदकस्य । ‘क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानसंज्ञा । चतुर्थ्यर्थे बहुलम्' (पा. सू. २.३.६२) इति षष्ठी । चारूदकं भिक्षमाणः यष्टृभिर्याच्यमानः सन् उभे । द्यावादेशस्य द्वंद्वे विहितत्वादत्रोत्तरपदाभावे द्वंद्वः प्रतीयते । उभे द्यावापृथिव्यौ काव्येन कविकर्मणा वि शश्रथे विवृते करोति । यज्ञनिमित्तेन उदकेन संपूरयतीत्यर्थः । किंच तेजिष्ठाः अतिशयेन दीप्तानि अपः उदकानि मंहना महत्त्वेन परि व्यत वरणार्थं परित आच्छादयति । यदि यदा ऋत्विजः देवस्य द्योतमानस्य सोमस्य सदः स्थानं श्रवसा हविषा युक्ताः सन्तः विदुः यागार्थं जानन्ति लभन्ते तदा परित आवृणोतीति । ‘ विद ज्ञाने'।' सिजभ्यस्त°' इति झेर्जुसादेशः ॥
“He being solicited for auspicious ambrosia opens both heaven and earth by his intelligence, he covers the lustrious waters with his greatness, when (the priests) with the oblation recognize the station of the radiant (Soma).”
Longing for lovely Amrta, by his wisdom he divided, each apart from other, earth and heaven.
He gladly wrapped himself in the most lucid floods, when through their glory they found the God's resting-place.
Seeking a share of the dear immortal one, through his poetic skill he has loosened both, Heaven (and Earth), from each other.
He lavishly wraps himself in the glinting-sharp waters when, by the god’s [=Soma’s] fame, they [=waters] know his seat.
Verlangend nach des schönen Göttertranks Gemisch, erschloss er Erd' und Himmel sich durch Seherkraft, Er hüllt mit Lust sich in die liebsten Fluten ein, wenn sie mit Glanz verweilen in des Gottes Sitz.
Um den schönen Göttertrank bittend hat er mit Seherweisheit beide, Himmel und Erde, von einander gelöst. In die scharf wirkenden Wasser hüllt er sich bereitwillig, wenn sie durch des Gottes Ruhm seinen Sitz in Erfahrung bringen.
Стремясь к милому (миру) бессмертия,
Своею поэтической силой он разделил оба (мира); небо (и землю).
Он великолепно закутался в ярко сверкающие воды,
Когда благодаря славе (этого) бога, они узнали (его) местопребывание.
ते अ॑स्य सन्तु के॒तवोऽमृ॑त्य॒वोऽदा॑भ्यासो ज॒नुषी॑ उ॒भे अनु॑ । येभि॑र्नृ॒म्णा च॑ दे॒व्या॑ च पुन॒त आदिद्राजा॑नं म॒नना॑ अगृभ्णत ॥
ते । अ॒स्य॒ । स॒न्तु॒ । के॒तवः॑ । अमृ॑त्यवः । अदा॑भ्यासः । ज॒नुषी॒ इति॑ । उ॒भे इति॑ । अनु॑ । येभिः॑ । नृ॒म्णा । च॒ । दे॒व्या॑ । च॒ । पु॒न॒ते । आत् । इत् । राजा॑नम् । म॒ननाः॑ । अ॒गृ॒भ्ण॒त॒ ॥
अस्य एतादृशस्य सोमस्य केतवः प्रज्ञापकाः सर्वैश्चायनीयाः अमृत्यवः मरणधर्मरहिता अत एव अदाभ्यासः । दभेश्चेति वक्तव्यम्' (पा. सू. ३. १. १२४. ३) इति ण्यत् । परैरहिंस्याः ते तादृशाः अस्य रश्मयः उभे जनुषी जन्मनी स्थावरजङ्गमात्मके द्वे अनु लक्षीकृत्य सन्तु रक्षन्तु । ओषधीनामयं सोमो रेतो निषिञ्चति यज्ञे मनुष्याणां च धाराः स्रवन्ति खलु । सोऽयं येभिः यैः केतुभिः नृम्णा नृम्णानि बलानि देव्या देवार्हाणि च अन्नानि पुनते प्रेरयति आदित् अभिषवानन्तरमेव राजानं सोमं मननाः मननीयाः स्तुतयः अगृभ्णत परिगृह्णन्ति । प्राप्नुवन्तीत्यर्थः । ‘ हृग्रहोः' इति भकारः ॥
“May those his immortal, inviolable rays protect both classes of beings, wherewith he stimulates human (strength) and divine (food); thereupon praises reach the royal (Soma).”
