स्रक्वे॑ द्र॒प्सस्य॒ धम॑त॒: सम॑स्वरन्नृ॒तस्य॒ योना॒ सम॑रन्त॒ नाभ॑यः । त्रीन्त्स मू॒र्ध्नो असु॑रश्चक्र आ॒रभे॑ स॒त्यस्य॒ नाव॑: सु॒कृत॑मपीपरन् ॥
स्रक्वे॑ । द्र॒प्सस्य॑ । धम॑तः । सम् । अ॒स्व॒र॒न् । ऋ॒तस्य॑ । योना॑ । सम् । अ॒र॒न्त॒ । नाभ॑यः । त्रीन् । सः । मू॒र्ध्नः । असु॑रः । च॒क्रे॒ । आ॒ऽरभे॑ । स॒त्यस्य॑ । नावः॑ । सु॒ऽकृत॑म् । अ॒पी॒प॒र॒न् ॥
स्रक्वे यज्ञस्य हनुस्थानीये। स्रक्व ओष्ठप्रान्तो हनुरुच्यते । ‘हनुरधिषवणफलकः' इत्याम्नानात् हनुस्थानीये अधिषवणफलके धमतः अभिषूयमाणस्य द्रप्सस्य सोमस्यांशवः समस्वरन् संगच्छन्ते । समशब्दयन् वा । ऋतस्य सत्यभूतस्य यज्ञस्य योना योनावुत्पत्तिस्थाने नाभयः सोमरसाः समरन्त संगच्छन्ते । अर्तेः ‘समो गमि°' इत्यादिनात्मनेपदम् ।' सर्तिशास्त्यर्तिभ्यश्च । इति च्लेरङ्। अथ असुरः बलवान् सर्वेषां प्रीणनात् प्राणदाता वा सः सोमः मूर्ध्नः समुच्छ्रितान् त्रीन् लोकान् आरभे आरम्भणाय मनुष्यदेवादीनां संचरणाय करोति । किंच सत्यस्य सत्यभूतस्य सोमस्य नावः नौका इव स्थिताश्चतस्रः स्थाल्यः। आदित्याग्रयणोक्थ्यध्रुवस्थाल्य इति । ताः स्थाल्यः सुकृतं सुष्ठु कर्माणि कुर्वन्तं यजमानम् अपीपरन् अभिमतदानेन पूजयन्ति वा। पारयतेर्लुङि चङि सन्वद्भावाभ्यासेत्वदीर्घाः ॥
“(The streams) of the dripping effused (Soma) sound together on the jaw (of the sacrifice), the Soma-juices flow together to the plural ce of sacrifice. The powerful (Soma) has made the three exalted worlds for the use (of men and gods); the ships of the truthful (Soma) satisfy the pious worshipper.”
THEY from the spouting drop have sounded at the rim: naves speed together to the place of sacrifice.
That Asura hath formed, to seize, three lofty heights. The ships of truth have borne the pious man across.
In the jaw (of the pressing stones) while the droplet was blowing its blast, they sounded in unison. The ties of lineage have joined together in the womb of truth.
The lord [=Soma] has made his three heads to be seized. The boats of the trusty one [=Soma] have brought the good (ritual) performer
across to the other shore.
Im Schlund des Tropfens, welcher gärt, in Opfers Schooss vereinten strömend jetzt verwandte Tränke sich; Drei Häupter machte zum Ergreifen sich der Gott, hinüber fuhr der Wahrheit Schiff den emsigen.
Im Gebiß der Steine brausten zusammen die Töne des blasenden Tropfens; an der Wiege der Opferordnung haben die Geschlechter einen Bund geschlossen. Drei Häupter nahm der Asura an, um ihn zu fassen. Die Schiffe der Wahrheit haben den Frommen hinübergesetzt.
В челюсти (давильного камня) дружно зазвучали (мелодии) набухшей капли.
В лоне закона соединились проявления родства.
Этот Асура создал себе три головы, чтобы (их) хватали.
