हरिं॑ मृजन्त्यरु॒षो न यु॑ज्यते॒ सं धे॒नुभि॑: क॒लशे॒ सोमो॑ अज्यते । उद्वाच॑मी॒रय॑ति हि॒न्वते॑ म॒ती पु॑रुष्टु॒तस्य॒ कति॑ चित्परि॒प्रिय॑: ॥
हरि॑म् । मृ॒ज॒न्ति॒ । अ॒रु॒षः । न । यु॒ज्य॒ते॒ । सम् । धे॒नुऽभिः॑ । क॒लशे॑ । सोमः॑ । अ॒ज्य॒ते॒ । उत् । वाच॑म् । ई॒रय॑ति । हि॒न्वते॑ । म॒ती । पु॒रु॒ऽस्तु॒तस्य॑ । कति॑ । चि॒त् । प॒रि॒ऽप्रियः॑ ॥
हरिं हरितवर्णं सोममृत्विजो मृजन्ति मार्जयन्ति । ‘मृजेरजादौ संक्रमे विभाषा वृद्धिरिष्यते' (पा. म. १.१.३.१०, का. १.१.५ ) इति तत्र वृद्धेरभावः । सोऽयम् अरुषः । अर्तेरुषच्प्रत्ययः ॥ गमनशीलोऽश्व इव युज्यते इन्द्रादिभिः संयुज्यते । किंच कलश द्रोणाभिधाने स्थितः सोमः धेनुभिः गोविकारैः दध्यादिभिः सम् अज्यते समक्तः सिक्तो भवति । अपि च सोमो यदा वाचं शब्दम् उत् ईरयति उद्गमयति । शब्दं करोतीत्यर्थः । तदा स्तोतारश्च मती । ‘ सुपां सुलुक्' इति द्वितीयायाः पूर्वसवर्णदीर्घः । स्तुतिं हिन्वते प्रेरयन्ति । ‘हि गतौ वृद्धौ च' इति स्वादिः आत्मनेपदी । ततः स्तोत्राभिष्टुतः सः पुरुष्टुतस्य बहुस्तोत्रयुक्तस्य स्तोतुः परिप्रियः । ‘ प्रीङ् तर्पणे'। क्विप् । शसि इयङादेशः । कृदुत्तरपदप्रकृतिस्वरत्वम् । परितः प्रीणयितॄणि कति चित् क्रियन्ति धनानि प्रयच्छति ॥
“They cleanse the green-tinted (Soma); he is harnessed like a swift horse; the Soma is combined in the pitcher with the products of the kine. He utters a sound, (the worshippers) send forth praise; how many (boons) abundantly delightint the utterer of many praises (does Soma bestow).”
THEY cleanse the Gold-hued: like a red Steed is he yoked, and Soma in the jar is mingled with the milk.
He sendeth out his voice, and many loving friends of him the highly lauded hasten with their songs.
They groom the tawny one [/fallow bay]; like a chestnut he is yoked. Soma is anointed with milk-cows in the tub.
When he raises his voice, the circle of friends of the one praised by
many—however many they are—speed him on with their thought.
Gestriegelt wird der goldne, wie ein Ross geschirrt, mit Milch wird Soma in dem Trinkgefäss gesalbt; Wenn er die Stimm' erhebt, so eilen mit Gebet des vielgelobten Freunde allesammt heran.
Sie putzen den Falben; wie ein rötliches Roß wird er geschirrt. In dem Kruge wird Soma mit den Milchkühen zusammengegeben. Während er die Rede hervortreibt, spornen sie ihn durch die Dichtung an, des Vielgepriesenen gute Freunde, so viele ihrer sind.
Они начищают золотистого. Его запрягают (как) рыжего (жеребца).
Сома в кувшине умащается коровьим молоком.
Он поднимает голос, (и поэты) поторапливают его молитвой,
Сколько (их) ни на есть, (все) приятные для многовосхваленого.
