शिशु॒र्न जा॒तोऽव॑ चक्रद॒द्वने॒ स्व१॒॑र्यद्वा॒ज्य॑रु॒षः सिषा॑सति । दि॒वो रेत॑सा सचते पयो॒वृधा॒ तमी॑महे सुम॒ती शर्म॑ स॒प्रथ॑: ॥
शिशुः॑ । न । जा॒तः । अव॑ । च॒क्र॒द॒त् । वने॑ । स्वः॑ । यत् । वा॒जी । अ॒रु॒षः । सिसा॑सति । दि॒वः । रेत॑सा । स॒च॒ते॒ । प॒यः॒ऽवृधा॑ । तम् । ई॒म॒हे॒ । सु॒ऽम॒ती । शर्म॑ । स॒ऽप्रथः॑ ॥
स पवमानः सोमः वने वननीये वसतीवर्याख्य उदके जातः उत्पन्नः शिशुर्न शिशुरिव अव चक्रदत् अवाङ्मुखं क्रन्दति । तदोदकमध्ये पतञ्छब्दं करोति खलु। यत् यदा वाजी बलवानन्नवान् वा अरुषः आरोचमानः । यद्वा । वाज्यश्व इव अरुषः । अर्तेरुषच् । गमनशीलः सोमः स्वः स्वर्गलोकं सिषासति संभक्तुमिच्छति । सनोतेः सनीडभाव आत्वम् । ‘ सनोते:०' इति सांहितिकं षत्वम् । सोऽयं पयोवृधा गवामोषधीनां च क्षीरस्य वर्धकेन’ रेतसा उदकेन सह दिवः द्युलोकात् सचते पार्थिवं लोकं समवैति । तं तादृशं प्रसिद्धं सोमं सप्रथः सर्वतः पृथुतरं धनादिना युक्तं शर्म गृहं तद्वयं सुमती । ‘सुपां सुलुक्°' इति तृतीयायाः पूर्वसवर्णदीर्घः । सुमत्या शोभनया स्तुत्या ईमहे याचामहे । ईमह इति याञ्चाकर्मा। ‘ ईङ् गतौ । देवादिकः । छान्दसः श्यनो लुक् ॥
“Born in the water (the Soma) cries out like a child, when powerful and brilliant he wishes to enjoy heaven; he comes from the sky tomix with the water that nourish the kine; we ask him by our praises for an opulent dwelling.”
BORN like a youngling he hath clamoured in the wood, when he, the Red, the Strong, would win the light of heaven.
He comes with heavenly seed that makes the water swell: him for wide-spreading shelter we implore with prayer.
Like a new-born (calf), he has roared down into the wood(en vessel). When the ruddy racehorse strives to win the sun,
he keeps company with the milk-strong semen of heaven. We implore him for extensive protection through his benevolence.
Im Wasser schreit er wie ein neugebornes Kind, wenn nach des Himmels Glanz der rothe Renner strebt; Dem Milch-durchtränkten Himmelssamen eint er sich; den flehn mit Andacht wir um ausgedehnten Schutz.
Wie das neugeborene junge Tier brüllt er auf das Holzgefäß herab, wenn der rötliche Preisrenner die Sonne zu gewinnen sucht. Er vereinigt sich mit des Himmels milchreichem Samen. Ihn bitten wir freundlich um seinen ausgedehnten Schirm.
Как новорожденный ребенок, он заревел, с(пускаясь) в деревянный сосуд.
Когда рыжий победоносный конь хочет завоевать солнце.
Он соединяется с семенем неба, с усиленным молоком.
Прекрасным произведением мы просим его о широкой защите.