Челны истины перевезли прекрасно действующего.
स॒म्यक्स॒म्यञ्चो॑ महि॒षा अ॑हेषत॒ सिन्धो॑रू॒र्मावधि॑ वे॒ना अ॑वीविपन् । मधो॒र्धारा॑भिर्ज॒नय॑न्तो अ॒र्कमित्प्रि॒यामिन्द्र॑स्य त॒न्व॑मवीवृधन् ॥
स॒म्यक् । स॒म्यञ्चः॑ । म॒हि॒षाः । अ॒हे॒ष॒त॒ । सिन्धोः॑ । ऊ॒र्मौ । अधि॑ । वे॒नाः । अ॒वी॒वि॒प॒न् । मधोः॑ । धारा॑भिः । ज॒नय॑न्तः । अ॒र्कम् । इत् । प्रि॒याम् । इन्द्र॑स्य । त॒न्व॑म् । अ॒वी॒वृ॒ध॒न् ॥
महिषाः पूज्या महान्तो वर्त्विजः सम्यञ्चः परस्परं संगताः सन्तः सम्यक् अहेषत सोमं सम्यक् प्रेरयन्ति अभिषुण्वन्तीति यावत् ।' हि गतौ वृद्धौ च ' । लुङि सिचि रूपम् । ततः वेनाः । ‘ वेनतेः कान्तिकर्मणः ' (निरु. १०, ३८ ) इति यास्कः । स्वर्गादिफलं कामयमाना ऋत्विजः सिन्धोः स्यन्दमानस्योदकस्य ऊर्मौ अधि संघे वसतीवर्यादिषु जलेषु सोमम् अवीविपन् कम्पयन्ति । तत्र प्रेरयन्तीत्यर्थः । वपतेर्ण्यन्तस्य लुङि चङि ' णौ चङ्युपधाया ह्रस्वः' इति ह्रस्वः । किंच अर्कम् अर्चनीयं स्तोत्रं जनयन्तः कुर्वन्तस्ते प्रियां प्रियतमाम् इन्द्रस्य तन्वं धाम च मधोः मदकरस्य सोमस्य धाराभिः अवीवृधन् वर्धितवन्तः । वर्धतेर्लुङि चङि रूपम् ॥
“The mighty (priests) assembled together send forth (the Soma) together; desirous (of heaven) they drive it to the wave of the river; genitive rating praise they nourish the previous body of Indra with the streams of the exhilarating Soma.”
The strong Steers, gathering, have duly stirred themselves,and over the stream's wave the friends sent forth the song.
Engendering the hymn, with flowing streams of meath, Indra's dear body have they caused to wax in strength.
Altogether joined together, the buffaloes have been propelled [/have propelled (him)]. The seekers have set (him/speech) atremble in the
swell of the river.
Giving birth to the chant with the streams of honey, they have made Indra’s own dear body grow strong.
Gemeinsam eilten jetzt die Büffel hin zum Ziel und tanzten liebreich auf des Stromes Welle hin, Erzeugend durch des Methes Strömen Lobgesang erquickten sie den lieben Leib des Indra schon.
Die Büffel haben ihn insgesamt vereint zur Eile getrieben; auf der Welle des Stromes haben ihn die Seher beredt gemacht. Durch die Ströme der Süßigkeit seinen Lobgesang hervorbringend haben sie Indra´s lieben Leib gestärkt.
Устремленные вместе буйволы совместно торопили (его течь).
На волне реки прозорливцы сделали (его) вдохновенным.
Потоками меда порождая песню,
Они усилили милое тело Индры.