सा॒कं व॑दन्ति ब॒हवो॑ मनी॒षिण॒ इन्द्र॑स्य॒ सोमं॑ ज॒ठरे॒ यदा॑दु॒हुः । यदी॑ मृ॒जन्ति॒ सुग॑भस्तयो॒ नर॒: सनी॑ळाभिर्द॒शभि॒: काम्यं॒ मधु॑ ॥
सा॒कम् । व॒द॒न्ति॒ । ब॒हवः॑ । म॒नी॒षिणः॑ । इन्द्र॑स्य । सोम॑म् । ज॒ठरे॑ । यत् । आ॒ऽदु॒हुः । यदि॑ । मृ॒जन्ति॑ । सुऽग॑भस्तयः । नरः॑ । सऽनी॑ळाभिः । द॒सऽभिः॑ । काम्य॑म् । मधु॑ ॥
मनीषिणः मनस ईशितारः प्राज्ञाः बहवः स्तोतारः साकं सहैव युगपत् मन्त्रान् वदन्ति । तदा स्तुवन्ति । यदा इन्द्रस्य जठरे द्रोणकलशे सौमम् आहः ऋत्विजो दुदुहुः तदा भिष्ट्रवन्तीति । दुहेर्लिटयुसि रूपम् । द्विवचनस्य छन्दसि विकल्पितत्वादत्र द्विवंचनाभावः । किंच यदि थदा सुगभस्तयः शोभनबाहुकाः नरः कर्मचैतारो मनुष्याः कार्य काम्यमानं मधु मकर सीमें सनीळाभिः दशभिः दशसंख्याकाभिरङ्गुलीभिः मृजन्ति सोममभिषुण्वन्ति तदा वदन्तीत्यन्वयः ॥
“Many wise men utter praise together, when they have milked the Soma into Indra's belly, when fair-armed men cleanse the delightful exhilarating juice with their ten united (fingers).”
The many sages utter words in unison, while into Indra's throat they pour the Soma juice,
When, with the ten that dwell together closely joined, the men whose hands are skilful cleanse the lovely meath.
The many inspired thinkers speak all at once, when they have milked the soma into the belly of Indra,
when the men of skilled hands groom him, the desirable honey, with the ten belonging to the same nest [=fingers].
Zugleich erheben viele Weise den Gesang, wenn sie den Soma melken in des Indra Bauch, Wenn mit geschicktem Arm, mit zehn verschwisterten die Männer läutern den begehrten süssen Trank.
Viele Sinnreiche reden vereint, wenn sie den Soma in des Indra Bauch melken. Wenn ihn die Männer mit geschickten Händen putzen, mit den zehn verschwisterten Fingern den begehrenswerten Süßtrank.
Одновременно говорят многие хранители мудрости,
Когда выдаивают сому Индре в живот,
Когда мужи с ловкими руками начищают
Желанный мед десятью родственными (пальцами).