दि॒वो यः स्क॒म्भो ध॒रुण॒: स्वा॑तत॒ आपू॑र्णो अं॒शुः प॒र्येति॑ वि॒श्वत॑: । सेमे म॒ही रोद॑सी यक्षदा॒वृता॑ समीची॒ने दा॑धार॒ समिष॑: क॒विः ॥
दि॒वः । यः । स्क॒म्भः । ध॒रुणः॑ । सुऽआ॑ततः । आऽपू॑र्णः । अं॒शुः । प॒रि॒ऽ एति॑ । वि॒श्वतः॑ । सः । इ॒मे इति॑ । म॒ही इति॑ । रोद॑सी॒ इति॑ । य॒क्ष॒त् । आ॒ऽवृता॑ । स॒मी॒ची॒ने इति॑ स॒म्ऽई॒ची॒ने । दा॒हा॒र॒ । सम् । इषः॑ । क॒विः ॥
दिवः द्युलोकस्य स्कम्भः विष्कम्भयिता संरोद्धा धरुणः सर्वस्य धारकः । यद्वा । पृथिव्या धारकः । विष्टम्भो दिवो धरुणः पृथिव्याः ' ( ऋ. सं. ९.८९.६ ) इत्याम्नानात् । तादृशः स्वाततः सुष्ठु सर्वत्र विततः विस्तृतः अत एव आपूर्णः पात्रेषु संपूर्णः यः अंशुः सोमात्मकः विश्वतः सर्वतः पर्येति परिगच्छति । ‘तिङि चोदात्तवति' इति गतेर्निघातः । सः सोमः इमे रोदसी द्यावापृथिव्यौ आवृता संभजनीयेन कर्मणा यक्षत् यजतु । स्वबलेन संयोजयत्वित्यर्थः । ततः सोऽयं समीचीने परस्परं संगते द्यावापृथिव्यौ दाधार धारयांचकार । ‘तुजादीनाम्' इत्यभ्यासस्य दीर्घः । अनन्तरं कविः क्रान्तकर्मा इषः अन्नानि स्तोतृभ्यः सं प्रयच्छतु । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥
“The supporter of heaven, the prop (of the earth), the Soma-juice who, widely spreading, filling (the vessels), flows in all directions-- may he unite the two great worlds by his own strength; he has upheld them combined; (may he) the sage (bestow) food upon (his worshippers).”
A far-extended pillar that supports the sky the Soma-stalk, filled full, moves itself every way.
He shall bring both these great worlds while the rite proceeds: the Sage holds these who move! together and all food.
The (soma) plant, the prop and buttress of heaven, which, when well extended and fully filled, encompasses in every direction,
that (plant) will offer sacrifice to these two great world-halves when they turn hither. The poet unites the united pair and the refreshing drinks.
Der als des Himmels Strebepfeiler schön erhöht als reichgefüllter Soma rings das All umfängt, Den zwei vereinten hergewandten Welten soll der weise opfern, alle Tränke hegt er treu.
Der die Stengel tragende schöngerichtete Säule des Himmels ist, und als vollgesogener Stengel rings umkreist, er möge diese beiden großen Welthälften nach dem Herkommen verehren. Er hält das vereinigte Paar und alle Labungen zusammen, der Seher.
Кто опора неба, прекрасно протянутая основа,
Набухшее растение, (сок, который) повсюду движется кругами,
Тот пусть почтит совершением обряда эти две великие половины (вселенной)!
Поэт, он охватывает (эту) соединенную (пару и) жертвенные услады.
महि॒ प्सर॒: सुकृ॑तं सो॒म्यं मधू॒र्वी गव्यू॑ति॒रदि॑तेॠ॒तं य॒ते । ईशे॒ यो वृ॒ष्टेरि॒त उ॒स्रियो॒ वृषा॒पां ने॒ता य इ॒तऊ॑तिॠ॒ग्मिय॑: ॥
महि॑ । प्सरः॑ । सुऽकृ॑तम् । सो॒म्यम् । मधु॑ । उ॒र्वी । गव्यू॑तिः । अदि॑तेः । ऋ॒तम् । य॒ते । ईशे॑ । यः । वृ॒ष्टेः । इ॒तः । उ॒स्रियः॑ । वृषा॑ । अ॒पाम् । ने॒ता । यः । इ॒तःऽऊ॑तिः । ऋ॒ग्मियः॑ ॥
ऋतं सत्यभूतं यज्ञं यते गच्छते तस्मा इन्द्राय सुकृतं सुष्ठु संस्कृतं सोम्यं सोममयं महि । महत् प्रभूतं मधु मधुररसं प्सरः भक्षणं पानीयं भवति । 'प्सा भक्षणे'। किंच अस्मद्यज्ञं प्रत्यागच्छतामिन्द्रादीनाम् अदितेः पृथिव्याः गव्यूतिः मार्गश्च उर्वी विस्तीर्णो भवति । इन्द्रस्य शतसहस्रसंख्याकैर्हरिभिः सह गन्तुं मार्गो विस्तीर्णोऽभवदित्यर्थः । यः इन्द्रः इतः इमं लोकं प्रत्यापतन्याः वृष्टेः ईशे ईश्वरो भवति । तथा उस्रियः । उस्रेति गोनाम । गोभ्यो हितः अपाम् उदकानां वृषा वर्षकः यज्ञस्य नेता नायकः इतऊतिः इममस्मदीयं यज्ञं प्रत्यूतिर्गमनं यस्य स तथोक्तः । इतो गच्छन् यः इन्द्रः ऋग्मियः ऋगर्हः स्तोतव्यो भवति । तस्मा अयं सोमः पातव्यो भवतीति ॥
“(There is) abundant food well-prepared made of Soma and sweet for (Indra) who comes to the sacrifice; the way to earth is broad; (for Indra) who is the lord of the rain (that falls) here, the possessor of cattle, the showerer of water, the leader (of the sacrifice), whose road is hither, who is deserving of praise.”