प॒वित्र॑वन्त॒: परि॒ वाच॑मासते पि॒तैषां॑ प्र॒त्नो अ॒भि र॑क्षति व्र॒तम् । म॒हः स॑मु॒द्रं वरु॑णस्ति॒रो द॑धे॒ धीरा॒ इच्छे॑कुर्ध॒रुणे॑ष्वा॒रभ॑म् ॥
प॒वित्र॑ऽवन्तः । परि॑ । वाच॑म् । आ॒स॒ते॒ । पि॒तआ । ए॒षा॒म् । प्र॒त्नः । अ॒भि । र॒क्ष॒ति॒ । व्र॒तम् । म॒हः । स॒मु॒द्रम् । वरु॑णः । ति॒रः । द॒धे॒ । धीराः॑ । इत् । शे॒कुः॒ । ध॒रुणे॑षु । आ॒ऽरभ॑म् ॥
पवित्रवन्तः पवित्रेण शोधकेन सामर्थ्येन युक्ताः सोमस्य रश्मयः वाचं सोमस्थितां माध्यमिकां वाचं परि आसते पर्युपविशन्ति । सोमोऽन्तरिक्षे तिष्ठति खलु ‘सोमो वै राजा गन्धर्वेष्वासीत् ' ( ऐ. ब्रा, १.२७) इत्याम्नानात् । ततः प्रत्नः पुराणः एषां रश्मीनां पिता अयं सोमश्च व्रतं प्रकाशनात्मकं कर्म अभि रक्षति अवितं करोति । किंच वरुणः सर्वस्य स्वतेजसाच्छादकः सोऽयं सोमः महः महत् समुद्रम् । अन्तरिक्षनामैतत् । महदन्तरिक्षं तै रश्मिभिः तिरो दधे अन्तर्हितमकरोत् । सर्वं व्याप्नोदिति यावत् । तमिमं सोमं धीराः । इत् अवधारणे । कर्मणि कुशलाः प्राज्ञा एवर्त्विजः धरुणेषु सर्वस्य धारकेषु वसतीवर्याख्येषूदकेषु आरभम् आरब्धुं शेकुः शक्नुवन्ति च । रभेस्तुमर्थे ' शकि णमुल्कमुलौ' (पा. सू. ३. ४. १२ ) इति कमुल्। लित्स्वरेण मध्योदात्तः ॥
“(The rays of the Soma) having the means of purification sit round the voice (of the firmament), their ancient father protects their (light-giving) work; Soma the all-developer has overspread the mighty firmament (with them); the skilful (priests) are able to conduct (the Soma) to the all-sustaining (waters).”
With sanctifying gear they sit around the song: their ancient Father guards their holy work from harm.
Varuna hath o'erspread the mighty sea of air. Sages had power to hold him in sustaining floods.
Provided with the filter, they take their seats around speech. Their ancient father guards his commandment.
As great Varuṇa, (Soma) has hidden himself in the sea. Only the
insightful have been able to take hold of his supports.
Sie lagern in der Seihe sich um das Getön, ihr alter Vater hütet des Gesetzes Brauch; Das Somameer verhüllt der grosse Varuna, die Weisen wissen ihn zu fassen im Gefäss.
Die Seihe haltend warten sie der Rede; der alte Vater wacht über ihre Regel. Der große Varuna hat den Ozean verborgen. Nur die Sachkundigen vermochten ihn in seinen Unterlagen zu erfassen.
С цедилками дожидаются они речи.
Их древний отец охраняет завет.
Могучий Варуна спрятался в море.
Только мудрые смогли схватить (его) в (его) основах.