अर॑ममाणो॒ अत्ये॑ति॒ गा अ॒भि सूर्य॑स्य प्रि॒यं दु॑हि॒तुस्ति॒रो रव॑म् । अन्व॑स्मै॒ जोष॑मभरद्विनंगृ॒सः सं द्व॒यीभि॒: स्वसृ॑भिः क्षेति जा॒मिभि॑: ॥
अर॑ममाणः । अति॑ । ए॒ति॒ । गाः । अ॒भि । सूर्य॑स्य । प्रि॒यम् । दु॒हि॒तुः । ति॒रः । रव॑म् । अनु॑ । अ॒स्मै॒ । जोष॑म् । अ॒भ॒र॒त् । वि॒न॒म्ऽगृ॒सः । सम् । द्व॒यीभिः॑ । स्वसृ॑ऽभिः । क्षे॒ति॒ । जा॒मिऽभिः॑ ॥
सः सोम अरममाणः अनुपरतः सन् । पुनः पुनर्देवानां प्रीणनाय ग्रहादीनि प्रविशन्नित्यर्थः । गाः गोविकारानाश्रयणानभिलक्ष्य अत्येति अतिक्रम्य गच्छति । ततः शब्दायमानः सोमः सूर्यस्य आदित्यस्य दुहितुः उषस: प्रियं रवं शब्दं तिरः तिरस्करोति । तस्मिन्काले सोमाभिषवध्वनिर्महान् भवतीत्यर्थः । विनंगृसः । विनं कमनीयं स्तोत्रं गृह्णातीति विनंगृसः स्तोता । जोषम् । जुषेर्घञि रूपम् । पर्याप्तं स्तोत्रं तस्मै सोमाय अनु अभरत् अनुभरति । करोतीति यावत् । सोऽयं सोमः द्वयीभिः द्वाभ्यां पाणिभ्यामुत्पन्नाभिः जामिभिः परस्परं बन्धुभिः स्वसृभिः कर्मकरणार्थमितस्ततो गच्छन्तीभिरङ्गुलीभिः सं क्षेति संगच्छते । ‘क्षि निवासगत्योः । छान्दसी विकरणस्य लुक् ।
“Unceasing, the Soma goes to mix with the products of the kine, he utters a cry dear to the daughter of the sun. The praiser brings delight to him; he is united to the two kindred sisters (the hands).”
He goes upon his way, unresting, to the cows, over the roaring sound which Sarya's Daughter loves.
The Falcon brought it to him for his own delight: now with the twofold kindred sisters is his home.
Not stopping, he goes beyond (the filter) toward the cows, across the dear bellow of the Daughter of the Sun.
According to his pleasure, the vinaṃgr̥sa [?] “stuck it” to him. He dwells together with the paired, kindred sisters [=fingers].
Er schreitet rastlos zu der Milch der Kühe hin, vordringend durch der Sonnentochter lieben Schall, Der Diener brachte Wasser ihm nach seinem Wunsch, und mit gepaarten, lieben Schwestern wohnet er.
Ohne zu rasten geht er durch die Seihe auf die Kühe los; er übertönt den lieben Schall von Surya´s Tochter. Den Arm steckte sie ihm nach Lust hinein; den beiderseitigen verwandten Schwestern wohnt er bei.
Не останавливаясь, он переходит через (сито) к коровам,
(Выходя) за пределы милого звучания дочери солнца.
По (его) желанию:принес ему (хвалу?).
Он живет с сестрами-родственницами с двух сторон.
नृधू॑तो॒ अद्रि॑षुतो ब॒र्हिषि॑ प्रि॒यः पति॒र्गवां॑ प्र॒दिव॒ इन्दु॑ॠ॒त्विय॑: । पुरं॑धिवा॒न्मनु॑षो यज्ञ॒साध॑न॒: शुचि॑र्धि॒या प॑वते॒ सोम॑ इन्द्र ते ॥
नृऽधू॑तः । अद्रि॑ऽसुतः । ब॒र्हिषि॑ । प्रि॒यः । पतिः॑ । गवा॑म् । प्र॒ऽदिवः॑ । इन्दुः॑ । ऋ॒त्वियः॑ । पुर॑न्धिऽवान् । मनु॑षः । य॒ज्ञ॒ऽसाध॑नः । शुचिः॑ । धि॒या । प॒व॒ते॒ । सोमः॑ । इ॒न्द्र॒ । ते॒ ॥
हे इन्द्र पवमानगुणविशिष्टेन्द्र ते त्वदर्थं बर्हिषि यज्ञेयं सोमः धिया स्वेन कर्मणा धारया वा पवते पात्रेषु स्यन्दते । कीदृशः। नृधूतः कर्मनेतृभिर्मनुष्यैः शोधितः अद्रिषुतः ग्रावभिरभिषुतः प्रियः देवानां प्रीणयिता गवां पतिः स्वामी । इन्द्रो गा अलभत तस्माद्गवां स्वामी ॥ प्रदिवः । पुराणनामैतत् । पुराणः इन्दुः पात्रेषु क्षरन् ऋत्वियः ऋतौ जातः । 'ऋतोरण्' छन्दसि घस्' (पा, सू, ५, १, १०५- १ ० ६ ) इति घस् । सित्त्वेन पदसंज्ञायां भसंज्ञानिमित्त ओर्गुणो न भवति । पुरंधिवान् । ‘ पुरंधिर्बहुधीः ' (निरु, ६, १३) इति यास्कः । बहुकर्मवान् मनुषः मनुष्यस्य यज्ञ साधनः “ शुचिः। दीप्यमानः । यद्वा । दशापवित्रेण शुद्धः । एवंगुणः सोमः इन्द्रार्थं पवत इति संबन्धः ॥
“Shaken by the men, expressed by the stones, the delight (of the gods), the lord of cattle, ancient, distilling (in the vessels) born in due season, (the Soma is plural ced) on the sacrd grass; intelligent, the material of the sacrifice of man, pure, the Soma flows for you, Indra,of his own accord.”