Wide space hath he who follows Aditi's right path, and mighty, well-made food, meath blent with Soma juice;
He who from hence commands the rain, Steer of the kine, Leader of floods, who helps us hence, who claims our laud.
A great delight is the well-prepared somian honey, and wide is the pasture-land of Aditi for him who goes to truth,
who, as a dawn-red bull, is master of the rain from here, who is the
leader of the waters, ageless and worthy of verses.
Ihm, der Aditi's Werk betreibt, ist gross das Mahl, die Weide weit, und schön gebraut der süsse Trank, Dem rothen Stier, der stets der Herr des Regens ist, der preisenswerth die Wasser führt und weiter hilft.
Ein Hochgenuß ist die wohlbereitete somische Süßigkeit; sie ist der breite Weg der Aditi für den, welcher den rechten Weg wandelt, Soma, der als Bullenstier von hier aus über den Regen gebeut, der Führer der Gewässer, der auf der Stelle Helfende, Preiswürdige.
Великий праздник – мед сомы, хорошо приготовленный!
Широко пастбище Адити для идущего по закону.
(Сома тот,) кто правит дождем отсюда, (этот) рыжеватый бык,
Кто вождь вод, помогающий отсюда, достойный гимна.
आ॒त्म॒न्वन्नभो॑ दुह्यते घृ॒तं पय॑ ऋ॒तस्य॒ नाभि॑र॒मृतं॒ वि जा॑यते । स॒मी॒ची॒नाः सु॒दान॑वः प्रीणन्ति॒ तं नरो॑ हि॒तमव॑ मेहन्ति॒ पेर॑वः ॥
आ॒त्म॒न्ऽवत् । नभः॑ । दु॒ह्य॒ते॒ । घृ॒तम् । पयः॑ । ऋ॒तस्य॑ । नाभिः॑ । अ॒मृत॑म् । वि । जा॒य॒ते॒ । स॒मी॒ची॒नाः । सु॒ऽदान॑वः । प्री॒ण॒न्ति॒ । तम् । नरः॑ । हि॒तम् । अव॑ । मे॒ह॒न्ति॒ । पेर॑वः ॥
आत्मन्वत् । अनो नुट्' इति नुडागमः । आत्मवत् सारवत् घृतं पयः च नभः नभस आदित्यरूपात्सोमः दुह्यते । किंच ऋतस्य यज्ञस्य नाभिः । ‘णह बन्धने' । ‘ स्वमोर्नपुंसकात्' ( पा. सू. ७. १. २३) इति सोर्लुग्न भवति सर्वविधीनां छन्दसि विकल्पितत्वात् । नाभि यज्ञस्य बन्धकम् अमृतम् उदकं च वि जायते तस्मादेव प्रादुर्भवति । ततः सुदानवः शोभनस्तुतिहविर्दानवन्तो यजमानाः समीचीनाः परस्परं संगताः सन्तः तम् इदं सोमं प्रीणयन्ति स्तुतिभिस्तर्पयन्ति । अथ नरः नेतारः पेरवः । ‘ पा रक्षणे । मापोरित्वे रुन्' इति रुन्प्रत्ययः । सर्वस्य रक्षकाः सोमरश्मयः हितं निहितम् अव अवस्ताद्वर्तमानं पार्थिवमुदकं मेहन्ति वर्षन्ति । ‘ मिह सेचने ' । भौवादिकः । यद्वा । हितमुदकं पृथिवीं प्रति मेहन्ति ।
“Full of sap the butter and milk is milked from heaven, the bond of the sacrifice, the water is genitive rated; the assembled liberal givers delight him; (the Soma-juices) the leaders, the protectors shower down the accusative ulated (water).”