स॒हस्र॑धा॒रेऽव॒ ते सम॑स्वरन्दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चत॑: । अस्य॒ स्पशो॒ न नि मि॑षन्ति॒ भूर्ण॑यः प॒देप॑दे पा॒शिन॑: सन्ति॒ सेत॑वः ॥
स॒हस्र॑ऽधारे । अव॑ । ते । सम् । अ॒स॒र॒न् । दि॒वः । नाके॑ । मधु॑ऽझ्वाः । अ॒स॒श्चतः॑ । अस्य॑ । स्पशः॑ । न । नि । मि॒ष॒न्ति॒ । भूर्ण॑यः । प॒देऽप॑दे । पा॒शिनः॑ । स॒न्ति॒ सेत॑वः ॥
सहस्रधारे । बहूदकधारा यस्माद्द्रवन्ति तत्तथोक्तमन्तरिक्षम् । तस्मिन् वर्तमानाः ते सोमरश्मयः अव अवस्तात स्थिताः समस्वरन् । पृथिवीं वृष्ट्या संयोजयन्तीत्यर्थः । किंच दिवः द्युलोकस्य नाके समुच्छ्रिते देशे वर्तमानाः मधुजिह्वाः मध्वग्राः । सोमतेजसाग्रेभ्यो हि मधूत्पन्नं भवति । अतो मधुजिह्वाः । असश्चत: संगतवर्जिताः पृथक्पृथग्दिव्यवस्थिताः अस्य सोमस्य स्वभूताः स्पशः सारभूता रश्मयः भूर्णयः क्षिप्रगामिनः सन्तः न नि मिषन्ति निमेषं न कुर्वन्ति । किंतु पापिनः सुकृतिनश्च ज्ञातुं सर्वदा जाग्रतीत्यर्थः। अथवा । राजभृत्या यथा दुष्टान् विचारयितुं सर्वदा जागरणं कुर्वन्ति तद्वदेते रश्मयः पदेपदे स्थाने स्थाने सेतवः संबद्धाः सन्तः पाशिनः पापकृतां बाधकाः सन्ति भवन्ति ॥
“(The Soma rays) in the firmament of a thousand streams (unite with the earth) below; in the summit of heaven, sweet-tongued, in separate drops, his rays, swiftly moving, never shut their eyes; fixed each in his plural ce, they are the molesters (of sinners).”
Sweet-tongued, exhaustless, they have sent their voices down togetlier, in heaven's vault that pours a thousand streams.
His wildly-restless warders never close an eye: in every place are found the bonds that bind man last.
Down in that (filter) of a thousand streams, they have sounded in unison—as have the honey-tongued, inexhaustible (streams) in the
vault of heaven.
His fervent spies do not blink: at every step there are snares that bind.
In tausendström'ger Seihe rauschten sie zusammt, am Dom des Himmels lieblich murmelnd herrlich jetzt; Es schlummern seine muntern Späher nimmer ein, und seilbegabte Brücken sind an jedem Ort.
Auf die Seihe mit tausend Abtraufen brausten sie herab, an des Himmels Firmament die Ströme, die die Süßigkeit auf der Zunge tragen. Seine eifrigen Aufpasser schließen nie das Auge; auf Schritt und Tritt sind die Schlingen führenden Feßler da.
Эти (капли сомы) дружно зазвучали, (стекая) вниз в (сито) с тысячей протоков.
(Они поднялись) на небосвод, неся мед на языке, неиссякающие.
Его ревностные соглядатаи не смыкают глаз.
На каждом шагу находятся вязатели с петлями.
पि॒तुर्मा॒तुरध्या ये स॒मस्व॑रन्नृ॒चा शोच॑न्तः सं॒दह॑न्तो अव्र॒तान् । इन्द्र॑द्विष्टा॒मप॑ धमन्ति मा॒यया॒ त्वच॒मसि॑क्नीं॒ भूम॑नो दि॒वस्परि॑ ॥
पि॒तुः मा॒तुः । अधि॑ । आ । ये । स॒म्ऽअस्व॑रन् । ऋ॒चा । शोच॑न्तः । स॒म्ऽदह॑न्तः । अ॒व्र॒तान् । इन्द्र॑ऽद्विष्टाम् । अप॑ । ध॒म॒न्ति॒ । मा॒यया॑ । त्वच॑म् । असि॑क्नीम् । भूम॑नः । दि॒वः । परि॑ ॥
पितुर्मातुः द्यावापृथिव्योः । ‘ द्यौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पृथिवी महीयम्' (ऋ. सं. १.१६४.३३ ) इत्यादिषु द्यावापृथिव्योर्मातापितृत्वाम्नानात् । द्यावापृथिवीभ्यां ये सोमरश्मयः अध्या समस्वरन् अधिकं प्रादुर्भूता अभवन् ते ऋचा ऋत्विग्भिः क्रियमाणया स्तुत्या शोचन्तः दीप्यमानाः अव्रतान् कर्मरहितान् यजमानान् संदहन्तः सम्यग्विनाशयन्तस्ते रश्मयः इन्द्रद्विष्टाम् इन्द्राय द्वेषकारिणीम् । ‘क्ते च ' ( पा. सू. ६. २. ४५ ) इति पूर्वपदप्रकृतिस्वरः । इन्द्रेण द्विष्टां वा । असिक्नीम् । रात्रिनामैतत् । रात्रिवत्कृष्णरूपां त्वचम् । राक्षसमित्यर्थः । मायया कर्मणा प्रज्ञया वा भूमनः विस्तृताद्भूलोकात् दिवस्परि द्युलोकाच्च अप धमन्ति अपगतं कुर्वन्ति । अपघ्न्तीत्यर्थः ॥ ॥ २९ ॥
“(The rays) which were manifested in heaven and earth, illumined by the hymn (of praise), consuming the impious (sacrificers), drive away by their wisdom from earth and heaven the black-skinned (rākṣasas) hated by Indra.”