Washed by the men, stone-pressed, dear on the holy grass, faithful to seasons, Lord of cattle from of old,
Most liberal, completing sacrifice for men, O Indra, pure bright Soma, Indu, flows for thee.
Rinsed by men, pressed by stones, the dear one on the ritual grass, the husband of the cows, from of old the drop that follows the ritual
seasons,
accompanied by Plenitude, assuring success to the sacrifice of Manu, gleaming, with insight he purifies himself for you, Indra.
Gespült von Männern, steingepresst, lieb auf der Streu, der Kühe Herr, der stets zur rechten Zeit erscheint, Der reiche Indu, der des Menschen Opfer pflegt, hell strömt der Soma, Indra, dir mit Andacht zu.
Auf dem Barhis von Männern durchgeschüttelt, mit Steinen ausgeschlagen, seit Alters der beliebte Gemahl der Kühe, der die Zeiten einhaltende Somasaft, von der Wunscherfüllung begleitet, des Menschen Opfer ausrichtend, wird der reine Soma mit Kunst für dich, Indra, geläutert.
Взболтанный мужами, выжатый камнями на жертвенной соломе от века
Милый супруг коров, сок, своевременно (выжимаемый),
Сопровождаемый полнотой (даров), приводящий к цели жертвы человека,
Прозрачный сома очищается молитвой для тебя, о Индра.
नृबा॒हुभ्यां॑ चोदि॒तो धार॑या सु॒तो॑ऽनुष्व॒धं प॑वते॒ सोम॑ इन्द्र ते । आप्रा॒: क्रतू॒न्त्सम॑जैरध्व॒रे म॒तीर्वेर्न द्रु॒षच्च॒म्वो॒३॒॑रास॑द॒द्धरि॑: ॥
नृबा॒हुऽभ्या॑म् । चो॒दि॒तः । धार॑या । सु॒तः । अ॒नु॒ऽस्व॒धम् । प॒व॒ते॒ । सोमः॑ । इ॒न्द्र॒ । ते॒ । आ । अ॒प्राः॒ । क्रतू॑न् । सम् । अ॒जैः॒ । अ॒ध्व॒रे । म॒तीः । वेः । न । द्रु॒ऽसत् । च॒म्वोः॑ । आ । अ॒स॒द॒त् । हरिः॑ ॥
हे इन्द्र पवमानगुणविशिष्ट नृबाहुभ्यां कर्मनेतॄणामृत्विजां बाहुभ्यां चोदितः प्रेरितः धारया सुतः अभिषुतः । यथा धारा भवति तथाभिषुत इत्यर्थः । तादृशः सोमः ते तव अनुष्वधं बलमनु बलार्थम् । यद्वा । स्वधेत्यन्ननाम । अन्नार्थं पवते आगच्छति । ततः स त्वं सोमपानेन क्रतून् कर्माणि आप्राः आपूरयसि । किंच अध्वरे यज्ञे मतीः अभिमन्यमानान्' शत्रून् समजैः सम्यग्जितवानसि । ‘ जि जये' । लुङि सिपि सिचो ‘ बहुलं छन्दसि' इति इडभावः । ‘ सिचि वृद्धि:०' इति वृद्धिः । सोऽयं हरिः हरितवर्णः सोमः चम्वोः अधिषवणफलकयोः आसदत् आसीदति । तत्र दृष्टान्तः । वेर्न । वी गत्यादिषु । अन्येभ्योऽपि दृश्यन्ते' इति विच् । सार्वधातुकार्धधातुकयोः ' इति गुणः । यथा विः पक्षी द्रुषत् द्रुमे सीदतीति तद्वत् । द्रुषत्' । 'पूर्वपदात्' इति षत्वम् ॥ ॥ २७ ॥
“Urged by the arms of men, poured forth in a stream the Soma flows for you, Indra, for strength; you accomplish the rites, you overcome enemies at the sacrifice; the green-tinted Soma rests upon the cups like a bird perching on a tree.”