May those his brilliant rays he ever free from death, inviolate, for both classes of created things,-
Rays wherewith powers of men and Gods are purified. Yea, even for this have sageswelcomed him as King.
Let those immortal undeceivable beacons of his suffuse both races [=gods and men],
the beacons by which both manly and godly (powers) become purified. Just because of that have the zealous ones accepted him as their king.
Es mögen seine Strahlen unvertilgbar sein, unsterblich in der Götter und der Menschen Stamm, Durch die erstrahlt, was menschlich und was göttlich ist; dann fassen ihn, den König, die verständigen.
Diese seine Lichtstrahlen, die unsterblichen, untrüglichen sollen zu beiden Geschlechtern dringen, durch die die Menschenkräfte und die göttlichen Kräfte geläutert werden. Dann erst haben die Nachsinnenden den König in ihren Besitz bekommen.
Пусть лучи его, бессмертные, безобманные,
Пронизывают оба рода,
(Лучи), которыми очищаются силы мужества (людей) и богов.
И вот тогда размышляющие захватили царя.
स मृ॒ज्यमा॑नो द॒शभि॑: सु॒कर्म॑भि॒: प्र म॑ध्य॒मासु॑ मा॒तृषु॑ प्र॒मे सचा॑ । व्र॒तानि॑ पा॒नो अ॒मृत॑स्य॒ चारु॑ण उ॒भे नृ॒चक्षा॒ अनु॑ पश्यते॒ विशौ॑ ॥
सः । मृ॒ज्यमा॑नः । द॒शऽभिः॑ । सु॒कर्म॑ऽभिः । प्र । म॒ध्य॒मासु॑ । मा॒तृषु॑ । प्र॒ऽमे । सचा॑ । व्र॒तानि॑ । पा॒नः । अ॒मृत॑स्य । चारु॑णः । उ॒भे इति॑ । नृ॒ऽचक्षाः॑ । अनु॑ । प॒श्य॒ते॒ । विशौ॑ ॥
सः पवमानः सुकर्मभिः शोभनकर्मयुक्ताभिः दशभिः दशसंख्याकाभिरङ्गुलीभिः मृज्यमानः सः सचा ‘अग्नौ प्रास्ताहुतिः' इत्यादिक्रमेणापां सहायः प्रमे लोकान् प्रमातुं मध्यमासु अन्तरिक्षस्थितासु अवतिष्ठते ॥ प्रमे । प्रपूर्वान्मातेः क्विपि ङयि ‘आतः' इति योगविभागादाकारलोपः ॥ किंच नृचक्षाः नृणां द्रष्टा पवमानः चारुणः कल्याणस्य अमृतस्य उदकस्य वृष्ट्यर्थं व्रतानि यागादिकर्माणि पानः रक्षन् उभे विशौ मनुष्यान् देवांश्चान्तरिक्षेण गच्छन् अनु पश्यते अनुपश्यति । मनुष्यानभिमतदानेन देवान् हविष्प्रदानेनेति ॥
“Cleansed by the ten well-working (fingers), the companion (of the waters) stands among the midmost mothers to measure (the worlds); the beholder of men protecting sacred rites (for the sake) of auspicious ambrosia looks after both races.”
He, while he is adorned by the ten skilful ones, that he too in the Midmost Mothers may create,
While he is watching o'er the lovely Amrta's ways, looks on both races as Beholder of mankind.
He, being groomed by the ten who work well [=fingers], (goes) forth to bellow forth amid the midmost mothers [=waters?].
Protecting the commandments of the dear immortal one [=heavenly
soma], having his sight on men, he surveys both clans [=gods
and men].
Wenn er geklärt wird von den zehn geschäftigen, ist er zu bilden in der mittlern Mütter Schooss, Die Bräuche wahrend des geliebten Göttertranks, blickt Männer schauend er nach beiden Stämmen aus.