O'er Sire and Mother they have roared in unison bright with the verse of praise, burning up riteless men,
Blowing away with supernatural might from earth and from the heavens the swarthy skin which Indra hates.
Those who sounded in unison from the father and the mother [=Heaven and Earth], blazing with their verse, burning up those who follow no commandment,
they blow away by magic power the black skin hated by Indra, from earth and from heaven—
Sie, die mit Glanz vom Vater und der Mutter her erstrahlend rauschten, brennend weg der Frevler Schar, Sie blasen von der Erde und dem Himmel fort mit Zaubermacht die schwarze Haut, die Indra hasst.
Die von Vater und Mutter her im Chorgesang erbrausten, in gebundener Rede erglühend, die Gesetzlosen versengend, die blasen durch Zaubermacht die dem Indra verhaßte schwarze Haut von Erde und Himmel fort.
Те, что дружно зазвучали от отца и матери,
Воспламеняясь от гимна, сжигая (врагов), лишенных обета,
С помощью колдовской силы сдувают прочь ненавистную Индре
Черную кожу с земли (и) с неба.
प्र॒त्नान्माना॒दध्या ये स॒मस्व॑र॒ञ्छ्लोक॑यन्त्रासो रभ॒सस्य॒ मन्त॑वः । अपा॑न॒क्षासो॑ बधि॒रा अ॑हासत ऋ॒तस्य॒ पन्थां॒ न त॑रन्ति दु॒ष्कृत॑: ॥
प्र॒त्नात् । माना॑त् । अधि॑ । आ । ये । स॒म्ऽअस्व॑रन् । श्लोक॑ऽयन्त्रासः । र॒भ॒सस्य॑ । मन्त॑वः । अप॑ । अ॒न॒क्षासः॑ । ब॒धि॒राः । अ॒हा॒स॒त॒ । ऋ॒तस्य॑ । पन्था॑म् । न । त॒र॒न्ति॒ । दुः॒ऽकृतः॑ ॥
श्लोकयन्त्रासः । श्लोकाः स्तुतयः। स्तुतिनियमनाः रभसस्य मन्तवः वेगमभिमन्यमानाः एतादृशाः ये सोमरश्मयः प्रत्नात् पुराणात् मानात् अन्तरिक्षात् अध्या समस्वरन् सह प्रादुर्भूता अभवन् तान्रश्मीन् अनक्षासः चक्षुर्वर्जिताः साधु पदार्थानामद्रष्टारो नराः बधिराः देवतास्तुतिश्रवणवर्जिताः पापकृतो नरश्च अप अहासत तान् परित्यजन्ति । दर्शिनः श्रवणवन्तो मेधाविनस्तु न परिजहति किंतु स्तुवन्ति । तदेवाह । ऋतस्य सत्यस्य पन्थां मार्गभूतमेषां गणं दुष्कृतः पापकृतो नराः न तरन्ति नोत्तारयन्ति । सुकृतस्तु तरन्तीत्यभिप्रायः ॥
“(The rays) which regulating praise and purposing rapidity of action, were manifested from the ancient firmament, them the blind and deaf avoid; the wicked traverse not the path of truth.”