O Indra, urged by arms of men and poured in streams, Soma flows on for thee after.his Godlike kind.
Plans thou fulfillest, gatherest thoughts for sacrifice: in the bowls sits the Gold-hued like a roosting bird.
Driven on by the two arms of men, pressed in a stream, following his own nature Soma purifies himself for you, Indra.
He has fulfilled their intentions; he has won completely the thoughts at the ceremony. Like a bird sitting in the wood the tawny one has taken his seat in the two cups.
Von Männerarm geschüttelt und im Strom gebraut, o Indra, rieselt Soma nach dem Brauch dir zu; Erfüllt hat er den Wunsch, beim Fest Gebet erkämpft, wie auf dem Baum der Vogel sitzt im Trog das Ross.
Von den Männerarmen zur Eile getrieben, in Strömen ausgepreßt, läutert sich Soma für dich, Indra, aus eigenem Antrieb. Er hat unsere Gedanken erfüllt, im Gottesdienst das Denken ganz eingenommen. Wie ein Vogel, der sich auf das Holz, den Baum setzt, hat sich der Falbe in die beiden Camugefäße gesetzt.
Поощряемый руками мужей, выжимаемый потоком,
Сома очищается по своему велению для тебя, о Индра.
Он наполнил (наши) силы духа, покорил наши мысли во время обряда.
Как птица, садящаяся на дерево, золотистый уселся в двух сосудах.
अं॒शुं दु॑हन्ति स्त॒नय॑न्त॒मक्षि॑तं क॒विं क॒वयो॒ऽपसो॑ मनी॒षिण॑: । समी॒ गावो॑ म॒तयो॑ यन्ति सं॒यत॑ ऋ॒तस्य॒ योना॒ सद॑ने पुन॒र्भुव॑: ॥
अं॒शुम् । दु॒ह॒न्ति॒ । स्त॒नय॑न्तम् । अक्षि॑तम् । क॒विम् । क॒वयः॑ । अ॒पसः॑ । म॒नी॒षिणः॑ । सम् । ई॒म् इति॑ । गावः॑ । म॒तयः॑ । य॒न्ति॒ । स॒म्ऽयतः॑ । ऋ॒तस्य॑ । योना॑ । सद॑ने । पु॒नः॒ऽभुवः॑ ॥
कवयः क्रान्तप्रज्ञाः अपसः कर्मवन्तः मनीषिणः । मनस ईशा मनीषा बुद्धिः । तद्वन्त ऋत्विजः स्तनयन्तं शब्दायमानम् अक्षितम् अक्षीणं कविं क्रान्तदर्शिनम् अंशुं सोमं दुहन्ति अभिषुण्वन्ति । ततः पुनर्भुवः पुनर्भवनशीलाः गावः पशवः मतयः मननीयाः स्तुतयश्च संयतः परस्परं संगताः सत्यः ऋतस्य सत्यभूतस्य यज्ञस्य योना योनौ योनिस्थानीय उत्पत्तिभूते सदने उतरवेद्याख्ये ईम एनं सोमं सं यन्ति संगच्छन्ति ॥
“The seers, the experienced performers of holy acts, milk forth the seer, the loud-sounding undecaying Soma; the regenerated cattle and the praises combined repair to him at the plural ce of birth of the sacrifice.”