Von den zehn geschickten Fingern geputzt fließt er, um unter den mittleren Müttern als Richtschnur zu dienen. Die Satzungen des schönen Göttertranks hütend überschaut er mit Herrscheraugen beide Stämme.
Начищаемые десятью (пальцами), прекрасно действующими,
Он (течет) вперед среди матерей, служа мерилом.
Охраняя заветы милого (мира) бессмертия,
(Он) со взглядом героя озирает оба племени.
स म॑र्मृजा॒न इ॑न्द्रि॒याय॒ धाय॑स॒ ओभे अ॒न्ता रोद॑सी हर्षते हि॒तः । वृषा॒ शुष्मे॑ण बाधते॒ वि दु॑र्म॒तीरा॒देदि॑शानः शर्य॒हेव॑ शु॒रुध॑: ॥
सः । म॒र्मृ॒जा॒नः । इ॒न्द्रि॒याय॑ । धाय॑से । आ । उ॒भे इति॑ । अ॒न्तरिति॑ । रोद॑सी॒ इति॑ । ह॒र्ष॒ते॒ । हि॒तः । वृषा॑ । शुष्मे॑ण । बा॒ध॒ते॒ । वि । दुः॒ऽम॒तीः । आ॒देदि॑शानः । श॒र्य॒हाऽइ॑व । शु॒रुधः॑ ॥
मर्मृजानः पवित्रेण मृज्यमानः सः पवमानः धायसे जगतो धारकाय इन्द्रियाय इन्द्रस्य पर्याप्ताय बलाय तदर्थम् उभे रोदसी। ‘ कालाध्वनोः' इति द्वितीया । उभयोः द्यावापृथिव्योः अन्तः हितः मध्ये वर्तमानः सन् आ हर्षते सर्वतो गच्छति । इन्द्रस्य हि सोमेन बलं भवति । वृषा कामानामुदकानां वा वर्षकः सोऽयं शुष्मेण शोषकेण बलेन दुर्मतीः दुष्टबुद्धीनसुरान् वि बाधते विशेषेण पीडयति । किं कुर्वन् । शुरुधः । शुचा रुन्धन्ति परानिति । पृषोदरादिः । दुःखकारिणोऽसुरान् आदेदिशानः पुनःपुनराह्वयन् हन्ति । तत्र दृष्टान्तः। शर्यहेव । हननसाधनैः इषुभिर्हन्ता वीरः प्रतिभटान् यथा हिनस्ति तद्वत् ॥ ॥ २३ ॥
“Being filtered for Indra's world-supporting strength, stationed in the midst of both worlds he goes (everywhere); the showerer destroys the evil-minded by his vigour, challenging the asuras like an archer.”
He, while he is adorned to stream forth mighty strength, rejoices in his place between the earth and heaven.
The Steer dispels the evil-hearted with his might, aiming at offerings as an archer at the game.
Constantly being groomed, propelled between the two worlds-halves, he is roused to give suck to Indra.
With his blustering the bull thrusts away evil thoughts, always setting his sights, like a sharpshooter, on rich spoils.
Wenn für den Indra er zum Trunk gereinigt ist, so jubelt zwischen Erd' und Himmel er gesandt, Es jagt der Stier mit Kraft die Bösgesinnten fort, hinzielend wie ein Schütze auf die Kriegerschar.
Geputzt, um die indrische Kraft zu laben, wird er kampflustig, zwischen beiden Welten angespornt. Der Bulle vertreibt mit Wut die Feindseligen, wie ein Pfeilkämpfer auf die Gewinne abzielend.
Мощно начищаемый для удовлетворения Индры,
Он (радостно) возбуждается, помещенный между обоими мирами.
Бык прогоняет (своим) неистовством злые мысли,
Нацеливаясь на добычу, как тот, кто убивает стрелой.