Those which, as guides of song and counsellors of speed, were manifested from their ancient dwelling place,-
From these the eyeless and the deaf have turned aside: the wicked travel not the pathway of the Law.
Those who sounded in unison from their ancient edifice, those with a signaling call for their reins, counselors of the wild one [=Soma].
The blind and deaf have retreated: evildoers do not traverse the path of truth.
Die als des wilden Rosses Lenker liedgelockt zugleich geströmt sind von dem alten Sitze her, Die blinden und die tauben sind hinweggeilt, des Opfers Pfad durchkreuzet nicht der Bösen Schar.
Die nach der alten Tonweise den Chorgesang erbrausen ließen, den richtigen Ton einhaltend, die Ersinner der packenden Melodie - Die Blinden und Tauben sind abgefallen; die Stümper legen nicht den Weg der Wahrheit zurück.
(Те,) что дружно зазвучали, (исходя) из древней меры,
Управляя звуком, повелители неистовой (мелодии):
Слепые и глухие удалились.
Творящие зло не пересекают пути закона.
स॒हस्र॑धारे॒ वित॑ते प॒वित्र॒ आ वाचं॑ पुनन्ति क॒वयो॑ मनी॒षिण॑: । रु॒द्रास॑ एषामिषि॒रासो॑ अ॒द्रुह॒: स्पश॒: स्वञ्च॑: सु॒दृशो॑ नृ॒चक्ष॑सः ॥
स॒हस्र॑ऽधारे । विऽत॑ते । प॒वित्रे॑ । आ । वाच॑म् । पु॒न॒न्ति॒ । क॒वयः॑ । म॒नी॒षिणः॑ । रु॒द्रासः॑ । ए॒षा॒म् । इ॒षि॒रासः॑ । अ॒द्रुहः॑ । स्पशः॑ । सु॒ऽअञ्चः॑ । सु॒ऽदृशः॑ । नृ॒ऽचक्ष॑सः ॥
कवयः क्रान्तकर्माणः अत एव मनीषिणः प्राज्ञा ऋत्विजः सहस्रधारे अनेकधारोपेते वितते कर्मणि विस्तृते पवित्रे शुद्ध्युत्पादके सोमे वर्तमानां वाचं माध्यमिकाम् । सोमः खलु विश्वावसुप्रभृतिगन्धर्वेष्वन्तरिक्षेऽवतिष्ठते ' सोमो वै राजा गन्धर्वेष्वासीत् ' ( ऐ. ब्रा.१.२७ ) इति श्रवणात् । तत्र वर्तमानं सोमं देवा गोरूपया वाचा क्रीतवन्तः । तदा सोमे वाक्तिष्ठतीति शक्यते वक्तुम् । तस्मात्सोमे स्थितां माध्यमिकां वाचम् आ पुनन्ति संस्कुर्वन्ति । स्तुवन्तीति यावत् । य उक्तगुणा मरुतां मातरं माध्यमिकां वाचं स्तुवन्ति तेषां रुद्रासः रुद्रपुत्रा मरुतः स्पशः मध्यमया वाचा वशिनो भवन्ति । कीदृशाः । इषिराः गमनशीलाः अद्रुहः स्तोतॄणामद्रोग्धारः । यद्वा । द्रुहेः कर्मणि क्विबौणादिकः । परैरहिंस्याः । स्वञ्चः शोभनाञ्चनाः अत एव सुदृशः सुदर्शनाः नृचक्षसः नृणां कर्मनेतॄणां द्रष्टारः ॥
“The intelligent sages extol the voice (of the firmament) in the purifying extended (Soma) with its thousand streams; the Rudras are their servants, swift-moving, inviolable, revered, of goodly aspect, the beholders of men.”