Sages well-skilled in work, intelligent, drain out the stalk that roars, the Sage, the Everlasting One.
The milk, the hymns unite them with him in the place of sacrifice, his seat who is produced anew.
They milk the thundering, imperishable plant; the industrious inspired poets (milk) the poet.
The cows and the thoughts in uninterrupted array, ever regenerating, go together to him in the womb, the seat of truth.
Den Saft, der braust und nie versiegt, ihn melken sie, den weisen weise, thätige, verständige, Ununterbrochen einen Lieder sich und Milch im Schooss des Opfers, sich erneuend in dem Sitz.
Sie melken den donnernden unversieglichen Stengel, die Seher den Seher, die Werkkundigen, Nachsinnenden. Zu ihnen kommen vollzählig die Milchkühe, die frommen Gedanken, an der Wiege, am Sitze der Wahrheit immer aufs neue.
Они доят грохочущий нерушимый стебель,
Поэта – поэты, деятельные хранители мудрости.
К нему собираются коровы – выстроившиеся в ряд поэтические мысли
В лоне закона, снова возникающие в сидении (сомы).
नाभा॑ पृथि॒व्या ध॒रुणो॑ म॒हो दि॒वो॒३॒॑ऽपामू॒र्मौ सिन्धु॑ष्व॒न्तरु॑क्षि॒तः । इन्द्र॑स्य॒ वज्रो॑ वृष॒भो वि॒भूव॑सु॒: सोमो॑ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ॥
नाभा॑ । पृ॒थि॒व्याः । ध॒रुणः॑ । म॒हः । दि॒वः । अ॒पाम् । ऊ॒र्मौ । सिन्धु॑षु । अ॒न्तः । उ॒क्षि॒तः । इन्द्र॑स्य । वज्रः॑ । वृ॒ष॒भः । वि॒भुऽव॑सुः । सोमः॑ । हृ॒दे । प॒व॒ते॒ । चारु॑ । म॒त्स॒रः ॥
महः महतः दिवः द्युलोकस्य धरुणः धारकोऽयं सोमः पृथिव्याः विस्तीर्णाया भूमेः नाभा नाभौ नाभिस्थानीये उच्छ्रिते पदे ' यदुत्तरवेदीनाभिः ' ( ऐ. ब्रा. १. २८) इत्याम्नानात् उत्तरवेदिस्थान ऋत्विग्भिर्निहितः सिन्धुषु स्यन्दमानासु नदीषु अपाम् उदकानाम् ऊर्मौ संघे अन्तः मध्ये उक्षितः सिक्तः । अन्तरिक्षस्थानमध्ये वर्तमान इत्यर्थः । तादृशः इन्द्रस्य वज्रः वज्रस्थानीयः वृषभः कामानां वर्षिता अत एव विभूवसुः व्याप्तधनः सोमः चारु कल्याणं यथा भवति तथा इन्द्रस्य मत्सरः मादयिता सन् हृदे मनसे सुखाय पवते आगच्छति ॥
“The supporter of the vast heaven, (plural ced) upon the navel of the earth, moistened among the rivers in the wave of the waters, the thunderbolt of Indra, the showerer (of benefits), the possessor of wealth, Soma auspiciously exhilarating distils into (Indra's) heart.”
Earth's central point, sustainer of the mighty heavens, distilled into the streams, into the waters' wave,
As Indra's thunderbolt, Steer with farspreading wealth, Soma is flowing on to make the heart rejoice.
On the navel of earth is the buttress of great heaven. In the wave of the waters and within the rivers he is sprinkled.