स मा॒तरा॒ न ददृ॑शान उ॒स्रियो॒ नान॑ददेति म॒रुता॑मिव स्व॒नः । जा॒नन्नृ॒तं प्र॑थ॒मं यत्स्व॑र्णरं॒ प्रश॑स्तये॒ कम॑वृणीत सु॒क्रतु॑: ॥
सः । मा॒तरा॑ । न । ददृ॑शानः । उ॒स्रियः॑ । नान॑दत् । ए॒ति॒ । म॒रुता॑म्ऽइव । स्व॒नः । जा॒नन् । ऋ॒तम् । प्र॒थ॒मम् । यत् । स्वः॑ऽनरम् । प्रऽश॑स्तये । कम् । अ॒वृ॒णी॒त॒ । सु॒ऽक्रतुः॑ ॥
सः पवमानः मातरा मातरौ द्यावापृथिव्यौ ददृशानः पुनःपुनः पश्यन् ततः नानदत् भृशं शब्दं कुर्वन् एति सर्वत्र गच्छति । तत्र दृष्टान्तः । उस्रियः न । उस्रियेति गोनाम । तस्य स्वभूतो वत्सो यथा मातरं गां पश्यन् शब्दं करोति तद्वत् । किंच मरुतामिव । यथा मरुतां गणः स्वनः । पचाद्यजन्तः । स्वनं कुर्वन् सर्वतो गच्छति तद्वत् । यत् उदकं स्वर्णरम् । स्वरिति सर्वपर्यायः । सर्वमनुष्यहितं भवति । सर्वे हि मनुष्या उदके संगच्छन्ते तत्कार्यत्वात् । तादृशं प्रथमं मुख्यम् ऋतम् उदकं जानन् विद्वान् सुक्रतुः शोभनकर्मा सुप्रज्ञो वा स पवमानः प्रशस्तये प्रशंसनायात्मस्तोत्रकरणाय कं मनुष्यम् अवृणीत समभजत । नान्यमस्मद्व्यतिरिक्तमित्यर्थः ॥
“He repeatedly beholding his parents (heaven and earth) proceeds with a loud noise, like cows (looking at their calves and lowing), and with a roar (like the troop) of Maruts; knowing that water to be the best which is good for all men, the intelligent (pavamāna) chose man to be the offerer of his praise.”
Beholding, as it were, Two Mother Cows, the Steer goes roaring on his way even as the Maruts roar.
Knowing Eternal Law, the earliest light of heaven, he, passing wise, was chosen out to tell it forth.
The ruddy one, becoming visible, goes (to Heaven and Earth) as if to his two mothers, roaring again and again, like the clamor of the
Maruts.
Recognizing the first truth, which is the realm of solar splendor, he of strong will has chosen it for his glorification.
Dem Kalbe gleich, was seine Mütter hat erblickt, geht brüllend er gleich wie der Marutschar Getön, Den heil'gen Brauch zuerst erkennend wählte er den Herrn des Himmels weise zur Verherrlichung.
Er geht wie ein Stier ausschauend nach den beiden Müttern, brüllend wie das Rauschen der Marut. Da er weiß, welches der erste rechte Weg ist, hat er sich Svarnara für sein Lob erwählt, der Einsichtsvolle.
Он, выглядящий как бычок, (бегущий) к двум матерям,
Движется, громко ревя, словно шум Марутов.
Поскольку он знает, каков изначальный закон,
Сварнару выбрал себе для восхваления (этот) прекрасный силой духа.