Butter and milk are drawn from animated cloud; thence Amrta is produced, centre of sacrifice.
Hini the Most Bounteous Ones, ever united, love; him as ouir Friend the Men who make all swell rain down.
The embodied cloud is milked of ghee and milk. The navel of truth, the immortal (drink) is born.
United, possessed of good drops, they please him. The swollen men piss down the one propelled.
Belebter Wolke wird entzogen fette Milch, des Opfers Nabel wird erzeugt, der Göttertrank; Die gabenreichen im Verein erfreuen ihn, den lieben giessen Männer, die ihn brauten, aus.
Aus der lebendigen Wolke wird Schmalz und Milch gemolken; der Nabel, der Mittelpunkt der Opferordnung, der Göttertrank, wird geboren. Vereint stellen ihn die Gabenschönen zufrieden; den zur Eile Getriebenen pissen die schwellenden Männer herab.
Наделенное жизнью облако доится жиром, молоком.
Рождается пуп (вселенского) закона, напиток бессмертия.
Обьединенный вместе, с прекрасными дарами они радуются ему.
Набухшие мужи мочатся вниз (этим) спешащим.
अरा॑वीदं॒शुः सच॑मान ऊ॒र्मिणा॑ देवा॒व्यं१॒॑ मनु॑षे पिन्वति॒ त्वच॑म् । दधा॑ति॒ गर्भ॒मदि॑तेरु॒पस्थ॒ आ येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ॥
अरा॑वीत् । अं॒शुः । सच॑मानः । ऊ॒र्मिणा॑ । दे॒व॒ऽअ॒व्य॑म् । मनु॑षे । पि॒न्व॒ति॒ । त्वच॑म् । दधा॑ति । गर्भ॑म् । अदि॑तेः । उ॒पऽस्थे॑ । आ । येन॑ । तो॒कम् । च॒ । तन॑यम् । च॒ । धाम॑हे ॥
ऊर्मिणा वसतीवर्यादीनामुदकानां संघेन सचमानः अंशुः सोमः अरावीत् शब्दं करोति । किंच स सोमः देवाव्यम् । अव रक्षणे' ।' अवितॄस्तृतन्त्रिभ्य ईः' इति ईप्रत्ययः । देवानां पालयित्रीं त्वचम् आत्मनः शरीरं मनुषे मनुष्याय यजमानाय पिन्वति सिञ्चति । पात्रेषु क्षरतीति यावत् ॥ अपि च अदितेः अदीनायाः पृथिव्याः उपस्थे समीप ओषधीषु तं गर्भम् आ दधाति सुधामयैः किरणैर्विदधाति । येन गर्भेण वयं तोकं दुःखनाशकं पुत्रं च तनयम् । तनोति कुलमिति तनयः पौत्रः । तं च धामहे दध्महे धारयामः । दधातेर्लटि ‘बहुलं छन्दसि' इति शपो लुक् ॥ ॥ ३१ ॥
“Combining with the wave the Soma utters a cry; he sprinkles his god-protecting body for the worshipper; he plural ces the germ upon the lap of the earth, whereby we acquire sons and grandsons.”
The Soma-stalk hath roared, following with the wave: he swells with sap for man the skin which Gods enjoy.
Upon the lap of Aditi he lays the germ, by means whereof we gain children and progeny.
The plant, keeping company with the wave, has roared. For Manu it swells the skin that seeks out the gods.
It deposits the embryo in the lap of Aditi, the one by which we will
acquire both progeny and prosperity.
Es braust der Saft, wenn er mit Wellen sich ergiesst, dem Menschen füllt den Schlauch er, der die Götter labt, Den Fruchtkeim legt er in den Schooss der Aditi, durch den wir Kinder und der Enkel Schar empfahn.
Der Stengel hat gebrüllt, sich mit der Woge vereinend; er schwellt für den Menschen den göttereinladenden Schlauch an. Er legt in der Aditi Schoß den Keim, durch den wir Samen und leibliche Nachkommenschaft erlangen.
Взревел стебель, сопровождаемый волной.
Для человека он делает набухшим бурдюк, привлекающий богов.
Он влагает в лоно Адити зародыша,
Благодаря которому мы получаем продолжение рода.