The mace of Indra, the bull possessing conspicuous goods, the
invigorating soma purifies himself in a way dear to the heart.
Des grossen Himmels Stütze in der Erde Schooss, in Wasserwogen, in den Strömen hochgestellt, Des Indra Blitz, der Stier, der reiche Güter hat, berauschend strömt der Soma hell, dem Herzen lieb.
Im Nabel der Erde ward der Träger des großen Himmels im Gewoge der Gewässer, in den Flüssen benetzt, des Indra Keule, der schatzreiche Bulle, der Soma läutert sich angenehm für das Herz, der Berauschende.
На пупе земли опора великого неба,
(Сома,) был вылит в реки, в волну вод.
Ваджра Индры, бык, владеющий обильными благами,
Сома, опьяняющий, очищается приятно для сердца.
स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रज॑: स्तो॒त्रे शिक्ष॑न्नाधून्व॒ते च॑ सुक्रतो । मा नो॒ निर्भा॒ग्वसु॑नः सादन॒स्पृशो॑ र॒यिं पि॒शङ्गं॑ बहु॒लं व॑सीमहि ॥
सः । तु । प॒व॒स्व॒ । परि॑ । पार्थि॑वम् । रजः॑ । स्तो॒त्रे । शिक्ष॑न् । आ॒ऽधू॒न्व॒ते । च॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । मा । नः॒ । निः । भा॒क् । वसु॑नः । सा॒द॒न॒ऽस्पृशः॑ । र॒यिम् । पि॒शङ्ग॑म् । ब॒हु॒लम् । व॒सी॒म॒हि॒ ॥
हे सुक्रतो शोभनकर्मन् सुप्रज्ञ वा सोम तादृशस्त्वं पार्थिवं रजः लोकं लक्षीकृत्य तु क्षिप्रं परि पवस्व परितः सर्वतः क्षर । किं कुर्वन् । आधून्वते अदाभ्यग्रहे त्रिभिरंशुभिराधावनं कुर्वते । तथा भगवता आपस्तम्बेन सूत्रितं-- तैरेनं चतुराधुनोति पञ्चकृत्वः सप्तकृत्वो वा ' इति । तस्मै धनादिकं शिक्षन् प्रयच्छन् परि पवस्वेति समन्वयः । ततस्त्वं नः अस्मान् वसुनः धनात् मा निर्भाक् मा निर्भाङ्क्षीः मा वियोक्षीः । कीदृशात् । सदनस्पृशः । येन भूतेन वसुना सदनानि गृहान् पुत्रादीन् स्पृशन्ति तादृशात् गृहादिकस्य प्रदातुः धनान्मा वियुजः । भाक्। 'भज सेवायाम् । लुङि सिपि सिचि ‘ बहुलं छन्दसि' इति ईडागमाभावः । ‘ एकाचः' इति इट्प्रतिषेधः । हलन्तलक्षणा वृद्धिः (पा. सू. ७. २. ३ )। सिपो लोपः । यस्मादेवं तस्माद्वयं पिशङ्गं नानारूपं कनकादिना अत एव बहुलं प्रभूतं रयिं धनं वसीमहि आच्छादयेम । बहुधनवन्तो भवेमेत्यर्थः । ‘ वस आच्छादने '। आदादिकः । लिङि रूपम् ॥
“Performer of good deeds, flow quickly round the terrestrial region, giving (riches) to the worshipper and the shaker (of the libation); do not deprive us of the wealth that enriches our dwellings; may we be invested with abundant wealth of diverse kinds.”
Over the earthly region flow thou on thy way, helping the praiser and the pourer, thou Most Wise.
Let us not lack rich treasure reaching to our home, and may we clothe ourselves in manifold bright wealth.
Purify yourself all around the earthly realm, as you do your best for the man who praises and the man who rinses (you), you very resolute one. Don’t deal us out of a portion of a good that will touch our
dwellings: might we clothe ourselves in ample golden wealth.