रु॒वति॑ भी॒मो वृ॑ष॒भस्त॑वि॒ष्यया॒ शृङ्गे॒ शिशा॑नो॒ हरि॑णी विचक्ष॒णः । आ योनिं॒ सोम॒: सुकृ॑तं॒ नि षी॑दति ग॒व्ययी॒ त्वग्भ॑वति नि॒र्णिग॒व्ययी॑ ॥
रु॒वति॑ । भी॒मः । वृ॒ष॒भः । त॒वि॒ष्यया॑ । शृङ्गे॒ इति॑ । शिशा॑नः । हरि॑णी॒ इति॑ । वि॒ऽच॒क्ष॒णः । आ । योनि॑म् । सोमः॑ । सुऽकृ॑तम् । नि । सी॒द॒ति॒ । ग॒व्ययी॑ । त्वक् । भ॒व॒ति॒ । निः॒ऽनिक् । अ॒व्ययी॑ ॥
भीमः शत्रूणां भयंकरः वृषभः कामानामुदकानां वा वर्षणः विचक्षणः सर्वस्य विदर्शनशीलः स पवमानः तविष्यया । तु इति वृद्ध्यर्थः । अस्मात् “ अच इः' (उ. सू. ४. १३८ ) इति इप्रत्ययः । तस्मादिच्छायामर्थे क्यच् । सर्वप्रातिपदिकेभ्यः (का. ७.१.५१.३ ) इति सुगागमः । आत्मनो बलेच्छया हरिणी हरितवर्णे द्वे शृङ्गे शिशानः तीक्ष्णीकुर्वन् द्रोणकलशं प्रति द्वाभ्यां धाराभ्यां स्थाल्याग्रयणं गृह्णाति । तदुच्यते । ते धारारूपशृङ्गे तीक्ष्णीकुर्वन् रुवति शब्दायते । ‘रु शब्दे'। ‘बहुलं छन्दसि' इति शः । ततः सः सोमः सुकृतं सुष्ठु कृतं योनिं स्वस्थानं द्रोणकलशम् आ नि षीदति समन्तात्तिष्ठति । तस्य सोमस्य निर्णिक् निर्नेक्त्री परिशोधयित्री गव्ययी गोमयी त्वग्भवति । आनडुहे हि चर्मणि सोमाभिषवः । एवम् अव्ययी अविमयी त्वक् च निर्नेक्त्री भवति । तद्धि दशापवित्रापेक्ष्यमभिहितम् ॥
“The formidable showerer, the contemplator of all through desire for strength roars, sharpening his green-tinted horns; the Soma settles on his well-prepared station; the cowhide is his cleanser and the sheep-skin (too).”
The fearful Bull is bellowing with violent might, far-sighted, sharpening his yellowcoloured horns.
Soma assumes his seat in the well-fashioned place: the cowhide and the sheepskin are his ornament.
The fearsome bull bellows forcefully, sharpening his golden horns, wide-gazing.
Soma sits down upon his well-made womb. His skin comes to be made of cattle; his garment of sheep.
Es brüllt der Stier, der schreckliche, mit Ungestüm, die goldnen Hörner wetzend schaut er weithin aus, Es setzt sich Soma auf den schöngeschmückten Schooss, sein Fell vom Rinde und vom Schafe sein Gewand.
Es brüllt der furchtbare Bulle im Gefühl seiner Stärke, die goldenen Hörner wetzend, der Weitschauende. Soma setzt sich in den wohlbereiteten Schoß nieder. Vom Rind ist das Fell, vom Schaf sein neues Kleid.
Ревет страшный бык с огромной силой,
Оттачивая золотистые рога, глядя далеко.
Сома усаживается на прекрасно приготовленное лоно.
Шкура бывает коровьей, праздничный наряд овечьим.
शुचि॑: पुना॒नस्त॒न्व॑मरे॒पस॒मव्ये॒ हरि॒र्न्य॑धाविष्ट॒ सान॑वि । जुष्टो॑ मि॒त्राय॒ वरु॑णाय वा॒यवे॑ त्रि॒धातु॒ मधु॑ क्रियते सु॒कर्म॑भिः ॥
शुचिः॑ । पु॒ना॒नः । त॒न्व॑म् । अ॒रे॒पस॑म् । अव्ये॑ । हरिः॑ । नि । अ॒धा॒वि॒ष्ट॒ । सान॑वि । जुष्टः॑ । मि॒त्राय॑ । वरु॑णाय । वा॒यवे॑ । त्रि॒ऽधातु॑ । मधु॑ । क्रि॒य॒ते॒ । सु॒कर्म॑ऽभिः ॥
अरेपसं पापरहितम् । यद्वा । ‘रिपि गतौ । गतिरहितम् । पात्रे स्थितमित्यर्थः । तादृशं तन्वम् आत्मीयं शरीरं पुनानः शोधयन् अत एव शुचिः पूतो दीप्यमानो वा हरिः हरितवर्णः सोमः सानवि सानुनि समुच्छ्रिते अव्ये अविवालकृते दशापवित्रे न्यधाविष्ट ऋत्विग्भिर्निधीयते । ‘ धूञ् कम्पने । स्यसिच्सीयुट्तासिषु' ( पा. सू. ६. ४. ६२ ) इति कर्मणि लुङि चिण्वदिट् । णित्त्वाद्वृद्धिः । ततः मित्राय वरुणाय वायवे एतेभ्यः जुष्टः पर्याप्तः त्रिधातु त्रिसंधानो वसतीवरीभिर्दध्ना पयसा संस्पृष्टः सोमः त्रिधातु तादृशं मधु मदकरः सोमः सुकर्मभिः शोभनकर्मयुक्तैर्ऋत्विग्भिः क्रियते मित्रादिदेवार्थं प्रदीयते ॥
“Brilliant cleansing his sinless body, the green-tinted (Soma) is plural ced on the high-plural ced fleece; sufficient for Mitra, Varuṇa, and Vāyu the exhilarating (Soma) mixed with the three ingredients is prepared by the performers of good rites.”