स॒हस्र॑धा॒रेऽव॒ ता अ॑स॒श्चत॑स्तृ॒तीये॑ सन्तु॒ रज॑सि प्र॒जाव॑तीः । चत॑स्रो॒ नाभो॒ निहि॑ता अ॒वो दि॒वो ह॒विर्भ॑रन्त्य॒मृतं॑ घृत॒श्चुत॑: ॥
स॒हस्र॑ऽधारे । अव॑ । ताः । अ॒स॒श्चतः॑ । तृ॒तीये॑ । स॒न्तु॒ । रज॑सि । प्र॒जाऽव॑तीः । चत॑स्रः । नाभः॑ । निऽहि॑ताः । अ॒वः । दि॒वः । ह॒विः । भ॒र॒न्ति॒ । अ॒मृत॑म् । घृ॒त॒ऽश्चुतः॑ ॥
सहस्रधारे बहूदकधारे तृतीये रजसि लोके स्वर्गे वर्तमानाः असश्चतः परस्परमसक्ताः प्रजावतीः उत्पादितप्रजावत्यः सोमस्य स्वभूताः ताः अव सन्तु अवस्तात्पृथिव्यां पतन्तु । कास्ता इत्याह । चतस्रो नाभः तपसो बाधिकाः सोमस्य संबन्धिन्यश्चतस्रो दीप्तयः कला: दिवः द्युलोकात् अवः अवस्तात् निहिताः सोमेन स्थापिताः ताः घृतश्चुतः घृतस्योदकस्य च्यावयित्र्यः सत्यः हविः सोमादिलक्षणं भरन्ति देवानां प्रयच्छन्ति । तथा अमृतं गोष्वोषधीषु च पयोरूपं सुधारूपं च भरन्ति प्रक्षिपन्ति ॥
“May those (juices) which are in the third world, the world of many streams, unconnected, bestowing progeny, descend; the four digits (of the Soma) sent down from heaven bearing water bring the oblation and the nectar.”
In the third region which distils a thousand streams, may the Exhaustless Ones descend with procreant power.
The kindred Four have been sent downward from the heavens: dropping with oil they bring Amrta and sacred gifts.
Let there be inexhaustible (streams) down in the (filter) of a thousand streams, and in the third realm (streams) bringing offspring.
The four hidden (streams), bursting down from heaven, dripping with ghee, carry the oblation, the immortal (drink).
Die reichen Brunnen in dem tausendströmigen, dem dritten Luftraum, mögen Kinderschar verleihn, Vier Quellen sind vom Himmel nieder eingesetzt, Sie bringen buttertriefend her den Göttertrank.
Auf die Seihe mit tausend Abtraufen rinnen diese Ströme herab; im dritten Weltraum müssen sie Nachwuchs haben. Vier Zitzen sind unterhalb des Himmels angebracht. Die Schmalzträufenden tragen den Göttertrank als Opfer.
В (цедилку) с тысячей протоков с(текают) эти неиссякающие (струи сомы).
Да принесут они потомство в третьем пространстве!
Четыре тайных отверстия, (обращенных) вниз с неба,
Сочась жиром, приносят в качестве жертвы напиток бессмертия.