What time the filter with a thousand streams is stretched, the thoughtful sages purify their song therein.
Bright-coloured are their spies, vigorous, void of guile, excellent, fair to see, beholders of mankind.
Here in the wide-stretched filter of a thousand streams the poets of inspired thought purify their speech.
The lively Rudras [=Maruts] without deceit are their spies, well directed, lovely to see, with their eyes on men.
Im tausendström'gen, ausgespannten Somanetz durchläutern sie, die weisen Seher, ihren Sang, Mit Glanz begabt sind ihre Späher, ohne Falsch gewandt und munter, männerschauend hellen Blicks.
In der ausgespannten Seihe mit tausend Abtraufen läutern nachsinnend die Seher ihre Rede. Die Rudrasöhne sind ihre eifrigen Aufpasser, ohne Falsch, gewandt, schön von Aussehen und mit dem Herrenauge.
В протянутой цедилке с тысячей протоков
Поэты, хранители мудрости, очищают речь.
Рудры – их подвижные безобманные
Соглядатаи, проворные, прекрасные на вид, со взглядом героя.
ऋ॒तस्य॑ गो॒पा न दभा॑य सु॒क्रतु॒स्त्री ष प॒वित्रा॑ हृ॒द्य१॒॑न्तरा द॑धे । वि॒द्वान्त्स विश्वा॒ भुव॑ना॒भि प॑श्य॒त्यवाजु॑ष्टान्विध्यति क॒र्ते अ॑व्र॒तान् ॥
ऋ॒तस्य॑ । गो॒पाः । न । दभा॑य । सु॒ऽक्रतुः॑ । त्री । सः । प॒वित्रा॑ । हृ॒दि । अ॒न्तः । आ । द॒धे॒ । वि॒द्वान् । सः । विश्वा॑ । भुव॑ना । अ॒भि । प॒श्य॒ति॒ । अव॑ । अजु॑ष्टान् । वि॒ध्य॒ति । क॒र्ते । अ॒व्र॒तान् ॥
ऋतस्य सत्यभूतस्य यज्ञस्य गोपाः गोपायिता अत एव सुक्रतुः शोभनकर्मा सोमः न दभाय दम्भाय स्तम्भनाय न भवति । परैर्दम्भयितुं न शक्यत इत्यर्थः । किंच सः सोमः त्री । ‘ शेश्छन्दसि बहुलम्' इति लुक् । त्रीणि पवित्रा अग्निवायुसूर्यात्मकानि त्रीणि पवित्राणि हृद्यन्तः हृदयस्यान्तः आ दधे आदधाति । स्वस्मिन् संगमयतीत्यर्थः । अपि च विद्वान् सर्वं जानानः सः सोमः विश्वा भुवना सर्वाणि भुवनानि अभि पश्यति । ततः कर्ते । करोतेरौणादिकः तप्रत्ययः । कर्मणि अजुष्टान् अप्रियान् अत एव अव्रतान् अयजमानान् अव विध्यति अवाङ्मुखान् कृत्वा ताडयति । हिनस्तीति यावत् ॥
“(Soma) the protector of the sacrifice, the doer of good deeds cannot be resisted; he plural ces in his heart the three purifiers; he the all-wise looks over all worlds; he censures those who are hostile in action, who sacrifice not.”
Guardian of Law, most wise, he may not be deceived: three Purifiers hath he set within his heart.
With wisdom he beholds all creatures that exist: he drives into the pit the hated riteliess ones.
The herdsman of truth is not to be tricked: his will is strong. He has set three filters within his heart.
Knowing, he looks upon all living creatures. He jabs the disgusting
deniers of commandments down into the pit.
Zu täuschen ist des Opfers weiser Hüter nicht, drei Läuterungen hat er in das Herz gesenkt; Er schauet kundig alle Wesen an und stösst die widerwärt'gen Frevler in die Gruft hinab.