Bright, making pure his body free from spot and stain, on the sheep's back the Golden-coloured hath flowed down.
Acceptable to Mitra, Vayu, Varuna, he is prepared as threefold meal by skilful men.
Gleaming, purifying his spotless body, the tawny one has run down onto the sheep’s back,
pleasing to Mitra, Varuṇa, and Vāyu. The honey is made threefold by those who make it well.
Der hell entflammte hat gereinigt seinen Leib den fleckenlosen glänzend auf der Seihe Höh, Beliebt bei Vaju und bei Mitra, Varuna wird dreifach durch die eifrigen der Meth gebraut.
Klar seinen makellosen Leib läuternd ist der Falbe jetzt auf den Schafrücken abgeflossen, dem Mitra, Varuna, Vayu willkommen. Von den Geschickten wird der Süßtrank aus drei Bestandteilen bereitet.
Дочиста очищающий (свое) беспорочное тело,
Золотистый стал стекать на спину овечьей (цедилки),
Приятный для Митры, Варуны, Ваю.
Троякий мед готовится прекрасно действующими (жрецами).
पव॑स्व सोम दे॒ववी॑तये॒ वृषेन्द्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श । पु॒रा नो॑ बा॒धाद्दु॑रि॒ताति॑ पारय क्षेत्र॒विद्धि दिश॒ आहा॑ विपृच्छ॒ते ॥
पव॑स्व । सो॒म॒ । दे॒वऽवी॑तये । वृषा॑ । इन्द्र॑स्य । हार्दि॑ । सो॒म॒ऽधान॑म् । आ । वि॒श॒ । पु॒रा । नः॒ । बा॒धात् । दुः॒ऽइ॒ता । अति॑ । पा॒र॒य॒ । क्षे॒त्र॒ऽवित् । हि । दिशः॑ । आह॑ । वि॒ऽपृ॒च्छ॒ते ॥
हे सोम वृषा कामानामुदकानां वा सेचकस्त्वं देववीतये देवानां पानाय पवस्व कलशादिषु क्षर। अथ हे सोम त्वम् इन्द्रस्य हार्दि हृदयंगमं प्रियं सोमधानम्। सोमो निधीयतेऽस्मिन्निति सोमधानं पात्रम् । तत् आ विश प्रविश । किंच नः अस्माकं बाधात् बाधनात् पीडनात् पुरा पूर्वमेव दुरितानि दुर्गमनानि रक्षांसि अति पारय अतीत्य पारं गमय । अपि च क्षेत्रवित् मार्गज्ञः पुरुषः विपृच्छते विविधं पन्थानं पृच्छते जनाय दिशः मार्गान् आह हि ब्रूते खलु । उक्त्वा तं यथा रक्षति तथा यज्ञमार्गवेत्ता त्वमस्मभ्यं यज्ञपथ उक्त्वास्मान् पालयेति ।
“Flow Soma, the showerer, for the banquet for the gods; enter the Soma-vessel dear to Indra; bring us safe past the hostile (rākṣasas) before the oppress us; for he who knows the country tells the direction to him who asks (the way).”
Flow on for the God's banquet, Soma, as a Steer, and enter Indra's heart, the Soma's reservoir.
Bear us beyond misfortune ere we be oppres. sed. the man who knows the land directs the man who asks.
Purify yourself as bull, Soma, to pursue the gods. Enter the heart of Indra, which is the receptacle of Soma.
Ahead of oppression, carry us across difficulties, for he who knows the territory tells the directions to the one who asks.
Als Stier, o Soma, flamme hell zum Göttermahl, in Indra's Bauch, der Soma fassen kann, geh ein; Durch alle Leiden führ uns schirmend vor Gefahr; der kund'ge nannte mir die Wege als ich frug.