श्वे॒तं रू॒पं कृ॑णुते॒ यत्सिषा॑सति॒ सोमो॑ मी॒ढ्वाँ असु॑रो वेद॒ भूम॑नः । धि॒या शमी॑ सचते॒ सेम॒भि प्र॒वद्दि॒वस्कव॑न्ध॒मव॑ दर्षदु॒द्रिण॑म् ॥
श्वे॒तम् । रू॒पम् । कृ॒णु॒ते॒ । यत् । सिसा॑सति । सोमः॑ । मी॒ढ्वान् । असु॑रः । वे॒द॒ । भूम॑नः । धि॒या । शमी॑ । स॒च॒ते॒ । सः । ई॒म् । अ॒भि । प्र॒ऽवत् । दि॒वः । कव॑न्धम् । अव॑ । द॒र्ष॒त् । उ॒द्रिण॑म् ॥
श्वेतं दीप्यमानं शुक्लं रूपं कृणुते तदा करोति यत् यदा सिषासति स्वर्गं संभक्तुमिच्छति । सोमे पात्राण्यागते सति तत्तेजसानुरञ्जितानां तेषां श्वेतं रूपं भवति । ततः मीढ्वान् । 'मिह सेचने । अस्मात् क्वसौ ‘ दाश्वान्साह्वान्मीढ्वांश्च' इति निपातनादभिमतरूपसिद्धिः । कामानां सेक्ता असुरः प्राज्ञो बलवान् वा सोमः भूमनः बहुधनानि वेद स्तोतृभ्यो दातुं जानाति । प्रयच्छतीति यावत् । स ईम् । “ सोऽचि लोपे चेत' इति सुलोपः । सोऽयं धिया प्रज्ञानेन प्रवत् प्रकृष्टानि शमी । द्वितीयायाः पूर्वसवर्णदीर्घः । कर्माणि अभि सचते अभितः समवैति । किंच दिवः अन्तरिक्षात् उद्रिणम् उदकवन्तं कवन्धं मेघम् । कवन्धशब्देन मेघोऽभिधीयते । तात्स्थ्यात्ताच्छब्द्यमिति । मेघम् अव दर्षत् अवदारयति । विवृतद्वारं करोति । मेघं विदार्यान्तरिक्षात् वृष्टिं करोतीत्यर्थः ॥
“When the Soma seeks to gain (heaven) he assumes a white colour; showering (benefits), powerful he knows (how to bestow) abundant wealth (upon the worshippers). He by his wisdom is associated with excellent rites; he bursts asunder the rain cloud from heaven.”
Soma assumes white colour when he strives to gain: the bounteous Asura knows full many a precious boon.
Down the steep slope, through song, he comes to sacrifice, and he will burst the water-holding cask of heaven,
He makes himself a white form when he is striving to win. Soma,
benefactor and lord, knows the world.
He keeps company with insight and (ritual) labor—that is the course (that leads) to him. He will split open the water-filled cask of heaven.
Er macht sein Aussehn glänzend, wenn er spenden will, der Gaben Fülle kennt der gnadenreiche Gott; Lust und Arbeit strebt zu ihm der jähe Strom, die wasserreiche Himmelstonne spalte er.
Er nimmt weiße Farbe an, wenn er das Ziel gewinnen will. Soma, der belohnende Asura, kennt die ganze Natur. Er ist von der Dichtkunst und dem Werkdienst begleitet; er sucht seine Bahnen auf. Den wasserhaltenden Schlauch des Himmels möge er nach unten aufreißen.
Белый цвет он принимает, когда хочет завоевать.
Сома щедрый, Асура, знает (весь) мир.
Он сопровождается молитвой и жертвенным трудом. Он (стекает) по склону.
Да прорвет он вниз водяной бурдюк неба!
अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तं कार्ष्म॒न्ना वा॒ज्य॑क्रमीत्सस॒वान् । आ हि॑न्विरे॒ मन॑सा देव॒यन्त॑: क॒क्षीव॑ते श॒तहि॑माय॒ गोना॑म् ॥
अध॑ । श्वे॒तम् । क॒लश॑म् । गोभिः॑ । अ॒क्तम् । कार्ष्म॑न् । आ । वा॒जी । अ॒क्र॒मी॒त् । स॒स॒ऽवान् । आ । हि॒न्वि॒रे॒ । मन॑सा । दे॒व॒ऽयन्तः॑ । क॒क्षीव॑ते । श॒तऽहि॑माय । गोना॑म् ॥
अध अथानन्तरं श्वेतं संप्रति सोमसंसर्गात् श्वेतवर्णं गोभिः उदकैः अक्तं संपृक्तं द्रोणकलशं ससवान् संभजन सोमः आ अक्रमीत् आक्रमते । कार्ष्मन्। कार्ष्मशब्दः काष्ठावचनः । आजिं धावन्तो योद्धारो यां गन्तुमिच्छन्ति तस्यां काष्ठायां वाजी कश्चिदश्वो युद्धं भजमान आक्रमीत् आक्रमते । सोमः काष्ठायां द्रोणकलशे पततीत्यर्थः । ततस्तस्मै सोमाय देवयन्तः देवानिच्छन्त ऋत्विजः मनसा आ हिन्विरे स्तुतीराभिमुख्येन प्रेरयन्ति । तत्र शतहिमाय बहुगमनाय कक्षीवते स्तोत्रकारिण एतन्नामकायर्षये सोमः गोनां गाः पशून् प्रेरयति । ' गोः पादान्ते ' (पा. . ७. १. ५७ ) इति नुडागमः । ‘ क्रियाग्रहणं कर्तव्यम्' इति संप्रदानसंज्ञा । चतुर्थ्यर्थे षष्ठी ॥
“Thus the Soma successfully reaches the white water besprinkled pitcher like a horse (reaching) the goal; the devout (priests) stimulate him with their praise; (he bestows) cattle upon Kakṣīvat who has seen a hundred winters.”