Der einsichtsvolle Hüter der Wahrheit ist nicht zu täuschen; er trägt drei Seihen innen im Herzen. Kundig überschaut er alle Wesen; er stößt die mißliebigen Gesetzlosen hinab in die Grube.
Хранители закона нельзя обмануть, (его,) прекрасного силой духа.
Он вложил себе в сердце три цедилки.
Знаток, он озирает все существа.
(А) нежелательных, лишенных обетов он сталкивает в яму.
ऋ॒तस्य॒ तन्तु॒र्वित॑तः प॒वित्र॒ आ जि॒ह्वाया॒ अग्रे॒ वरु॑णस्य मा॒यया॑ । धीरा॑श्चि॒त्तत्स॒मिन॑क्षन्त आश॒तात्रा॑ क॒र्तमव॑ पदा॒त्यप्र॑भुः ॥
ऋ॒तस्य॑ । तन्तुः॑ । विऽत॑तः । प॒वित्रे॑ । आ । जि॒ह्वायाः॑ । अग्रे॑ । वरु॑णस्य । मा॒यया॑ । धीराः॑ । चि॒त् । तत् । स॒म्ऽइन॑क्षन्तः । आ॒श॒त॒ । अत्र॑ । क॒र्तम् । अव॑ । प॒दा॒ति॒ । अप्र॑ऽभुः ॥
ऋतस्य सत्यभूतस्य यज्ञस्य तन्तुः तनिता पवित्रे अविवालमये दशापवित्रे विततः विस्तृतः । यद्वा । पवित्रेऽन्तरिक्षे विस्तृतः सोमः वरुणस्य जिह्वाया अग्रे मायया कर्मणा आ आस्थितः। वरुणजिह्वाग्र आपस्तिष्ठन्ति । तासु सोमो वसतीति वसतीवर्याद्युदकेषु स्थित इत्यर्थः । ततः धीराश्चित् कर्मणि प्राज्ञा एव तत् वरुणजिह्वाग्रस्थानं समिनक्षन्तः । इनक्षतिर्गतिकर्मा । संव्याप्नुवन्तः सन्तः आशत स्तुतिभिर्हविर्भिर्वा प्राप्नुवन् । यः पुनः कर्तम् ।' कालाध्वनो:° ' इति द्वितीया । कर्मणि अप्रभुः समर्थो न भवति सोऽयम् अत्र अस्मिनेव लोके अव पदाति अवस्तान्नरके पतति नोपरि गच्छति । ‘पद गतौ ' । लेट्याडागमः । तस्मात्सर्वैरग्निष्टोमादिकर्म कर्तव्यमित्येषोऽर्थोऽभिहितो भवति ॥ ॥ ३० ॥
“The threads of the sacrifice spread over the filter extends by its act to the tip of Varuṇa's tongue; the wise approaching reached it;but he who is incompetent for the rite sinks (to hell) even in this world.”
The thread of sacrifice spun in the cleansing sieve, on Varuna's tongue-tip, by supernatural might,-
This, by their striving, have the prudent ones attained: he who hath not this power shall sink into the pit.
The thread of truth is stretched widely, here on the filter and on the tip of the tongue, through the magic power of Varuṇa.
Only the insightful, seeking to reach it together, have attained it. The one who does not advance will fall down into the pit here.
Des Opfers Netz ist in der Seihe ausgespannt beim Opferanfang durch die Macht des Varuna; Die weisen haben strebend jetzt ihr Ziel erreicht, so falle in die Grube denn, wer nichts vermag.
Der Faden der Wahrheit ist in der Seihe ausgespannt auf der Spitze der Zunge durch die Zaubermacht des Varuna. Auch nur die Sachkundigen, die das zu erreichen suchen, haben es erreicht. Der Unvermögende soll dabei in die Grube abstürzen.
Нить закона протянута в цедилке
(И) на кончике языка благодаря волшебной силе Варуны.
Только мудрые, стремящиеся достигнуть, достигают (этого).
Бессильный же – да падет он в яму!