Läutere dich zur Götterladung, o Soma, du der Bulle! Zieh ein in das Herz des Indra, das den Soma faßt! Bring uns über die Fährlichkeiten hinweg, bevor wir in Bedrängnis kommen; denn ein Ortskundiger gibt dem ihn Befragenden die Richtung an.
Очищайся, о сома, для приглашения богов как бык!
Входи в сердце Индры – вместилище сомы!
Переправь нас через опасности, (спасая) от гнета!
Ведь знаток местности называет направления спрашивающему (его).
हि॒तो न सप्ति॑र॒भि वाज॑म॒र्षेन्द्र॑स्येन्दो ज॒ठर॒मा प॑वस्व । ना॒वा न सिन्धु॒मति॑ पर्षि वि॒द्वाञ्छूरो॒ न युध्य॒न्नव॑ नो नि॒दः स्प॑: ॥
हि॒तः । न । सप्तिः॑ । अ॒भि । वाज॑म् । अ॒र्ष॒ । न्द्र॑स्य । इ॒न्दो॒ इति॑ । ज॒ठर॑म् । आ । प॒व॒स्व॒ । ना॒वा । न । सिन्धु॑म् । अति॑ । प॒र्षि॒ । वि॒द्वान् । शूरः॑ । न । युध्य॑न् । अव॑ । नः॒ । नि॒दः । स्प॒रिति॑ स्पः॑ ॥
हे सोम ऋत्विग्भिः प्रेर्यमाणः सन् वाजं सोमनिधानं द्रोणकलशम् अभि अर्ष अभिगच्छ । तत्र दृष्टान्तः । हितो न सप्तिः । अश्वो हितः प्रेर्यमाणः सन् वाजं संग्राममभिलक्ष्य यथा याति तद्वत् । ततो हे इन्दो इन्द्रस्य जठरं जठरभूतं द्रोणकलशं वा आ पवस्व आभिमुख्येन प्रविश । किंच विद्वान् सर्वं जानंस्त्वमस्मान् अति पर्षि दुरितान्यतीत्य पारय । तत्र दृष्टान्तः । नावा न । यथा नाविकाः सिन्धुं नदीं नावा मनुष्यान् पारयन्ति तद्वत् । किंच हे सोम त्वं शूरो न शूरो वीर इव युध्यन् शत्रून् संप्रहरन् निदः निन्दकाच्छत्रोः नः अस्मान् अव स्पः अवपारय । बाधां विनाश्य पालय । यद्वा । नोऽस्माकं निदो निन्दकाञ्छत्रूनव स्पः अवाङ्मुखं जहि । 'स्पॄ हिंसायाम्'। ‘ बहुलं छन्दसि ' इति श्नाप्रत्ययस्य लुक् । तिपि गुणे हल्यङ्यादिना तिपो लोपः ॥ ॥ २४ ॥
“Hasten (to the vessel) as a horse when urged (hastens) to the battle; flow Indu into Indra's belly; all knowing (Soma) bear us (safe) across, as (boatmen bear people) across a river in a boat; fighting like a hero, defend us from the reviling (of the foe).”
Urged like a car-steed flow to strength, O Soma: Indu, flow onward to the throat of Indra.
Skilled, bear us past, as in a boat o'er water: as battling Hero save us from the foeman.
Like a team spurred on, rush to the prize. O drop, purify yourself into the belly of Indra.
Carry us across (difficulties) as if across a river with a boat, since you know how. Like a battling champion, rescue us from insult.
Dem Renner gleich ereil entsandt den Kampfpreis, und ströme hell in Indra's Bauch, o Indu, Wie auf dem Schiff den Strom durchfahre kundig als Held verjage unsre Feinde kämpfend.
Laufe wie das angetriebene Gespann nach dem Siegerpreis; fließe geläutert in des Indra Bauch, o Saft! Wie mit dem Schiff über einen Strom bring uns kundig hinüber; wie ein Tapferer kämpfend erlöse uns vom Tadel!
Теки, как (мчится) упряжка, посланная к награде!
Очищайся, о капля, в животе у Индры!
Как реку (пересекают) на челне, умело переправь нас!
Сражаясь, как герой, спаси нас от бесчестья!