Yea, to the shining milk-anointed beaker, as to his goal, hath stepped the conquering Courser.
Pious-souled men have sent their giffi of cattle unto Kaksivan of the hundred winters.
And the racehorse, having won, has stridden to the gleaming white tub anointed with cows, at the finish line.
Those serving the gods propel him with their mind. (Let there be a
hundred) cows for Kakṣīvant of a hundred winters.
Jetzt ist der Renner, nachdem er das gewünschte erlangt hat, zum Ziele der Rennbahn geschritten, in den mit Milch gesalbten weissen Krug; die frommen Männer haben gern dem hundertjährigen Kakschīvat Kühe zum Geschenk gesandt.
Nun ist er in die weiße, mit Milch gefärbte Kufe gegangen, der Preisrenner ist durchs Ziel gegangen, nachdem er für den hundertjährigen Kaksivat hundert Rinder gewonnen hat. - Im Herzen nach dem Gott verlangend sputen sie sich.
Вот он (вошел) в белый, окрашенный коровьим (молоком) кувшин,
Скакун, выигравший (заезд), вступил на борозду.
Преданные богам (люди) поторопились его мыслью.
Какшиванту, которому сто зим, (пусть завоюет он сто) коров!
अ॒द्भिः सो॑म पपृचा॒नस्य॑ ते॒ रसोऽव्यो॒ वारं॒ वि प॑वमान धावति । स मृ॒ज्यमा॑नः क॒विभि॑र्मदिन्तम॒ स्वद॒स्वेन्द्रा॑य पवमान पी॒तये॑ ॥
अ॒त्ऽभिः । सो॒म॒ । प॒पृ॒चा॒नस्य॑ । ते॒ । रसः॑ । अव्यः॑ । वार॑म् । वि । प॒व॒मा॒न॒ । धा॒व॒ति॒ । सः । मृ॒ज्यमा॑नः । क॒विऽभिः॑ । म॒दि॒न्ऽत॒म॒ । स्वद॑स्व । इन्द्रा॑य । प॒व॒मा॒न॒ । पी॒तये॑ ॥
हे पवमान पवित्रेण पूयमान हे सोम अद्भिः वसतीवर्यादिभिरुदकैः पपृचानस्य संपृच्यमानस्य ते तव रसः अव्यः अवेः वारं वालं दशापवित्रं वि धावति विविधं प्राप्नोति । ततो हे मदिन्तम मादयितृतम हे पवमान सोम त्वं कविभिः क्रान्तकर्मभिर्ऋत्विग्भिः मृज्यमानः पूयमानः सन् इन्द्राय पीतये इन्द्रस्य पानार्थं स्वदस्व प्रियरसो भव ॥ ॥ ३२ ॥
“Purified Soma, when you are diluted with the water your juice passes through the woollen fleece; cleansed by the sages, O exhilarating purified (Soma), be sweet-flavoured for Indra to drink.”
Soma, thy juice when thou art blended with the streams, flows, Pavamana, through the long wool of the sheep.
So, cleansed by sages. O best giver of delight, grow sweet for Indra, Pavamana! for his drink.
Your juice, when you have been infused with the waters, runs through the sheep’s fleece, o self-purifying one.
Being groomed by the poets, become sweet for Indra to drink, o most exhilarating self-purifying one.
Dein Saft, o Soma, der mit Wasser ist vermischt, o flammender, durchströmt des Widders Wolle rings, So schmecke gut denn, flammender, berauschendster zum Trunk dem Indra, von den Priestern du geklärt!
Dein Saft, o Soma, wenn du mit Wasser gesättigt bist, läuft durch das Schafhaar, o Pavamana. Von den Weisen sauber gemacht, du Berauschendster, sei schmackhaft zum Trunke für Indra, o Pavamana!
У тебя, смешанного с водой, о сома, сок
Бежит через цедилку из овечьей шерсти, о Павамана.
Начищаемый поэтами, о самый пьянящий,
Будь вкусным Индре для питья, о Павамана!