So riesle denn hellflammend durch der Erde Luft dem Sänger spendend und dem Schüttler, weiser du; Entzieh uns nicht das Gut, das unser Haus erfüllt; wir mögen kleiden uns in reiches, goldnes Gut.
Läutere dich doch, den irdischen Raum umkreisend, um dem Sänger und dem Umschüttler einen Dienst zu erweisen, du Einsichtiger! Schließe uns nicht von dem Gute aus, das die Wohnung erreicht! Wir möchten uns mit vielem goldigem Reichtum umgeben.
Очищайся же, (о)кружая земное пространство,
Желая услужить восхвалителю и взбалтывателю, о прекрасный силой духа!
Не исключай нас из блага, касающегося жилища!
Мы хотим одеться в обильное золотистое богатство!
आ तू न॑ इन्दो श॒तदा॒त्वश्व्यं॑ स॒हस्र॑दातु पशु॒मद्धिर॑ण्यवत् । उप॑ मास्व बृह॒ती रे॒वती॒रिषोऽधि॑ स्तो॒त्रस्य॑ पवमान नो गहि ॥
आ । तु । नः॒ । इ॒न्दो॒ इति॑ । श॒तऽदा॑तु । अश्व्य॑म् । स॒हस्र॑ऽदातु । प॒शु॒ऽमत् । हिर॑ण्यऽवत् । उप॑ । मा॒स्व॒ । बृ॒ह॒तीः । रे॒वतीः॑ । इषः॑ । अधि॑ । स्तो॒त्रस्य॑ । प॒व॒मा॒न॒ । नः॒ । ग॒हि॒ ॥
हे इन्दो पवमान नः अस्मभ्यं तु क्षिप्रं धनम् आ आयच्छ । कीदृशम् । शतदातु । दातु दानम् । बहुदानम् अश्व्यम् अश्वसहितं सहस्रदातु सहस्रदानोपेतं पशुमत् पश्वादियुक्तं हिरण्यवत् हिरण्ययुक्तं च धनं देहि । तथा हे सोम बृहतीः प्रभूतानि रेवतीः धनवन्ति । यद्वा पयसोदातारः पशवः। तद्वन्ति इषः अन्नानि चास्मभ्यम् उप मास्व उपनिर्मिमीष्व । कुर्विति यावत् । किंच हे पवमान नः अस्माकं स्वभूतस्य स्तोत्रस्य श्रवणाय अधि गहि आगच्छ। ‘ क्रियार्थोपपदस्य°' (पा. सू.२.३.१४ ) इति चतुर्थी । चतुर्थ्यर्थे बहुलं छन्दसि' इति षष्ठी ॥ ॥ २८ ॥
“On Indu, bring us quickly (wealth) with a hundred gifts, with horses, with a thousand gifts, with cattle and with gold; measure unto us abundant riches and food; come, purified one, to (hear) our praise.”
Hither, O Indu, unto us a hundred gifts of steeds, a thousand gifts of cattle and of gold,
Measure thou forth, yea, splendid ample strengthening food do thou, O Pavamana, heed this laud of ours.
(Bring) here for us, o drop, a hundred shares of horses, a thousand shares of flocks and gold.
Measure out lofty, rich refreshments. Give study to our praise,
self-purifying one.
O Indu, hundertfaches, tausendfaches Gut, das reich an Rossen, reich an Heerden sei und Gold Und grosse reiche Labetränke miss uns zu, o flammender, beachte unsern Lobgesang.
Bring uns doch, o Saft, nach Hunderten zählenden Besitz von Rossen, nach Tausenden zählenden Besitz von Vieh und Gold! Teile uns große, reiche Tafelfreuden zu! Gedenke unseres Preisliedes, o Pavamana!
При(неси) же нам, о капля, сотенное владение конями,
Тысячное владение скотом (и) золотом!
Отмерь (нам) мощные, богатые жертвенные услады!
Обрати внимание на нашу хвалу, о Павамана!